भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 13

13.1

इति ।
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पाद् मध्यमपटविधानविसराद् द्वादशमः अक्षसूत्रविधिपटलविसरः परिसमाप्त इति ॥
अथ त्रयोदशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयतेस्म । अस्ति मञ्जुश्रीः त्वदीयं मन्त्रपटलसमस्तविन्यस्तविशेषविधिना होमकर्मणि प्रयुक्तस्य विद्यासाधकस्य अग्न्योपचर्याविशेषविधानतः । यत्र प्रतिष्ठिता सर्वविद्याचर्यानियुक्ता सत्त्वा प्रयुज्यन्ते । कतमं च तत् । रहस्यविद्यामन्त्रपदानि । तद्यथा - ओम् उत्तिष्ठ हरिपिङ्गल लाहिताक्ष देहि ददापय । हूं फट् फट् सर्वविघ्नां विनाशय स्वाहा । एष सः मञ्जुश्रीः परमाग्निहृदयं सर्वकर्मकरं सर्वकामदम् ॥
आदौ तावत् साधकेन अनेनाग्निहृदयेन सकृज्जप्तं घृताहुतित्रयं अग्नौ होतव्यम् । अग्निराह्वानितो भवति । अथाप्रयुक्तस्य शान्तिकपौष्टिकरौद्रकर्मेषु त्रिधा समिधाकाष्ठानि भवन्ति ॥
अशोककाष्ठं शान्त्यर्थे सार्द्रं चैव विशिष्यते ।
वितस्तिहस्तमात्रं वा त्र्यङ्गुलं वापि चोच्छृतम्

13.2

स्निग्धाकारप्रशस्तं तु विधिरेषा विधीयते ।
अकोटरं असुषिरं वापि शुकपत्रनिभं तथा

13.3

हरितं शुक्लवर्णं वा कृष्णवर्णं विवर्जयेत् ।
कृमिभिर्न च भक्षितं वर्ज्यमकोटरं वापि सन्दधेत्

13.4

अन्यवर्णो प्रकृष्टास्तु अधर्मश्चैव वर्जिता ।
नातिशुष्का न चार्द्रापि न च दग्धं समारभे

13.5

अपूतिं अवक्रं चैव अत्युच्चं चापि वर्जयेत् ।
अग्निकुण्डं तथा कृत्वा चतुःकोणं समन्ततः

13.6

अधश्चेव खनेद्यत्नाच्चतुर्हस्तं प्रमाणतः ।
त्रिहस्तं द्वे तु हस्तानि एकहस्तं तथैव च

13.7

प्राणिभिर्विवर्जितं नित्यं सिंहतासंस्थितं च तत् ।
पद्माकारं ततो वेदिः समन्तान्मण्डलाकृतिः

13.8

चतुरश्रं चापि यत्नेन कुर्याच्चापाकृतिं तथा ।
वज्राकारसङ्काशं उभयाग्रं त्रिसूचिकम्

13.9

कुर्यादग्निकुण्डे ऽस्मिं द्विहस्ता तियंञ्च तत् ।
शुचौ देशे परामृष्टे नदीकूले तथा वरे

13.10

एकस्थावरदेशे च श्मशाने शून्यवेश्मनि ।
कुर्याद्धोमं सुसंरब्धो पर्वताग्रे तथैव च

13.11

शून्यदेवकुले नित्यं महारण्ये तथैव च ।
यानि साधनदेशानि कथितान्यग्रपुड्गलैः

13.12

एतानि स्थानान्युक्तानि होमकर्मिति सर्वतः ।
कुशविण्डकोपविष्टेन स्थित्वा हस्तमात्रं ततः

13.13

कुर्यात् तत्र मन्त्रज्ञो होमकर्म विशेषतः ।
क्षिप्रमेभिः स्थितं सिद्धिः स्थानेष्वेव न संशयः

13.14

प्राङ्मुखो उदङ्मुखो वापि कुर्यात् शान्तिकपौष्टिके ।
दक्षिणेन तु रौद्राणि तानि मन्त्री तु वर्जयेत्

13.15

प्राङ्मुखे शान्तिका सिद्धिः पौष्टिके चापि उदङ्मुखा ।
एभिर्मन्त्री सदाकालं मन्त्रजापं तु मारभेत्

13.16

विल्वाम्रप्लक्षन्यग्रोधैः कुर्यात् कर्मणि पौष्टिकम् ।
आभिचारुककाष्ठानि शुष्ककट्वाम्लतीक्ष्णकाः

13.17

तानि सर्वाणि वर्जीत निषिद्धा मुनिभिः सदा ।
शान्तिके पौष्टिके कर्मे सार्द्रकाष्ठा प्रशस्यते

13.18

रौद्रकर्मे तथा कर्मा वर्जिता मुनिभिः सदा ।
तेषामभावे समिधानां काष्ठं तेषां तु कल्पयेत्

13.19

समन्ता कुशसंस्तीर्णं उभयाग्रं तु कल्पयेत् ।
हरितैः स्निग्धसङ्काशैर्मयूरग्रीवसन्निभैः

13.20

तथाविधैः कुशैर्नित्यं कुर्यात् शान्तिकपौष्टिकम् ।
मरकताकाशसङ्काशैस्तथा शुष्कैः त्रिणैः सदा

13.21

कुर्यात् पावककर्माणि निषिद्धा जिनवरैरिह ।
निर्मले चाम्भसो शुद्धे कृमिभिर्वर्जिते सदा

13.22

ततो ऽभ्युक्ष्य समन्ता वै कुर्याच्चापि प्रदक्षिणम् ।
ज्वालयेद् वह्नि युक्तात्मा उपस्पृश्य यथाविधि

13.23

शुचिना तृणमूलेन कुर्यादुल्का प्रमाणतः ।
मुष्टिमात्रं ततो कृत्वा ज्वालयेद् वह्नि यत्नतः

13.24

न चापि मुखवातेन वस्त्रान्तेन वा सदा ।
निवासनप्रावरणाभ्यां वर्जिता नान्यमम्वरे

13.25

न चापि हस्तवातेन उपहन्याभिरतेन वा ।
शुचिव्यजनेन तथा वस्त्रे पर्णे चापि प्रवातये

13.26

समीरिते कृते वह्नौ एभिरुद्भूतमारुते ।
ज्वालयेदधिमन्त्रज्ञो होमार्थी सुसमाहितः

13.27

त्रीन्वारां ततो ऽभ्युक्षे कृत्वा वा अपसव्यकम् ।
आहुतित्रयं ततो दद्या आज्ये गव्ये तु तत्र वै

13.28

ततो कुर्यात् प्रणामं वै सर्वबुद्धानतायिनाम् ।
स्वमन्त्रमन्त्रनाथं च ततो वन्दे यथेष्टतः

13.29

अग्निहृदये ततो मन्त्रे जप्ते जप्तेन वै सदा ।
आह्वयेद् वह्नियुक्तात्मा पुष्पैरेव सुगन्धिभिः

13.30

आह्वयति नित्यं मन्त्रज्ञो स्थानं दद्याद् विचक्षणः ।
आसनं स्थानं दत्वा तु तेन मन्त्रेण नान्यवै

13.31

दधिप्लुतमाज्यमिश्रं तु मध्वाक्तं समिधां त्रयम् ।
जुहुयादग्निपूजार्थं मन्त्रकर्मेण सर्वतः

13.32

उभयस्थं तदा कुर्यात् समिधानां द्रव्यमिश्रितम् ।
आज्यमध्वक्तसंयुक्तां दध्यमिश्रे तथैव च

13.33

सहस्रं लक्षमात्रं वा शताष्टं चापि कल्पयेत् ।
गुह्यमन्त्री तथा मन्त्रं सकृज्जप्त्वा क्षिपेत् शिखौ

13.34

ज्वालामालिने वह्नौ एकज्वाले तथैव च ।
शान्तिकर्मणि जुह्वीत निर्धूमे चापि पौष्टिकम्

13.35

सधूमे रौद्रकर्माणि गर्हिते जिनवर्णिते ।
होमकर्मप्रयुक्तस्तु अग्नौ वर्णो भवेद्यदि

13.36

शान्तिके सितवर्णस्तु शस्तं जिनवरैः सदा ।
सिद्ध्यन्ति तत्र मन्त्रा वै सिते ऽग्नौ जुह्वतो यदि

13.37

रक्तवर्णं तथा नित्यं पौष्टिकात् सिद्धिमिष्यते ।
कृष्णे वा धूमवर्णे च कपिले चापि पायिकम्

13.38

इत्येषा त्रिविधा सिद्धिः त्रिधा वर्णप्रवर्तिता ।
अन्यवर्णाभ्रवर्णा वा विविधाकारवर्णिता

13.39

न सिद्धिस्तेषु मन्त्राणां पुनरस्तीह महीतले ।
तादृशं वर्णसङ्काशं विविधाकारवर्णितम्

13.40

शिखिं ज्वलन्तं दृष्ट्वा तु पुनः कर्मं समारभेत् ।
भूयो ऽपि कृतजापस्तु मन्त्रसिद्धिर्भवेद् यदि

13.41

पुनर्होमं प्रवर्तीत विधिदृष्टेन कर्मणा ।
विसर्ज्याह्वानना चैव वह्निं मन्त्रमुदीरयेत्

13.42

पूर्वप्रकल्पितेनापि मण्डले ऽस्मिं यथाविधि ।
तेनैव कुर्याद्धोमं वै विसर्जनाह्वाननकर्मणाम्

13.43

सर्वकर्माणि तेनैव कुअर्यात् तत्रैव कर्मणि ।
अग्निचर्या तथारूपं पटस्याग्रत मारभेत्

13.44

सिद्ध्यन्ति तत्र मन्त्रा वै पूर्वमुक्तं तथागतैः ।
जिनवर्णितकर्माणि कुर्यान्न च तत्र वै सर्वतः

13.45

नान्यकर्माणि कुर्वीत पापकानि विशेषतः ।
गर्हीता जिनवरैर्यद्व विरुद्धां लोककुत्सिताम्

13.46

उत्तिष्ठ चक्रवर्तिर्वा बोधिसत्त्वो ऽथ भूमिपः ।
पञ्चाभिज्ञं तथा लाभे देवत्वं वाथ सिद्ध्यति

13.47

पटे ऽस्मिन् नित्ययुक्तज्ञो होमकर्मविशारदः ।
पातालांधिपत्यं वा अन्तरीक्षचरामथ

13.48

भौम्यदेवयक्षत्वं यक्षीमाकर्षणे सदा ।
राज्ये आधिपत्ये वा विषये ऽस्मिं ग्राम एव वा

13.49

विद्याधरमसुरत्वं सर्वसत्त्ववशानुगे ।
आकर्षणे च भूतानां महासत्त्वां महात्मनाम्

13.50

बोधिसत्त्वां महासत्त्वां दशभूमिसमाश्रिताम् ।
आनयेद्धोमकर्मेण किं पुनर्मानुषं भुवि

13.51

मिं सेनापत्यं तथा लोके ऐश्वर्ये च विशेषतः ।
सर्वभूतसमावश्यं नृपतत्वं तथापि च

13.52

वश्यार्थं सर्वभूतानां नृपतेर्वापि समं भुवि ।
सर्वकर्मान् तथा नित्यं कुर्याद्धोमेन सर्वतः

13.53

सर्वतो सर्वयुक्तात्मा सर्वकर्म समाश्रयेत् ।
नियतं सिद्ध्यते तस्य कर्म श्रेयो ऽर्थमुत्तमम्

13.54

मध्यमाश्चैव सिध्यन्ते कर्मा कन्यसा एव वा ।
सर्वद्रव्याणि तत्रैव सिद्धिमुक्ता त्रिधा पुनः

13.55

दृश्यते सफला सिद्धिः होमकर्मे प्रवर्तिते ।
मुद्रा पञ्चशिखां बध्वा मन्त्रां चैव केशिनीम्

13.56

कुर्यात् सर्वकर्माणि आत्मरक्षावानुधीः ।
होमकर्मे प्रवृत्तस्तु पठेन्मन्त्रमिमं ततः ।
सप्तजप्ताष्टजप्तं वा कर्मे ऽस्मिं इदं सदा

13.57

नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतशासनानाम् ॥
तद्यथा - ओम् ज्वल तिष्ठ हूं रु रु विश्वसम्भव सम्भवे स्वाहा ।
अनेन मन्त्रप्रयोगेण जपे काष्ठं पुनः पुनः ।
द्विजप्तं सप्तजप्तं वा जुह्यादग्नौ स मन्त्रवित्

13.58

पुष्पधूपगन्ध वा सर्वं चैव समन्ततः ।
वारिणा मन्त्रजप्तेन अनेनैव तु प्रोक्षयेत्

13.59

ततो सर्वकर्माणि आरभेद् विधिहेतुना ।
पूर्वप्रयोगेणैव कर्त्तव्यो सर्वकर्मसु

13.60

पूर्वपञ्चशिखां बध्वा महामुद्रां यशस्विनीम् ।
कृतरक्षी ततो भूत्वा केशिन्या चैव सदा जपी

13.61

आरभेत् सर्वकर्माणि सिद्धिहेतो विशारदाः ।
शकुना यदि दृश्यन्ते शब्दा चैव शुभा सदा

13.62

सफलास्तस्य मन्त्रा वै वरदाने यथेप्सतः ।
आदिकर्मेषु प्रयुक्तस्तु प्रवृत्ता मन्त्रहेतुना

13.63

सफला सकला चैव सिद्धिस्तेषु विधीयते ।
जयशब्द पटहो वा दुन्दुभीनां च निस्वनम्

13.64

सिद्धिः सर्वत्र ह्युक्ता होमकर्मे समाश्रितः ।
अन्या वा शकुना श्रेष्ठा पक्षिणानां वा शुभा रुताः

13.65

विविधाकारनिर्घोषा शब्दार्था जिनवर्णिताः ।
प्रशस्ता दिव्या मङ्गल्या दिव्या मनोज्ञा विविधा रुताः

13.66

छत्रध्वजपताकांश्च योषिताचाप्यलङ्कृताः ।
पूर्णकुम्भं तथा अर्धदर्शनं सिद्धिहेतवः

13.67

अनेकाकारवर्णा वा प्रशस्ता लोकपूजिता ।
तेषां दर्शन सिध्यन्ते मन्त्रा विविधगोचरा

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc