मञ्जुश्रीनामसंगीति · श्लोक 161-*5
अभवोद्भव नमस् तुभ्यं नमस् ते बुद्धसंभव
गगनोद्भव नमस् तुभ्यं नमस् ते ज्ञानसंभव ॥
मायाजाल नमस् तुभ्यं नमस् ते बुद्धनाटक
नमस् ते सर्वसर्वेभ्यो ज्ञानकाय नमो ऽस्तु ते ॥
अथ वज्रधरः श्रीमान् हृष्टतुष्टः कृताञ्जलिः
प्रणम्य नाथं संबुद्धं भगवन्तं तथागतं ॥
अन्यैश् च बहुभिर् नाथैर् गुह्येन्द्रैर् वज्रपाणिभिः
स सार्द्धं क्रोधराजानैः प्रोवाचोच्चैर् इदं वचः ॥
अनुमोदामहे नाथ साधु साधु सुभाषितम्
कृतो ऽस्माकं महान् अर्थः सम्यक्संबोधिप्रापकः ॥
जगतश् चाप्य् आनाथस्य विमुक्तिफलकाङ्क्षिणः
श्रेयो मार्गो विशुद्धो ऽयं मायाजालनयोदितः ॥
गम्भीरोदारवैपुल्यो महार्थो जगदर्थकृत्
बुद्धानां विषयो ह्य् एष सम्यक्संबुद्धभाषितः ॥
मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18] · Data entry Ian Sinclair · GRETIL (Göttingen) · CC BY-NC-SA 4.0