भाषा

ENहिગુ
ग्रंथ पाठ

माण्डूक्योपनिषद् (टीका सहित) · अध्याय 3

3.1

मन्दुप्क्च्_2.38
बाह्यं पृथिव्यादितत्वं आध्यात्मिकं च देहादिलक्षणं रज्जुसर्पादिवत्स्वप्नमायादिवच्च असत्"वाचारम्भणं विकारो नामधेयम्" (छा.उ.6 । 1 । 4) इत्यादिश्रुतेः ।
आत्मा च सबाह्याभ्यन्तरो ह्यजो ऽपूर्वो ऽनन्तरो ऽबाह्यः कृत्स्न आकाशवत्सर्वगतः सूक्ष्मो ऽचलो निर्गुणो निष्कलो निष्क्रियः"तत्सत्यं स आत्मा तत्त्वमसि"(छा.उ.6 । 8 । 16) इति श्रुतेः ।
इत्येवं तत्त्वं दृष्ट्वा तत्त्वीभूतस्तदारामो न बाह्यरमणो यथातत्त्वदर्शी कश्चिच्चित्तमात्मत्वेन प्रतिपन्नश्चित्तचलनमनुचलितमात्मानं मन्यमानस्ततत्त्वाच्चलितं देहादिभूतमात्मानं कदाचिन्मन्यते प्रच्युतो ऽहमात्मतत्त्वादिदानीमिति; समाहिते चु मनसि कदाचित्तत्त्वभूतं प्रसन्नात्मानं मन्यत इदानीमस्मि तत्त्वीभूत इति; न तदात्मविद्भवेत् ।
आत्मन एकरूपत्त्वात्स्वरूपप्रच्यवनासम्भवाच्च ।
सदैव ब्रह्मास्मीत्यप्रच्युतो भवेत्तत्त्वात्सदाप्रच्युतात्मतत्त्वदर्शनो भवेदित्यभिप्रायः"शुनि चैव श्वपाके च पण्डिताः समदर्शिनः"(गीता 12 । 18) "समं सर्वेषु भूतेषु"(गीता 13 । 17) इत्यादि स्मृतेः ॥38॥
अद्वैतप्रकरण
स्तर्त् मन्दुप्क् 3.1
ओंकारनिर्णय उक्तः प्रपञ्चोपशमः शिवोद्वैत आत्मेति प्रतिज्ञामात्रेण ।
ज्ञाते द्वैतं न विद्यत इति च ।
तत्र द्वैताभावस्तु वैतथ्यप्रकरणेन स्वप्नमायागन्धर्वनगरादिदृष्टान्तैर्दृश्यत्वाद्यन्तवत्त्वादिहेतुभिस्तर्केण च प्रतिपादिता ।
अद्वैतं किमागममात्रेण प्रतिपत्तव्यमाहोस्वित्तर्केणापीत्यत आह- शक्यते तर्केणापि ज्ञातुम्; तत्कथमित्यद्वैतप्रकरणमारभ्यत उपास्योपासानादिभेदजातं सर्वं वितथं केवलश्चात्माद्वयः परमार्थ इति स्थितमतीते प्रकरणे; यतः-
उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते ।
प्रागुत्पत्तेर् अजं सर्वं तेनासौ कृपणः स्मृतः

3.2

मन्दुप्क्च्_3.1
उपासनाश्रित उपासनामात्मनो मोक्षसाधनत्वेन गत उपासको ऽहं ममोपास्यं ब्रह्म ।
तदुपासनं कृत्वा जाते ब्रह्मणीदानीं वर्तमानो ऽजं ब्रह्म शरीरपातादूर्ध्वं प्रतपत्स्ये प्रागुत्पत्तेश्चाजमिदं सर्वमहं च ।
यदात्मको ऽहं प्रागुत्पत्तेरिदानीं जातो जाते ब्रह्मणि च वर्तमान उपासनया पुनस्तदेव प्रतिपत्स्य इत्येवमुपासनाश्रितो धर्मः साधको येनैवं क्षुद्रब्रह्मवित्तेनासौ कारणेन कृपणो दीनो ऽल्पकः स्मृतो नित्याजब्रह्मदर्शिभिरित्यभिप्रायः ।
"यद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते"(के.उ.1 । 4) इत्यादिश्रुतेस्तलवकारणाम् ॥1॥
स्तर्त् मन्दुप्क् 3.2
सबाह्याभ्यन्तरमजमात्मानं प्रतिपत्तुमशक्नुवन्नविद्यया दीनमात्मानं मन्यमानो जातो ऽहं जाते ब्रह्मणि वर्ते तदुपासनाश्रितः सन्ब्रह्म प्रतिपत्स्य इत्येवं प्रतिपन्नः कृपणो भवति यस्मात्-
अतो वक्ष्याम्य् अकार्पण्यम् अजाति समतां गतम् ।
यथा न जायते किञ्चिज् जायमानं समन्ततः

3.3

मन्दुप्क्च्_3.2
अतो वक्ष्याम्यकार्पण्यकृपणभावमजं ब्रह्म ।
तद्धि कार्पण्यास्पदम्"यत्रान्यो ऽन्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं मर्त्यमसत्"(छा.उ.7 । 24 । 1) इत्यादिश्रुतिभ्यः ।
तद्विपरीतं सबाह्याभ्यन्तरमजकार्पण्यं भूमाख्यं ब्रह्म ।
यत्प्राप्याविद्याकृतसर्वकार्पण्यनिवृत्तिस्तत्कार्पण्यं वक्ष्यामीत्यर्थः ।
तदजाति, अविद्यमाना जातिरस्य समतां गतं सर्वसाम्यं गतम् ।
कस्मात्? अवयववैषम्याभावात् ।
यद्धि सावयवं वस्तु तदवयववैषम्यं गच्छज्जायत इत्युच्यते ।
इदं तु निरवयवत्वात्समतां गतमिति न कैश्चिदवयवैः स्फुटत्यतोजात्यकार्पण्यम् ।
समन्ततः समन्ताद्यथा न जायते किञ्चिदल्पमपि न स्फुटति रज्जुसर्पवदविद्याकृतदृष्ट्या जायमानं येन प्रकारेण न जायते सर्वतो ऽजमेव ब्रह्म भवति तथा तं प्रकारं शृण्वित्यर्थः ॥2॥
स्तर्त् मन्दुप्क् 3.3
अजाति ब्रह्मकार्पण्यं वक्ष्यामीति प्रतिज्ञातम् ।
तत्सिद्ध्यर्थं हेतुं दृष्टान्तं च वक्ष्यामीत्याह-
आत्मा ह्य् आकाशवज्जीवैर् घटाकाशैर् इवोदितः ।
घटादिवच् च संघातैर् जाताव् एतन् निदर्शनम्

3.4

मन्दुप्क्च्_3.3
आत्मा परो हि यस्मादाकाशवत्सूक्ष्मो निरवयवः सर्वगत आकाशवदुक्तो जीवैः क्षेत्रज्ञैर्घटाकाशैरिव घटाकाशतुल्य उदित उक्तः स एवाकाशसमः पर आत्मा ।
अथ वा घटाकाशैर्यथाकाश उदित उत्पन्नस्तथा परो जीवात्मभिरुत्पन्नः ।
जीवात्मनां परस्मादात्मन उत्पत्तिर्या श्रूयते वेदान्तेषु सा महाकाशाद्घटाकाशोत्पत्तिसमा न परमार्थ इत्यभिप्रायः ।
तस्मादेवाकाशाद्घटादयः संघाता यथेत्पद्यन्त एवमाकाशस्थानीयात्परमात्मनः पृथिव्यादिभूतसंघाता आध्यात्मिकाश्च कार्यकरणलक्षणा रज्जुसर्पवद्विकल्पिता जायन्ते ।
अत उच्यते घटादिवच्च संघातैरुदित इति ।
यदा मन्दबुद्धिप्रतिपादयिषया श्रुत्यात्मनो जातिरुच्यते जीवादीनां तदा जातावुपगम्यमानायामेतन्निदर्शनं दृष्टान्तो यथोदिताकाशवदित्यादिः ॥3॥
स्तर्त् मन्दुप्क् 3.4
घटादिषु प्रलीनेषु घटाकाशादयो यथा ।
आकाशे संप्रलीयन्ते तद्वज् जीवा इहात्मनि

3.5

मन्दुप्क्च्_3.4
यथा घटाद्युत्पत्त्या घटाकाशाद्युत्पत्तिः; यथा वा घटादिप्रलये घटाकाशादिप्रलयस्तद्वद्देहादिसंघातोत्पत्त्या जीवोत्पत्तिस्तत्प्रलये च जीवानामिहात्मनि प्रलयो न स्वत इत्यर्थः ॥4॥
स्तर्त् मन्दुप्क् 3.5
सर्वदेहेष्वात्मैकत्व एकस्मिञ्जननमरणसुखादिमत्यात्मनि सर्वात्मनां तत्सम्बन्धः क्रियाफलसाङ्कर्यं च स्यादिति य आहुर्द्वैतिनस्तान्प्रतीदमुच्यते-
यथैकस्मिन् घाटाकाशे रजोधूमादिभिर् युते ।
न सर्वे संप्रयुज्यन्ते तद्वज् जीवाः सुखादिभिः

3.6

मन्दुप्क्च्_3.5
यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते संयुक्ते न सर्वे घटाकाशादयस्तद्रजोधूमादिभिः संयुज्यन्ते तद्वज्जीवाः सुखादिभिः ।
नन्वेक एवात्मा?
बाढम्; ननु न श्रुतं त्वयाकाशवत्सर्वसंघातेष्वेक एवात्मेति?
यद्येक एवात्मा तर्हि सर्वत्र सुखी दुःखी च स्यात्?
न चेदं साख्यचोद्यं सम्भवति ।
न हि सांख्य आत्मनः सुखदुःखादिमत्त्वमिच्छति बुद्धिसमवायाभ्युपगमात्सुखदुःखादीनाम् ।
न चोपलब्धिस्वरूपस्यात्मनो भेदकल्पनायां प्रमाणमस्ति ।
भेदाभावे प्रधानस्य पारार्थ्यानुपपत्तिरिति चेत्; न प्रधानकृतस्यार्थस्यात्मन्यसमवायात् ।
यदि हि प्रधाकृतो बन्धो मोक्षो वार्थः पुरुषेषु भेदेन समवैति ततः प्रधानस्य पारार्थ्यमात्मैकत्वे नोपपद्यत इति युक्ता पुरुषभेदकल्पना ।
न च साख्यैर्बन्धो मोक्षो वार्थः पुरुषसमवेतो ऽभ्युपगम्यते ।
निर्विशेषाश्च चेतनमात्रा आत्मानो ऽभ्युपगम्यन्ते ।
अतः पुरुषसत्तामात्रप्रयुक्तमेव प्रधानस्य पारार्थ्यं सिद्धं न तु पुरुषभेदप्रयुक्तमिति ।
अतः पुरुषभेदकल्पनायां न प्रधानस्य पारार्थ्यं हेतुः ।
न चान्यत्पुरुषभेदकल्पनायां प्रमाणमस्ति साख्यानाम् ।
परसत्तामात्रमेव चैतन्निमित्तीकृत्य स्वयं बध्यते मुच्यते च प्रधानम् ।
परश्चोपलब्धिमात्रसत्तास्वरूपेण प्रधानप्रवृत्तौ हेतुर्नकेनचिद्विशेषेणेति केवलमूढतयैव पुरुषभेदकल्पना वेदार्थपरित्यागश्च ।
ये त्वाहुर्वैशेषिकादय इच्छादय आत्मसमवायिन इति, तदप्यसत् ।
स्मृतिहेतूनां संस्काराणामप्रदेशवत्यात्मन्यसमवायात् ।
आत्ममनः संयोगाच्च स्मृत्युत्पत्तेः स्मृतिनियमानुपपत्ति ।
युगपद्वा सर्वस्मृत्युत्पत्तिप्रसङ्गः ।
न च भिन्नजातीयानां स्पर्शादिहीनानामात्मनां मन आदिभिः संबन्धो युक्तः ।
न च द्रव्याद्रूपादयो गुणाः कर्मसामान्यविशेषसमवाया वा भिन्नाः सन्ति परेषाम् ।
यदि ह्यत्यन्तभिन्ना एव द्रव्यात्स्युरिच्छादयश्चात्मनस्तथा च सति द्रव्येण तेषां सम्बन्दानुपपत्तिः ।
अयुतसिद्धानां समवायलक्षणः सम्बन्धो न विरुध्यत इति चेत्, न ।
इच्छादिभ्यो ऽनित्येभ्य आत्मनो नित्यस्य पूर्वसिद्धत्वान्नायुतसिद्धत्वोपपत्तिः ।
आत्मनायुतसिद्धत्वे चेच्छादीनामात्मगतमहत्ववन्नित्यत्वप्रसङ्गः ।
स चानिष्टः ।
आत्मनो ऽनिर्मोक्षप्रसङ्गात् ।
समवायस्य च द्रव्यादन्यत्वे सति द्रव्येण सम्बन्धान्तरं वाच्यं यथा द्रव्यगुणयोः ।
समवायो नित्यसम्बन्ध एवेति न वाच्यमिति चेत्तथा च समवायसम्बन्धवतां नित्यसम्बन्धप्रसङ्गात्पृथक्त्वानुपपत्ति ।
अत्यन्तपृथक्त्वे च द्रव्यादीनां स्पर्शवदस्पर्शद्रव्ययोरिव षष्ट्यर्थानुपपत्तिः ।
इच्छाद्युपजनापायवद्गुणत्वे चात्मनो ऽनित्यत्वप्रसङ्गः ।
देहफलादिवत्सावयवत्वं विक्रियावत्वं च देहादिवदेवेति दोषावपरिहार्यौ ।
यथा त्वाकाशस्याविद्याध्यारोपितरजोधूममलवत्वादिदोषवत्वं तथात्मनो ऽविद्याध्यारोपितबुद्ध्याद्युपाधिकृतसुखदुःखादिदोषवत्वे बन्धमोक्षादयो व्यवहारिका न विरुध्यन्ते ।
सर्ववादिभिरविद्याकृतव्यवहाराभ्युपगमात्परमार्थानभ्युपगमाच्च ।
तस्मादात्मभेदपरिकल्पना वृथैव तार्किकैः क्रियत इति ॥5॥
स्तर्त् मन्दुप्क् 3.6
कथं पुनरात्मभेदनिमित्त इव व्यवहार एकस्मिन्नात्मन्यविद्याकृत उपपद्यत इति, उच्यते-
रूपकार्यसमाख्याश् च भिद्यन्ते तत्र तत्र वै ।
आकाशस्य न भेदो ऽस्ति तद्वज् जीवेषु निर्णयः

3.7

मन्दुप्क्च्_3.6
यथेहाकाश एकस्मिन्घटकरकापवरकाद्याकाशानामल्पत्वमहत्वादिरूपाणि भिद्यन्ते तथा कार्यमुदकाहरणधारणशयनादिसमाख्याश्च घटाकाशकरकाकाश इत्याद्यास्तत्कृताश्च भिन्ना दृश्यन्ते ।
तत्र तत्र वै व्यवहारविषय इत्यर्थः ।
सर्वो ऽयमाकाशो रूपादिभेदकृतो व्यवहारो न परमार्थ एव ।
परमार्थतस्त्वाकाशस्य न भेदोस्ति ।
न चाकाशभेदनिमित्तो व्यवहारो ऽस्त्यन्तरेण परोपाधिकृतं द्वारम् ।
यथैतत्तद्वेद्दहोपाधिभेदकृतेषु जीवेषु घटाकाशस्थानीयेष्वात्मसु निरूपणात्कृतो बुद्धिमद्भिर्निर्णयो निश्चय इत्यर्थः ॥6॥
स्तर्त् मन्दुप्क् 3.7
ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादिभेदव्यवहार इति? नैतदस्ति, यस्मात्
नाकाशस्य घटाकाशो विकारावयवौ यथा ।
नैवात्मनः सदा जीवो विकारावयवौ तथा

3.8

मन्दुप्क्च्_3.7
परमार्थाकाशस्य घटाकाशो न विकारः; यथा सुवर्णस्य रुचकादिर्यथा वापां फेनबुद्बुदहिमादिः; नाप्यवयवो यथा वृक्षस्य शाखादिः ।
न तथा0काशस्य घटाकाशो विकारावयवौ यथा तथा नैवात्मनः परस्य परमार्थसतो महाकाशस्थानीयस्य घटाकाशस्थानीयो जीवः सदा सर्वदा यथोक्तदृष्टान्तवन्न विकारो नाप्यवयवः ।
अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः ॥7॥
स्तर्त् मन्दुप्क् 3.8
यस्माद्यथा घटाकाशादिभेदबुद्धिनिबन्धनो रूपकार्यादिभेदव्यवहारस्तथा देहोबाधिजीवभेदकृतो जन्ममरणादिव्यवहारः ।
तस्मात्तत्कृतमेव क्लेशकर्मफलमलवत्वमात्मनो न परमार्थत इत्येतमर्थं दृष्टान्तेन प्रतिपिपादयिषन्नाह-
यथा भवति बालानां गगनं मलिनं मलैः ।
तथा भवत्य् अबुद्धानाम् आत्मापि मलिनो मलैः

3.9

मन्दुप्क्च्_3.8
यथा भवति लोके बालानामविवेकिनां गगनमाकाशं घनरजोधूमादिमलार्मलिनं मलवन्न गगनं मलवद्याथात्म्यविवेकिनाम्, तथा भवत्यात्मा परो ऽपि यो विज्ञाता प्रत्यक्क्लेशकर्मफलमलैर्मलिनो ऽबुद्धानां प्रत्यगात्मविवकेरहितानां नात्मविवेकवताम् ।
नह्यूषरदेशस्तृड्वत्प्राण्यध्यारोपितोदकफेनतरङ्गादिमांस्तथा नात्माबुधारोपितक्लेशादिमलैर्मलिनो भवतीत्यर्थः ॥8॥
स्तर्त् मन्दुप्क् 3.9
पुनरप्युक्तमेवार्थं प्रपञ्चयति-
मरणे संभवे चैव गत्यागमनयोर् अपि ।
स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः

3.10

मन्दुप्क्च्_3.9
घटाकाशजन्मनाशगमनागमनस्थितिवत्सर्वशरीरेष्वात्मनो जन्ममरणादिराकाशेनाविलक्षणः प्रत्येतव्य इत्यर्थः ॥9॥
स्तर्त् मन्दुप्क् 3.10
संघाताः स्वप्नवत् सर्वे आत्ममायाविसर्जिताः ।
आधिक्ये सर्वसाम्ये वा नोपपत्तिर् हि विद्यते

3.11

मन्दुप्क्च्_3.10
घटादिस्थानीयास्तु देहादिसंघाताः स्वप्नदृश्यदेहादिवन्मायाविकृतदेहादिवच्चात्ममायाविसर्जिताः; आत्मनो मायाविद्या तया प्रत्युपस्थापिता न परमार्थतः सन्तीत्यर्थः ।
यद्याधिक्यमधिकभावस्तिर्ग्देहाद्यपेक्षया देवादिकार्यकरणसंघातानां यदि वा सर्वेषां समतैव नैषामुपपत्तिः सम्भवः सद्भाप्रतिपादको हेतुर्विद्यते नास्ति, हि यस्मात्तस्मादविद्याकृता एव न परमार्थतः सन्तीत्यर्थः ॥10॥
स्तर्त् मन्दुप्क् 3.11
उत्पत्त्यादिवर्जितस्याद्वयस्यात्मतत्वस्य श्रुतिप्रमाणकत्वप्रदर्शनार्थं वाक्यान्युपन्यस्यन्ते-
रसादयो हि ये कोशा व्याख्यातास् तैत्तिरीयके ।
तेषाम् आत्मा परो जीवः खं यथा संप्रकाशितः

3.12

मन्दुप्क्च्_3.11
रसादयो ऽन्नरसमयः प्राणमय इत्येवमादयः कोशा इव कोशा अस्यादेरिवोत्तरोत्तरस्यापेक्षया बहिर्भावात्पूर्वपूर्वस्य व्याख्याता विस्पष्टमाख्यातास्तैत्तिरीयके तैत्तिरीयकशाखोपनिषद्वल्ल्यां तेषां कोशानामात्मा येनात्मना पञ्चापि कोशा आत्मवन्तो ऽन्तरतमेन, स हि सर्वेषां जीवननिमित्तत्वाज्जीवः ।
को ऽसावित्याह-पर एवात्मा यः पूर्वम्"सत्यं ज्ञानमनन्तं ब्रह्म"(तै.उ.2 । 1) इति प्रकृतः ।
यस्मादात्मनः स्पप्नमायादिवदाकाशादिक्रमेण रसादयः कोशलक्षणाः संघाता आत्ममायाविसर्जिता इत्युक्तम् ।
स आत्मास्माभिर्यथा खं तथेति संप्रकाशितः"आत्मा ह्याकाशवत्"(अद्वैत.3) इत्यादिश्लौकैः ।
न तार्किकपरिकल्पितात्मवत्पुरुषबुद्धिप्रमाणगम्य इत्यभिप्रायः ॥11॥
स्तर्त् मन्दुप्क् 3.12
द्वयोर् द्वयोर् मधुज्ञाने परं ब्रह्म प्रकाशितम् ।
पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः

3.13

मन्दुप्क्च्_3.12
किं चाधिदैवमध्यात्मं च तेजोमयो ऽमृतमयः पुरुषः पृथिव्याद्यन्तर्गतो यो विज्ञाता पर एवात्मा ब्रह्म सर्वमिति द्वयोर्द्वयोराद्वैतक्षयात्परं ब्रह्म प्रकाशितम् ।
क्वेत्याह- ब्रह्मविद्याख्यं मध्वमृतममृतत्वं मोदनहेतुत्वाद्विज्ञायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणं तस्मिन्नित्यर्थः ।
किमिवेत्याह-पृथिव्यामुदरे चैव यथैक आकाशो ऽनुमानेन प्रकाशितो लोके तद्वदित्यर्थः ॥12॥
स्तर्त् मन्दुप्क् 3.13
जीवात्मनोर् अनन्यत्वम् अभेदेन प्रशस्यते ।
नानात्वं निन्द्यते यच् च तद् एवं हि समञ्जसम्

3.14

मन्दुप्क्च्_3.13
यद्युक्तितः श्रुतितश्च निर्धारितं जीवस्य परस्य चात्मनो जीवात्मनोरन्यत्वमभेदेन प्रशस्यते स्तूयतेशास्त्रेण व्यासादिभिश्च ।
यच्च सर्वप्राणिसाधारणं स्वाबाविकं शास्त्रबहिष्कृतैः कुतार्किकैर्विरचितं नानात्वदर्शनं निन्द्यते"न तु तद्द्वीतीयमस्ति"(बृ.उ.4 । 3 । 23) "द्वितीयाद्वै भयं भवति"(बृ.उ.1 । 4 । 2) "उदरमन्तरं कुरुते, अत तस्य भयं भवति"(तै.उ.2 । 7 । 1) "इदं सर्वं यदयमात्मा"(बृ.उ.2 । 4 । 6, 4 । 5 । 7) "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति"(क.उ.2 । 1 । 10) इत्यादिवाक्यैश्चान्यैश्च ब्रह्मविद्भिः ।
यच्चैतत्तदेवं हि समञ्जसमृज्ववबोधं न्याय्यमित्यर्थः ।
यास्तु तार्किकपरिकल्पिताः कुदृष्टयस्ता अनृज्व्यो निरूप्यमाणा न घटनां प्राञ्चन्तीत्यभिप्रायः ॥13॥
स्तर्त् मन्दुप्क् 3.14
जीवात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः प्रकीर्तितम् ।
भविष्यद्वृत्या गौणं तन् मुख्यत्वं हि न युज्यते

3.15

मन्दुप्क्च्_3.14
ननु श्रुत्यापि जीवपरमात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेरुत्पत्यर्थोपनिषद्वाक्येभ्यः पूर्वं प्रकीर्तितं कर्मकाण्डे ऽनेकशः कामभेदत इदङ्कामो ऽदःकाम इति; परश्च"स दाधार पृथिवीं द्याम्"(ऋ.सं.10 । 12 । 1) इत्यादिमन्त्रवर्णैः; तत्र कथं कर्मज्ञानकाण्डवाक्यविरोधे ज्ञानकाण्डवाक्यार्थस्यैवैकत्वस्य सामञ्जस्यमवधार्यत इति?
अत्रोच्यते-"यतो वे9मानि भूतानि जायन्ते"(तै.उ.3 । 1) "यथाग्नेः क्षुद्रा विस्फुलिङ्गाः"(बृ.उ.2 । 1 । 10) "तस्माद्वै9तस्मादात्मन आकाशः संभूतः"(तै.उ.2 । 1 । 2) "तदैक्षत"(छा.उ.6 । 2 । 3) "तत्तेजोसृजत"(छा.उ.6 । 2 । 3) इत्याद्युत्पत्त्यर्थोपनिषद्वाक्येभ्यः प्राक्पृथक्त्वं कर्मकाण्डे प्रकीर्तितिं यत्तन्न परमार्थम् ।
किं तर्हि? गौणं महाकाशघटाकाशादिभेदवत् ।
यथौदनं पचतीति भविष्यद्वृत्त्या यद्वत् ।
न हि भेदवाक्यानां कदाचिदपि मुख्यभेदार्थत्वमुपपद्यते ।
स्वाभाविकाविद्यावत्प्राणिभेददृष्ट्यनुवादित्वादात्मभेदवाक्यानाम् ।
इव चोपानिषत्सूत्पत्तिप्रलयादिवाक्यैर्जीवपरमात्मनोरेकत्वमेव प्रतिपिपादयिषितम्"तत्त्वमसि" (छा.उ.6 । 8 -16)"अन्यो ऽसावन्यो ऽहमस्मीति न स वेद"(बृ.उ.1 । 4 । 10) इत्यादिभिः ।
अत उपनिषत्स्व् एकत्वं श्रुत्या प्रतिपादयिषितं भविष्यतीति भाविनीमेकवृत्तिमाश्रित्य लोके भेददृष्ट्यनुवादो गौण एवेत्यभिप्रायः ।
अथ वा"तदैक्षत" (छा.उ.6 । 2 । 3) "तत्तोजो ऽसृजत"(छा.उ.6 । 2 । 3) इत्याद्युत्पत्तेः प्राक्"एकमेवाद्वितीयम्"(छा.उ.6 । 2 । 2) इत्येकत्वं प्रकीर्तितम् ।
तदेव च"तत्सत्यं स आत्मा तत्त्वमसि"(छा.उ.6 । 8 -16) इत्येकत्वं भविष्यतीति तां भविष्यद्वृत्तिपेक्ष्य यज्जीवात्मनोः पृथक्त्वं यत्र क्वचिद्वाक्ये गम्यमानं तद्गौणम्, यथोदनं पचतीति तद्वत् ॥14॥
स्तर्त् मन्दुप्क् 3.15
ननु यद्युत्पत्तेः प्रागजं सर्वमेकमेवाद्वितीयं तथाप्युत्पत्तेरूर्ध्वं जातमिदं सर्वं जीवाश्च भिन्ना इति, मैवम्; अन्यार्थत्वादुत्पत्तिश्रुतीनाम् ।
पूर्वमपि परिहृत्य एवायं दोषः स्वप्नवदात्ममायाविसर्जिताः संघाता घटाकाशोत्पत्तिभेदादिवज्जीवानामुत्पत्तिभेदादिरिति ।
इत एवोत्पत्तिभेदादिश्रुतिभ्य आकृष्ये7ह पुनरुत्पत्तिश्रुतीनामैदंपर्यप्रतिपिपादयिषयोपन्यासः-
मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर् या चोदितान्यथा ।
उपायः सो ऽवताराय नास्ति भेदः कथञ्चन

3.16

मन्दुप्क्च्_3.15
मृल्लोकविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टिर्या चोदिता प्रकाशितान्यथान्यथा च स सर्वः सृष्टिप्रकारो जीवपरमात्मैकत्वबुद्ध्यवतारयोपायो ऽस्माकम् ।
यथा प्राणसंवादे वागाद्यासुरपाप्मवेधाद्याख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय ।
तदप्यसिद्धमिति चेत् ।
न; शाखाभेदेष्वन्यथान्यथा च प्राणादिसंवादश्रवणात् ।
यदि हि संवादः परमार्थ एवाभूदेकरूप एव संवादः सर्वशाखास्वश्रोष्यत विरुद्धानेकप्रकारेण नाश्रोष्यत ।
श्रूयते तु; तस्मान्न तादर्थ्यं संवादश्रुतीनाम् ।
तथोत्पत्तिवाक्यानि प्रत्येतव्यानि ।
कल्पसर्गभेदात्संवादश्रुतीनामुत्पत्तिश्रुतीनां च प्रतिसर्गमन्यथात्वमिति चेत्?
न; निष्प्रयोजनत्वाद्यथोक्तबुद्ध्यवतारप्रयोजनव्यतिरेकेण ।
न ह्यन्यप्रयोजनवत्त्वं संवादोत्पत्तिश्रुतीनां शक्यं कल्पयितुम् ।
तथात्वप्रतिपत्तये ध्यानार्थमिति चेन्न; कलहोत्पत्तिप्रलयानां प्रतिपत्तेरनिष्टत्वात् ।
तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वबुद्ध्यवतारायैव नान्यार्थाः कल्पयितुं युक्ताः ।
अतो नास्त्युत्पत्त्यादिकृतो भेदः कथञ्चन ॥15॥
स्तर्त् मन्दुप्क् 3.16
यदि पर एवात्मा नित्यशुद्धबुद्धमुक्तस्वभाव एकः परमार्थः सन्"एकमेवाद्वितीयम्" (छा.उ.6 । 2 । 2) इत्यादिश्रुतिभ्यो ऽसदन्यत्किमर्थेयमुपासनोपदिष्टा"आत्मा वा9रे द्रष्टव्यः"(बृ.उ.2 । 4 । 5) "य आत्मापहतपाप्मा"(छा.उ.8 । 7 । 1,3) "स क्रतुं कुर्वीत"(छा.उ.3 । 14 । 1) "आत्मेत्येवोपासीत"(बृ.उ.1 । 4 । 7) इत्यादिश्रुतिभ्यः, कर्माणि चाग्निहोत्रादीनि?
शृणु तत्र कारणम्-
आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः ।
उपासनोपदिष्टेयं तदर्थम् अनुकम्पया

3.17

मन्दुप्क्च्_3.16
उपासनोपदिष्टेयं तदर्थं मन्दमध्यमदृष्ट्याश्रमाद्यर्थं कर्माणि च, न चात्मैक एवाद्वितीय इति निश्चितोत्तमदृष्ट्यर्थं दयालुना वेदेनानुकम्पया सन्मार्गगाः सन्तः कथमिमामुत्तमामेकत्वदृष्टिं प्राप्नुयुरिति ।
"यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्र्हम त्वं विद्धि नेदं यदिदमुपासते"(के.उ.1 । 4) "तत्त्वमसि"(छा.उ.6 । 8 -16)"आत्मैवेदं सर्वम्"(छा.उ.7 । 25 । 3) इत्यादिश्रुतिभ्यः ॥16॥
स्तर्त् मन्दुप्क् 3.17
शास्त्रोपपत्तिभ्यामवधारितत्वादद्वयात्मदर्शनं सम्यग्दर्शनं तद्बाह्यत्वान्मिथ्यादर्शनमन्यत् ।
इतश्च मिथ्यादर्थनं द्वैतीनां रागद्वेषादिदोषास्पदत्वात् ।
कथम्?
स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् ।
परस्परं विरुध्यन्ते तैरयं न विरुध्यते

3.18

मन्दुप्क्च्_3.17
स्वसिद्धान्तव्यवस्थासु स्वसिद्धान्तरचनानियमेषु कपिलकणादबुद्धर्हतादिदृष्ट्यनुसारिणो द्वैतिनो निश्चिताः ।
एवमेवैष परमार्थो नान्यथेति तत्र तत्रानुरक्ताः प्रतिपक्षं चात्मनः पश्यन्तस्तं द्विषन्त इत्येवं रागद्वेषोपेताः स्वसिद्धान्तदर्शननिमित्तम् एव परस्परमन्योन्यं विरुध्यन्ते ।
तैरन्योन्यविरोधिभिरस्मदीयो ऽयं वैदिकः सर्वानन्यत्वादात्मैकत्वदर्शनपक्षो न विरुध्यते यथा स्वहस्तपादादिभिः ।
एवं रागद्वेषादिदोषानास्पदात्मैकत्वबुद्धिरेव सम्यग्दर्शनमित्यभिप्रायः ॥17॥
स्तर्त् मन्दुप्क् 3.18
केन हेतुना तैर्न विरुध्यत इत्युच्यते-
अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ।
तेषाम् उभयथा द्वैतं तेनायं न विरुद्ध्यते

3.19

मन्दुप्क्च्_3.18
अद्वैतं परमार्थो हि यस्मादद्वैतं नानात्वं तस्याद्वैतस्य भेदस्तद्भेदस्तस्य कार्यमित्यर्थः ।
"एकमेवाद्वितीयम्"(छा.उ.6 । 2 । 2) "तत्तेजो ऽसृजत"(छा.उ.6 । 2 । 3) इति श्रुतेरूपपत्तेश्च स्वचित्तस्पन्दनाभावे समाधौ मूर्छायां सुषुप्तौ चाभावात् ।
अतस्तद्भेद उच्यते द्वैतम् ।
द्वैतिनां तु तेषां परमार्थतश्चापरमार्थतश्चोभयथापि द्वैतमेव ।
यदि च तेषां भ्रान्तानां द्वैतदृष्टिरस्माकमद्वैतदृष्टिरभ्रान्तानाम्, तेनायं हेतुनास्मत्पक्षे न विरुध्यते तैः ।
"इन्द्रो मायाभिः षुरुरूप ईयते" (बृ.उ.2 । 5 । 11) "न तु तद्द्वितीयमस्ति"(बृ.उ.4 । 3 । 23) इति श्रुतेः ।
यथा मत्तगजारूढ उन्मत्तं भूमिष्ठं प्रति गजारूढोहं गजं वाहय मां प्रतीति ब्रुवाणमपि तं प्रति न वाहयत्यविरोधबुद्ध्या तद्वत् ।
ततः परमार्थतो ब्रह्मविदात्मैव द्वैतिनाम् ।
तेनायं हेतुनास्मत्पक्षो न विरुद्ध्यते तैः ॥28॥
स्तर्त् मन्दुप्क् 3.19
द्वैतमद्वैतभेद इत्युक्ते द्वैतमप्यद्वैतवत्परमार्थसदिति स्यात् कस्यचिदाशङ्केत्यत आह-
मायया भिद्यते ह्य् एतन् नान्यथाजं कथञ्चन ।
तत्त्वतो भिद्यमाने हि मर्त्यताम् अमृतं व्रजेत्

3.20

मन्दुप्क्च्_3.19
यत्परमार्थसदद्वैतं मायया भिद्यते ह्येतचैमिरिकानेकचन्द्रवद्रज्जुः सर्पधारादिभिर्भेदैरिव न परमार्थतो निरवयवत्वादात्मनः ।
सावयवं ह्यवयवान्यथात्वेन भिद्यते ।
यथा मृद् घटादिभेदैः ।
तस्मान्निरवयवमजं नान्पथा कथञ्चन केनचिदपि प्रकारेण न भिद्यत इत्यभिप्रायः ।
तत्त्वतो भिद्यमाने ह्यमृतमजमद्वयं स्वभावतः सन्मर्त्यतां व्रजेत्; यथाग्निः शीतताम् ।
तच्चानिष्टं स्वभाववैपरीत्यगमनम्, सर्वप्रमाणविरोधात् ।
अजमव्ययमात्मतत्त्वं माययैव भिद्यते न परमार्थतः ।
तस्मान्न परमार्थसदद्वैतम् ॥19॥
स्तर्त् मन्दुप्क् 3.20
अजातस्यैव भावस्य जातिम् इच्छन्ति वादिनः ।
अजातो ह्य् अमृतो भावो मर्त्यतां कथम् एष्यति

3.21

मन्दुप्क्च्_3.20
ये तु पुनः केचिदुपनिषद्व्याख्यातारो ब्रह्मवादिनो वावदूका अजातस्यैवात्मतत्त्वस्य अमृतस्य स्वभावतो जातिम् उत्पत्तिमिच्छन्ति परमार्थत एव तेषां जातं चेत्तदेव मर्त्यतामेष्यत्यवश्यम् ।
स चाजातो ह्यमृतो भावः स्वभावतः सन्नात्मा कथं मर्त्यतामेष्यति? न कथञ्चन मर्त्यत्वं स्वभाववैपरीत्यमेष्यतीत्यर्थः ॥20॥
स्तर्त् मन्दुप्क् 3.21
यस्मात्-
न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा ।
प्रकृतेर् अन्यथाभावो न कथञ्चिद् भविष्यति

3.22

मन्दुप्क्च्_3.21
न भवत्यमृतं लोकेनापि मर्त्यममृतं तथा ।
ततः प्रकृतेः स्वभावस्यान्यथाभावः स्वतः प्रच्युतिर्न कथञ्चिद्भविष्यति, अग्नेरिवौष्ण्यस्य ॥21॥
स्तर्त् मन्दुप्क् 3.22
स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् ।
कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः

3.23

मन्दुप्क्च्_3.22
यस्य पुनर्वादिनः स्वभावेनामृतो भावो मर्त्यतां गच्छति परमार्थतो जायते तस्य प्रागुत्पत्तेः स भावः स्वभावतो ऽमृत इति प्रतिज्ञा मृषैव ।
कथं तर्हि कृतकेनामृतस्तस्य भावः? कृतकेनामृतः स कथं स्थास्यति निश्चलो ऽमृतस्वभावस्तथा न कथञ्चित्स्थास्यत्यात्मजातिवादिनः सर्वदाजं नाम नास्त्येव; सर्वमेतन्मर्त्यम् ।
अतो ऽनिर्मोक्षप्रसङ्ग इत्यभिप्रायः ॥22॥
स्तर्त् मन्दुप्क् 3.23
नन्वजातिवादिनः सृष्टिप्रतिपादिका श्रुतिर्न संगच्छते प्रामाण्यम्?
बाढं विद्यते सृष्टिप्रतिपादिका श्रुतिः; सा त्वन्यपरा ।
उपायः स अवतारायेत्यवोचाम ।
इदानीमुक्ते ऽपि परिहारे पुनश्चोद्यपरिहारौ विवक्षितार्थं प्रति सृष्टिश्रुत्यक्षराणामानुलोम्यविरोधाशङ्कामात्रपरिहारार्थौ-
भूततो ऽभूततो वापि सृज्यमाने समा श्रुतिः ।
निश्चितं युक्तियुक्तं च यत् तद् भवति नेतरत्

3.24

मन्दुप्क्च्_3.23
भूततः परमार्थतः सृज्यमाने वस्तुन्यभूततो मायया वा मायाविनेव सृज्यमाने वस्तुनि समा तुल्या सृष्टिश्रुतिः ।
ननु गौणमुख्ययोर्मुख्ये शब्दार्थप्रतपत्तिर्युक्ता ।
न, अन्यथा सृष्टेरप्रसिद्धत्वान्निष्प्रयोजनत्वाच्चेत्यवोचाम ।
अविद्यासृष्टविषयैव सर्वा गौणी मुख्या च सृष्टिर्न परमार्थतः"सबाह्याभ्यन्तरो ह्यजः"(मु.उ.2 । 1 । 2) इति श्रुतेः ।
तस्माच्छ्रुत्या निश्चितं यदेकमेवाद्वितीयमजममृतमिति युक्तियुक्तं च युक्त्या च सम्पन्नं तदेवेत्यवोचाम पूर्वैर्ग्रन्थैः ।
तदेव श्रुत्यर्थो भवति नेतरत्कदाचिदपि ॥23॥
स्तर्त् मन्दुप्क् 3.24
कथं श्रुतुनिश्चयः? इत्याह-
नेह नानेति चाम्नायाद् इन्द्रो मायाभिर् इत्य् अपि ।
अजायमानो बहुधा मायया जायते तु सः

3.25

मन्दुप्क्च्_3.24
यदि हि भूतत एव सृष्टिः स्यात्ततः सत्यमेव नाना वस्त्विति तदभावप्रदर्शनार्थमाम्नायो न स्यात् ।
अस्ति च"नेह नानास्ति किञ्चन"(क.उ.2 । 1 । 11) इत्यादिराम्नायो द्वैतभावप्रतिषेधार्थः ।
तस्मादात्मैकत्वप्रतिपत्यर्था कल्पिता सृष्टिरभूतैव प्राणसंवादवत् ।
"इन्द्रो मायाभिः" (बृ.उ.3 । 5 । 19) इत्यभूतार्थप्रतिपादकेन मायाशब्देन व्यपदेशात् ।
ननु प्रज्ञावचनो मायाशब्दः ।
सत्यम्; इन्द्रियप्रज्ञाया अवद्यामयत्वेन मायात्वभ्युपगमाददोषः ।
मायाभिरिन्द्रियप्रज्ञाभिर् अविद्यारूपाभिरित्यर्थः"अजायमानो बहुधा विजायते"इति श्रुतेः, तस्मान्माययैव जायते तु स ।
तु शब्दो ऽवधारणार्थः- माययैवेति ।
न ह्यजायमानत्वं बहुधा जन्मचैकत्र सम्भवति, अग्नाविव शैत्यमोष्ण्यं च ।
फलवत्वाच्चात्मैकत्वदर्शनमेव श्रुतिनिश्चितोर्ऽथः"तत्र को मोहः कः शोक एकत्वमनुपश्यतः"(ई.उ.7) इत्यादिमन्त्रवर्णात्;"मृत्योः स मृत्युमाप्नोति"(क.उ.2 । 1 । 10) इति निन्दितत्वाच्च सृष्ट्यादिभेददृष्टेः ॥24॥
स्तर्त् मन्दुप्क् 3.25
संभूतेर् अपवादाच् च संभवः प्रतिषिध्यते ।
को न्व् एनं जनयेद् इति कारणं प्रतिषिध्यते

3.26

मन्दुप्क्च्_3.25
"अन्धं तमः प्रविशति ये सम्भूतिमुपासते"(ई.उ.12) इति संभूतेरुपास्यत्वापवादात्संभवः प्रतिषिध्यते ।
न हि परमार्थतः संभूतायां संभूतौ तदपवाद उपपद्यते ।
ननु विनाशेन संभूतेः समुच्चयविध्यर्थः संभूत्यपवादः ।
यथा"अन्धं तमः प्रविशन्ति ये ऽविद्यामुपासते"(ई.उ.9) इति ।
सत्यमेव देवतादर्शनस्य संभूतिविषयस्य विनाशशब्दवाच्यस्य कर्मणः समुच्चयविधानार्थः संभूत्यपवादः ।
तथापि विनाशाख्यस्य कर्मणः स्वाभाविकाज्ञानप्रवृत्तिरूपस्य मृत्योरतितरणार्थत्वम् ।
एवं ह्येषणाद्वयरूपान्मृत्योरशुद्धेर्वियुक्तः पुरुषः संस्कृतः स्यादतो मृत्योरतितरणार्थादेवतादर्शनकर्मसमुच्चयलक्षणा ह्यविद्या ।
एवमेव एषणालक्षणाविद्याया मृत्योरतितीर्णस्य विरक्तस्योपनिषच्छास्त्रार्थालोचनपरस्य नान्तरीयकी परमात्मैकत्वविद्योत्पत्तिरिति पूर्वभाविनीमविद्यामपेक्ष्य पश्चाद्भाविनी ब्रह्मविद्यामृतत्वसाधनैकेन पुरुषेण सम्बध्यमानाविद्यया समुच्चीयत इत्युच्यते ।
अतो ऽन्यार्थत्वादमृतत्वसाधनं ब्रह्मविद्यामपोक्ष्य निन्दार्थं एव भवति संभूत्यपवादः ।
यद्यप्यशुद्धिवियोगहेतुर् अतन्निष्ठत्वात् ।
अत एव संभूतेर् अपवादात्संभूतेरापेक्षिकमेव सत्त्वमिति परमार्थसदात्मैकत्वमपेक्ष्य अमृताख्यः संभवः प्रतिषिध्यते ।
एवं मायानिर्मितस्यैव जीवस्याविद्यया प्रत्युपस्थापितस्याविद्यानाशे स्वभावरूपत्वात्परमार्थतः को न्वेनं जनयेत् ।
न हि रज्ज्वामविद्यारोपितं सर्पं पुनर्विवेकतो नष्टं जनयेत्कश्चित् ।
तथा न कश्चिदेनं जनयेदिति को न्वित्याक्षेपार्थत्वात्कारणं प्रितषिध्यते ।
अविद्योद्भूतस्य नष्टस्य जनयितृकारणं न किञ्चिदस्तीत्यभिप्रायः"नायं कुतश्चिन्न बभूव कश्चित्"(क.उ.1 । 2 । 18) इति श्रुतेः ॥25॥
स्तर्त् मन्दुप्क् 3.26
स एष नेति नेतीति व्याख्यातं निह्नुते यतः ।
सर्वम् अग्राह्यभावेन हेतुनाजं प्रकाशते

3.27

मन्दुप्क्च्_3.26
सर्वविशेषप्रतिषेधेन"अथात आदेशो नेति नेति"(बृ.उ.2 । 3 । 6) इति प्रतिपादितस्यात्मनो दुर्बोध्यत्वं मन्यमाना श्रुतिः पुनः पुनरुपायान्तरत्वेन तस्यैव प्रतिपिपादयिषया यद्व्याख्यातं तत्सर्वं निह्नते, ग्राह्यं जनिमद्बुद्धिविषयमपलपति ।
अर्थात्"स एष नेति नेति"(बृ.उ.3 । 1 । 26) इत्यात्मनो ऽदृश्यतां दर्शयन्ती श्रुतिः
उपायस्योपेयनिष्ठतामजानत उपायत्वेन व्याख्यातस्योपेयवद्ग्राह्यता मा भूदित्यग्राह्यभावेन हेतुना कारणेन निह्नुत इत्यर्थः ।
ततश्चैवमुपायस्योपेयनिष्ठतामेव जानत उपेयस्य च नित्यैकरूपत्वमिति तस्यसबाह्याभ्यन्तरमजमात्मतत्त्वं प्रकाशते स्वयमेव ॥26॥
स्तर्त् मन्दुप्क् 3.27
एवं हि श्रुतिवाक्यशतैः सबाह्याभ्यन्तरमजमात्मतत्त्वमद्वयं न ततो ऽन्यदस्तीति निश्चितमेतत् ।
युक्त्या चा7धुनैतदेव पुनर्निर्धार्यत इत्याह-
सतो हि मायया जन्म युज्यते न तु तत्त्वतः ।
तत्त्वतो जायते यस्य जातं तस्य हि जायते

3.28

मन्दुप्क्च्_3.27
तत्रैतत्स्यात्सदाग्राह्यमेव चेदसदेवात्मतत्त्वमिति ।
तन्न, कार्यग्रहणात् ।
यथा सतो मायाविनो मायया जन्म कार्यम् ।
एवं जगतो जन्म कार्यं गृह्यमाणं मायाविनमिव परमार्थसन्तम् आत्मानं जगज्जन्ममायास्पदम् अवगमयति ।
यस्मात्सतो हि विद्यमानात्कारणान्मायानिर्मितस्य हस्त्यादिकार्यस्येव जगज्जन्म युज्यते नासतः कारणात् ।
न तु तत्त्वत एवात्मनो जन्म युज्यते ।
अथ वा सतो विद्यमानस्य वस्तुनो रज्ज्वादेः सर्पादिवन् मायया जन्म युज्यते न तु तत्त्वतो यथा तथाग्राह्यस्यापि सत एवात्मनो रज्जुसर्पवज्जगद्रूपेण मायया जन्म युज्यते ।
न तु तत्त्वत एवाजस्यात्मनो जन्म ।
यस्य पुनः परमार्थसदजमात्मतत्त्वं जगद्रूपेण जायते वादिनो नहि तस्याजं जायत इति शक्यं वक्तुं विरोधात् ।
ततस्तस्यार्थाज्जातं जायत इत्यापन्नं ततश्चानवस्था जाताज्जायमानत्वेन ।
तस्मादजमेकमेवात्मतत्त्वमिति सिद्धम् ॥27॥
स्तर्त् मन्दुप्क् 3.28
असतो मायया जन्म तत्त्वतो नैव युज्यते ।
वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते

3.29

मन्दुप्क्च्_3.28
असद्वादिनामसतो भावस्य मायया तत्त्वतो वा न कथञ्चन जन्म युज्यते, अदृष्टत्वात् ।
न हि वन्ध्यापुत्रो मायया तत्त्वतो वा जायते तस्मादत्रासद्वादो दूरत एवानुपपन्ने7त्यर्थः ॥28॥
स्तर्त् मन्दुप्क् 3.29
कथं पुनः सतो माययैव जन्मेत्युच्यते-
यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः ।
तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः

3.30

मन्दुप्क्च्_3.29
यथा रज्ज्वां विकल्पितः सर्पो रज्जुरूपेणावेक्ष्यमाणः सन्नेवं मनः परमार्थविज्ञप्त्यात्मरूपेणावेक्ष्यमाणं सद् ग्राह्यग्राहकरूपेण द्वयाभासं स्पन्दते स्वप्ने मायया, रज्ज्वामिव सर्पः ।
तथा तद्वदेव जाग्रज्जागरिते स्पन्दते मायया मनः स्पन्दत इवेत्यर्थः ॥29॥
स्तर्त् मन्दुप्क् 3.30
अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन् न संशयः

3.31

मन्दुप्क्च्_3.30
रज्जुरूपेण सर्प इव परमार्थत आत्मरूपेणाद्वयं सद्द्वयाभासं मनः स्वप्ने न संशयः ।
न हि स्वप्ने हस्त्यादि ग्राह्यं तद्ग्राहकं वा चक्षुरादिद्वयं विज्ञानव्यतिरेकेणास्ति ।
जाग्रदपि तथैवेत्यर्थः ।
परमार्थसद्विज्ञानमात्राविशेषात् ॥30॥
स्तर्त् मन्दुप्क् 3.31
रज्जुसर्पवद्विकल्पनारूपं द्वैतरूपेण मन एवेत्युक्तम् ।
तत्र किं प्रमाणमित्यन्वयव्यतिरेकलक्षणमनुमानमाह ।
कथम्-
मनोदृश्यम् इदं द्वैतं यत् किञ्चित् सचराचरम् ।
मनसो ह्य् अमनीभावे द्वैतं नैवोपलभ्यते

3.32

मन्दुप्क्च्_3.31
तेन हि मनसा विकल्प्यमानेन दृश्यं मनोदृश्यमिदं द्वैतं सर्वं मन इति प्रतिज्ञा ।
तद्भावे भावात्तदभावे ऽभावात् ।
मनसो ह्यमनीभावे निरोधे विवेकदर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इत्यभावात्सिद्धं द्वैतस्यासत्वमित्यर्थः ॥31॥
स्तर्त् मन्दुप्क् 3.32
कथं पुनरमनीभावः? इत्य् उच्यते-
आत्मसत्यानुबोधेन न संकल्पयते यदा ।
अमनस्तां तदा याति ग्राह्याभावे तदग्रहम्

3.33

मन्दुप्क्च्_3.32
आत्मैव सत्यमात्मसत्यं मृत्तिकावत्"वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्"(छा.उ.6 । 1 । 4) इति श्रुतेस् तस्य शास्त्राचार्योपदेशमन्ववबोध आत्मसत्यानुबोधः ।
तेन संकल्प्याभावतया न संकल्प्यते, दाह्याभावे ज्वलनमिवाग्नेः, यदा यस्मिन्काले तदा तस्मिन्काले ऽमनस्ताममनोभावं याति; ग्राह्याभावे तन्मनो ऽग्रहं ग्रहणविकल्पनावर्जितमित्यर्थः ॥32॥
स्तर्त् मन्दुप्क् 3.33
यद्यसदिदं द्वैतं केन स्वमजमात्मतत्त्वं विबुध्यते? इत्य् उच्यते-
अकल्पमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ।
ब्रह्म ज्ञेयम् अजं नित्यम् अजेनाजं विबुध्यते

3.34

मन्दुप्क्च्_3.33
अकल्पकं सर्वकल्पनावर्जितमत एवाजं ज्ञानं ज्ञप्तिमात्रं ज्ञेयेन परमार्थसता ब्रह्मणाभिन्नं प्रचक्षते कथयन्ति ब्रह्मविदः ।
न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते ऽग्न्युष्णवत्"विज्ञानमानन्दं ब्रह्म"(बृ.उ.3 । 9 । 28) "सत्यं ज्ञानमनन्तं ब्रह्म"(तै.उ.2 । 1) इत्यादिश्रुतिभ्यः ।
तस्यैव विशेषणं ब्रह्म ज्ञेयं यस्य स्वस्य तदिदं ब्रह्मज्ञेयमौष्ण्यस्येवाग्निवदभिन्नम् ।
तेनात्मस्वरूपेणाजेन ज्ञानेनाजं ज्ञेयमात्मतत्त्वं स्वयमेव विबुध्यते ऽवगच्छति ।
नित्यप्रकाशस्वरूप इव सविता नित्यविज्ञानैकरसघनत्वान्न ज्ञानान्तरमपेक्षत इत्यर्थः ॥33॥
स्तर्त् मन्दुप्क् 3.34
आत्मसत्यानुबोधेन सङ्कल्पमकुर्वद्बाह्यविषयाभावे निरिन्धनाग्निवत्प्रशान्तं निगृहीतं निरुद्धं मनो भवतीत्युक्तम् ।
एवं च मनसो ह्यमनीभावे द्वैताभावश्चोक्तः ।
तस्यैवम्-
निगृहीतस्य मनसो निर्विकल्पस्य धीमतः ।
प्रचारः स तु विज्ञेयः सुषुप्ते ऽन्यो न तत्समः

3.35

मन्दुप्क्च्_3.34
निगृहीतस्य निरुद्धस्य मनसो निर्विकल्पस्य सर्वकल्पनावर्जितस्य धीमतो विवेकवतः प्रचारो यः स तु प्रचारो विशेषेण ज्ञेयो योगिभिः ।
ननु सर्वप्रत्ययाभावे यादृशः सुषुप्तस्थस्य मनसः प्रचारस्तादृश एव निरुद्धस्यापि प्रत्ययाभावाविशेषात्किं तत्र विज्ञेयमिति ।
अत्रोच्यते- नैवम्; यस्मात्सुषुप्ते ऽन्यः प्रचारो ऽविद्यामोहतमोग्रस्तस्यान्तर्लीनानेकानर्थप्रवृत्तिबीजवासनावतो मनस आत्मसत्यानुबोधहुताशविप्लुष्टाविद्यानर्थप्रवृत्तिबीजस्य निरुद्धस्यान्य एव प्रशान्तसर्वक्लेशरजसः स्वतन्त्रः प्रचारः ।
अतो न तत्समः ।
तस्माद्युक्तः स विज्ञातुमित्यभिप्रायः ॥34॥
स्तर्त् मन्दुप्क् 3.35
प्रचारभेदे हेतुमाह-
लीयते हि सुषुप्ते तन् निगृहीतं न लीयते ।
तद् एव निर्भयं ब्रह्म ज्ञानलोकं समन्ततः

3.36

मन्दुप्क्च्_3.35
लीयते सुषुप्तो हि यस्मात्सर्वाभिरविद्यादिप्रत्ययबीजवासनाभिः सह तमोरूपमविशेषरूपं बीजभावमापद्यते तद्विवेकविज्ञानपूर्वकं निरुद्धं निगृहीतं सन्न लीयते तमोबीजभावं नापद्यते ।
तस्माद्युक्तः प्रचारभेदः सुषुप्तस्य समाहितस्य मनसः ।
यथा ग्राह्यग्राहकाविद्याकृतमलद्वयवर्जितं तदा परमद्वयं ब्रह्मैव तत्संवृत्तमित्यतस्तदेव निर्भयं द्वैतग्रहणस्य भयनिमित्तस्याभावत् ।
शान्तमभयं ब्रह्म, यद्विद्वान्न बिभेति कुतश्चन ।
तदेव विशेष्यते ज्ञाप्तिर्ज्ञानमात्मस्वभावचैतन्यं तदेव ज्ञानमालोकः प्राकाशो यस्य तद्ब्रह्म ज्ञानालोकं विज्ञानैकरसघनमित्यर्थः ।
समन्ततः समन्तासर्वतो व्योमवन्नैरन्तर्येण व्यापकमित्यर्थः ॥35॥
स्तर्त् मन्दुप्क् 3.36
अजम् अनिन्द्रम् अस्वप्नम् अनामकम् अरूपकम् ।
सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन

3.37

मन्दुप्क्च्_3.36
जन्मनिमित्ताभावात्सबाह्याभ्यन्तरमजम् ।
अविद्यानिमित्तं हि जन्म रज्जुसर्पवदित्यवोचाम ।
सा चाविद्यात्मसत्यानुबोधेन निरुद्धा यतो ऽजमत एवानिद्रम् ।
अविद्यालक्षणानादिर्माया निद्रा ।
स्वापात्प्रबुद्धौऽद्वैयस्वरूपेणात्मनातो ऽस्वप्नम् ।
अप्रबोधकृते ह्यस्यनामरूपे ।
प्रबोधाच्च ते रज्जुसर्पवद्विनष्ठ इति न नाम्नाभिधीयते ब्रह्म रूप्यते वा न केनचित्प्रकारेणेत्यनामकरूपकं च तत् ।
"यतो वाचो निवर्तन्ते"(तै.उ.2 । 4 । 1) इत्यादिश्रुतेः ।
किं च सकृद्विभातं सदैव विभातं सदा भारूपमग्रहणान्यथाग्रहणाविर्भावतिरोभाववर्जितत्वात् ।
ग्रहणाग्रहणे हि रात्र्यहनी तमश्चाविद्यालक्षणं सदाप्रभातत्वे कारणम् ।
तदभावान्नित्यचैतन्यभारूपत्वाच्च युक्तं सकृद्विभातमिति ।
अत एव सर्वं च तज्ज्ञस्वरूपं चेति सर्वज्ञम् ।
नेह ब्रह्मण्येवंविध उपचरणमुपचारः कर्तव्यः ।
यथान्येषामात्मस्वरूपव्यतिरेकेण समाधानाद्युपचारः ।
नित्यशुद्धबुद्धमुक्तस्वभावत्वाद्ब्रह्मणः कथञ्चन न कथञ्चिदपि कर्तव्यसंभवो ऽविद्यानाश इत्यर्थः ॥36॥
स्तर्त् मन्दुप्क् 3.37
अनामकत्वाद्युक्तार्थसिद्धये हेतुमाह-
सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः ।
सुप्रशान्तः सकृज्ज्योतिः समाधिर् अचलो ऽभयः

3.38

मन्दुप्क्च्_3.37
अभिलप्यते ऽनेनेत्यभिलापो वाक्करणं सर्वप्रकारस्याभिधानस्य, तस्माद्विगतः ।
वागत्रोपलक्षणार्था सर्वब्रह्मकरणवर्जित इत्येतत् ।
तथा सर्वचिन्तासमुत्थितः ।
चिन्त्यते ऽनयेति चिन्ता बुद्धिस्तस्याः समुत्थितो ऽन्तः करणवर्जित इत्यर्थः"अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः" (मु.उ.2 । 1 । 2) इत्यादिश्रुतेः ।
यस्मात्सर्वविषयवर्जितो ऽतः सुप्रशान्तः, सकृज्ज्योतिः सदैव ज्योतिरात्मचैन्यस्वरूपेण, समाधिः समाधिनिमित्तप्रज्ञावगम्यत्वात्, समाधीयते ऽस्मिन्निति वा समाधिः, अचलो ऽविक्रियः, अत एवाभयो विक्रियाभावात् ॥37॥
स्तर्त् मन्दुप्क् 3.38
यस्माद्ब्रह्मैव समाधिरचलो ऽभय इत्युक्तः-
ग्रहो न तत्र नोत्सर्गश् चिन्ता यत्र न विद्यते ।
आत्मसंस्थं तदा ज्ञानम् अजाति समतां गतम्

3.39

मन्दुप्क्च्_3.38
न तत्र तस्मिन्ब्रह्मणि ग्रहो ग्रहणमुपादानम्, नोत्सर्ग उत्सर्जनं हानं वा विद्यते ।
यत्र हि विक्रिया तद्विषयत्वं वा तत्र हानोपादाने स्यातां न तद्द्वयमिह ब्रह्मणि संभवति ।
विकारहेतोरन्यस्याभावान्निरवयवत्वाच्च ।
अतो न तत्र हानोपादान इत्यर्थः ।
चिन्ता यत्र न विद्यते ।
सर्वप्रकारैव चिन्ता न संभवति यत्रामनस्त्वात्कुतस्तत्र हानोपादान इत्यर्थः ।
यदैवात्मसत्यानुबोधो जातस्तदैवात्मसंस्थं विषयाभावादग्न्युष्णवदात्मन्येव स्थितं ज्ञानम्, अजाति जातिवर्जितम्, समतां गतं परं साम्यमापन्नं भवति ।
यदादौ प्रतिज्ञातमतो वक्ष्याम्यकार्पण्यमजाति समतां गतमितीदं तदुपपत्तितः शास्त्रतश्चोक्तमुपसंह्रियते, अजाति समतां गतमिति ।
एतस्मादात्मसत्यानुबोधात्कार्पण्यविषयमन्यत्"यो वै9तदक्षरं गार्ग्यविदित्वास्माल्लौकात्प्रैति स कृपणः"(बृ.उ.3 । 8 । 10) इति श्रुतेः ।
प्राप्यैतत्सर्वः कृतकृत्यो ब्राह्मणो भवतीत्यभिप्रायः ॥38॥
स्तर्त् मन्दुप्क् 3.39
यद्यपीदमित्थं परमार्थतत्त्वम्-
अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः ।
योगिनो बिभ्यति ह्य् अस्माद् अभये भयदर्शिनः

3.40

मन्दुप्क्च्_3.39
अस्पर्शयोगो नामायं सर्वसंबन्धाख्यस्पर्शवर्जितत्वादस्पर्शयोगो नाम वै स्मर्यते प्रसिद्धमुपनिषत्सु ।
दुःखेन दृश्यत इति दुर्दर्शः सर्वैर्योगिभिर् वेदान्तविहितविज्ञानरहितैः सर्वयोगिभिः ।
आत्मसत्यानुबोधायासलभ्य एवेत्यर्थः ।
योगिनो बिभ्यति ह्यस्मात्सर्वभयवर्जितादप्यात्मनाशरूपमिमं योगं मन्यमाना भयं कुर्वन्त्य् अभये ऽस्मिन्भयदर्शिनो भयनिमित्तात्मनाशदर्शनशीला अविवेकिन इत्यर्थः ॥39॥
स्तर्त् मन्दुप्क् 3.40
येषां पुनर्ब्रह्मस्वरूपव्यतिरेकेण रज्जुसर्पवत् कल्पितमेव मन इन्द्रियादि च न परमार्थतो विद्यते तेषां ब्रह्मस्वरूपाणामभयं मोक्षाख्या चाक्षया शान्तिः स्वभावत एव सिद्धा नान्यायत्ता नोपचारः कथञ्चनेत्यवोचाम ।
ये त्वतो ऽन्ये योगिनो मार्गगा हीनमध्यमदृष्टयो मनो ऽन्यदात्मव्यतिरिक्तमात्संबन्धि पश्यन्ति तेषामात्मसत्यानुबोधरहितानाम्-
मनसो निग्रहायत्तम् अभयं सर्वयोगिनाम् ।
दुःखक्षयः प्रबोधश् चाप्य् अक्षया शान्तिर् एव च

3.41

मन्दुप्क्च्_3.40
मनसो निग्रहायत्तमभयं सर्वेषां योगिनाम् ।
किं च दुःखक्षयो ऽपि, न ह्यात्मसंबन्धिनि मनसि प्रचलिते दुःखक्षयो ऽस्त्य् अविवेकिनाम् ।
किं चात्मप्रबोधो ऽपि मनोनिग्रहायत्त एव ।
तथाक्षयापि मोक्षाख्या शान्तिस् तेषां मनोनिग्रहायत्तैव ॥40॥
स्तर्त् मन्दुप्क् 3.41
उत्सेक उदधेर् यद्वत् कुशाग्रेणैकबिन्दुना ।
मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः

3.42

मन्दुप्क्च्_3.41
मनोनिग्रहो ऽपि तेषामुदधेः कुशाग्रेणैकबिन्दुनो9त्सेचनेन शोषणव्यवसायवद्व्यवसायवतामनवसन्नान्तः करणानामनिर्वेदादपरिखेदतो भवतीत्यर्थः ॥41॥
स्तर्त् मन्दुप्क् 3.42
किमपरिखिन्नव्यवसायमात्रमेव मनोनिग्रह उपायः? न, इत्युच्यते ।
उपायेन निगृह्णीयाद् विक्षिप्तं कामभोगयोः ।
सुप्रसन्नं लये चैव यथा कामो लयस् तथा

3.43

मन्दुप्क्च्_3.42
अपरिखिन्नव्यवसायवान्सन् वक्ष्यमाणेनोपायेन कामभोगविषयेषु विक्षिप्तं मनो निगृह्णीयान्निरुन्ध्यादात्मन्येवेत्यर्थः ।
किं च लीयते ऽस्मिन्निति सुषुप्तो लयस्तस्मिंल्लये च सुप्रसन्नम् आयासवर्जितं अपी7त्येतत्, निगृह्णीयादित्यनुवर्तते ।
सुप्रसन्नं चेत्कस्मान्निगृह्यत इत्युच्यते ।
यस्माद्यथा कामो ऽनर्थहेतुस्तथा लयो ऽपि ।
अतः कामविषयस्य मनसो निग्रहवल्लयादपि निरोद्धव्यमित्यर्थः ॥42॥
स्तर्त् मन्दुप्क् 3.43
कः स उपायः? इत्युच्यते-
दुःखं सर्वम् अनुस्मृत्य कामभोगान् निवर्तयेत् ।
अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति

3.44

मन्दुप्क्च्_3.43
सर्वं द्वैतमविद्याविजृम्भितं दुःखमेवेत्यनुस्मृत्य कामभोगात्कामनिमित्तो भोग इच्छाविषयस्तस्माद्विप्रसृतं मनो निवर्तयेद्वैराग्यभावनयेत्यर्थः ।
अजं ब्रह्मसर्वमित्येतच्छास्त्राचार्योपदेशतो ऽनुस्मृत्य तद्विपरीतं द्वैतजातं नैव तु पश्यति, अभावात् ॥43॥
स्तर्त् मन्दुप्क् 3.44
लये संबोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः ।
सकषायं विजानीयात् समप्राप्तं न चालयेत्

3.45

मन्दुप्क्च्_3.44
एवमनेन ज्ञानाभ्यासवैराग्यद्वयोपायेन लये सुषुप्ते लीनं संबोधयेन्मन आत्मविवेकदर्शनेन योजयेत् ।
चित्तं मन इत्यनर्थान्तरम् ।
विक्षिप्तं च कामभोगेषु शमयेत्पुनः ।
एव पुनः पुनरभ्यस्यतो लयात्संबोधितं विषयेभ्यश्च व्यावर्तितं नापि साम्यापन्नमन्तरालावस्थं सकषायं सरागं बीजसंयुक्तं मन इति विजानीयात् ।
ततो ऽपि यत्नतः साम्यमापादयेत् ।
यदा तु समप्राप्तं भवति समप्राप्त्यभिमुखीभवतीत्यर्थः, ततस्तन्न विचालयेद्विषयाभिमुखं न कुर्यादित्यर्थः ॥44॥
स्तर्त् मन्दुप्क् 3.45
नास्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत् ।
निश्चलं निश्चरच् चित्तम् एकीकुर्यात् प्रयत्नतः

3.46

मन्दुप्क्च्_3.45
समाधित्सतो योगिनो यत्सुखं जायते तन्नाखादयेत्, तत्र न रज्येतेत्यर्थः ।
कथं तर्हि? निःसङ्गो निःस्पृहः प्रज्ञया विवेकबुद्ध्या यदुपलभ्यते सुखं तदविद्यापरिकल्पितं मृषैवेति विभावयेत् ।
ततो ऽपि सुखरागान्निगृह्णीयादित्यर्थः ।
यथा पुनः सुखरागान्निवृत्तं निश्चलस्वभावं सन्निश्चरद्बहिर्निर्गच्छद्भवति चित्तं ततस्ततो नियम्योक्तोपायेनात्मन्येवैकीकुर्यात्प्रयत्नतः ।
चित्तस्वरूपसत्तामात्रमेवापादयेदित्यर्थः ॥45॥
स्तर्त् मन्दुप्क् 3.46
यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।
अनिङ्गनम् अनाभासं निष्पन्नं ब्रह्म तत् तदा

3.47

मन्दुप्क्च्_3.46
यथोक्तोपायेन निगृहीतं चित्तं यदा सुषुöए न öईयतेन च पुनर्विषयेषुविक्षिप्यते, अनिङ्गनमचलं निवातप्रदीपकल्पम्, अनाभासं न केनचित्कल्पितेन विषयभावेनावभासत इति, यदैवंलक्षणं चित्तं तदा निष्पन्नं ब्रह्म बह्मस्वरूपेण निष्पन्नं चित्तं भवतीत्यर्थः ॥46॥
स्तर्त् मन्दुप्क् 3.47
स्वस्थं शान्तं सनिर्वाणम् अकथ्यं सुखम् उत्तमम् ।
अजम् अजेन ज्ञेयेन सर्वज्ञं परिचक्षते

3.48

मन्दुप्क्च्_3.47
यथोक्तं परमार्थसुखमात्मसत्यानुबोधलक्षणं स्वस्थं स्वात्मनि स्थितम्, शान्तं सर्वानर्थोपशमरूपम्, सनिर्वाणं निर्वृतिनिर्माणं कैवल्यं सह निर्वाणेन वर्तते, तच्चाकथ्यं न शक्यते कथयितुम्, अत्यन्तासाधारणविषयत्वात्, सुखमुत्तमं निरतिशयं हि तद्योगिप्रत्यक्षमेव ।
न जातमित्यजं यथा विषयविषयम् ।
अजेनानुत्पन्नेन ज्ञेयेनाव्यतिरिक्तं सत्स्वेन सर्वज्ञरूपेण सर्वज्ञं ब्रह्मैव सुखं परिचक्षते कथयन्ति ब्रह्मविदः ॥47॥
स्तर्त् मन्दुप्क् 3.48
सर्वो ऽप्ययं मनोनिग्रहादिर्मृल्लोहादिवत्सृष्टिरुपासना चोक्ता परमार्थस्वरूपप्रतिपत्युपायत्वेन न परमार्थसत्येति ।
परमार्थसत्यं तु
न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते ।
एतत् तद् उत्तमं सत्यं यत्र किञ्चिन् न जायते

मूल पाठ: Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc