मानवगृह्यसूत्र · अध्याय 1.7
इति मानवे षष्ठः खण्डः ॥6॥
सप्तमः खण्डः
अथोपनिषदर्हाः ।
ब्रह्मचारी सुचरिति मेधावी कर्मकृद्धनदः प्रियो विधां वा विद्यायान्वेष्यन्
तानि तीर्थानि ब्रह्मणः
भार्यां विन्दते
कृत्तिका स्वाति पूर्वैरिति वरयेत्
रोहिणीमृगशिरः श्रवणाश्रविष्ठोत्तराणीत्युपयमे तथोद्वाहे यद्वा पुण्योक्तम्
पञ्च विवाहकारकाणि भवन्ति वित्तं रूपं विद्या प्रज्ञा बान्धव इति
एकालाभे वित्तं विसृजेद् द्वितीयालाभे रूपं तृतीयालाभे विद्यां प्रज्ञायां बान्धव इति च विवहन्ते
बन्धुमतीं कन्यामस्पृष्टमैथुना समानवर्णासमानप्रवरां यवीयसीं नग्निकां श्रेष्ठाम्
विज्ञानमस्याः कुर्यादष्टौ लोष्ठानाहरेसीता- लोष्ठं वेदिलोष्ठं दूर्वालोष्ठं गोमयलोष्ठं फलवतो वृक्षस्यधस्ताल्लोष्ठं श्मशानलोष्ठ मध्वलोष्ठभिरीणलोष्ठमिति
देवागारे स्थापयित्वाथ कन्यां ग्राहयेत् यदि स्मशानलोष्ठं गृह्णीयादध्वलोष्ठभिरिणलोष्ठं वा नो पयमेत्
संजुष्टां धर्मेणोपयच्छेत ब्राह्मेण शौल्केन वा
शतमिति रथं दद्यात् गोमिथुनं वा
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0