मार्कण्डेय पुराण · अध्याय 13
इति श्रीमार्कण्डेयपुराणे पिताः पुत्रसंवादे महारौरवादिनरकाख्यानं नाम द्वादशो ऽध्यायः
त्रयोदशो ऽध्यायः
पुत्र उवाच
अहं वैश्यकुले जातो जन्मन्यस्मात्तु सप्तमे ।
समतीते गवां रोधं निपाने कृतवान् पुरा
विपाकात् कर्मणस्तस्य नरकं भृशदारुणम् ।
सम्प्राप्तो ऽग्निशिखाघोरमयोमुखखगाकुलम्
यन्त्रपीडनगात्रासृक्-प्रवाहोद्भूतकर्दमम् ।
विशस्यमानदुष्कर्मि-तन्निपातरवाकुलम्
पात्यमानस्य मे तत्र साग्रं वर्षशतं गतम् ।
महातापार्तितप्तस्य तृष्णादाहान्वितस्य च
तत्राह्लादकरः सद्यः पवनः सुखशीतलः ।
करम्भ-बालुकाकुम्भ-मध्यस्थो मे समागतः
तत्सम्पर्कादशेषाणां नाभवद्यातना नृणाम् ।
मम चापि यथा स्वर्गे स्वर्गिणां निर्वृतिः परा
किमेतदिति चाह्लाद-विस्तारस्तिमितेक्षणैः ।
दृष्टमस्माभिरासन्नं नररत्नमनत्तमम्
याम्यश्च पुरुषो घोरो दण्डहस्तो ऽशनिप्रभः ।
पुरतो दर्शयन् मार्गमिति एहीति वगथ
पुरुषः स तदा दृष्ट्वा यातनाशतसंकुलम् ।
नरकं प्राह तं याम्यं किङ्करं कृपयान्वितः
पुरुष उवाच
भो याम्यपुरुषाचक्ष्व किं मया दुष्कृतं कृतम् ।
येनेदं यातनाभीम् प्राप्तो ऽस्मि नरकं परम्
विपश्चिदिति विख्यातो जनकानामहं कुले ।
जातो विदेहविषये सम्यङ्मनुजपालकः
यज्ञैर्मयेष्टं बहुभिर्धर्मतः पालिता मही ।
नोत्सृष्टश्चैव संग्रामो नातिथिर्विमुखो गतः
पितृ-देवर्षि-भृत्याश्च न चापचरिता मया ।
कृता स्पृहा च न मया परस्त्रीविभवादिषु
पर्वकालेषु पितरस्तिथिकालेषु देवताः ।
पुरुषं स्वयमायान्ति निपानमिव धेनवः
यतस्ते विमुखा यान्ति निश्वस्य गृहमेधिनः ।
तस्मादिष्टश्च पूर्तश्च धमौ द्वावपि नश्यतः
पितृनिश्वासविध्वस्तं सप्तजन्मार्जितं शुभम् ।
त्रिजन्मप्रभवं दैवो निश्वासो हन्त्यसंशयम्
तस्माद् दैवे च पित्र्ये च नित्यमेवोद्यतो ऽभवम् ।
सो ऽहं कथमिमं प्राप्तो नरङ्क भृशदारुणम्
मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0