भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीनामसंगीति · श्लोक 141-160

141

पञ्चस्कन्धार्थस् त्रिकालः सर्वक्षणविभावकः
एकक्षणाभिसंबुद्धः सर्वबुद्धस्वभावधृक् ॥

142

अनङ्गकायः कायाग्र्यः कायकोटिविभावकः
अशेषरूपसन्दर्शी रत्नकेतुर् महामणिः ॥

143

सर्वसंबुद्धबोद्धव्यो बुद्धबोधिर् अनुत्तरः
अनक्षरो मन्त्रयोनिर् महामन्त्रकुलत्रयः ॥

144

सर्वमन्त्रार्थजनको महाबिन्दुर् अनक्षरः
पञ्चाक्षरो महाशून्यो बिन्दुशून्यः षडक्षरः ॥

145

सर्वाकारो निराकारः षोडशार्धार्धबिन्दुधृक्
अकलः कलनातीतश् चतुर्थध्यानकोटिधृक् ॥

146

सर्वध्यानकलाभिज्ञाः समाधिकुलगोत्रवित्
समाधिकायः कायाग्र्यः सर्वसंभोगकायराट् ॥

147

निर्माणकायः कायान्ग्र्यो बुद्धनिर्माणवंशधृक्
दशदिग्विश्वनिर्माणो यथावज् जगदर्थकृत् ॥

148

देवातिदेवो देवेन्द्रः सुरेन्द्रो दानवाधिपः
अमरेन्द्रः सुरगुरुः प्रमथः प्रमथेश्वरः ॥

149

उत्तीर्णभवकान्तार एकः शास्ता जगद्गुरुः
प्रख्यातदशदिग्लोको धर्मदानपतिर् महान् ॥

150

मैत्रीसन्नहसन्नद्धः करुणावर्मवर्मितः
प्रज्ञाखड्गधनुर्बाणः क्लेशाज्ञानरणंजहः ॥

151

मारारिर् मारजिद् वीरश् चतुर्मारभयान्तकृत्
सर्वमारचमूजेता संबुद्धो लोकनायकः ॥

152

वन्द्यः पूज्यो ऽभिवाद्यश् च माननीयश् च नित्यशः
अर्चनीयतमो मान्यो नमस्यः परमो गुरुः ॥

153

त्रैलोक्यैकक्रमगतिर् व्योमपर्य्यन्तविक्रमः
त्रैविद्यः श्रोत्रियः पूतः षडभिज्ञः षडनुस्मृतिः ॥

154

बोधिसत्त्वो महासत्त्वो लोकातीतो महर्द्धिकः
प्रज्ञापारमितानिष्ठः प्रज्ञातत्त्वत्वम् आगतः ॥

155

आत्मवित् परवित् सर्वः सवीर्यो ह्य् अग्रपुद्गलः
सर्वोपमाम् अतिक्रान्तो ज्ञेयो ज्ञानाधिपः परः ॥

156

धर्मदानपतिः श्रेष्ठश् चतुर्मुद्रार्थदेशकः
पर्युपास्यतमो जगतां निर्याणत्रययायिनाम् ॥

157

परमार्थविशुद्धश्रीस् त्रैलोक्यसुभगो महान्
सर्वसम्पत्करः श्रीमान् मञ्जुश्रीः श्रीमतां वरः ॥

158

नमस् ते वरदवज्राग्र्य भूतकोटे नमो ऽस्तु ते
नमस् ते शून्यतागर्भ बुद्धबोधे नमोस्तु ते ॥

159

बुद्धराग नमस् ते ऽस्तु बुद्धकाम नमो नमः
बुद्धप्रीते नमस् तुभ्यं बुद्धमोद नमो नमः ॥

160

बुद्धस्मित नमस् तुभ्यं बुद्धहास नमो नमः
बुद्धवाच नमस् तुभ्यं बुद्धभाव नमो नमः ॥

मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18] · Data entry Ian Sinclair · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc