भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 2

2.1

इति श्रीमार्कण्डेयपुराणे वपुशापो नाम प्रथमो ऽध्यायः
द्वितीयो ऽध्यायः
मार्कण्डेय उवाच
अरिष्टनेमिपुत्रो ऽभूद् गरुडो नाम पक्षिराट् ।
गरुडस्याभवत् पुत्रः सम्पातिरिति विश्रुतः

2.2

तस्याप्यासीत् सुतः शूरः सुपार्श्वो वायुविक्रमः ।
सुपार्श्वतनयः कुन्तिः कुन्तिपुत्रः प्रलोलुपः

2.3

तस्यापि तनयावास्तां कङ्कः कन्धर एव च

2.4

कङ्कः कैलासशिखरे विद्युद्रूपेति विश्रुतम् ।
ददर्शाम्बुजपत्राक्षं राक्षसं धनदानुगम्

2.5

आपानासक्तममलस्त्रग्दामाम्बरधारिणम् ।
भार्यासहायमासीनं शिलापट्टे ऽमले शुभे

2.6

तद्दृष्टमात्रं कङ्केन रक्षः क्रोधसमन्वितम् ।
प्रोवाच कस्मादायातस्त्वमितो ह्यण्डजाधम

2.7

स्त्रीसन्निकर्षे तिष्ठन्तं कस्मान्मामुपसर्पसि ।
नैष धर्मः सुबुद्धीनां मिथोनिष्पाद्यवस्तुषु

2.8

कङ्क उवाच
साधारणो ऽयं शैलेन्द्रो यथा तव तथा मम ।
अन्येषां चैव जन्तूनां ममता भवतो ऽत्र का

2.9

मार्कण्डेय उवाच
ब्रुवाणमित्थं खड्गेन कङ्कं चिन्छेद राक्षसः ।
क्षरत्क्षतजबीभत्सं विस्फुरन्तमचेतनम्

2.10

कङ्कं विनिहतं श्रुत्वा कन्धरः क्रोधमूर्च्छितः ।
विद्युद्रूपवधायाशु मनश्चक्रे ऽण्डजेश्वरः

2.11

स गत्वा शैलशिखरं कङ्को यत्र हतः स्थितः ।
तस्य संकलनं चक्रे भ्रातुर्ज्येष्ठस्य खेचरः ।
कोपामर्षविवृताक्षो नागेन्द्र इव निः श्वसन्

2.12

जगामाथ स यत्रास्ते भ्रातृहा तस्य राक्षसः ।
पक्षवातेन महता चालयन् भूधरान् वरान्

2.13

वेगात् पयोदजालानि विक्षिपन् क्षतजेक्षणः ।
क्षणात् क्षयितशत्रुः स पक्षाभ्यां क्रान्तभूधरः

2.14

पानासक्तमतिं तत्र तं ददर्श निशाचरम् ।
आताम्रवक्त्रनयनं हेमपर्यङ्कमाश्रितम्

2.15

स्त्रग्दामापूरितशिखं हरिचन्दनभूषितम् ।
केतकीगर्भपत्राभैर्दन्तैर्घोरतराननम्

2.16

वामोरुमाश्रितां चास्य ददर्शायतलोचनाम् ।
पत्नीं मदनिकां नाम पुंस्कोकिलकलस्वनाम्

2.17

ततो रोषपरीतात्मा कन्धरः कन्दरस्थितम् ।
तमुवाच सुदुष्टात्मन्नेहि युध्यस्व वै मया

2.18

यस्माज्जेष्ठो मम भ्राता विश्रब्धो घाततस्त्वया ।
तस्मात्त्वां मदसंसक्तं नयिष्ये यमसादनम्

2.19

विश्वस्तघातिनां लोका ये च स्त्रीबालघातिनाम् ।
यास्यसे निरयान् सर्वांस्तांस्त्वमद्य मया हतः

2.20

मार्कण्डेय उवाच
इत्येवं पतगेन्द्रेण प्रोक्तं स्त्रीसन्निधौ तदा ।
रक्षः क्रोधसमाविष्टं प्रत्यभाषत पक्षिणम्

2.21

यदि ते निहतो भ्राता पौरुषं तद्धि दर्शितम् ।
त्वामप्यद्य हनिष्ये ऽहं खड्गेनानेन खेचर

2.22

तिष्ठ क्षणं नात्र जीवन् पतगाधम यास्यसि ।
इत्युक्त्वाञ्जनपुञ्जाभं विमलं खड्गमाददे

2.23

ततः पतगराजस्य यक्षाधिपभटस्य च ।
बभूव युद्धमतुलं यथा गरुड-शक्रयोः

2.24

ततः स राक्षसः क्रोधात् खड्गमाविध्य वेगवत् ।
चिक्षेप पतगेन्द्राय निर्वाणाङ्गारवर्चसम्

2.25

पतगेन्द्रश्च तं खड्गङ्किञ्चिदुत्प्लुत्य भूतलात् ।
वक्त्रेण जग्राह तदा गरुडः पन्नगं यथा

2.26

वक्त्रपादतलैर्भङ्क्त्वा चक्रे क्षोभमथातुलम् ।
तस्मिन् भग्ने ततः खड्गे बाहुयुद्धमवर्तत

2.27

ततः पतगराजेन वक्षस्याक्रम्य राक्षसः ।
हस्त-पाद-करैराशु शिरसा च वियोजितः

2.28

तस्मिन् विनिहते सा स्त्री खगं शरणमभ्यगात् ।
किञ्चित् संजातसंत्रासा प्राह भार्या भवामि ते

2.29

तामादाय खगश्रेष्ठः स्वकं गृहमगात् पुनः ।
गत्वा स निष्कृतिं भ्रातुर्विद्युद्रुपनिपातनात्

2.30

कन्धरस्य च सा वेश्म प्राप्येच्छारूपधारिणी ।
मेनकातनया सुभ्रूः सौपर्णं रूपमाददे

2.31

तस्यां स जनयामास तार्क्षों नाम सुतां तदा ।
मुनिशापाग्निविप्लुष्टां वपुमप्सरसां वराम् ।
तस्या नाम तदा चक्रे तार्क्षोमिति विहङ्गमः

2.32

मन्दपालसुताश्चासंश्चत्वारो ऽमितबुद्धयः ।
जरितारिप्रभृतयो द्रोणान्ता द्विजसत्तमाः

2.33

तेषां जघन्यो धर्मात्मा वेदवेदाङ्गपारगः ।
उपयेमे स तां तार्क्षों कन्धरानुमते शुभाम्

2.34

कस्यचित्त्वथ कालस्य तार्क्षो गर्भमवाप ह ।
सप्तपक्षाहिते गर्भे कुरुक्षेत्रं जगाम सा

2.35

कुरु-पाण्डवयोर्युद्धे वर्तमाने सुदारुणे ।
भावित्वाच्चैव कार्यस्य रणमध्ये विवेश सा

2.36

तत्रापश्यत् तदा युद्धं भगदत्तकिरीटिनोः ।
निरन्तरं शरैरासीदाकाशं शलभैरिव

2.37

पार्थकोदण्डनिर्मुक्तमासन्नमतिवेगवत् ।
तस्या भल्लमहिश्यामं त्वचं चिच्छेद जाठरीम्

2.38

भिन्ने कोष्ठे शसाङ्काभं भूमावण्डचतुष्टयम् ।
आयुषः सावशेषत्वात् तूलराशाविवापतत्

2.39

तत्पातसमकालं च सुप्रतीकाद्गजोत्तमात् ।
पपात महती घष्टा बाणसंछिन्नबन्धना

2.40

समं समन्तात् प्राप्ता तु निर्भिन्नधरणीतला ।
छादयन्ती खगाण्डानि स्थितानि पिशितोपरि

2.41

हते च तस्मिन् नृपतौ भगदत्ते नरेश्वरे ।
बहून्यहान्यभूद्युद्धं कुरुपाण्डवसैन्ययोः

2.42

वृत्ते युद्धे धर्मपुत्रे गते शान्तनवान्तिकम् ।
भीष्मस्य गदतो ऽशेषान् श्रोतुं धर्मान् महात्मनः

2.43

घष्टागतानि तिष्ठन्ति यत्राण्डानि द्विजोत्तम ।
आजगाम तमुद्देशं शमीको नाम संयमी

2.44

स तत्र शब्दमशृणोच्चिचीकुचीति वाशताम् ।
बाल्यादस्फुटवाक्यानां विज्ञाने ऽपि परे सति

2.45

अथर्षिः शिष्यसहितो घष्टामुत्पाट्य विस्मितः ।
अमातृपितृपक्षाणि शिशुकानि ददर्श ह

2.46

तानि तत्र तथा भूमौ शमीको भगवान् मुनिः ।
दृष्ट्वा स विस्मयाविष्टः प्रोवाचानुगतान् द्विजान्

2.47

सम्यगुक्तं द्विजाग्य्रेण शुक्रेणोशनसा स्वयम् ।
पलायनपरं दृष्ट्वा दैत्यसैन्यं सुरार्दितम्

2.48

न गन्तव्यं निवर्तध्वं कस्माद् व्रजथ कातराः ।
उत्सृज्य शौर्ययशसी क्व गता न मरिष्यथ

2.49

नश्यतो युध्यतो वापि तावद्भवति जीवितम् ।
यावद्धातासृजत् पूर्वं न यावन्मनसेप्सितम्

2.50

एके म्रियन्ते स्वगृहे पलायन्तो ऽपरे जनाः ।
भुञ्जन्तो ऽन्नं तथैवापः पिबन्तो निधनं गताः

2.51

विलासिनस्तथैवान्ये कामयाना निरामयाः ।
अविक्षताङ्गाः शस्त्रैश्च प्रेतराजवशङ्गताः

2.52

अन्ये तपस्यभिरता नीताः प्रेतनृपानुगैः ।
योगाभ्यासे रताश्चान्ये नैव प्रापुरमृत्युताम्

2.53

शम्बराय पुरा क्षिप्तं वज्रं कुलिशपाणिना ।
हृदये ऽभिहतस्तेन तथापि न मृतो ऽसुरः

2.54

तेनैव खलु वज्रेण तेनैनेन्द्रेण दानवाः ।
प्राप्ते काले हता दैत्यास्तत्क्षणान्निधनं गताः

2.55

विदित्वैवं न सन्त्रासः कर्तव्यो विनिवर्तते ।
ततो निवृत्तास्ते दैत्यास्त्यक्त्वा मरणजं भयम्

2.56

इति शुक्रवचः सत्यं कृतमेभिः खगोत्तमैः ।
ये युद्धे ऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे

2.57

क्वाणाडानां पतनं विप्राः क्व घण्टापतनं समम् ।
क्व च मांस-वसा-रक्तैर्भूमेरास्तरणक्रियाः

2.58

के ऽप्येते सर्वथा विप्रा नैते सामान्यपक्षिणः ।
दैवानुकूलता लोके महाभाग्यप्रदर्शिनी

2.59

एवमुक्त्वा स तान् वीक्ष्य पुनर्वचनमब्रवीत् ।
निवर्तताश्रमं यात गृहीत्वा पक्षिबालकान्

2.60

मार्जाराखुभयं यत्र नैषामण्डजजन्मनाम् ।
श्येनतो नकुलाद्वापि स्थाप्यन्तां तत्र पक्षिणः

2.61

द्विजाः किं वातियत्नेन मार्यन्ते कर्मभिः स्वकैः ।
रक्ष्यन्ते चाखिला जीवा यथैते पक्षिबालकाः

2.62

तथापि यत्नः कर्तव्यो नरैः सर्वेषु कर्मसु ।
कुर्वन् पुरुषकारन्तु वाच्यतां याति नो सताम्

2.63

इति मुनिवरचोदितास्ततस्ते
मुनितनयाः परिगृह्य पक्षिणस्तान् ।
तरुविटपसमाश्रितालिसङ्घं
ययुरथ तापसरम्यमाश्रमं स्वम्

2.64

स चापि वन्यं मनसाभिकामितं
प्रगृह्य मूलं कुसुमं फलं कुशान् ।
चकार चक्रायुध-रुद्र-वेधसां
सुरेन्द्र-वैवस्वतः जातवेदसाम्

2.65

अपाम्पतेर्गोष्पतिवित्तरक्षिणोः
समीरणस्यापि तथा द्विजोत्तमाः ।
धातुर्विधातुस्त्वथ वैश्वदेविकाः
श्रुतिप्रयुक्ता विवधास्तु सत्क्रियाः

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc