भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीश्लोकवार्त्तिक · अध्याय 2

2.1

एवं महेश्वरो देवो विश्वात्मत्वेन संस्थितः ।
क्रमिकज्ञानयोगाभ्यां धारणाभिर् उपास्यते ॥

2.2

तत्त्वक्रमं गतद्वैतमलमायादिजालकम् ।
अष्टादशे तत् पटले तत्त्वं सम्यग् विभाव्यते ॥

2.3

प्राणायामादिकं यत्र हेयम् इत्य् एव वर्ण्यते ।
न हि तस्य परां वित्तिं प्रति काचिद् उपायता ॥

2.4

अन्तः संविदि यन् निरूढम् अभितस् तत् प्राणधीविग्रहे संचार्येत कथं तथेति घटताम् अभ्यासयोगक्रमः ।
ये त्व् अभ्यासपथेन संविदम् इमां संस्कर्तुम् अभ्युद्यतास् ते किं कुत्र कुतः कथं विदधताम् इत्य् अत्र संदिह्महे ॥

2.5

अभ्यासो हि पुनः पुनर् अर्थः सो ऽपि च दिक्कालप्रतिभेदात् ।
आभासेतरयोगसमुत्थो देहमनःप्राणाक्षपथे स्यात् ॥

2.6

प्रकाशैकघने रूपे भैरवीये विविक्षवः ।
सकृद्विभातविज्ञानविश्रान्त्यैव सुसंस्थिताः ॥

2.7

अत्रैवातः परं प्रोक्तम् अङ्गं सर्वोपकारि यत् ।
धारणा अपि तद्द्वारनिश्चिताः स्युस् तथात्मिकाः ॥

2.8

नन्व् अप्रतिष्ठे कस् तर्के समाश्वासः प्रकल्प्यताम् ।
किं वा न भवतां तादृग् अप्रतिष्ठाहतं वचः ॥

2.9

तथा ह्य् आगम एवैकं प्रमाणम् इति निश्चितैः ।
तद्विरुद्धागमव्राते सति निश्चीयतां कथम् ॥

2.10

महाजनप्रसिद्धिस् तु तत्र प्रामाण्यकारणम् ।
अप्रतिष्ठा तद्विरुद्धमहाजनसुसंभवात् ॥

2.11

प्रत्यक्षम् अपि रुच्यादौ दृष्टबाधकसंविदम् ।
उत्तरोत्तरविज्ञानानवस्थाभाजनं ननु ॥

2.12

स्वसंविद् अपि तत्रैव बाधितेति कथं किल ।
व्यवहारम् अयं कुर्याद् भेदसंधानपण्डितः ॥

2.13

अस्माकं त्व् अप्रतिष्ठानं न कदाचित् क्वचिद् भवेत् ।
येषां सर्वत्र संपूर्णः परो भैरवसागरः ॥

2.14

विशेषतस् तु तर्कस्य तान् प्रत्य् एवाप्रतिष्ठता ।
ये तर्कार्णवतारात्तपरमामृतसंविदः ॥

2.15

तथा हि सर्वे तर्कांशा अनामृष्टस्वसंविदः ।
सर्वत्र पर्यन्तफलं न शिवं प्रतिपेदिरे ॥

2.16

अभेदसारः सर्वो हि शास्त्रार्थस् तत्प्रपत्तये ।
यस् तत्रोद्भावितो भेदस् तत्र मूढधियो रताः ॥

2.17

तर्कश् च भेदवादांशयुक्तिच्छेदैकपण्डितः ।
नन्व् अभेदे ऽपि तर्कस्य का चिद् अस्त्य् उपयोगिता ॥

2.18

परमाद्वयदृष्टौ च सो ऽपि नैव न संगतः ।
अत एव पराद्वैतं यद् विश्वानुग्रहात्मकम् ।
तस्योपायं परं ब्रूते हृदयं स्पन्दनात्मकम् ॥

2.19

हृदये बोधमये यः स्वविमर्शः पूर्णचिच्चमत्कारः ।
युगपद् द्रागिति हठतो लीनीकृतविश्वतःस्फुरणः ॥

2.20

भावग्रहाद्यचरमदशायोर् उल्लासिनिर्वृतिसुपूर्णः ।
जगदानन्दमयो ऽसौ सामान्यस्पन्द इत्य् उक्तः ॥

2.21

स्फुरणं हृदयस्य यत् किल प्रकटम् इदं विसर्गधाम्नः ।
सद् इति प्रतिभाति यावता त्रिकशक्तौ विशतीह तावता ॥

2.22

तद् इदं हृदयं निरुच्यते परमं भैरवसंविदामृतम् ।
इषिदृक्कृतिशक्तिशूलगं परमे धाम्नि विसृज्यते ततः ॥

2.23

परमे भगवत्परात्मनि स्फुरितं विश्वम् इदं चिदात्मकम् ।
शक्तित्रयशूलगं ततः शाम्भवभूमिविसर्गवर्त्मना ॥

2.24

तद् अथो सद् इति प्रगीयते तद् इदं पूर्णम् इहाहमात्मकं ।
हृदयं शिवशक्तिसंगमस्फुरणात्मैव सदावभासते ॥

2.25

इह सृष्टिलयस्थितिक्रमाः शतशो वापि सहस्रकोटिशः ।
प्रविभान्ति सदातनात्मना हरविष्ण्वम्बुजहेतुसंचिताः ॥

2.26

इह तु पुरोक्ताद् युक्तिकलापाद् यः प्रविशेत् सद्यो नाशक्तः ।
तं प्रति शाक्तोपायपथेन प्रकटीक्रियते हृदयस्पन्दः ॥

2.27

त्रिशूलप्रान्तगप्राणप्रेरणावाप्तहृत्पथः ।
तदन्तर्वर्तिचिच्चन्द्रकलाविश्रान्तितत्परः ॥

2.28

झटित्य् एवाथ तद्भूमित्यागेन प्रोज्झ्य ता दशाः ।
निरानन्दादिकाः पञ्चभूतमध्यव्यवस्थिताः ॥

2.29

त्यजेत् पूर्वां परां क्रामेत् सम्यग्विश्रान्तितत्परः ।
यतो निजानन्दमयी भूमिः शान्तपदानुगा ॥

2.30

निरानन्दपरानन्दौ पुरुषाजातसंगतौ ।
अभेदभिन्नभोग्यौघजनितानन्दजृम्भणात् ॥

2.31

महानन्दस्थितिः कापि वामाचारा समुल्लसेत् ।
भैरवीयमहाधाम्नि स्वीकृताशेषसंविदि ॥

2.32

महानन्दश् चिदानन्दीभूय भूयः प्रवर्तते ।
अस्मिंस् तु स्वीकृताशेषदक्षवामोर्ध्वगत्रिके ॥

2.33

त्रिके सर्वात्मना द्वैताद्वैतसंग्रहणात्मनि ।
अभिन्ना वाथ भिन्ना वा भिन्नाभिन्ना अथापि वा ॥

2.34

भावा निजादिकानन्ददशापञ्चकयोजिताः ।
जायन्ते जगदानन्दसमुद्दामदशाजुषः ॥

2.35

निजानन्दः प्रमात्रंशमात्रनिष्ठनिबन्धनः ।
शून्यतामात्रविश्रान्तेर् निरानन्दात्मिका स्थितिः ॥

2.36

प्रमेयपदविश्रान्तेः परानन्दो ऽप्य् उदेत्य् अलम् ।
अनन्तमेयसंघट्टपूर्णे मेये तु सर्वतः ॥

2.37

प्रमाणाच् चर्वणायोगान् महानन्द इति स्थितिः ।
समस्तमानमेयौघकलनाग्रासकोविदः ॥

2.38

यदा विश्रान्तिम् अभ्येति निरुपाधिसुनिर्भराम् ।
तदा खलु चिदानन्दो यो जडानुपबृंहितः ॥

2.39

न च यत्र स्थितिः कापि विभक्ता जडरूपिणी ।
यत्र को ऽपि व्यवच्छेदो नास्ति यद् विश्वतः स्फुरत् ॥

2.40

यद् अनाहृतसंवित्ति परमामृतबृंहितम् ।
तद् एव जगदानन्दधामास्माकं गुरुर् जगौ ॥

2.41

यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ।
तत्र विश्रान्तिर् आधेया हृदयोच्चारयोगतः ॥

2.42

या तत्र सम्यग् विश्रान्तिस् तत् पराद्वैतम् उच्यते ।
प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥

2.43

चतुष्किकाम्बुजालम्बिलम्बिकासौधसिक्तभूः ।
बन्धमोक्षविभागेन नराद् अन्यत्र योगिना ॥

2.44

अनुत्तरस्वभावेन वाग्व्यापाराभिवर्तिना ।
चिद्विमर्शपराहंकृत्प्रलयोल्लासयोगिना ॥

2.45

उद्योगवशरिक्तेन सद्द्वादशकलात्मना ।
सूर्येणाभासिते भावे पूरिते परिचर्चिते ॥

2.46

तद्ग्रासमन्थरवशाः षोडशाख्यकलाजुषा ।
प्रविष्टेण विबोधाग्नौ सम्यग् विसृजता कलाः ॥

2.47

चतस्रो जीवनीः प्राप्तविसर्गाविकृतस्थितेः ।
अन्तःकृतानन्ततत्त्वकादिक्षान्तेन सर्वतः ॥

2.48

भावानां भावतासारविमर्शाभावहृद्युजा ।
बहिःप्रसवसद्योगिकुलनेत्र्यधिशायिना ॥

2.49

रुद्रयामलभावेन नित्यं या निष्ठितैव ताम् ।
चित्प्राणगुणदेहान्तशक्तिसोपानमालिकाम् ॥

2.50

विसर्गेन विसृज्याथ स्पन्दनोदरवर्तिना ।
विसर्गभूमिम् आश्लिष्य मत्स्योदरदशाजुषम् ॥

2.51

सर्वसर्वगतां सर्वजीवनीं परमां कलाम् ।
त्रिशूलभुवम् आक्रम्य नाडीत्रितयसंगताम् ॥

2.52

विकस्वरां संकुचितां क्रमेणैकात्म्यम् आश्रिताम् ।
भ्रूकुटीबिन्दुनादान्तशक्तिसोपानमालिकाम् ॥

2.53

रासभीवडवास्रावससंकोचविकासिकाम् ।
मुहुर् मुहुर् लीयमानसृष्टभावौघनिर्भराम् ॥

2.54

एकीकृतमहामूलशूलवैसर्गिकास्पदाम् ।
समग्रभावभरणभैरवीयहृदाश्रिताम् ॥

2.55

सर्वापूरणहेवाकसमर्जितपराभिधाम् ।
आद्यन्तरहिताम् एनां विश्वप्रवणशालिनीम् ॥

2.56

हृद्बोधाकाशचिच्चन्द्रचन्द्रिकां त्रितयेशिकाम् ।
देवीं प्राप्य न किं नाम लभते लम्भ्यत्य् अपि ॥

2.57

तद् अत्र भावनादेहगतोपायैः परे सति ।
यदैष प्रविविक्षुः स्याद् योगी तावद् प्रकम्पते ॥

2.58

पूर्वजन्मशताभ्यस्तदेहतादात्म्यनिश्चयः ।
जलपांसुवद् एकत्वं मन्वानश् चिच्छरीरयोः ॥

2.59

भेदाख्यमायारहिते परिपूर्णचिदात्मनि ।
प्रविशेत् प्रथमं यावत् स्वबलाक्रमणक्रमात् ॥

2.60

भवेन् निद्रास्य सा देहावेशशैथिल्यदायिनी ।
कम्प्ररूपैव यावन् नो रूढिर् जाता परात्मनि ॥

2.61

एतद् अव्यक्तलिङ्गं तन्नरशक्तिशिवात्मकम् ।
यत्र विश्वम् इदं लीनं यद् अन्तःस्थं च गम्यते ॥

2.62

किं चाध्वजातम् एतद् देहस्थतयैव पूर्वनिर्णीतम् ।
तस्योन्मेषवशेन स्फुटतां यायात् समावेशः ॥

2.63

चित्तत्त्वस्य विशेषस्पन्ददशाशालिनश् चिदानन्दः ।
शाक्तसमुल्लासभराद् अन्तःकृतमन्त्रवीर्यपरसारः ॥

2.64

नरशक्तिमयम् इदं तद्व्यक्ताव्यक्तं भवेल् लिङ्गं ।
सिद्धिफलप्रसवरसप्रसूनम् इति कथ्यते शास्त्रे ॥

2.65

व्यक्तलिङ्गं तद् उक्तं तु यत् केवलनरात्मकम् ।
एकस्य स्पन्दनस्येयं त्रिधा भेदव्यवस्थितिः ॥

2.66

एतल्लिङ्गज्ञानप्रवियुक्तहृदा वृथैव हि भजन्ते ।
बाह्यस्थलिङ्गपूजां प्रयासमात्रं फलाय न हि तत् स्यात् ॥

2.67

यद् व्यक्तम् आत्मलिङ्गाख्यं नररूपसमाश्रयि ।
देहाभेदमये बाह्ये विश्वस्मिन् भरिते सति ॥

2.68

समुदेति महानन्दभूमौ लीनस्य योगिनः ।
तेनाद्यं लिङ्गम् अभ्येति संमुखीनत्वम् अञ्जसा ॥

2.69

अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः ।
यद्योगिनीनां हृदयं परमानन्दमन्दिरम् ॥

2.70

पूर्वोक्तबीजयोन्यंशविसर्गानन्दमन्दिराः ।
यत्र कामपि तादात्म्यसम्पत्तिं चिन्वते बुधाः ॥

2.71

यत्र प्रयासविरहात् सर्वो ऽसौ देवतागणः ।
आनन्दपूर्णे धाम्न्य् आस्ते नित्योदितचिदात्मकः ॥

2.71

यत्तद्भैरवनाथस्य संकोचेतरभासनम् ।
अविद्यमानसंकोचविकासस्यापि भासते ॥

2.72

यत्तत्समाप्तिसंघट्टसमुत्थानन्दधारया ।
अवसिक्तम् इदं विश्वम् अपोज्झति पुराणताम् ॥

2.73

तत्र प्रवेशने यत्नः कार्यत्वेन प्रयासकृत् ।
यतः सदोदितो भानुः किं दीपेन विचार्यते ॥

2.74

यदि स्वात्मस्थितो योगी शिवचित्स्पन्दभूमिगः ।
यदि वा बाह्यभावौघविशेषयोगिनीकुलनन्दनः ॥

2.77

घटाभावे ऽपि सामान्यस्पन्दाभासमयीं स्थितिम् ।
परभैरवमुद्रां ताम् अन्तर्लक्षबहिर्दृशम् ॥

2.78

यद् आश्रयति शैवी सा परा देवी ततः पुनः ।
स्वातन्त्र्यहेलानिर्मेये तत्तदर्थक्रियामये ॥

2.79

भावौघे सोत्सुकौन्मुख्यविमर्शरसयोगतः ।
विशेषस्पन्दसद्भूमिं शक्तिं संस्पृश्य वर्तते ॥

2.80

एतेनाधिष्ठिता धाम्ना स्वमन्त्रास्तत्प्रकाशने ।
यान्ति स्वातन्त्रयोगित्वं विचित्रास्वपि सिद्धिषु ॥

2.81

हानादानतिरस्कारवृत्तौ रूढिम् उपागतः ।
सर्वभासनयोगेन भासमानं चिदात्मना ॥

2.82

अभेदवृत्तितः पश्यन् दृश्यं चितिचमत्कृतेः ।
अर्थक्रियार्थितादैन्यकारितां कातरां स्थित्म् ॥

2.83

विहाय यावद् आसीत तावच् छांभवभूमिकाम् ।
भैरवीम् आविशत्य् एव परां भूमिम् अयत्नतः ॥

2.84

एतदाविष्टसंवित्ति सर्वम् एव निरीक्ष्यते ।
प्रकाशरूपताक्रान्तं चैतन्यं हि प्रकाशते ॥

2.85

न चाप्रकाशं प्राकाश्ययोगाद् एति प्रकाशताम् ।
इति विस्तरतः पूर्वं प्रकाशितम् इदं यतः ॥

2.86

महासाहससंयोगविलीनाखिलवृत्तिकः ।
पुञ्जीभूतस्वरश्म्योघनिर्भरीभूतमानसः ॥

2.87

अकिंचिच्चिन्तकः स्पष्टदृष्टभेदोज्झितस्थितिः ।
यावद् आसीत तावत् तु पूर्वोक्ता एव भूमयः ॥

2.88

सांमुख्यं यान्ति संसारसद्मदाहैकहेतवः ।
यश् च दिव्यो ऽक्षसंघातो भेदरूढितिरोहितः ॥

2.89

स्वातन्त्र्यपोषकक्रीडामात्रोपकरणात्मकः ।
यदा निमीलनावन्ध्यस् तिष्ठत्य् एकं क्षणं तदा ॥

2.90

तद्द्वारोदितसंबोधमहाज्वालाविलापितम् ।
विश्वम् अभ्येति परमानन्दसागरशायिताम् ॥

2.91

तद्रसापानविश्रान्तः संविद्देवीः प्रतर्पयन् ।
अचिराद् एति मरणजन्मत्रासविहीनताम् ॥

2.92

आश्यानभावं हि गता स्वसंविद्देहेन्द्रियज्ञेयमयत्वम् आप्ता ।
युक्त्या तु सा प्राप्तविलीनभावात् संविद्घनं स्वं वपुर् एव याति ॥

2.93

युक्त्या ययैव बाह्यार्थविवशीकृतचेतसाम् ।
व्युत्थितिर् जायते सैव भैरवानन्दसंविदः ॥

2.94

तयैव योगिनीवक्त्रसंप्रदायक्रमाप्तया ।
विधूतकल्मषावेशा तिष्ठते चिन्मयी स्थितिः ॥

2.95

वक्त्रम् ईषद् यदा योगी विकासयति संविदः ।
सर्वा इन्द्रियनाड्यन्तश्चक्राक्रमणसंश्रयाः ॥

2.96

तदा विकासं ग्राह्यार्थभेदाभावमयं हठात् ।
प्रयान्ति चिदुन्मुखत्वात् नीलपीतादिभेदवान् ॥

2.97

ग्राह्यग्राहकसंबन्धभेदः सपदि भिद्यते ।
योगिनीवक्त्रसंरूढसंप्रदायक्रमाप्तया ॥

2.98

सद्यो ऽनुभवदायिन्या मुद्रया मुद्रिताखिलः ।
सर्वाधिष्ठातृचिद्रूपसाक्षाद्भैरवतन्द्रितः ॥

2.99

स योगी विस्मयाविष्टो लभते स्वात्मसंविदम् ।
तत्तद्दृश्योदयापाययोगे ऽप्य् अनपयत्स्थिति ॥

2.100

तडागवर्तिनिम्नाम्बु तन्नान्यत्र प्रवर्तते ।
प्रयत्नेनापि तन्मात्रपूरणाय यद् अक्षमम् ॥

2.101

यदा त्वन्तःद्वारवारिधारसंपूरितं रसात् ।
भवेद् भवेयुस्तत्पूर्णाः प्रवाहाः सर्वतोमुखाः ॥

2.102

एवं स्वोल्लासरभसाच् चैतन्यं प्रोन्मिषत्स्वयं ।
अविभागेन भावांशान् स्वात्माभेदेन भासयन् ॥

2.103

मीलनाविषयीभावं श्रयेद् यदि मुहूर्तकं ।
मायाविगलनाद् भूमिर् भैरवीया विराजते ॥

2.104

वैकल्पिको ऽह्यवच्छेदः पश्चाद् यां दर्शयेद् भिदाम् ।
सैव माया स्वतन्त्रस्य भेददृष्टिप्रकाशिनी ॥

2.105

उन्मेषमात्ररूढस्य सा निर्मूला न संभवेत् ।
इत्थं किं बहुनोक्तेन नये ऽनुत्तरात्मनि ॥

2.106

वस्तुतो ऽस्ति न कस्यापि योगाङ्गस्याभ्युपायता ।
स्वरूपं ह्यस्य नीरूपम् अवच्छेदविवर्जनात् ॥

2.107

उपाय ऽप्यनुपायो ऽस्यायागवृत्तिनिरोधतः ।
रेचनपूरणैर् एषा रहिता तनुवातनौः ॥

2.108

तारयत्य् एवम् आत्मानं भेदसागरगोचरात् ।
निमज्जमानम् अप्य् एतन् मनो वैषयिके रसे ॥

2.109

नान्तरार्द्रत्वम् अभ्येति निश्छिद्रं तुम्बकं यथा ।
स्वं पन्थानं हयस्येव मनसो ये निरुन्धते ॥

2.110

तेषां तत्खण्डनयोगाद् धवत्य् उन्मार्गकोटिभिः ।
किंस्विद् एतद् इति प्रायो दुःखे ऽप्य् उत्कण्ठते मनः ॥

2.111

सुखाद् अपि विरज्येत ज्ञानाद् एतद् इदं [त्व् इति] ।
तथाहि गुरुर् आदिक्षद् बहुधा स्वकशासने ॥

2.112

अनादरविरक्त्यैव गलन्तीन्द्रियवृत्तयः ।
यावत् तु विनियम्यन्ते तावत् तावद् विकुर्वते ॥

2.113

प्रत्याहारो ऽपि नामायं यो ऽक्षजाले प्रवर्त्यते ।
बन्धस्यारूढवृत्तेस् तद् वज्रलेपेन बन्धनम् ॥

2.114

अर्थेषु तद्भोगविधौ तदुत्थे \ \ दुःखे सुखे वा गलिताभिशङ्कम् ।
अनाविशन्तो ऽपि निमग्नचित्ता \ \ जानन्ति वृत्तिक्षयसौख्यम् अन्तः ॥

2.115

सत्य् एवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्रियां तस्मै कुर्वति तत्प्रचारचतुरे सत्य् अक्षवर्गे ऽपि च ।
सत्स्व् अर्थेषु रसादिषु स्फुटतरं यद् भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिखचितस् तत् तत्त्वम् आदीयताम् ॥

2.116

अविवेक एव परम् इह संसार इति प्रवादमात्रम् ।
अविवेक एव हि परं निःश्रेयसलाभसोपानम् ॥

2.117

त्यजावधानानि ननु क्व नाम धत्से ऽवधानं विचिनु स्वयं तत् ।
पूर्णे ऽवधानं नहि नाम युक्तं नापूर्णम् अभ्येति च सत्यभावम् ॥

2.118

यत्रैवानन्दयोगः क्वचन ननु भवेत् तत्र पूर्णः स्वभावः --- --- ते वेति तत्र प्रशमपदम् इयाद् यद्य् अयं भेदमोहः ।
तज्ज्ञाने जाग्रदादाव् अपि निखिलपदे चिन्महाचक्रनाथो योगी जायेत नानाव्यवहृतपथगो ऽप्युल्लसन् मन्त्रवीर्यः ॥

2.119

यथा हि कूपं प्रचिकीर्षुर् एव प्राप्ते जले याति कृतित्वम् एकः ।
कश्चित् पुनर् हस्तगतादि[वारि]मात्राद् इत्थं परप्राप्तिविधिर् विचित्रः ॥

2.120

अनुपायम् इदं तस्माद् उपायोपेययोगतः ।
भेदबन्धाद् विमुच्येत कथं वेतरथा जनः ॥

2.121

अनुपाये ऽपि चैतस्मिन् किंचित् सांबन्ध्यवृत्तितः ।
उपायस्योपदेशो ऽयं शास्त्रे ऽत्र बहुधा कृतः ॥

2.122

यथा लिप्यक्षरैर् बालाः सत्ये वर्णात्मनि स्फुटम् ।
प्रवेश्यन्ते तथा मूढैस् तैर् औपायिकैः क्रमात् ॥

2.123

तदर्थम् एव चाद्वैते परतत्त्वे ऽपि सादरम् ।
पूजाध्यानादि शास्त्रे ऽस्मिन्न् उचितं किंचिद् उच्यते ॥

2.124

यत् किंचिन् मनसाह्लादि यत्र क्वापीन्द्रियस्थितौ ।
योज्यते बोधसद्ब्रह्मधाम्नि ब्रह्मबिलात्मनि ॥

2.125

तत्तत्परकुलेशानशक्तिचक्रार्चनाक्रमे ।
प्रयात्य् एवाप्रयत्नेन करणत्वं स्वभावतः ॥

2.126

कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिताम् आत्तैर् मानसतः स्वभावकुसुमैः स्वामोदसंदोहिभिः ।
आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चये ऽहर्निशम् ॥

2.127

एवं यत्र क्वचित् तिष्ठेत् स्वविमर्शस्वभावतः ।
तत्र शक्तित्रयावेशस् त्रिधा तावत् प्रकाशते ॥

2.128

नवधा भासमानस्य प्रोक्तद्वादशचक्रतः ।
विश्रान्तिर् एकक्षणगा साष्टोत्तरशतस्थितिः ॥

2.129

एकैव शतसंख्या च सा स्थितिः प्रविभाव्यते ।
इत्थं यत् किंचनैतस्य वचनं योगिनो भवेत् ॥

2.130

तद् एव जपयोगाय जायते ऽनुत्तरे पथि ।
अन्तरिन्धनसद्भावम् अनपेक्ष्यैव नित्यशः ॥

2.131

यो ज्वलत्य् अखिलाक्षौघप्रसृताग्रशिखाशतः ।
तत्रैव सर्वभावानां प्रवेशश् चेद् विमृश्यते ॥

2.132

नूनं झटिति संप्लुष्टस्थूलरूपतया हठात् ।
यान्ति बोधमहाज्वालाप्रकाशैक्यं स्वरूपतः ।
स एष परमो होमो भैरवीयक्रमे मतः ॥

2.133

निजबोधजठरहुतभुजि भावाः सम्यग्समर्पिता युक्त्या ।
जहति भेदविभागं निजशक्त्या तं समिन्धते यस्मात् ॥

2.134

यद् एव स्वेच्छया सृष्टिस्वाभाव्यवशतः पुरः ।
निर्मिमीते ऽक्षविषयं तद्ध्यानायावकल्पते ॥

2.135

निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति ।
फलार्थिनां काचिद् एव ध्येयत्वेनाकृतिः स्थिता ॥

2.136

यथा ह्य् अभेदसंपूर्णे भावे ऽप्य् उदकम् आहरन् ।
अन्याकृत्यपहानेन घटम् अर्थयते रसात् ॥

2.137

तथैव परमेशाननियतिप्रविजृम्भणात् ।
काचिद् एवाकृतिः कांचित् सूते फलविकल्पनम् ॥

2.138

यस् तु संपूर्णचिद्वृत्तिर् न फलं नाम वाञ्छति ।
तस्य विश्वाकृति ध्यानं सर्वदैव विजृम्भते ॥

2.139

कुलयोगिन उद्रिक्तभैरवीयरसासवात् ।
घूर्णमानस्य यः कश्चित् को ऽप्य् उदेति यथा तथा ॥

2.140

शरीरगः समावेशो मोदनद्रावणात्मकः ।
सा स्वीकृतजगन्मुद्रा मुद्रा नैरुत्तरे मते ॥

2.141

एष योगविधिः को ऽपि कस्यापि हृदि वर्तते ।
यस्य प्रसीदेच् चिच्चक्रं द्राग् अपश्चिमजन्मनः ॥

2.142

लोकेनालोक्यमानो ऽपि देहबन्धविधौ स्थितः ।
अभ्येति योगे रूढे न क्षणात् काम् अपि संविदम् ॥

2.143

अत्रैव त्व् अस्मत्पूर्वाचार्याणां धिषणा भृशम् ।
अभ्यमंस्त भवाभोगविभ्रमाणाम् असंनिधिम् ॥

2.144

वेदसांख्यभवेद्वादन्यायसौगतलौकिकैः ।
पञ्चरात्रक्रियाशास्त्रसिद्धान्तादिभिर् अलम् ॥

2.145

उचितोचितविज्ञानक्रियांशपरिभावकैः ।
सर्वैः स्वप्रक्रियारूढैस् तैस् तैर् औचित्ययोगतः ॥

2.146

यत्र बीजसमावापखननादिक्रियाक्रमः ।
अकारि शाम्भवानेकशाखाभिर् यो ऽतिविस्तृतः ॥

2.147

तस्य चिद्भैरवतरोः फलम् एतद् अनुत्तरम् ।
आश्रमस्थितचर्याद्यैर् जटाजालाञ्जनान्तकैः ॥

2.148

कृतैर् अप्य् अकृतैर् वापि यत्र नो लभ्यते भिदा ।
तत्रैव योगे विश्रान्तिं कुर्वतां भवडम्बरः ॥

2.149

हिमानीव महाग्रीष्मे स्वयम् एव प्रलीयते ।
अलं हि चर्व्यमाणे ऽस्मिन् सरसे संविदासवे ॥

2.150

निस्सरन्ति महोल्लासाः संख्या येषु न विद्यते ।
तेषां च प्रकटीकाराः कृताः प्राग् एव विस्तरात् ।
अत्राभिनवगुप्ते तु तत्त्वे के ऽप्य् एव निश्चिताः ॥

2.151

केतकीकुसुमसौरभे भृशं \ \ भृङ्ग एव रसिको न मक्षिका ।
भैरवीयपरमाद्वयार्चने \ \ को ऽपि रज्यति न भेदमोहितः ॥

2.152

नात्र रूढस्य कार्या स्याच् छुद्धिः काचन कुत्रचित् ।
अशुद्धं हि जगत्य् एव भैरवात्मनि किं भवेत् ॥

2.153

अशुद्धे ऽपि च भूतौघे केन शुद्धिः प्रतायताम् ।
अनवस्था भवेद् इत्थं व्यर्थान्योन्याश्रितिस् तथा ॥

2.154

अशुद्धस्य तिरोधाने शुद्धं नाम प्रलीयते ।
प्रतियोगिकृतं तद् धि न स्वभावेन नीलवत् ॥

2.155

अत एव न कश्चिद् आग्रहो \ \ विषयाणां ग्रहणे ऽप्य् अपोहने ।
परभैरवसंविदात्मनः \ \ स्वयम् एवोच्छलिता हि भोक्तृता ॥

2.156

सर्वम् अत्र विहितं यतो ऽमुना \ \ वर्त्मना सकलम् एव युज्यते ।
मार्गम् एवम् अपहस्त्य किंचन \ \ कापि नैव ननु याति युक्तताम् ॥

2.157

तथाहि दीक्षा नामेयं या मलानां निकर्तनी ।
स भेदवादिनां पक्षे कथं नामोपपद्यते ॥

2.158

तथाहि यो मलो नाम स कथं चित्स्वभावकम् ।
आत्मानम् आवृणीते क्व विभोर् आवरणक्रिया ॥

2.159

न च प्रकाशस् तमसा जातु संव्रियते यतः ।
प्रकाशोदय एवायं ध्वान्तध्वंसक्रियात्मकः ॥

2.160

किं चावरणम् उक्तं हि रश्म्यादेर् गतिधर्मिणः ।
प्रतीघातात्मकं तत् किं विभोर् अगतिधर्मिणः ॥

2.161

अपि वा ज्ञेयतामात्रतिरोधानं हि संवृतेः ।
पटादिना घटादेः स्यान् न स्वरूपान्यथास्थितिः ॥

2.162

न चात्मानश् चिदात्मत्वाज् ज्ञेयत्वम् अधिशेरते ।
तदावरणम् एषां तु शब्देष्व् अपि न शोभते ॥

2.163

नन्व् ईश्वरस्य ते ज्ञेया अणवः कथम् ईदृशम् ।
चिदात्मकं हि न ज्ञेयं चिदात्मत्वतिरोहितेः ॥

2.164

संविज् ज्ञेयेति शब्दो ऽयं वन्ध्या मे जननीत्यदः ।
वाक्यं स्मरयतीव स्वं स्वात्मसब्रह्मचारि यत् ॥

2.165

किंचेश्वरस्य सार्वज्ञ्यं तावता प्रतिहन्यते ।
आवृतान् वेत्ति नाणून् यन् न त्व् एषां काचन क्षतिः ॥

2.166

नन्व् अनावरणे नीले ज्ञातुर् आवरणे सति ।
न दर्शनं तथा बाधा न सर्वज्ञो मलावृतः ॥

2.167

मैवं तत्र हि दृग्रश्मीन् गच्छतः प्रतिहन्ति तत् ।
पटादि न तु विज्ञातुर् अस्त्य् आवरणसंभवः ॥

2.168

मलश् चाव्यापको व्याप्तुर् आवारक इति स्फुटम् ।
घटे ऽपि व्योम्नि संदध्याद् अशून्यत्वं स्वरूपतः ॥

2.169

आत्मनश् चाधिकार्यत्वान् मलः किंचित्करो न चेत् ।
कथम् आवरणायैष शक्तो ननु च भोः किमु ॥

2.170

मलसद्भावमात्रं हि तस्यावरणम् उच्यते ।
मलेन सद्वितीयो ऽणुर् आवृतः परिभाष्यते ॥

2.171

हन्तानेन नयेनैष शिवम् उक्तात्मनाम् अपि ।
स्थितम् आवरणं सत्यं मलसद्भावमात्रतः ॥

2.172

किंचावृतो मलेनात्मा मलम् एव न वेत्ति किम् ।
तदसंवेदने तस्य किं मलान्तरम् उच्यते ॥

2.173

नन्व् अतः किं मलं वेत्तु तर्हि विद्याकले विना ।
सर्वज्ञत्वं भवेत् तच् च मलं विदितम् एव सत् ॥

2.174

जहात्व् आत्माभ्युपायैस् तैस् तैर् विचित्रैः प्रकल्पितैः ।
किंचावरणम् एतेन यस्यात्मनि भवेत् ततः ॥

2.175

घटादौ ज्ञातृकर्तृत्वे कथम् अस्य भविष्यतः ।
ननु विद्याकले किंचिज्ज्ञत्वकर्तृत्वपदे स्मृते ॥

2.176

इत्थं विमूढमतयो वञ्च्यन्ते न तु पण्डिताः ।
जडस्वभावा मायैषा तत्सूतिश् च कलादिकः ॥

2.177

अचिदात्मा कथंकारं चिदभिव्यञ्जनक्षमः ।
अभिव्यक्ता च चिद्विभ्वी किंचित्त्वादिविशेषणैः ॥

2.178

विशेष्यतां कथं नाम सांशवस्तूचितं हि तत् ।
ननु देवः कलाविद्याकरणो व्यञ्जयेच् चितम् ॥

2.179

व्यनक्तु सर्वतो हन्त नास्याशक्तिर् अथाग्रहः ।
मले सदातने चास्य कथं मुक्तिर् भविष्यति ॥

2.180

रोद्ध्री शक्तिर् मलस्यास्ति सा च क्वापि निवर्तते ।
क्वापि प्रवर्तते चेति धिग् इदं मूढभाषितम् ॥

2.181

जडानां को ऽनुसन्धिः स्यात् तं विनैतत् कथं भवेत् ।
अथ तत्रापि देवस्य हेतुताभ्युपगम्यते ॥

2.182

किं निमित्तम् असौ देवस् तां शक्तिं संप्रवर्तयेत् ।
प्रवर्तितां वा किं नाम तां निवर्तयते पुनः ॥

2.183

स्वातन्त्र्याद् इति चेत् पूर्णं तद् एवाश्रीयते न किम् ।
मलस्य ध्वान्तरूपस्य न च पाको ऽपि कश्चन ॥

2.184

स ह्य् अन्यतादानयोगाद् धन्त्य् अमुष्य ध्रुवात्मताम् ।
एतेन मलसंबन्धाद् ईश्वरेच्छाप्रचोदितः ॥

2.185

भोगलोभकथाविष्टः पशुः सृष्ट्यानुगृह्यते ।
इति यद् भण्यते मूलहतं तज्, जनितं ततः ॥

2.186

स्वात्मप्रच्छादनक्रीडामात्रम् एव मलं विदुः ।
स्वतन्त्रो हि विभुः किंचित् किं न स्वात्मनि भासयेत् ॥

2.187

यच् च कर्मापि नामेष्टं तत्तावत् प्रविचार्यताम् ।
तथाहि कर्मसंबन्धे स्थिते ऽपि कथम् ईदृशः ॥

2.188

महाप्रलय उच्यते महासृष्टिश् च वा कथम् ।
नन्व् ईश्वरेच्छया तत्र कर्मायाति निरुद्धताम् ॥

2.189

कर्मौदासीन्ययोगेन कर्मान्तरम् अपेक्षताम् ।
ईश्वरो ऽथ नवा पूर्वपक्षे संभव एव च ॥

2.190

नसंभवे स कुत्रांशे चैश्वर्यम् अधिगच्छतु ।
कर्मतः सर्वम् एवेदं स्यात् सृष्टिप्रलयादिकम् ॥

2.191

अथ कर्मानपेक्षो वा कर्मणां रोधनं ततः ।
सदा निरुद्धान्य् एवेशः कर्माणि कुरुतां विभुः ॥

2.192

ननु तेषां स्वभावो ऽयं यद्भोगप्रसवात्मता ।
कथं स्वभाव एष स्याद् यः परोपाधितां गतः ॥

2.193

अनपेक्षो हि भावानां स्वभावः कर्मणां ततः ।
ईशैषणानपेक्षाणां यद्रूपं तत्स्वकं वपुः ॥

2.194

किं च प्रलयलीनानि कर्माणि स्थितिभाञ्ज्य् अपि ।
किं प्रबोधयते देवः किं नु दृ[सृ]ष्टैर् हि तैः कृतम् ॥

2.195

मलपाकाय चेत् सो ऽपि सुदूरम् अपसारितः ।
किं चात्मा विभुर् एवैष स किं नाम करोति हि ॥

2.196

इति पूर्वं विचारश् च विस्तरेण प्रपञ्चितः ।
मृद्दण्डचक्रसूत्रेषु धीमान् कर्तेश्वरः स्थितः ॥

2.197

कुम्भकारस्य कर्तृत्वं कुत्रांशे न्व् अवतिष्ठताम् ।
अकृष्टपच्यबीजेषु प्ररोहप्रसवादिके ॥

2.198

पूर्वं करोतु हेतुत्वं न सस्येष्व् इति को नयः ।
इदं दुष्कृतम् एतच् च सुकृतं फलभेदतः ॥

2.199

इति यत् प्रविभक्तं किं तत्रास्येच्छैव जृम्भते ।
स्वतन्त्रो यद्य् असौ कस्मात् परपीडाकारीं निजाम् ॥

2.200

इच्छां गृह्णाति यो नित्यं करुणारसनिर्भरः ।
ननु स्वभावात्तत्तादृक् कर्मातः फलदायकम् ॥

2.201

प्रायश्चित्तादिकरणाच् छाम्येच् चेति विचारयन् ।
देवस् तथैव तनुते शास्त्रं चित्रोपदेशकम् ॥

2.202

शैवं, स्वभाव एदादृक् कर्मणाम् इति को नयः ।
बीजम् अङ्कुरसंसूतिस्वभावम् इति मादृशः ॥

2.203

पूर्ववृद्धव्यवहृतेर् विज्ञातुं प्रभविष्णवः ।
ईश्वरस् तु निजेच्छया विना न हि कदाचन ॥

2.204

तस्माद् देवः सर्वकर्ता यदि स्यात् कर्तारः स्युर् नात्मवर्गाः कथंचिद् ।
नो कर्तारस् ते ऽपि चेत् कर्मवन्ध्यान् उद्दिश्यैनान् सर्वकर्ता न देवः ॥

2.205

इत्थं च भेददृष्ट्येदं कर्म नाम न मु[यु]क्तिमत् ।
एतावान् अत्र संक्षोपो व्यासो ऽन्यत्र तु दर्शितः ॥

2.206

संवेदनात्मको देव एकस् तस्मात् स्वतः खलु ।
सर्वकर्ता स वैचित्र्यात् कर्मयोगीति भण्यते ॥

2.207

माया च नाम विश्वस्य या कारणम् इति स्थिता ।
सा धरण्यन्ततत्त्वांशगर्भा नित्या यदि स्फुटम् ॥

2.208

प्रलयो न कदाचित् स्यान् ननु स व्यक्तिभावतः ।
व्यक्तिं नाम न जानीमो विज्ञानं ग्राह्यता यतः ॥

2.209

तदीश्वरपरज्ञानग्राह्यतास्ति सदातनी ।
तस्याम् अविद्यमानायाम् ईश्वरः कारणं कुतः ॥

2.210

स्फुटं प्रकुरुते कुम्भं तद्वद् ईशे भविष्यति ।
मैवम् अन्तर्बहीरूपकरणप्रविभेदतः ॥

2.211

स्फुटास्फुटादिविज्ञानं युक्तं कुम्भकृति स्फुटम् ।
ईश्वरस्य स्फुटोदारपूर्वविज्ञानशालिनः ॥

2.212

को न ज्ञातो भवेद् भागो यत्रापि व्यक्त्यपेक्षिता ।
सत्कार्यवादिनां देशे कारणे ऽपि स्फुटं स्थितम् ॥

2.213

विश्वम् इत्यपि मायायां स्फुटं स्याद् असमञ्जसम् ।
व्यापकाश् च शिवात्मानस् तत्त्वैः साकं परस्परम् ॥

2.214

कथं च नाम विद्यन्तां व्यापकत्वतिरोहितेः ।
विकासः परमो व्याप्तिः संविदो भेद उच्यते ॥

2.215

मायीयं कञ्चुकव्रातं यथा करणसंचयः ।
विचारितः पूर्वम् एव कार्यवर्गश् च चर्चितः ॥

2.216

यावच् छिवपदाध्यासवन्ध्यं विश्वं न विस्फुरेत् ।
तत्स्वातन्त्र्यकथामात्रम् एतद् इत्य् अवधार्यताम् ॥

2.217

एवं मलाद्यभावे हि का दीक्षा को हि दीक्षकः ।
दीक्षापात्रं च को वा स्याद् इति किंचिन् न युज्यते ॥

2.218

शिष्ये ऽध्वन्य् अनले कुम्भे मण्डले स्रुक्करादिके ।
समस्ताध्वकृतो न्यासः कथं वाप्य् उपपद्यताम् ॥

2.219

नहि तावन्त एव स्युर् ननु संकल्पनावशात् ।
शोध्यशोधकभावो ऽयं सर्व एवोदितो ननु ॥

2.220

कल्पितं चेत् फलेत् सत्यं मनोराज्यार्जितश्रियः ।
जयन्ति नाकसाम्राज्यलाभविश्रान्तियोगतः ॥

2.221

किं नाम बलवद्रूपसंकल्पपथवर्तिनः ।
फलन्ति न तथा भावा ध्यानादिविषनाशवत् ॥

2.222

संकल्पदार्ढ्यम् इत्य् एव ध्यानं संशयरूषितम् ।
ध्यानं च न फलेद् एव स्वयं पक्षद्वयाग्रहात् ॥

2.223

हन्त संकल्पनायोगाद् यदि जायेत तत्फलम् ।
किम् असंविन्मयान् भावान् बाह्यान् कांश्चित् अभीप्ससि ॥

2.224

संकल्पेनैव संस्कारः कुण्डाग्निगुरुशिष्यगः ।
स एव च फलाभासी तत्संविद् अवशिष्यते ॥

2.225

संविदश् च स्वतन्त्रायास् तथारूपावभासनम् ।
दीक्षेति किल मन्तव्यं मुञ्च्यन्ते जन्तवो यया ॥

2.226

अत एव तिलाज्यादेः स्वरूपे ग्रहणे मितौ ।
क्रमो वा नियमो नेह कश्चिच् छास्त्रे निरूपितः ॥

2.227

ननु मन्त्रेषु किं नाम नियमः सर्ववर्णभाक् ।
रूपं परं हि कथितं दीक्षापि न तथा कथम् ॥

2.228

एवम् एवार्णदाहस्य यद्भवत्संमतं हितम् ।
किं तु तावति ये रूढिं न प्राप्तास् तान् प्रति ध्रुवम् ॥

2.229

मान्त्रो ऽयं नियमः प्रोक्त उपयोगं च गच्छति ।
प्रतिबुद्धा हि ते मन्त्रा विमर्शपथवर्तिनः ॥

2.230

स्वतन्त्रस्यैव चिद्धाम्न स्वातन्त्र्यात् कर्तृतामयाः ।
मन्त्रा विशन्त्य् एवाचार्यं तं तादात्म्यनियोगतः ॥

2.231

स्वतन्त्रीकुर्वते यान्ति करणान्य् अपि कर्तृताम् ।
इत्थं दीक्षादिविधये ये ऽप्य् अन्ये विधयो मताः ॥

2.232

किं नाम कुर्वतां कृत्यं निषेधं त्व् अपि वा कथम् ।
ते ऽप्य् अत्रैवोपपद्यन्ते तत् सर्वं विहितं त्व् इह ॥

2.233

सर्वं चैतद् अमुत्रैव प्रतिषिद्धं यतः स्फुटम् ।
प्रतिषेधे दर्शिते ऽस्य किं चाद्वैतपथाश्रितः ॥

2.234

प्रतिषेधो ऽपि विहितः सो ऽपि च प्रतिषिध्यते ।
इत्थं स्वसंविदम्भोधिः स्वात्मनि प्रोच्छलत्य् अलम् ॥

2.235

इत्थं च विश्वम् एवेदं जगदानन्दसुन्दरम् ।
तद्विपक्षं च भेदांशम् इत्थं क्षपयतेतराम् ॥

2.236

परमेशमुखोद्भूतज्ञानचन्द्रस्य सर्वतः ।
तावता स्वप्रभाभारभास्वराः सुमरीचयः ॥

2.237

शिवचन्द्रांशुसंघातपातमात्रविलापितः ।
समस्तभावशीतांशुकालकूटो रसायते ॥

2.238

तत्रानिशं निमज्जन्तस् तद्रसापानघूर्णिताः ।
तद्रसीभूय तिष्ठामः शुद्धास् तापत्रयोज्झिताः ॥

2.239

परमेशमुखं तु शक्तिर् उक्ता भवतीच्छा ननु सोद्भवं गता ।
प्रतिपद्यत ईश्वरादिभिन्नस्थितिविज्ञानशशाङ्कशक्तिवृत्तम् ॥

2.240

शशिनः किल तस्य सर्वतो यः परिपूर्णः प्रसृतो मरीचिपुञ्जः ।
इयम् एव हि सा क्रियात्मिकोक्ता परमेशस्य जगन्मयी स्वशक्तिः ॥

2.241

तद् इदं त्रिकशक्तिनिर्भरं परमं भैरवम् एव जृम्भते ।
न तु तद्व्यतिरेकि संभवेत् स्वविजृम्भा विजयो ऽस्य कीर्तितः ॥

2.242

तत एव जगज् जयन्त्य् अमी स्फुटम् अर्थः प्रकटो ऽपि युज्यते नः ।
बहुवाचकयोग ईदृशं तत् परिपूर्णत्वम् अमुष्य वाक्यभेदम् ॥

2.243

इत्य् एक एव श्लोको ऽयं चिदात्मा भैरवः स्वयम् ।
समस्तभावसंदर्भनिर्भरो व्याकृतः स्फुटम् ॥

2.244

संसारगरनाशाय तार्क्ष्याधिष्ठितदृष्टयः ।
विषम् एवोपयुञ्जानाः प्राप्नुवन्त्य् अमृतीं स्थितिम् ॥

2.245

इति दर्शितम् एतावत् स्वप्रकाशस्वसंविदा ।
सिद्धं तद्व्यतिरेकेण न किंचिद् एव कल्पते ॥

2.246

यावत्स्वसंविद्विश्रान्तं यत् तावत् तत् सद् एव हि ।
कालान्तरव्यपेक्षे हि सत्यत्वं स्यान् न कुत्रचित् ॥

2.247

संविदः कालयोगश् च विस्तरेण निवारितः ।
तत् स्वसंविद् यथा देशं वितरेद् वर्तते तथा ॥

2.248

तथा संविद्य् अक्षमय्यां निकषाश्मनि रोपितम् ।
न यत् तत् संशयायैव शास्त्रे ऽप्य् उक्तम् अवस्तु तत् ॥

2.249

स्वसंविद् अनुपारोहि प्रलापान् न विशिष्यते ।
तच् च्छास्त्रं प्रक्रिया सा च यत् संविदि विवर्तते ॥

2.250

हृदयाज् जगतो जाताः सर्वस्यैते क्षयोदयाः ।
स्वप्नस्येव सुषुप्ताख्यात् स्वसंविच्छास्त्रचर्चिताः ॥

2.251

रूपालोकमनस्कारसामग्री संहृतिः स्थितिः ।
सृष्टिर् निमेषोन्मेषौ च सतां संकोचकल्पनम् ॥

2.252

इत्यादिका मातृमेयमानरूपा स्थितिः सदा ।
स्वसंविदः सुपूर्णायाः प्रपञ्चरचना स्वयम् ॥

2.253

सर्वसर्वात्मदिग्देशकालाकारा स्वयं हि सा ।
सत्यमिथ्यात्वनिर्णीतिस् तत एव हि जायते ॥

2.254

आचार्योत्पलदेवो ऽपि तदेतदुपदिष्टवान् ।
बहिः सदसदात्मापि स्वसंविदि मदीयदृक् ॥

2.255

पश्यत्व् इति स्वतन्त्रस्य नियतिः सेन्द्रियाभिधा ।
सैव रूधा शिवाद् आ च क्रिमेः स्वां संविदं श्रिता ॥

2.256

तद् एव देवे संसारः स शिवः परमेईŭवरः ।
तत्र विश्रान्तिम् आपन्नो मुक्त इत्य् अभिधीयते ॥

2.257

एतत्प्रसादाज् जीवन्ति ब्रह्माद्याः स्थावरान्तकाः ।
अविलुप्ता सदा सेयं संवित्तिर् इति गृह्यताम् ॥

2.258

विभान्त्य् अपि हि सा देवी न तया रहितं क्वचित् ।
आत्मानं साधयेत् क्वापि क्वापि दूषयते क्वचित् ॥

2.259

अन्यथैव स्थापयते न च याति विकारिताम् ।
साधन्दूषणान्यत्ववन्ध्यापि परमेश्वरी ॥

2.260

भासते च तथात्वेन तत् स्वतन्त्रा स्फुटा हि सा ।
श्रीमान् महेश्वरो देवः पूर्वेषाम् अपि यो गुरुः ॥

2.261

मूढाः किं निःसारे वायसविरटितकल्पे तिष्टथ वचसि वृथैवं स्वां संविदम् आवर्ज्य ।
संविद्देवतयैव यद् आदिष्टं निकटे ऽप्य् अथ सर्व आद्रियमाणास् तत्तद्देशे जीवन्मुक्ता भवन्ति ॥

2.262

तद् अत्र नीतौ संवित्तिर् एवासौ गुरुर् उच्यते ।
गिरत्य् एव यतो विश्वं सृष्टिसंहृतियोगतः ॥

2.263

तद् अत्र मुख्या या रूढिः संबन्धः पर उच्यते ।
एनया यद् यद् आदिष्टं ज्ञानं सांसिद्धिकं तु तत् ॥

2.264

यत्रास्मद्गुरुवर्गस्य स्थिता नित्यावस्थितिः ।
त्रैयम्बकादिसंतानभेदो यस्मात् प्रवर्तते ॥

2.265

यत्रोक्तं पूर्वम् अज्ञानतादात्म्यं नश्यतीत्यपि ।
स्वसंविदस् तु वैचित्र्यं गृह्णत्या भात्य् अयं ततः ॥

2.266

अन्तरालमहद्दिव्यादिव्यादि शास्त्रसंगमः ।
तत्त्ववन्निजवागंशून् गुरोर् आत्मविनिर्मितान् ॥

2.267

प्राधान्यं प्रकटं स्वसंविदः ।
गुरुतः किल शास्त्रतः स्वतः ।
तद् अयं मुख्यतया कृतः श्रमः ॥

2.268

शास्त्रवृत्तिपरतन्त्रितो गुरुः स्वात्मसंविदि च तत्प्रतिष्ठितम् ।
तेन सर्वम् इदम् आत्मसंविदा सिद्धिम् एति नहि जात्व् असह्यताम् ॥

2.269

एतच् छास्त्रं प्रयत्नेन चर्च्यतां हे मुमुक्षवः ।
मा वृथैवायुर् आयस्तम् अन्यशास्त्रेषु नीयताम् ॥

2.270

अभेददृष्टिर् या काचिद् भेददृष्टिर् अथापि वा ।
सात्रैवायाति निर्वाहं तेनैतत् प्रविचार्यताम् ॥

2.271

स्वप्नकालपरिज्ञानवी[तनिद्रो] यथा तथा ।
एतच्छास्त्रसमभ्यासप्रबुद्धहृदयः सदा ॥

2.272

स्वसंविद् एव तच् छास्त्रं सा चापेक्षाविवर्जिता ।
तथा यद्य् अभिधीयेत स्वतः प्रामाण्यम् उच्यताम् ॥

2.273

शासनं शासितव्यं च शासकं चेति यत् किल ।
तत्तत्राकालकलितं स्वातन्त्र्याद्वैतसुन्दरम् ॥

2.274

ताम् अवस्थितिम् आत्मीयां गर्भीकृत्यानपायिनीम् ।
श्रीकण्ठनाथः प्रोवाच श्रीमत्किरणशासने ॥

2.275

सर्वम् एतत् प्रवृत्त्यर्थं श्रोत्\र्र् णां तु विभेदतः ।
अर्थभेदात् तु भेदो ऽयम् उपचारात् प्रकल्पते ॥

2.276

फलभेदो न कल्प्यो ऽत्र कल्प्यश् चेद् अयथातथम् ।
दशकाष्टादशाष्टाष्टभेदभिन्नम् इदं विभोः ॥

2.277

शिवसद्भावलाभैकफलं तल्लाभप्रोत्सुके ।
अधिकारिण्य् अणौ जातिकुलवर्णाद्यनादरात् ॥

2.278

प्रवृत्तम् एकवाक्यत्वं यावद् आसाद्य वर्तते ।
अङ्गाङ्गिवृत्तवैचित्र्यात् तावद् एकम् इदं विदुः ॥

2.279

त्रिकशास्त्रं तथाभूतो गुरुर् अत्राद्वयात्मकः ।
तदनन्तरवाक्यांशपुञ्जः प्रकरणानि च ॥

2.280

मायीयभेदवृत्तान्तस्फुटभावे भवन्ति च ।
तथापि शिवसंप्राप्तिर् मुख्यम् अन्ते फलं स्थितम् ॥

2.281

अधिकारी चैक एव शिवतावाप्तिभाजनम् ।
तथापि तावन्मात्रे च जाते प्रकरणात्मनि ॥

2.282

यादृक् फलं स्फुतं मुख्यं पर्यन्तफलम् अङ्गि वा ।
तदङ्गं वा तद्विपक्षे परपक्षे परं च वा ॥

2.283

अपि तत्तद्विपक्षांशसमुद्भावनभाजनम् ।
तथोचितशरीरादेस् तथा संस्कारभागिनः ॥

2.284

गुरोः शिष्यस्य चाप्य् उक्तस् तादृशो ऽधिक्रियाक्रमः ।
तथा च मृत्युविध्वंसिरसायनविधिं श्रितः ॥

2.285

पूर्वं संस्कारलाभाय क्वाथवान्तिविरेचनैः ।
दीक्षया या च विकृतिः नोत्तरत्र क्रियाविधौ ॥

2.286

तेनाधिकारिनियमस् तद्देहविदशादिजः ।
तेनोच्यते वैष्णवाद्याः पशुशासनसंश्रिताः ॥

2.287

न शैवे ऽधिकृतास् तन्त्रे न शैवा वामगोचरे ।
ते ऽपि नो दक्षिणे ते ऽपि न स्युः कुलमते त्रिके ॥

2.288

उक्तं श्रीभैरवकुले पञ्चदीक्षाक्रियोचितः ।
गुरुर् उल्लङ्घिताधस्त्यस्रोता वा त्रिकशास्त्रगः ॥

2.289

इत्थम् एकाधिकारित्वम् आत्मतत्त्वसमाश्रयात् ।
संस्काराश्रय .... भेदाद् भिन्नाधिकारिता ॥

2.290

स्वच्छन्दतन्त्रे तेनोक्तं सर्वशास्त्रे शिवः फलम् ।
यतः शिवोद्भवाः सर्वे शिवधामफला इति ॥

2.291

तत्रैव च पुनः प्रोक्तम् ऊर्ध्वतत्त्वविवेचने ।
यन् न सांख्यैर् न योगीन्द्रैर् न प्रिये पाञ्चरात्रिकैः ॥

2.292

इयादि यावद् आक्षिप्तं वादिनां तु शतत्रयम् ।
त्रिषष्ट्या चाधिकं ते हि तावन्मात्रविवेचकाः ॥

2.293

कथं स्युर् अपरिच्छिन्नशिवतत्त्वविदात्मकाः ।
अथ तत्रांशमात्रे ऽपि शिवसद्भावम् एव ते ॥

2.294

आरोपयेयुस् तत् तावन् नैव सुस्पष्टसंगति ।
देवदत्तादिवाक्ये हि सर्वतः पूर्णविग्रहे ॥

2.295

देवदत्तपदश्रोता तावन्मात्रपदे कथम् ।
समग्रपूर्ववाक्यानां समारोपं करिष्यति ॥

2.296

कथं चाधिगमस् तस्य तावतो ऽर्थस्य वाक्यतः ।
तस्माद् एवेति चेत् तर्हि न पदश्रोतृता न च ॥

2.297

तावन्मात्रस्य सो ऽस्त्य् अर्थ इत्थं प्रकृतिगोचरे ।
समग्रशिवशास्त्रार्थज्ञप्त्या संपूर्णरूपया ॥

2.298

योगसांख्यार्हतन्यायपाञ्चरात्रश्रुतिस्मृतीः ।
यद्य् एव शिवतत्त्वेन संपूर्णं परिकल्पयेत् ॥

2.299

तावद् अस्तु न तु स्फारस् तावांस् तत्रेति चर्चितम् ।
ज्ञप्तिश् च शिवतत्त्वस्य तत्संस्कारपुरःसरा ॥

2.300

अन्यथा प्रत्यवायः स्याद् उपदेष्ट्रुपदेश्ययोः ।
तत्संस्कारग्रहश् चेत् स्यात् कामं शास्त्रार्थ ईदृशः ॥

2.301

न तु वैष्णवता तस्य सांख्यता श्रौततापि वा ।
अन्यसंस्कारम् ऊर्ध्वोर्धं गृहीत्वाप्य् अनुतिष्ठति ॥

2.302

वैष्णवाद्य् एव तर्ह्य् अस्य प्रत्यवायो महत्तरः ।
नन्व् अद्वयपदे ऽमुष्मिन् केयं मुख्या प्रकल्पना ॥

2.303

किं ब्रूषे स्वयम् एव त्वं भेदोपहतवृत्तिकः ।
एतद् एव परं द्वैतं भवान् एव संश्रितः ॥

2.304

यद् अहं वैष्णवो भूष्णुः शैवे किं नाधिकारवान् ।
तत् स्वयं भेदमूढस् त्वं भेदे च नियतेर् बलात् ॥

2.305

ततस् तैः प्रत्यवायः स्याद् योग इत्य् उपपादितम् ।
किं च तादात्म्ययोगेन देवता पूज्यते ततः ॥

2.306

विष्णुतादात्म्यम् आपन्नः कथं रुद्रं प्रपूजयेत् ।
गीतासु च ततो गीतं यो यच् छ्रद्धः स एव सः ॥

2.307

तादात्म्यभावना योगाः फलं मन्त्राः स्व }} ।
दद्युस् तद्भावितात्मातः फलकामस्य सिद्धिदः ॥

2.308

मोक्षकामस्य तच् छास्त्रमोक्षलिप्सोर् अपि स्फुटम् ।
तद्दोषभावनाक्रान्तः क्षमस् तावति योजने ॥

2.309

मुख्यस् तावद् अयं कल्पो यो यत्रैव प्रतिष्ठितः ।
नित्यं तादात्म्यम् आपन्नः स तत्राधिकृतस् त्व् इति ॥

2.310

अत एव ततो ग्राह्यं ज्ञानम् इत्य् अभिधीयते ।
स हि तादात्म्यम् आपन्नस् तद्भावनविधिक्रमात् ॥

2.311

शिष्यस् तदैव शास्त्रं तु गृह्णन् पूर्वापरक्रमात् ।
कथं स्वबुद्ध्या संधत्तां तावद् यत् तेन संहितम् ॥

2.312

यस् तु संधातुम् ईहेत स साक्षात् परमेश्वरः ।
तस्य किं वा गुरुः कुर्यात् सो ऽन्येषां गुरुर् उच्यते ॥

2.313

नान्यतो वेदविद्भ्यश् चेत्यत एव हि मन्वते ।
तस्मात् तादात्म्यम् आपन्नो गुरुर् इत्य् अभिधीयते ॥

2.314

स च यावति यत्रैव तत्र तावति नान्यथा ।
ननु वैष्णवशास्त्रार्थस् तत्कालं शिवभावनात् ॥

2.315

तादात्म्यं गुरुतां हन्ति पूर्णधीः प्रलपत्य् अयम् ।
रामरावणनाट्येषु नह्य् एता नटभूमिकाः ॥

2.316

नेपथ्यादिपरावृत्त्या येनान्यत्वं प्रपद्यते ।
वैष्णवो विष्णुर् एवाहं तद्दासो वेति चर्चयन् ॥

2.317

इदानीं न तथास्मीति किम् एतत् सुसमञ्जसम् ।
अत्र ह्य् एकतमा संविन् मिथ्याज्ञानत्वम् अश्नुते ॥

2.318

यया स एव पतितः शिष्यो वा पतितो भवेत् ।
तस्मान् मुख्यो ह्य् अयं कल्पः प्रतिशास्त्रं गुरुर् गुरुः ॥

2.319

उक्तं स्वतन्त्रशास्त्रेषु नासौ सिद्धिफलप्रदः ।
अन्यशास्त्ररतो यः स्यात् तच्छास्त्रनिरतो ऽपि वा ॥

2.320

विष्णोर् भागवता मगाश् च सवितुः शांभोर् जटाभस्मिनो मात्-ऋणाम् अथ मातृमण्डलविदो विप्रास् त्व् अथ ब्रह्मणः ।
शाक्याः सत्त्वहितस्य बुद्धवपुषो नग्नास् तथैवार्हतो यो यैर् देव उपास्यते स्वविधिना तैस् तस्य कार्या क्रिया ॥

2.321

अत एवाधिकज्ञानशाली संनिहितो यदि ।
देशे तत्र भवेन् नाना नाधिकारस्य भाजनम् ॥

2.322

यस् त्व् अस्मिन् पूर्णसंबोधे रूढो वास्तवशासने ।
उत्तरोत्तररूढ्यर्थं शिशोः करणमानसम् (?) ॥

2.323

फलसंपत्तये वापि भावांशवशशालिनः ।
अनुग्रहं स वै कुर्यात् पूर्णत्वाद् ऊर्ध्ववृत्तितः ॥

2.324

नन्व् अद्वये किम् ऊर्ध्वं स्यान् न किंचिद् भेदमोहिताः ।
भवतस् त्व् अधरावस्था भेद एवधरो यतः ॥

2.325

तस्माद् ये केचनान्ये स्युः पशुशासनवर्तिनः ।
वैष्णवाः सौगताः श्रौतास् तथा श्रुत्यन्तवादिनः ॥

2.326

इत्यादयो नाधिकृता जातुचित् पतिशासने ।
उक्तवान् यत्र शास्त्रेष्व् अप्य् अधिकारिविवेचने ॥

2.327

यो वैष्णवो मनुं दद्याच् छैवं मूढमतिः शिशोः ।
तं पापं वञ्चकं त्यक्त्वा शिशुर् न्याय्यं समाचरेत् ॥

2.328

इहाप्य् उक्तं मोक्षदः स्यात् स्वभ्यस्तज्ञानवान् इति ।
अभ्यस्तं च परं ज्ञानं यतो नास्त्य् एव विच्युतिः ॥

2.329

परमाद्वयविज्ञानान् न खल्व् अप्य् अस्ति विच्युतिः ।
स्वात्मपक्षस्थिताशेषज्ञाननिर्भरवृत्तिकः ॥

2.330

कथं को वा कुतो वापि च्यवतां तिष्ठतु क्व वा ।
इत्थं य एष शास्त्रार्थः स्थितः शक्तिप्रभावतः ॥

2.331

अन्तःकृताशेषतत्त्ववर्णादिभरनिर्भरः ।
सर्वाभिधो भैरवात्मा सो ऽयम् एव स्वरूपभाक् ॥

2.332

तद्व्याख्यातम् इदं प्रसन्नगहनं वाक्यं मया स्वागम प्रामाण्यप्रतिपादनक्रमवशात् तत्तत्प्रसङ्गाद् अपि ।
अत्रारूढधियां प्रमाणमहिमा विश्वाद्वयोद्दामितो भातीति स्वयम् एव सत्यहृदया ज्ञास्यन्ति किं श्लाघितैः ॥

2.333

ये सम्यक् प्रविचारिणो ननु शिवाः कस् तान् प्रति प्रोद्यमः किं तैर् ये प्रविमर्शदूरशिखरारोहक्रमे पङ्गवः ।
पाषाणायितवृत्तयः पुनर् अमी ये शास्त्रवन्ध्या नराः संरम्भः प्रलयम्बुधेर् इव ततः स्वात्मन्य् अयं घूर्णते ॥

2.334

संशाम्य स्वयम् आत्मनि त्यज जवाज् ज्वालाजटाडम्बरान् भोः कल्पानल दाह्यम् अस्ति भवतो नाद्यापि किञ्चिद् यतः ।
त्वत्प्रोल्लासविघूर्णनाघनघुरद्घोरस्फुलिङ्गशतैर् विश्वं व्याप्य विलीनतां गतम् इदं द्राक् त्वत्प्रकाशात्मकम् ॥

2.335

प्रवरपुरनामधेये पुरे पूर्वे काश्मीरिको ऽभिनवगुप्तः ।
मालिन्यादिमवाक्ये वार्त्तिकम् एतद् रचयति स्म ॥

मूल पाठ: Mālinīślokavārttika · Edition: Hanneder: Abhinavagupta's Philosophy of Revelation. An Edition and Annotated Translation of Malinislokavarttika I, 1-399, Oriental Studies 14, Groningen: Egbert Forsten 1998; ed. Madhusudan Kaul Shastri, Srinagar 1921, KSTS XXX · Data entry Jürgen Hanneder · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc