मञ्जुश्रीमूलकल्प · अध्याय 12
नातःपरं प्रपद्येत ध्यानाकारमनीषिणः ।
सिद्ध्यन्ति तस्य मन्त्रा वै ध्याने ऽस्मिं सुप्रतिष्ठिताः ॥ म्म्क्_11.172(="173") ॥
यथेष्टं विधिनाख्यातं ध्यानं ध्यात्वा तु जापिनः ।
विसर्ज्य तत्र वै मन्त्रं अर्घं दत्त्वा यथासुखम् ॥ म्म्क्_11.173(="174") ॥
उत्तीर्य तस्माज्जलौघात्तु ततो गच्छेद् यथासुखम् ।
स्थानं पूर्वनिर्दिष्टं विधिदृष्टं सुसंयतम् ॥ म्म्क्_11.174(="175") ॥
जपेन्मन्त्रं तदा मन्त्री पूर्वकर्म यथोदिते ।
विसर्ज्य मन्त्रं वै तत्र आहूता आश्च देवताः ॥ म्म्क्_11.175(="176") ॥
ततो निकृत्वा रक्षा सहायानां वा तथैव च ।
कुशलो कर्मतत्त्वज्ञो विधिकर्मरतो मतः ॥ म्म्क्_11.176(="177") ॥
विविधैः स्तोत्रोपहारैस्तु संस्तुत्वा अग्रपुङ्गलम् ।
स्वमन्त्रं मन्त्रनाथं च श्रावकां प्रत्येकखड्गिणा ॥ म्म्क्_11.177(="178") ॥
बोधिसत्त्वां महासत्त्वां त्रैलोक्यानुग्रहक्षमां ।
ततोत्थाय पुनस्तस्मादासनान्मन्त्रजापिनः ॥ म्म्क्_11.178(="179") ॥
दूरादावसथाद् गत्वा बहिर्वातान्तवर्जिताम् ।
विसृजेच्छटसिङ्घाणं मूत्रप्रस्रवणं तथा ॥ म्म्क्_11.179(="180") ॥
दिवा उदङ्मुखं चैव रात्रौ दक्षिणामुखम् ।
न तत्र चिन्तयेदर्थां मन्त्रजापी कदाचन ॥ म्म्क्_11.180(="181") ॥
न जपेत्तत्र मन्त्रं वै स्वकर्मकुलभाषितम् ।
प्रशस्ता गतिचिह्नाद्यैः उपविष्टो तदा भुवि ॥ म्म्क्_11.181(="182") ॥
उपस्पृश्य जले शुद्धे शुचिवस्त्रान्तगालिते ।
प्रक्षाल्य चरणौ जानोर्मृत्तिकैः सप्त एव तु ॥ म्म्क्_11.182(="183") ॥
प्रश्रुतो सप्त गृह्णीयात् + + + + + + + + + + ।
पुरीषस्रावणे त्रिंशत् उभयान्ते करे उभौ ।
खेटच्छोरणे चैव सिङ्घाणे द्वयं तथा ॥ म्म्क्_11.183(="184") ॥
उपस्पृश्य ततो उअत्ना दूरादावसथा भुवि ।
शब्दमात्रं तथा गत्वा अध्वानादिषुक्षेपणा ॥ म्म्क्_11.184(="185") ॥
ततो परे यथेष्टं तु दक्षिणान्तां दिशां बहिः ।
श्वभ्रकेदामौषर्ये सिकतास्तीर्णे तथैव च ॥ म्म्क्_11.185(="186") ॥
नदीवर्जां तु पारं चैत्यजेदवस्करदाशुचिम् ।
प्रच्छन्ने रसहि विश्रब्धो प्रान्ते जनविवर्जिते ॥ म्म्क्_11.186(="187") ॥
तदा भवे तु बिन्मन्त्री कुर्यात् पूतिच्छोरणम् ।
त मन्त्रजापी कालज्ञो कुर्याद् वेगविधारणम् ॥ म्म्क्_11.187(="188") ॥
यथेष्टं ततो गत्वा देशं वै शुचिं प्रान्ते यथाविधि ।
कुटिः प्रस्रवणं कृत्वा तस्मिं देशे यथासुखम् ॥ म्म्क्_11.188(="189") ॥
उडये वा रहसिच्छन्ने गुप्ते वा चैव भूतले ।
मौनी सङ्गवर्जीत कुर्यात् प्रस्रवणं सदा ॥ म्म्क्_11.189(="190") ॥
विगते मूत्रपुरीषे तु कुर्यात् शौचं सदा व्रती ।
सुकुमारां सुस्पर्शपिष्टां तु मृत्तिकां प्राणवर्जिताम् ॥ म्म्क्_11.190(="191") ॥
गृह्य तिस्रं तथा चैकं गुदौ सदा उभयान्ते च करौ तथा ।
गृह्य पूर्वं तु निर्दिष्टमन्त्रिणा च सदा भुवि ॥ म्म्क्_11.191(="192") ॥
पादौ प्रक्षाल्य यत्नेन दक्षिणं तु ततः परम् ।
अन्योन्यनैवं संश्लिष्य पादा चैव सदा जपी ॥ म्म्क्_11.192(="193") ॥
विस्तरः कथितं पूर्वं शौचं मन्त्रजापिनाम् ।
गन्धनिर्लेपशौचं तु कथितं शुचिभिः पुरा ॥ म्म्क्_11.193(="194") ॥
एतत् संक्षेपतो ह्युक्तं शौचं मन्त्रवातिनाम् ।
गन्धनिर्लेपतो शौचं शुचिरेव सदा भवेत् ।
दृश्यते सर्वतन्त्रे ऽस्मिन् इत्युवाच मुनिप्रभुः ॥ म्म्क्_11.194(="195") ॥
उपस्पृश्य तति जापी सिद्धकर्मरतो यतिः ।
विधिना पूर्वमुक्तेन अन्तः शुद्धेन मानसा ॥ म्म्क्_11.195(="196") ॥
शौचं पञ्चविधं प्रोक्तं सर्वतन्त्रेषु मन्त्रिणाम् ।
कायशौचो तथा पा + + ध्यानश्चैव कीर्त्यते ।
चतुर्थं सत्यशौचं तु आपः पञ्चम उच्यते ॥ म्म्क्_11.196(="197") ॥
सत्यधर्मा जितक्रोधो तन्त्रज्ञः शास्त्रदर्शिनः ।
सूक्ष्मतत्त्वार्थकुशलाः मन्त्रज्ञः कर्मशालिनः ॥ म्म्क्_11.197(="198") ॥
हेतुदध्यात्मकुशलाः सिद्धिस्तेषु न दुर्लभा ।
न भाषेद्वितथा पूजां सत्यधर्मविवर्जिताम् ॥ म्म्क्_11.198(="199") ॥
क्रूरां क्रूरतरां चैव सर्वसत्यविवर्जिताम् ।
विद्वेषणीं सरोषां कर्कशां मर्मघट्टनीम् ॥ म्म्क्_11.199(="200") ॥
सत्यधर्मविहीनां तु परसत्त्वानुपीडनीम् ।
पिशुनां क्लिष्टचित्तां च सर्वधर्मविवर्जिताम् ॥ म्म्क्_11.200(="201") ॥
हिंसात्मकीं तथा नित्यं कुशीलां धर्मचारिणीम् ।
मन्त्रजापी सदावर्ज्या ग्राम्यधर्मं तथैव च ॥ म्म्क्_11.201(="202") ॥
मिथ्यासं वक्रोधं वै परलोकातिभीरुणा ।
गर्हितं सर्वबुद्धेस्तु बोधिसत्त्वैस्तु धीमतैः ॥ म्म्क्_11.202(="203") ॥
प्रत्येकखड्गिभिर्नित्यं श्रावकैश्च सदा पुनः ।
मृषावादं तथा लोके सिद्धिकामार्थिनां भुवि ॥ म्म्क्_11.203(="204") ॥
नरका घोरतरं याति मृषावादोपभाषिणः ।
पुनस्तिर्यग्भ्यो तथा प्रेते यमलोके सदा पुनः ॥ म्म्क्_11.204(="205") ॥
वसते तत्रैव नित्यं मृषावादोपजीविना ।
तपने दुर्मतिर्घोरे कालसूत्रे प्रताप्रते ॥ म्म्क्_11.205(="206") ॥
सञ्जीवे ऽसिपत्रे च तथैव शाल्मलीवने ।
बहुकल्पां वसेत् तत्र मृषावादी तु जन्तुनः ॥ म्म्क्_11.206(="207") ॥
कुतस्तस्य तु सिद्ध्यन्ते मन्त्रा वै मिथ्यभाषिणः ।
उद्वेजयति भूतानि मिथ्यावाचेन मोहितः ।
ततो ऽसौ मूढकर्मा वै मन्त्रसिद्धिमपश्ययम् ॥ म्म्क्_11.207(="208") ॥
एवंच वदते वाचां नास्ति सिद्धिस्तु मन्त्रिणाम् ।
कुतस्तस्य भवेत् सिद्धिः बहुकल्पा न कोटिभिः ॥ म्म्क्_11.208(="209") ॥
प्रतिक्षिप्त येन बुद्धानां शासनं तु महीतले ।
ततो ऽसौ पद्यते घोरे अविद्यां तु महाभये ॥ म्म्क्_11.209(="210") ॥
सञ्जीवे कालसूत्रे च नरके च प्रतापने ।
महाकल्पं वसेत् तत्र सद्धर्मो मे विलोपनात् ॥ म्म्क्_11.210(="211") ॥
निरये घोरतमसे पच्यन्ते बालिशा जनाः ।
सद्धर्मावमन्यं तु अन्धेन तमसा वृता ॥ म्म्क्_11.211(="212") ॥
अज्ञाना बालभावाद्वा मूढा मिथ्याभिमानिनः ।
पतन्ति नरके घोरे विद्याराजावमन्य वै ॥ म्म्क्_11.212(="213") ॥
तस्मात् पापं न कुर्वीत मिथ्याकार्यं च गर्हितम् ।
सद्धर्मं चावमन्यं वै मिथ्यादृष्टिश्च गर्हिताः ॥ म्म्क्_11.213(="214") ॥
तस्मात् श्राद्धो सदा भूत्वा सेवन्मन्त्रविधिं सदा ।
सत्यवादी च मन्त्रज्ञो सत्त्वानां च सदा हितः ।
भजेत मन्त्रं मन्त्रज्ञो ध्रुवं सिद्धिस्तु तस्य वै ॥ म्म्क्_11.214(="215") ॥
करोति विविधां कर्मा उत्कृष्टाधममध्यमाम् ।
क्रिया हि कुरुते कर्म नाक्रिया हि हितं सदा ।
क्रियाकर्मसमायुक्तो सिद्धिस्तस्य सदा भवेत् ॥ म्म्क्_11.215(="216") ॥
क्रियार्थसर्वमर्थत्वात् कर्ममर्थसदाक्रिया ।
अक्रियार्थं क्रियार्थं च क्रियाकर्म च युज्यते ।
सफलं चैव क्रिया यस्य क्रियां चैव सदा कुरु ॥ म्म्क्_11.216(="217") ॥
कृत्यं कर्मफलं चैवं कृत्यकर्मफलं सदा ।
अफलं फलतां यान्ति फलं चैव सदाफलम् ॥ म्म्क्_11.217(="218") ॥
अफला सफलाश्चैव सर्वे चैव फलोद्भवाः ।
संयोगात् साध्यते मन्त्रं संयोगो मन्त्रसाधकः ।
असंयोगवियोगश्च वियोगो संयोगसाधकः ॥ म्म्क्_11.218(="219") ॥
साध्यसाधनभावस्तु सिद्धिस्तेषु न सिद्ध्यते ।
सिद्धिद्रव्यास्तु सर्वत्र विरुद्धाः सिद्धिहेतवः ॥ म्म्क्_11.219(="220") ॥
अप्रसिद्धा सिद्धमन्त्राणां मन्त्राः साधनकारणाः ।
कर्तुरीप्सिततमं कर्म कर्मरिप्सु क्रियाभवः ॥ म्म्क्_11.220(="221") ॥
अकर्म सर्वकर्मेषु न कुर्यात् कर्महेतवः ।
मन्त्रतन्त्रार्थयुक्तश्च सकलं कर्ममारभेत् ॥ म्म्क्_11.221(="222") ॥
आरब्धं आरभेत् कर्म अकर्मां चैव नारभेत् ।
अनारम्भक्रिया मन्त्रा न सिध्यन्ते सर्वदेहिनाम् ॥ म्म्क्_11.222(="223") ॥
पुरा गीतं मुनिभिः श्रेष्ठैः सर्वसद्धर्मभाषिभिः ।
समयं जिनपुत्राणां मन्त्रवादे तु दर्शितम् ॥ म्म्क्_11.223(="224") ॥
साधकः सर्वमन्त्रज्ञो कल्पराजे इहापरे ।
देशितं मन्त्ररूपेण मार्गं बोधिकारणम् ॥ म्म्क्_11.224(="225") ॥
सिध्यन्ति मन्त्राः सर्वे मे यत्र युक्ति सदा भवेत् ।
सो ऽचिरेणैव कालेन सिद्धिं गच्छेन्मनीषिताम् ॥ म्म्क्_11.225(="226") ॥
शिवार्थं सर्वभूतानां सम्बुद्धैस्तु प्र + + + ।
+ + + + + + रूपेण निर्वाणपुरगामिनाम् ॥ म्म्क्_11.226(="227") ॥
बोधिमार्गं तथा नित्यं सर्वकर्मार्थपूरकम् ।
बुद्धत्वं प्रथमं स्थानं निष्ठं तस्य परायणम् ॥ म्म्क्_11.227(="228") ॥
अनाभोगे तथा सिद्धिः प्राप्नुयात् सफलानिह ।
विचित्रकर्मधर्मज्ञा मन्त्राणां करणं भवेत् ॥ म्म्क्_11.228(="229") ॥
शीलध्यानविमोक्षाणां प्राप्तिरेषा समासतः ।
कथिता जिनमुख्यैस्तु सर्वार्थसाधना ॥ म्म्क्_11.229(="230") ॥
पुष्कलान् प्राप्नुयादर्थां उत्तमां गतिनिश्रयाम् ।
यक्षाध्यक्ष तथा नित्यं अधमा राज्यकारणा ॥ म्म्क्_11.230(="231") ॥
नृसुरासुरलोकानां प्राप्नुयात् सर्वमन्त्रिणः ।
आधिपत्यं तथा तेषां कुरुते सफलां क्रियाम् ॥ म्म्क्_11.231(="232") ॥
शौचाचारसमायुक्तो शीलध्यानरतः सदा ।
जपेन्मन्त्रं तति मन्त्री सर्वमन्त्रेषु भाषिताम् ॥ म्म्क्_11.232(="233") ॥
चित्रां कुरुते कर्मां तथा चोत्तममध्यमान् ।
कन्यसांश्चैव कुर्वीत भूतिमाकाङ्क्ष्य मन्त्रिणः ॥ म्म्क्_11.233(="234") ॥
कन्यसे भोगवृद्धिस्तु मध्यमे चोर्ध्वदेहिनाम् ।
उत्कृष्टं चोत्तमेनैव सम्प्राप्नोति जापिनः ॥ म्म्क्_11.234(="235") ॥
जपान्ते विश्रमेन्मन्त्री यावत् कालमुदीक्षयेत् ।
साधनं तत्र कुर्वीत प्राप्तकाले तु जापिनः ॥ म्म्क्_11.235(="236") ॥
सिध्यन्ति सर्वकर्माणि तथापि तत्र नित्यं जापी पापक्षयाच्च पुंसाम् ।
करोति मन्त्री विधिपूर्वकर्म यत्तत् कृतं कर्मपरम्परासु ॥ म्म्क्_11.236(="237") ॥
सिद्धिः स्थिता तस्य भवे कदाद्वा समग्रतां याव लभेत् पुंसः ।
जपेत मन्त्रं पुन मन्त्रजापी पापक्षयार्थं तत कर्मनाशना ॥ म्म्क्_11.237(="238") ॥
सिध्यन्तु मन्त्रास्तु तथोत्तमानि ये मध्यमा कन्यसलोकपूजिता ।
जपेन पापं क्षपयन्त्यशेषं यत्तत् कृतं जन्मपरम्परासु ॥ म्म्क्_11.238(="239") ॥
नश्यन्ति पापा तथा सर्वदेहिनां करोति चित्रां विविधाङ्गभूषणाम् ।
मनोरमां सर्वगुणानुशालिनां यक्षे समावासनृपत्वनित्यम् ।
सर्वार्थसिद्धिं समवाप्नुवन्ति मन्त्रं जपित्वा तु तथागतानामिति ॥ म्म्क्_11.239(="240") ॥
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रीमूलकल्पाद् एकादशमपटलविसराच्चतुर्थः साधनोपयिककर्मस्थानजपनियमहोमध्यानशौचाचारसर्वकर्मविधिसाधनपटलविसरः समाप्त इति ॥
अथ द्वादशः पटलविसरः ।
अथ खलु भगवान् शाक्यमुनिः पुनरपि सर्वावन्तं शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । शृणु त्वं मञ्जुश्रीः त्वदीयं विद्यामन्त्रानुसारिणां सकलसत्त्वार्थसम्प्रयुक्तानां सत्त्वानाम् । येन जाप्यन्ते मन्त्राः येन वा जाप्यन्ते अक्षसूत्रविधिं सर्वतन्त्रेषु सामान्यसाधनोपयिकसर्वमन्त्राणाम् । तं शृणु साधु च सुष्ठु च मनसि कुरु । भाषिष्ये । एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् । साधु भगवां तद् वदतु अस्माकमनुकम्पार्थं सर्वमन्त्रचर्यानुसमयप्रविष्टानां सत्त्वानामर्थाय सर्वसत्त्वानां च । एवमुक्ते मञ्जुश्रिया कुमारभूतेन भगवानस्यैतदवोचत् । शृणु त्वं मञ्जुश्रीः भाषिष्ये विस्तरविभावशो; येन सर्वमन्त्रचर्याभियुक्ताः सत्त्वाः सर्वार्थां साधयन्ति । कतमं च तत् । आदौ तावन्मन्त्रं भवति । नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम् । तद्यथा - ओम् कुरु कुरु सर्वार्थां साधय साधय सर्वदुष्ट विमोहनि गगनाबलम्बे विशोधय स्वाहा ।
अनेन मन्त्रेण सर्वाक्षसूत्रेषु कर्माणि कुर्यात् । शोधनवेधनगृह्णनविरेचनादीनि कर्माणि कुर्यात् प्रथममक्षसूत्रेषु वृक्षं चाभिमन्त्रयेत् ।
सप्तत्रिंशतिवाराणि कृतरक्षो व्रती तदा ।
एकरात्रं स्वपे तत्र स्वप्ने चैव स पश्यति
अमनुष्यं रूपसम्पन्नं विरूपं वा चिरकालयम् ।
क्रवते तस्य सौमित्री गृह्यमर्थयथावनः
ततो ऽसौ साधको गच्छेत् प्रातरूथाय तं तरुम् ।
चापि पश्यते स्वप्नं विरूपं वा महोत्कटम्
वर्जयेत् तं तरुं मन्त्री अन्यत्रं वाथ गच्छेय ।
प्रथमं रुद्रमक्षं तु इन्द्रमक्षमतः परम्
पुत्रञ्जीवकमिष्टं वा अन्यं वा फलसम्भवः ।
वृक्षारोहसुसम्पन्नैः सहायैश्चापि मारुहेत्
सहायानामभावेन स्वयं वा आरुहेज्जपी ।
ऊर्ध्वशाखाफलस्था + + + + + + + + + +
+ + + + + + + + तस्मिं ऊर्ध्वशाखाविनिर्गतः ।
ऊर्ध्वशाखां फलं गृह्य ऊर्ध्वकर्म प्रयोजयेत्
ऊर्ध्वे उत्तमा सिद्धिः कथितं ह्यग्रपुङ्गलैः ।
मध्यमे मध्यमा सिद्धिः कन्यसे ह्यधमेवतु
फलं तेषु समादाय अकुप्सां प्राणिभिः सदा ।
पश्चिमे शाखिनां प्राप्य सिध्यन्ते द्रव्यहेतवः
उत्तरे यक्षयोन्यादीं आनयेद्देवतां सह ।
कृत्यमाकर्षः ख्यातो सर्वभूतार्थशान्तये
देवतासुरगन्धर्वा किन्नरामथ राक्षसा ।
विधे सुकुरुते कर्मं सर्वभूतार्थपुष्टये
सफलां कुरुते कर्मां अशेषां भुवि चेष्टिताम् ।
पूर्वायां दिशि ये शाखा तत्रस्था फलसम्भवा
तेषु कुर्यात् सदा यत्नाद् दीर्घायुष्यार्थहेतवः ।
करोति विविधाकारां यत्र सिद्धिः फलैः सदा
या तु दक्षिणतो गच्छेत् शाखा पर्णानुशालिनी ।
तं जपी वर्जयेद् यस्मात् सत्त्वानां प्राणहारिणी
दक्षिणासृतशाखासु फला ये तु समुच्छ्रिता ।
अक्षैः तैः समं जप्याः शत्रूणां पापनाशनम्
तं जापी वर्जयेद् यत्नाद् बहुपुण्यानुहेतवः ।
अधः शाखावलम्बस्था फला ये तु प्रकीर्तिता
गच्छेद् रसातलं तैस्तु दानवानां च योषिताम् ।
तैः फलैः अक्षसूत्रं तु गृहीता सम्प्रकीर्तिता
अघो या यां तु निलयाः पातालं तेन तं व्रजेत् ।
प्रविश्य तत्र वै दिव्यं सौख्यामासाद्य जापिनः
आसुरीभिः समासक्तो तिष्ठेत् कल्पं वसेच्चसौ ।
गृह्य अक्षफलं सर्वां ततो अवतरेज्जपी
कृतरक्षो सहायैस्तु ततो गच्छेद् यथासुखम् ।
गत्वा तु दूरतः स्थानं शुचौ देशे तथा नित्यम्
तिष्ठेत्तत्र तु मन्त्री शोधयेमक्षमुद्भवाम् ।
गृह्य अक्षफलद्युक्तो संशोध्यं वाथ सर्वतः
संशोध्य सर्वतः अक्षां वेधयेन्मन्त्रशालिनः ।
तृसप्तरष्ट एकं वा वारां ते एकविंशति
शोधयेन्मत्रसत्त्वज्ञो पूर्वमन्त्रेण तुः सदा ।
सप्तजप्तेथमष्टैर्वा ततो शुद्धिः समिष्यते
कन्याकर्तितसूत्रेण पद्मनालासमुत्थितैः ।
त्रिगुणैः पञ्चभिर्युक्तो कुर्याद् वर्त्तितकं व्रती
तं ग्रन्थेन्मन्त्रतत्त्वज्ञो फलां सूक्ष्मां सुवर्तुलाम् ।
अच्छिद्रां प्राणकैर्नित्यं अव्यङ्गां वाप्यकुत्सिताम्
शोभनां चारुवर्णांस्तु अच्छिद्रामस्फुटितां तथा ।
रुद्राक्षं सुतजीवं वा इन्द्राक्षफलमेव तु
अरिष्टां शोभनां नित्यं अव्यङ्गां फलसम्मताम् ।
ग्रथेन्मन्त्री सदा ह्युक्तो अक्षमालां तु यत्नतः
सौवर्णमथ रूप्यं वा माणिक्यं स्फाटिकं समम् ।
शङ्खं सुसारं चैव मौक्तं वापि विधीयते
प्रवालैर्विविधा माला कुर्यादक्षमालिकाम् ।
अन्यरत्नांश्च वै दिव्यान् कुर्यात् शुभमालिकाम्
पार्थिवैर्वर्तुलैर्गुलिकैर्ग्रथेत् सूत्रे समाहितः ।
अन्यं वा गुलिकां किञ्चित् फलैर्वा धातुसम्भवैः
कुशाग्रग्रथिकां चैव कुर्याद् यत्नानुजापिनः ।
शताष्टं पञ्चविंशं वा पञ्चाशं चैव मध्यमाम्
एतत्प्रमाणमालां तु ग्रथेन्मन्त्री समाहितः ।
सहस्रं साष्टकं चैव कुर्यान्मालां तु ज्येष्ठिकाम्
एतच्चतुर्विधां मालां ग्रथितं नित्यमन्त्रिभिः ।
ततो ग्रथितुमाला वै त्रिमात्रां द्विक एव वा
पुष्पलोहमयैः कटकैः सौवर्णैः रजतैस्तथा ।
ततो ताम्रमयैर्वापि ग्रथेन्माला समासतः
ततो ऽन्ते पाशकं कृत्वा न्यसेत् तदानुपूर्वतः ।
वेष्टयेत् तं तृसन्ध्यन्ताद् यथा बद्धो ऽवतिष्ठति
परिस्फुटं तु ततो कृत्वा मण्डलाकारदर्शनम् ।
सर्वभोगतथाकारं परिवेष्ट्याभिभूषितम्
मुक्ताहारसमाकारो कण्ठिकाकारनिर्मितः ।
स्नात्वा शुभे अम्भे सरिते वापि निर्मले
स्नात्वा च यथापूर्वं उत्तिष्ठे सलिलालयात् ।
उपस्पृश्य यथायुक्त्या गृह्यमक्षाणुसूत्रितम्
प्रक्षाल्य पञ्चगव्यैस्तु तथा मृत्तिकचूर्णिकैः ।
प्रक्षाल्य शुभे अम्भे सुगन्धैश्चानुलेपनैः
प्रशस्तैर्वर्णकैश्चापि श्वेतचन्दनकुङ्कुमैः ।
प्रक्षाल्य यत्नतो तस्मात् ततो गच्छेदुडयं तथा
यथास्थानं तु गत्वा वै यत्रासौ पटमध्यमः ।
जिनश्रेष्ठो मुनिर्मुख्यो शाक्यसिंहो नरोत्तमः
शास्तुबिम्बे तथा नित्यं भुवि धातुवरे जिने ।
त + + + + + + + + + + + + + + + + + + समीपतः
संस्थाप्य पटे तस्मिं अग्रते समुपस्थिते ।
सहस्राष्टशतं जप्तं शतं चैकत्र साष्टकम्
अहोरात्रोषितो भूत्वा ददौ मालां मुनिसत्तमे ।
कृतजापी तथा पूर्वं प्रमाणेनैव तत्समः
परिजप्य ततो मालां रात्रौ तत्रैव संन्यसेत् ।
स्वपेत् तत्रैव मन्त्रज्ञः कुशसंस्तरणे भुवि
स्वप्ने यद्यसौ पश्य शोभनां स्वप्नदर्शनाम् ।
सफलां स्वप्ननिर्दिष्टां सिद्धिस्तस्य विधीयते
बुद्धश्रावकखड्गीणां स्वप्ने यद्य दृश्यते ।
सफलं सिद्ध्यंते मन्त्री ध्रुवं तस्य विधिक्रिया
कुमाररूपिणं बालं विचित्रं चारुदर्शनम् ।
स्वप्ने यद्यसौ दृष्ट्वा मालां दद्या तथैव च ।
अमोघं तस्य सिद्ध्यन्ते मन्त्रा सर्वार्थसाधका
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0