भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 54

54.1

इति ॥
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतसंकान्महायानवैपुल्यसूत्रात् पटलविसरात् एकपञ्चाशराजव्याकरणपरिवर्तः परिसमाप्त इति ।
अथ चतुःपञ्चाशः पटलविसरः ।
अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अयं मञ्जुश्रीः धर्मपर्यायः । अस्मिं स्थाने प्रचरिष्यति । तत्राह स्वयमेवं वेदितव्यः । सर्वबोधिसत्त्वगणपरिवृतः श्रावकसङ्घपुरस्कृतः सर्वदेवनागयक्षगरुडगन्धर्वकिन्नरमहोरगसिद्धविद्याधरः मानुषामानुषैः परिवृतो विहरे ऽहं वेदितव्यः । तथागतो ऽत्र रक्षावरणगुप्तये तिष्ठतीति । दशानुशंसा मञ्जुश्रीः कुमार वेदितव्यः । यत्र स्थानो ऽयं धर्मकोशस्तथागतानां पुस्तकगतो वा लिख्यति वाचयिष्यति धारयिष्यति सत्कृत्य मनसिकृत्य विविधैश्चामरणपूर्णच्छत्रध्वजपताकाघण्टाभिर्वाद्यमाल्यविलेपनैर्धूपगन्धैश्च सुगन्धिभिः पूजयिष्यति मानयिष्यति सत्करिष्यति एकाग्रमनसो वा चित्तं धत्से । कतमे दश । न चास्य परचक्रभय दुर्भिक्षो वा । न यास्य तत्र महामार्योपद्रवं भवति; अमानुषभयो वा । न चास्याग्निभयं भवति सर्वप्रत्यर्थिकभयो वा । न चास्य तत्रानावृष्टिभयं भवति अतिवृष्टिभयो वा । न चास्य तत्र महावातमण्डलीभयं भवति सर्वक्रव्यादभयो वा । न चास्य शक्रभयं भवति सर्वधूर्त्ततस्करभयो वा । न चास्य मृत्युभयं भवति; यमराजोपनीतभयं वा । न चास्यासुरभयं वा भवति, सर्वदेवनागयक्षगन्धर्वासुरभयो वा । न चास्य मन्त्रभयं भवति, सर्वगरविषभयं वा । न चास्य रोगभयं भवति ज्वरातीसारजीर्णाङ्गप्रत्यङ्गभयो वा । इमे दशानुशंसा वेदितव्या, यत्रायं महाकल्पविशरे धर्मकोशस्तथागतानां पुस्तकगतो तिष्ठेत, लिखनवाचनपूजनधारणस्वाध्यायानां वा कुर्मः । गुह्यतमो ऽयं धर्मकोशस्तथागतानां मन्त्रानुवर्तनतया पुनरेषां सर्वतः आचार्यसमयानुप्रविष्टानाम् । असमयज्ञानां न प्रकाशितव्यः । यत् कारणम् । रहस्यमेतत् । गुह्यवचनमेतत् । सर्वज्ञवचनमेतत् । मा हैव सत्त्वा प्रतिक्षेप्स्यन्ते, अवज्ञस्यन्ति, न पूजयिष्यन्ति, न सत्करिष्यन्ति, महदपुण्यं प्रसविष्यन्ते, गुह्यनिवरणसत्त्वोपघातननृपतिसूचन आयुःप्रमाणोपघातोपसर्गिकक्रियां करिष्यन्तीति न परेषामारोचयितव्यं च । समयरहस्यगुह्यमन्त्रचर्यानुप्रविष्टानां सत्त्वानां तथागतशासनशिक्षाया सुशिक्षितानां सुव्यवस्थितानां धर्मार्थकोविदामायतनधातुसमयानुप्रवेशधर्मस्थितानां सत्यसन्धानां दृढव्रतमन्वागतानां सत्त्वचर्यामार्गानुप्रविष्टकारुणिकानामेतेषां सत्त्वानामारोचयितव्यम्; न परेषामिति ॥
अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वोत्थायासनादेकांशमुत्तरासङ्गं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, कृतकरतलाञ्जलिपुटो भगवन्तमेतदवोचत् । को नामायं भगवन् धर्मपर्यायः, कथं चैनं धारयाम्यहम् । भगवानाह - सर्वबोधिसत्त्वविस्फूर्जनबोधिसत्त्वपिटक इत्यपि धारय । आश्चर्याद्भुतधर्मोपदेशपरिवर्त्त इत्यपि धारय । सर्वमन्त्रकोशचर्यानुप्रविष्टबोधिसत्त्वनिर्देश इत्यपि धारय । महायानवैपुल्यनिर्देशाद्भुत् इत्यपि धारय । आर्यमञ्जुश्रियमूलकल्प इत्यपि धारय । सर्वधर्मार्थपूरणनिर्देश इत्यपि धारय इति ॥
सर्वलोकां समग्रां वै धर्माधर्मविचारकाम् ।
विचेरुः सर्वतो यस्त्वं बोधिसत्त्वो महर्द्धिकः

54.2

न पश्यसे परं गुह्यमेतं धर्मवरं वरम् ।
मन्त्रतन्त्रार्थसूत्राणां गतिदेशनिरत्ययम्

54.3

न पश्यसे वरं वीर धर्मबोधिपरायणम् ।
यादृशो ऽयं गुह्यसूत्रं .......... नेयार्थभूषितम्

54.4

विविधाकारसूत्रार्त्थाः मन्त्रतन्त्रानुवर्तनम् ।
न भूतं विद्यते कश्चिद् यः कल्पविसरादिह

54.5

महाराज्ञां महाभोगां सम्पदांश्च दिवौकसाम् ।
प्राप्नुयात् पुष्कलां कीर्त्तिं दिव्यां मानुषिकां तथा

54.6

अक्षाणां वर्जयेदष्टां क्षणांश्चैव सम्भावयेत् ।
बुद्धत्वं नियतं तस्य त्रिधा जनगतिस्तथा

54.7

इदं सूत्रं धारणात् पुण्य अनुशंसा स्यादिमे तथा ।
न चास्य सर्वकाये वै न विषं न हुताशनम्

54.8

न वेताडा ग्रहाश्चैव न पूतना मातरा हि ये ।
तेन चोरराक्षसा ...........

54.9

पिशाचा वास्य हिंस्येयुः यस्त सूत्रमिमं पठेत् ।
धारयेद्वापि पूजयेद् वा न पुनः पुनः विविधा

54.10

वाद्य पूज्य पूज इषु पूजयेद् वा विशरदः ।
स इमां लभते मर्त्यो मनुशंसामिहोदिता

54.11

आतुरो मुच्यते रोगान् दुःखितो सुखिनो भवेत् ।
दरिद्रो लभते अर्थान् बद्धो मुच्येत बन्धनात्

54.12

पतितः संसारदुःखे ऽस्मिन् गतिं पञ्चकयोजितम् ।
क्षेमं शिवं च निर्वाणं प्राप्नुयादचलं पदम्

54.13

प्रत्येकबोधिबुद्धत्वं श्रावकत्वं च नैष्ठिकम् ।
इदं सूत्रं वाचयित्वा लभते बुद्धवर्तिताम्

54.14

गङ्गासितताप्रख्यानामनन्त्यं जिनवरास्तथा ।
पूजित्वा लभते पुण्यं तत्सर्वमिदं सूत्रं पठनादिह

54.15

यावन्ति केचिल्लोके ऽस्मिन् क्षेत्रकोटिमचिन्तकाः ।
तावन्तु परमाण्वाख्यां बुद्धानां पूजयेत् सदा

54.16

विविधा अन्नपानैश्व ग्लानप्रत्ययभेषजैः ।
विविधासनशय्यासु दद्युः सर्वतः सदा

54.17

चीवरैर्विविधैश्चापि चूर्णचीवरभूषणैः ।
छत्रोपानहपटैः सुगन्धमाल्यविलेपनैः

54.18

धूपनं विविधैर्वापि दीपैश्चापि समन्ततः ।
तत् पुण्यं प्राप्नुया जन्तुर्धारणाद् वाचनादिदम्

54.19

प्रत्येकबुद्धजे लोके श्रावका सुमहर्द्धिकः ।
बोधिसत्त्वा महात्मानो दशभूमिस्थिता पराः

54.20

तत्प्रमाणाद् भवेत् सर्वे तेषां पूजां तथैव च ।
तत् पुण्यं प्राप्नुयान्मर्त्य यस्य पुस्तक गतं करे

54.21

यावन्ति लोके कथिता लोकधातुसमाशृता ।
सर्वसत्त्वा समाख्यातास्ते सर्वे विगतज्वराः

54.22

तेषां च पूजा सत्कृत्य कश्चि जन्तु पुनः पुनः ।
तत् पुण्यं प्राप्नुयाद्धीमां पूजेत्वा धर्मपरमिमम्

54.23

न शक्यं कल्पकोट्यैस्ते रत्नै जिनवरैः सदा ।
पूजये लोकनाथानां धर्मकोश इमं वरम्

54.24

चिन्तामणि च रत्नार्थमिमं धर्मवरं भवेत् ।
पठनाद् धारणान्मन्त्रा कल्पे ऽस्मिन् मञ्जुभाणिते

54.25

भवेत् कामदुहं तस्य महाभोगार्थसम्पदः ।
अखिन्नमनसो भूत्वा यो इमां साधयेत् भुवि

54.26

मन्त्रान् तत्त्वार्थनेयार्थं सफला मुनिभाषिता ।
कृयाकालसमायोगात् साधयेद् विद्यधरां भुवि

54.27

तस्य सर्वदिशा ख्याता प्रपूर्णा रत्नसम्पदः ।
सफला गतिमाहात्म्या वर्णिता साधुवर्णिता

54.28

यो ऽस्मान् कल्ववरा ह्येकं मन्त्रं धारये नृप ।
सफला राजसम्पत्ति दीर्घमायुष्यसम्पदाम्

54.29

विविधा भोगचर्या वा प्राप्नुयां नृपवरोपराम् ।
न चास्य हन्यते शस्त्रैर्न विषैः स्थावरजङ्गमैः

54.30

परविद्याकृतैश्चापि मन्त्रं वेताडसाधनम् ।
दूषितैर्वसुधालोके परकृत्यपरायणे

54.31

न हुताशनभयं तस्य ना वैरग्रहापरैः ।
कायं न हन्यते तस्य नृपतेर्वा जन्तुनो ऽपि वा

54.32

य इमं सूत्रवराग्रं तु धारयेद् वाचयेत् तथा ।
राजा च कृतया मूर्ध्नां सङ्ग्रामे समुपस्थिते

54.33

छत्रं शिरसि मावेद्य नमस्कुर्यात् पुनः पुनः ।
न तस्य दस्यवो हन्युर्नानाशस्त्रसमुद्यताम्

54.34

हस्तिस्कन्धसमारूढं कुमाराकारसम्भवम् ।
मयूरासनसुस्तं सङ्ग्रामे अवतारयेत्

54.35

दृष्ट्वा तं विद्विषः सर्वे निवर्तन्तेयुस्ते परे जनाः ।
बालरूपं तथा दिव्यकुमारालङ्कारभूषितम्

54.36

सौवर्णं राजतं वापि रागत्यध्वजपूजितम् ।
आरोप्य ध्वजपताकेषु सुन्यस्तं सुसमाहितम्

54.37

सङ्ग्रामं रिपुसङ्कीर्णं नानाशास्त्रसमुद्यतम् ।
युधि प्राप्तं समस्तं वै तस्मिं काले ऽवतारयेत्

54.38

नश्यन्ते दृष्टमात्रं वै मुह्यन्ते वा समन्ततः ।
मानुषामानुषाश्चापि नृपाश्चापि सुरेश्वराः

54.39

सिद्धविद्याधराश्चापि मन्त्रतन्त्रसमाश्रिताः ।
राक्षसा सत्त्ववन्तो ऽपि कटपूतनामातरा

54.40

क्रव्यादा विविधाश्चापि यक्षकूष्माण्डपूतना ।
न शक्यन्ते दृष्टमात्रं वै ध्वजमुच्छ्रितसंस्थितम्

54.41

कुमारं विश्वकर्माणमनेकाकाररूपिणम् ।
मञ्जुघोषं महात्मानं दशभूम्याधिपतिं पतिम्

54.42

महाराजा क्षत्रियो लोके भूपालो भूनिवासिनः ।
श्राद्धो विमतिसन्देहः विगतो धर्मवत्सलः

54.43

उत्पाद्य सौगतीं शुद्धां करुणाविष्टमानसाम् ।
प्रक्रमुः सन्धिकामो वै क्रियामेतामिहोदिताम्

54.44

निर्दिष्टं प्रवचने ह्येता धर्मधातुगतैर्जिनैः ।
कल्पं प्रयोगं मन्त्राणां तन्त्रयुक्तिमभूतले

54.45

असङ्ख्यैर्जिनवरैः पूर्वं धर्मधातुसमाशृतैः ।
कथितं धर्मकोशं तु मानुषा तु भूतले

54.46

देवासुरे पुरा युद्धे वर्तमाने भयावहे ।
तदा पुरो ह्यासीत् हतसैन्यो ऽथ विद्विषैः

54.47

एकाकिनस्तदा सत्त्वा विरथश्चैव महीतले ।
मुनिश्रेष्ठे तदा पृच्छेत् काश्यपं तं जिनोत्तमम्

54.48

किं कर्त्तव्यमिति वाक्यमाजहार शचीपतिः ।
निर्जितो ऽसुरैर्घोरैरहमत्र समाशृतः

54.49

एवमुक्तः मघवां शतक्रतुर्दिवौकसः ।
प्रणम्य शिरसा मूर्ध्नि पादयोर्मुनिवरे तदा

54.50

निषसेदु पुरा ह्यासीत् कौशिको ऽथ सहस्रदृक् ।
एवमुक्तो मुनिश्रेष्ठः काश्यपो ब्राह्मण अभूत्

54.51

आजहार तदा वाणिं कलविङ्करुतस्वनाम् ।
पूर्वं जिनवरैर्गीतं कुमारो विश्वसम्भवः

54.52

मञ्जुश्री महात्मासौ दुर्लभो लक्षमूर्जितः ।
भूतकोटिसमाख्यातो गम्भीरार्थदेशिकः

54.53

निःप्रपञ्चं निराकारं निःस्वभावमनालयम् ।
धर्मादिदेश सत्त्वेभ्यस्तत् स्मरिष्व सुरेश्वरः

54.54

ततस्ते नु स्मर्तो से स्मृत तत्त्वगतो ततः ।
आगतस्तत्क्षणात् तत्र कुमारो विश्वरूपिणः

54.55

यत्र सौ भगवां तस्थुः मघवांश्चैव सुरेश्वर ।
आगता भाषते मन्त्रां वन्दित्वा जिनवरं तदा

54.56

प्रणम्य जिनवरां सर्वां काश्यपं च महाद्युतिम् ।
इमा मन्त्रामभाषेत लब्ध्वानुज्ञां मुने तदा

54.57

नमः सर्वबुद्धबोधिसत्त्वेभ्यो ऽप्रतिहतशासनेभ्यः । ओम् हन हन सर्वभयान् सादयोत्सादय त्रासय मोटय छिन्द भिन्द ज्वल ज्वल हुं हुं फट् फट् स्वाहा ।
समनन्तरभाषितेयं मन्त्रा कुमारभूतेन मञ्जुश्रियेण बोधिसत्त्वेन महासत्त्वेन । इयं महापृथिवी षड्विकारं प्रकम्पिता सशैलसागरपर्यन्ता । सर्वांश्च बुद्धां भगवतां क्षेत्रानन्तापर्यन्ता सलोकधातुदिशपर्यन्तां सर्वैश्च बुद्धैर्भगवद्भिरधिष्ठितानि च इमानि मन्त्रपदानि ॥
अथ शक्रो देवानामिन्द्रः विगतभयरोमकर्षः आश्चर्याद्भुतप्राप्तः उत्फुल्लनयनः उत्थायासनाद् भगवतः पादयोर्निपत्य त्रिः प्रदक्षिणीकृत्य च मञ्जुश्रियं कुमारभूतं सम्मुखं दृष्ट्वा तानि च मन्त्रपदां गृह्य मनसीकृत्य च पुनरेव स्यन्दनमधिरुह्य येन ते ऽसुराः प्राद्रवितः सर्वे ऽसुरा येन पातालं महासमुद्राश्रयाधरपुरं स्वकं तेनाभिमुखाः प्रययुः । हतविध्वस्तमानसः सैन्यभयाकुलितविह्वलनिषण्णवदनदर्पः विगतशस्त्रा दृष्टा तं सुरेश्वरं ज्वलन्तमिव पावकं निर्वर्त्य स्वालयं गता अभूत् ॥
अथ शक्रो देवानामिन्द्रः देवां त्रायस्त्रिंशानामन्त्रयते स्म । मा भैष्टत मार्षा मा भैष्टत । बुद्धानुभावेन वयमसुरां निर्जितवन्तो गच्छामः स्वपुरम् । आगच्छन्तु भवन्तः क्रीडथ रमथ परिचारयथ स्वं स्वं भवनवरं गत्वा । स्वालयं चेतस्ते देवा हृष्टमनसः पुनरेव निवर्त्य स्वालयं गता ॥
अथ शक्रस्य देवानामिन्द्रस्यैतदभवत् । यन्वहं तं कुमाररूपिणं बिम्बाकारं कृत्वा ध्वजाग्रे स्थापयेयं, ततो मे नामुरभयं भवेत् इति । अथ शक्रो देवानामिन्द्रः महता मणिरत्नद्योतिगर्भप्रभोद्योतनं नाम गृहीत्वा कुमाराकारप्रतिबिम्बं कारयित्वा उपरि प्रासादस्य मूर्धनि ( वैद्य 520 ) सुधर्मायां देवसभायां सुदर्शनस्य महानगरस्य मध्ये तं ध्वजोच्छ्रितसुविन्यस्तं कृत्वा स्थापयामास ॥
ततस्ते असुरा प्रह्रादवेमचित्रिप्रभृतयः पातालं नोर्ध्वगच्छति न च तां देवानभिद्रवन्ते न च शेकुः ऋद्धिविकुर्वाणं रणाभिमुखं वा गन्तुम् । एवमनेकानि वर्षकोटिनयुतशतसहस्राणि मानुषिकया गणनया । न चासुरभयं स्यादिति ॥
एवमिदमपरिमितगुणानुशंसं सङ्कीर्तितमायुरारोग्यवर्धनं बुद्धैर्भगवद्भिर्बोधिसत्त्वैर्महासत्त्वै कथितं पुरा । एवमिदमपरिमितानुशंसगुणविस्तरमनन्तापर्यन्तं पुरादिति । अपरिमाणं या पुण्यप्रसवनं महानरकोपपत्तितिर्यक्प्रेतयमलोकजन्मकुत्सनतामुपैति यो इमं धर्मपर्यायमपवदते विकल्पेत वा क्रमति ग्रस्तचित्तो वा व वदेयुः न बुद्धवचनेति वा वदेयुः न मन्त्रा न चौषधयो बोधिसत्त्वानां पि तेषां माहात्म्यविस्तरमृद्धिविकुर्वणं वा नापि विकल्पविस्तरमनार्यैर्भाषितमिति कृत्वा उत्सृज्य त्यजन्ते अवगच्छन्ति न शक्नुवन्ति वा श्रोतुम्; तस्मात् स्थानादपक्रमन्ते महान् तेषामपुण्यं भविष्यतीत्याह ॥
ये नरा मूढचित्तो वै प्रतिक्षेप्स्यन्ति वरमिमम् ।
धर्मं मुनिवरैर्गीतं जिनपुत्रैश्च धीमतैः

54.58

तेनका नरकं यान्ति सोत्सेधं सतिर्यगम् ।
कालसूत्रमथ सञ्जीवं क्षुरधारां गूथमृत्तिकाम्

54.59

कुणपं क्षारनदी ग्राह्य ज्वरधारा पुनस्ततः ।
असिपत्रवनं घोरमववंहहवं तथा

54.60

अटटं लोकविख्यातं नरकं पापकर्मिणाम् ।
गच्छते जना तत्र ये नरा धर्मदूषकाः

54.61

अवीचिर्नाम तद् घोरं प्रख्यातं लोकविश्रुतम् ।
कुत्सितमयः प्राकारविक्षिप्तमावासं पापकर्मिणाम्

54.62

पच्यन्ते ते जनास्तस्मिन् यो धर्मं लोपयेदिमम् ।
अवीचिपर्यन्तसर्वां तां सोत्सवां समूलजाम्

54.63

अनन्तां नरकभूम्यन्तां गते ऽसौ विमतिः सदा ।
प्रतिक्षेप्ता धर्मसर्वस्वं इदं सूत्रं सविस्तरम्

54.64

लोके कुत्सतां यान्ति + + + + + + ।
अवीच्यन्तां नरकान् यान्ति विवशैर्वशगतस्तदा

54.65

यो हि संसूत्रकल्पाख्यं मन्त्रतन्त्रभूषितम् ।
सिद्धिचित्रगतालम्ब्य भूतकोटिमनावृतम्

54.66

शरीरं धर्मधात्वर्थमनालम्बनभावनम् ।
विस्तरं पटलोत्कृष्टं सकल्पं कल्पविस्तरम्

54.67

मञ्जुघोषसुविन्यस्तं सम्पच्छ्रीमतिपूजितम् ।
मूलकल्पमनल्पं वै कथितं बहुविस्तरम्

54.68

शाश्वतोच्छेदमध्यान्तमुभयार्थान्तवर्जितम् ।
सङ्क्रमं क्रमनिर्दिष्टं मन्त्रमूर्तिसमुच्छ्रितम्

54.69

अनिलं निलमाकाशं शून्यत्वसुभावितम् ।
प्रतिक्षेप्ता सदा गच्छेदधो अधगतां तदा

54.70

विसङ्ख्येयार्जितं पुण्यं कल्पैर्बहुविधैस्तदा ।
समुदानीय तथा बोधिं मयाग्रवरे जिने

54.71

भाषितः मन्त्रतन्त्रार्थं गतिदेशनिरत्ययम् ।
मूलकल्पं पवित्रं वै मङ्गल्यमघनाशनम्

54.72

पटलं सविसरं प्रोक्तं नीलसूत्रान्तशोभनम् ।
नृपतीनां गुणमाहात्म्यं कालदेशप्रयोगितम्

54.73

सद्धर्मं जिनपुत्राणां भूतले ऽथ तृजन्मिनाम् ।
कथितं लोकमुख्यानां मुनिसप्तमतं जिने

54.74

भाषितः कल्पविस्तारः श्रीसम्पत्समभिवर्धनः ।
समूलो विसरपटलाख्यो मन्त्रतन्त्रसमर्चितो

54.75

यो हीहिमं सूत्रवरं मुख्यं धर्मकोशं जिनोर्जितम् ।
प्रतिक्षेप्तारो भुवि मर्त्यां वा अवीचौ नरकान्तकौ ।
महाकल्पाननेकां वै चोपवर्णिताम्

54.76

यदा काले तु मर्त्याः कदाचित् कर्हचिद् भवेत् ।
दरिद्रो व्याधितो मूर्खो जायते म्लेच्छजन्मिनः ।
लोके कुत्सतां याति कुष्ठव्याधी भवेत्

54.77

दुर्गन्धो ऽथ बीभत्स व्यङ्गो अन्ध एव सः ।
भीमरूपी सदारूपी सदारूक्षः प्रेत व दृश्यते भुवि

54.78

कुशलो दीनचित्तश्च कुनखः कुत्सितस्तथा ।
कृमिभिर्भक्ष्यमाणस्तु दद्रुकण्डूसमाकुलः

54.79

अवासी परमवीभत्सः असम्भाषी चोपपद्यते ।
क्रमति ग्रस्तचित्तस्तु कुमतिर्याति पुनः पुनः

54.80

प्रतिक्षेप्ता च धर्मकोशस्तु जिनानां धातुपूजितम् ।
बहुदुःखसमायासां बहुमित्रमनाथवाम्

54.81

जायते बहुधा मर्त्यः शोकदुःखसमाकुलः ।
यत्र तत्र गतिर्याति कुमतिस्तत्र जायते ।
प्रतिक्षेप्तादिदं सूत्रं तत्र तत्रोपपद्यते

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc