भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीश्लोकवार्त्तिक · अध्याय 1

1.1

विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश् च पञ्चमुखगुप्तरुचिर् जनकः ।
तदुभययामलस्फुरितभावविसर्गमयं हृदयम् अनुत्तरामृतकुलं मम संस्फुरतात् ॥

1.2

यदीयबोधकिरणैर् उल्लसद्भिः समन्ततः ।
विकासिहृदयाम्भोजा वयं स जयताद् गुरुः ॥

1.3

साभिमर्शषडर्धार्थपञ्चस्रोतःसमुज्ज्वलान् ।
यः प्रादान् मह्यम् अर्थौघान् दौर्गत्यदलनव्रतान् ॥

1.4

श्रीमत्सुमतिसंशुद्धः सद्भक्तजनदक्षिणः ।
शम्भुनाथः प्रसन्नो मे भूयाद् वाक्पुष्पतोषितः ॥

1.5

गुरुभ्यो ऽपि गरीयांसं युक्तं श्रीचुखलाभिधम् ।
वन्दे यत्कृतसंस्कारः स्थितो ऽस्मि गलितग्रहः ॥

1.6

ततो गुरुतरः श्रीमान् भूतिराजो महामतिः ।
जयताद् भक्तजनतासमुद्धरणसाहसः ॥

1.7

श्रीसोमानन्दसंबोधश्रीमदुत्पलनिःसृताः ।
जयन्ति संविदामोदसंदर्भा दिक्प्रसर्पिणः ॥

1.8

तद्दृष्टिसंसृतिच्छेदिप्रत्यभिज्ञोपदेशिनः ।
श्रीमल्लक्ष्मणगुप्तस्य गुरोर् विजयते वचः ॥

1.9

अप्य् असंख्यनवास्वादचमत्कारैकदुर्मदा ।
येनानुत्तरसंभोगतृप्ता मे मतिषट्पदी ॥

1.10

तदेकमयताम् आप्य स्वात्मन्य् एव तथा स्थिता ।
तद् अस्याः प्रोन्मिषन्त्य् एव विविधा नादसंपदः ॥

1.11

सच्छिष्यकर्णमन्द्राभ्याम् अर्थितो ऽहं पुनः पुनः ।
वाक्यार्थं वर्तये श्रीमन्मालिन्यां यत् क्व चित् क्व चित् ॥

1.12

औचित्येनेतरत्यागाद् वाच्यवाचकयोर् मिथः ।
वर्तनावर्त एतस्मिन् साधु शास्त्रं च वार्त्तिकम् ॥

1.13

ये ऽहर्निशं प्रकाशन्ते सर्वस्य च न गोचरे ।
नुमो ऽभिनवगुप्तांस् ताञ् शिवचन्द्रांशुसंचयान् ॥

1.14

जयन्ति जगदानन्दविपक्षक्षपणक्षमाः ।
परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः ॥

1.15

अनियन्त्रितसद्भावाद् भावाभेदैकभागिनः ।
यत् प्राग् जातं महाज्ञानं तद्रश्मिभरवैभवम् ॥

1.16

ततं तादृक् स्वमायीयहेयोपादेयवर्जितम् ।
विततीभावनाचित्ररश्मितामात्रभेदितम् ॥

1.17

अभिमर्शस्वभावं तद् धृदयं परमेशितुः ।
तत्रापि शक्त्या सततं स्वात्ममय्या महेश्वरः ॥

1.18

यदा संघट्टम् आसाद्य समापत्तिं परां व्रजेत् ।
तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् ॥

1.19

अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम् ।
भाविवक्त्राविभागेन बीजं सर्वस्य यत् स्थितम् ॥

1.20

हृत्स्पन्ददृक्परासारनिर्नामोर्म्यादि तन् मतम् ।
एतत् परं त्रिकं पूर्वं सर्वशक्त्यविभागवत् ॥

1.21

अत्र भावसमुल्लासशङ्कासंकोचविच्युतेः ।
स्वानन्दलीनतामात्रमात्रिच्छाकर्मदृक्त्रयम् ॥

1.22

तथा च गुरवः शैवदृष्टाव् इत्थं न्यरूपयन् ।
स यद् आस्ते चिदाह्लादमात्रानुभवतल्लयः ॥

1.23

तद् इच्छा तावती ज्ञानं तावत् तावत् क्रिया हि सा ।
सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते ॥

1.24

चिद्रूपाह्लादपरमस् तदाभिन्नो भवेद् इति ।
ननु चेदृशि विश्वात्मभूते संकोचवर्जनात् ॥

1.25

विकल्पकल्पनामूलाः कथं शास्त्रादिसंपदः ।
उच्यते सर्व एवायं बोधः संवित्प्रभामयः ॥

1.26

प्रकाशरूपतायोगाच् चिदामर्शघनात्मकः ।
तत्रामर्शस्वभावो ऽयं यः प्रकाशः प्रकाशते ॥

1.27

स एव किं न शास्त्रौघः किम् अन्यैर् युक्तिडम्बरैः ।
परवाग्देवताविद्धस् तत्रासौ केवलं भवेत् ॥

1.28

न तु लौकिकमायीयवर्णपुञ्जविचित्रितः ।
उक्तं श्रीप्रत्यभिज्ञायाम् आत्मसंस्थस्य भासनम् ॥

1.29

अस्त्य् एव न विना तस्माद् इच्छामर्शः प्रवर्तते ।
स्वभावम् अवभासस्य विमर्शं विदुर् अन्यथा ॥

1.30

प्रकाशो ऽर्थोपरक्तो ऽपि तुल्यो रत्नादिकैर् इति ।
किंच यः कश् चनामर्शश् चिच्चमत्कारगोचरः ॥

1.31

ह्लादतापादिविषयस् तदासौ भवति स्फुटः ।
तद्विमर्शान्तरालम्बसमुच्छलनयोगतः ॥

1.32

पश्चात् सुस्फुटताम् एति तथा च गुरुर् ऊचिवान् ।
यथा स्वसंविदा सिद्धं सुखादि व्यवतिष्ठते ॥

1.33

न हि व्यवस्थासमये वेद्यते तत् स्वसंविदा ।
तथावश्योपगन्तव्यं स्वसंवित्साधनाद् इति ॥

1.34

एवम् अत्रापि पश्चाद् यज् ज्ञानाद्युल्लासवर्त्मनि ।
सर्वाभेदमयी भूमिर् यावद् आमृश्यतां व्रजेत् ॥

1.35

तावत् तदुचितोदारविमर्शांशस्फुटत्वतः ।
तादृक् स एव शास्त्रत्वं प्राग्विसर्गः प्रपद्यते ॥

1.36

एतद् एव तु युक्तं स्यात् तथा ह्य् अनुपधौ परे ।
शास्त्रार्थे ऽपि समाचारलेशः को ऽपि विभाव्यते ॥

1.37

स नूनं स्फुटताधामभाविज्ञानादिशक्तिमान् ।
उपरागात् ततस् तत्तद्वैचित्र्यपरिबृंहितः ॥

1.38

यथा मुखस्य तद्व्यक्तिस्थाने ऽप्सु मुकुरे मणौ ।
खड्गे चञ्चलसद्वृत्तसूक्ष्मदीर्घादिका स्थितिः ॥

1.39

तद् इत्थं परमे रूपे प्रोद्भूता ज्ञानसंपदः ।
अनवच्छिन्नहृदयबीजात्मत्रयसुन्दराः ॥

1.40

यदा तूच्छलदाकारस्वतरङ्गान्तरात्मकान् ।
विसिसृक्षति भावौघान् भैरवः शक्तिबृंहितः ॥

1.41

तदा ता एव विज्ञानसंपदस् तदुपाधिजाम् ।
ईषत्क्रियासमाचारयन्त्रणां संश्रिता इव ॥

1.42

परितस् तत्तरङ्गौघसात्मतां समुपाश्रिते ।
तथापि जगदानन्दसुन्दरे बोधभैरवे ॥

1.43

भावनिर्भरतामात्रसंतृप्ते शक्तिशालिनि ।
पूर्णया निजशक्त्यैव न्यक्कृते शक्तिमत्पदे ॥

1.44

तादृग् एव विमर्शात्मा ज्ञानधारा विजृम्भते ।
यस्यां भोगोपदेशेन को ऽपि ह्लादः प्रवर्तते ॥

1.45

यदीयसंविदाचारचर्याविस्रम्भभावितः ।
भोगव्रातो ऽपि धन्यानां निःश्रेयसपदायते ॥

1.46

यत्रोच्यते स्वशक्त्यादिक्षोभसंरंभनिर्भरा ।
देवस्य यागप्रियता विशेषान् मातृमध्यतः ॥

1.47

ऐश्वर्यशक्त्युद्रेकेण लब्धेश्वरपदाभिधः ।
देवो विज्ञानमहिमा प्रोद्भूतो ऽयं प्रपञ्चितः ॥

1.48

अत्राप्य् अनन्तभावांशसंयोजनवियोजने ।
प्राग्दशाभेदसंधानाद् असंख्यत्वम् उपाश्रिते ॥

1.49

तदुपाधिवशाद् एव संविज्ज्ञानपदोज्झिताः ।
तायन्ते विविधाः शास्त्रक्रियाज्ञानविभूतयः ॥

1.50

मुख्यस् त्व् एष प्रपञ्चो ऽयं पञ्चात्मत्वेन चर्चितः ।
तथा च वक्ष्यते तत्त्वम् अभिन्नम् अपि पञ्चधा ॥

1.51

सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः ।
इच्छानिवृत्तेः स्वस्थत्वाद् इत्याद्यैर् वाक्यसंचयैः ॥

1.52

नन्व् एतावति सन्दर्भे देशकालकलाकृताः ।
भेदा न संभवन्त्य् एव बाढम् ओम् इति वच्महे ॥

1.53

न ह्य् अत्र कालतत्त्वस्य नाममात्रं विभाव्यते ।
वैभव्य् अपि महाकाली शक्तिर् नात्र विजृम्भते ॥

1.54

तर्ह्य् अभिन्ने स्वसंपूर्णे तदा पश्चात् पुनर् यदा ।
परतश् चेति को न्व् एष वाचोयुक्तिपरिग्रहः ॥

1.55

अत्र ब्रूमः सत्यम् एव वस्तुतस् तु स्फुटात्मनि ।
जृम्भिते तत्त्वसर्गे ऽपि काले ऽप्य् उन्मिषितात्मनि ॥

1.56

बोधस्य नैव सन्त्य् एताः पूर्वापरविकल्पनाः ।
कालो विशेषणत्वेन यस्माद् भवति भेदकः ॥

1.57

विशेषणं च तत् प्रोक्तं समशीर्षिकयैव यत् ।
भेदेन वेद्यताम् एति यथा नीलं सरोरुहं ॥

1.58

न च बोधस्य वेद्यत्वं कदाचिद् उपपद्यते ।
वेद्यत्वं भासमानत्वं तत् प्रकाशप्रसादतः ॥

1.59

प्रकाशः स स बोधश् च न चेद् बोधान्तरस्थितेः ।
प्रकाशनियमान् नूनम् अनवस्था प्रवर्तते ॥

1.60

अत एव विमूढा ये बोधम् अप्रथमानकम् ।
अर्थप्रथात्मकं ब्रूयुः स्ववचोवञ्चितास् तु ते ॥

1.61

तस्मात् कालो न बोधस्य भेदकत्वाय कल्पते ।
नापि वेद्यस्य कालो ऽसौ भेदकीभवितुं क्षमः ॥

1.62

विश्वं हि बोधाभिन्नं तद् अतथात्वे न भासते ।
प्रकाशेन समाविष्टश् चित्रं भावः प्रकाशते ॥

1.63

विश्वप्रकाश एवं स्यात् सर्वस्यैव सदातनः ।
सति प्रकाशे बोधाख्ये स प्रकाशत्वम् अश्नुते ॥

1.64

अप्रकाशो ऽपि भावश् चेत् प्रकाशात्मा स वेद्यते ।
अप्रकाशस् त्व् असौ भाव इत्य् अत्र शरणं तमः ॥

1.65

यश् चाप्रकाशो भावात्मा प्रकाशात्मा स चेत् कृतः ।
नूनं स भावो नष्टः स्यात् स्वाप्रकाशत्वविच्युतेः ॥

1.66

नातद्रूपं प्रकाशं च कर्तुं विधिर् अपि क्षमः ।
नन्व् एतावद् इदंभावः प्रकाशे सति भासते ॥

1.67

अस्त्व् एतद् एव किंत्व् इत्थम् अप्रकाशः प्रकाशताम् ।
भावस्य चाप्रकाशत्वे प्रकाशीभाविते सति ॥

1.68

नैवं प्रकाशितो भाव इति वस्तुस्थितिर् भवेत् ।
तद् अलं व्यतिरिक्तेन प्रकाशेन शिवस् तथा ॥

1.69

तस्मात् प्रकाश एवासौ गीतो यः परमः शिवः ।
स एवाचिन्त्यमहिमा स्वातन्त्र्योद्दामघूर्णितः ॥

1.70

प्रकाशते तथा तैस् तैः स्वभावैर् अच्युतस्थितिः ।
नात्र सर्वत्र सर्वज्ञभावः कश् चन शङ्क्यते ॥

1.71

अहं चैत्रो घटं वेद्मि न पटं, वेद तं त्व् अयं. ।
नायं वेत्ति पटः, सो ऽहं जाने घटपटाव् इति ॥

1.72

वेदिष्यामि न वा, पूर्वम् अजानां नैव वा क्व चित्, ।
क्रमेण वेद्मि युगपद् द्वाभ्याम् उभयवर्जितम्. ॥

1.73

सर्वं वेद्मि, न किं चिच् च जाने. नैवास्मि कश् चन ।
भावात्मा, ननु नैवाहम्. अहं सर्वं च सर्वदा. ॥

1.74

सर्वम् अस्म्य् अहम् एवैकः किं सर्वम् इतरद् भवेत् ।
इत्यादिर् एक एवायं प्रकाशः प्रविजृम्भते ॥

1.75

नन्व् एको यद्य् असः कश् चित्, प्रकाशो न तदा परः ।
कथं भवेद्. अहो मूढः कथं व्युत्पाद्यताम् अयम् ॥

1.76

एकः प्रकाशः स्वातन्त्र्याच् चित्ररूपः प्रकाशते. ।
वस्तुतश् च न चित्रो ऽसौ, नाचित्रो भेददूषणात् ॥

1.77

घटप्रकाशे वस्त्रस्य प्रकाशो यदि संभवेत् ।
नासौ घटप्रकाशः स्याद् द्विप्रकाशो ह्य् असौ भवेत् ॥

1.78

सो ऽपि चास्त्व् एव, नो नास्ति तद् इदं त्वत्प्रचोदितम् ।
घटात्मना प्रकाशो ऽस्य मा भूद् इत्य् अवतिष्ठते ॥

1.79

तच् चायुक्तं प्रकाशस्य बोधत्वात् स्वात्मजृम्भणम् ।
लक्षणं यदि तत् को ऽयं वृथा वाग्जालडम्बरः ॥

1.80

परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ।
जडाद् विलक्षणो बोधो यतो न परिमीयते ॥

1.81

तस्माद् अर्कस्य सद्भावे सिद्धे कः खलु बालिशः ।
ब्रूयात् कथम् अयं स्वांशुशुभ्रिताशेषभूर् इति ॥

1.82

तस्मात् सिद्धे प्रकाशे ऽस्मिन् याः प्रकाशविकल्पनाः ।
सर्वास् ताः सर्वसंभुक्तयोषिच्चारित्रपालनाः ॥

1.83

असिद्धौ च प्रकाशस्य को ऽहं किं त्वं तमो ऽपि किम् ।
न किं चिद् अपि वा किं स्यात् तूष्णीं स्याद् अपि वा कथम् ॥

1.84

तस्मात् प्रकाशतादात्म्यलब्धभैरवभागिनाम् ।
भावानाम् अपि कालो ऽयं न किं चित् कर्तुम् अर्हति ॥

1.85

हन्त तर्हि कथंकारं तदेत्यादिवचःक्रमः ।
श्रूयताम् उक्तम् अप्य् एतत् पुनर् निर्भज्य भण्यते ॥

1.86

यः प्रकाशः स एवायं प्रतिभाति तथा तथा ।
नैव चान्यस्य कस्यापि स तु भात्य् एव केवलम् ॥

1.87

स एव परमोदारः सर्वस्यैवावभासकः ।
स्वतन्त्र इति तस्येच्छाशक्तिः स्वातन्त्र्यसंज्ञिता ॥

1.88

स च स्वात्मनि विश्रान्तस् तदन्याभावयोगतः ।
स्वात्मविश्रान्तिर् एवैषा देवस्यानन्द उच्यते ॥

1.89

स्वातन्त्र्यमहिमैवास्य स्वरूपाद् अपृथक्स्थितिः ।
स्वप्रकाशे निजे धाम्नि भासयेद् भावविभ्रमान् ॥

1.90

भासना च क्रियाशक्तिर् इति शास्त्रेषु कथ्यते ।
यया विचित्रतत्त्वादिकलना प्रविभज्यते ॥

1.91

भासनानवभाते च कथं नाम प्रकल्पते ।
तद् अस्यान्तःस्थितं भानं ज्ञानशक्तिर् अहं स्मृता ॥

1.92

एतावद् अस्य देवस्य यद् रूपं स्वात्ममात्रतः ।
स उन्मेष इति प्रोक्तः पञ्चशक्तिस् ततो विभुः ॥

1.93

त्रिशक्तिर् एकशक्तिर् वा देवो वा केवलः स्थितः ।
शक्तिर् एवाथ देवी सा सारशास्त्रे निरूप्यते ॥

1.94

वक्ष्यते च जगद्धातुः कथितेत्यादितः परम् ।
सैवैका सत्य् अनेकत्वं गच्छतीति महेशिना ॥

1.95

स चायं निर्भरानन्दविश्रान्तिस्वात्मसुस्थितः ।
सोदर्यैः शब्दसंदर्भैर् भाष्यते भैरवादिभिः ॥

1.96

सविधं दूरगं वापि यद्य् अप्य् अस्य न वस्तुतः ।
शब्दजातं भवेत् किं चिद् अन्यद् अप्य् अथ वा प्रभोः ॥

1.97

तथा च भासयत्य् एव देव एष तथा तथा ।
ततस् तदनुसारेण सर्वो ऽयं कल्पनाक्रमः ॥

1.98

न च तत् कल्पनामात्रं तथात्वे ऽप्य् अथ का क्षितिः ।
तथा संकल्पतां देवो यद् वा कल्पयतां तथा ॥

1.99

एवं चैष प्रकाशात्मा सप्तत्रिंशात्मकात् परः ।
वैचित्र्यभासनां कुर्वन् कालं भासयति प्रभुः ॥

1.100

वैचित्र्यभासनैवेयं कालशक्तिर् उदाहृता ।
ततो ऽवभासमानैतत्कालशक्त्यनुरोधतः ॥

1.101

आस्माकीनात् तदेत्यादिर् उपरागः प्रवर्तते ।
न चासौ तत्र नास्त्य् एव तत्र यन् नास्ति तत् कुतः ॥

1.102

अन्यत्र तन्यतां नाम तत् प्रकाशवशं स्थितम् ।
नन्व् एवम् अपरे तत्त्वजाले शुद्धेतरस्थितौ ॥

1.103

शुद्धाशुद्धपदे वापि विद्यादौ तत्त्वमण्डले ।
शुद्धभैरवसद्भावाद् अविशेषो भविष्यति ॥

1.104

नरीनृत्यामहे हन्त यत्नाद् व्याख्येयम् एव नः ।
आयुष्मतो यद् धृदये स्वयं विपरिवर्तते ॥

1.105

शुद्धाशुद्धविभेदो हि परमार्थकथासु नो ।
स तु तत्कृत एवास्ते मूढानां धियि निश्चलः ॥

1.106

ननु शुद्धेतरत्वाख्यो यदि भेदो न वास्तवः ।
व्याचिकीर्षितम् एवैतच् छास्त्रं विवदते ततः ॥

1.107

अशुद्धत्वं हि तत्त्वानां दीक्षया शोधनं ततः ।
इत्यादि बहुधा भेदप्रधानात्र यतः स्थितिः ॥

1.108

उच्यते नाद्वये ऽमुष्मिन् द्वैतं नास्त्य् एव सर्वथा ।
उक्तं हि भेदवन्ध्ये ऽपि विभौ भेदावभासनम् ॥

1.109

तद् एव खलु संसारे मायाविद्यादिभिः पदैः ।
बन्ध इत्य् उच्यते तत्र रूढाः संसारिणो मताः ॥

1.110

तच्चिन्तानुसृतेर् एषां शुद्धाशुद्धादिनिश्चयः ।
किं च शास्त्रम् इदं सम्यग् भगवद्योगदेशकम् ॥

1.111

भगवद्योगम् अद्वैतं निर्द्वन्द्वं च प्रचक्षते ।
तस्योपदेश इत्थं स्याद् यदि यावद्विभेदवत् ॥

1.112

संभाव्यते तन् निर्भज्य निर्भज्यैव निरूप्यते ।
अद्वैते भैरवविभौ यत् प्रवेशोपवेशयोः ॥

1.113

आभ्यासिकी स्थितिर् नास्ति तौ हि भेदैकजीवितौ ।
अतः संभाव्यनिखिलद्वैतशङ्काव्यपोहने ॥

1.114

गुरूणां च शिशूनां च यत्नः सर्वो विजृम्भते ।
अतो द्वैतम् इहाशङ्क्याशङ्क्य सर्वं प्रतन्यते ॥

1.115

तद् यावद्गति संभाव्य न तु कुत्राप्य् उदास्यते ।
तथा हि यदि नामृष्टं द्वैतं तर्ह्य् एकम् एव सत् ॥

1.116

चिद्ब्रह्म तद् अलं तत्त्वसंख्याकल्पननिर्णयैः ।
पञ्चत्रिंशतिता कस्मात् तत्त्वानां तन् निरूप्यते ॥

1.117

तस्माद् द्वैतस्य भेदात्मस्थितेर् यावद्गति ग्रहम् ।
कृत्वा यस् तत्प्रतिक्षेपस् तेन निःशङ्कता भवेत् ॥

1.118

एतद् एव च विज्ञाने निर्भिद्यैवोपदेशनम् ।
यथासंभवि यद् वज्रपक्षाणां तद् विदारणम् ॥

1.119

तथा हि श्रीमता स्तोत्रे भट्टनारायणेन तत् ।
नमस् ते भवसंभ्रान्तभ्रान्तिम् उद्भाव्य भिन्दते ॥

1.120

ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते ।
निर्द्वन्द्वम् इति निर्द्वैतं प्रकटीक्रियते पदम् ॥

1.121

उद्भाव्यन्ते भ्रमाश् चेति चकारो ऽत्राद्भुतावहः ।
इह चाद्वैतम् एवेति पुरतः प्रतनिष्यते ॥

1.122

अध्वशुद्ध्यादिकं द्वैते ऽनुपपत्तीति वक्ष्यते ।
अभेदेन विना नैतन् ननु भेदं विनापि किम् ॥

1.123

सत्यं किंत्व् अद्वये तत्त्वे भेदो ऽपि न न युज्यते ।
इदं हि तत् पराद्वैतं भेदत्यागग्रहौ न यत् ॥

1.124

भेदे तु विश्वभावानां स्वस्वभावव्यवस्थितेः ।
अभेद इति शब्दो ऽयं मन्ये भेदयते रसात् ॥

1.125

तद् अलं प्रकृतं निरूप्यते परमेशः किल भेदकल्पनाम् ।
प्रकटीकुरुते यथा तथा ननु कालो ऽपि विजृम्भते तथा ॥

1.127

नन्व् इत्थम् एकघनभावविमर्शसार् संवेदने यद् अहम् एष करोमि चित्रः ।
जानामि वा तद् अपरे ऽपि न मैत्रचैत्र प्राया विदध्युर् अथवापि कथं न विद्युः ॥

1.128

अहो मायाग्रन्थिर् निबिडतम एषो ऽत्र भवताम् इदं हि प्रब्रूमः स्वपरम् इह नास्त्य् एकम् अभिदम् ।
अहं वेद्मीत्य् एषा घटतनुविशेषप्रकटता प्रथाश् चित्राकाराः परमहसि भान्तीति कथितम् ॥

1.129

तस्माद् घटं वेद्म्य् अहम् इत्य् अमुत्र भेदो न कश्चिन् ननु मे घटो ऽयम् ।
भातीति भेदप्रतिभानम् अस्ति नैतन् न तस्यैष शिवस् तथायम् ॥

1.130

अत एव द्वैपायनमुख्यास् तेषु स्वशास्त्रदेशेषु ।
ममकारम् एव मृत्युं खण्डनदायित्वतः प्राहुः ॥

1.131

तद् एवं कालकलनोपाधिजातोपरागजाः ।
तदेत्यादि प्रतायन्ते परतत्त्वे ऽपि संविदः ॥

1.132

तत्र पूर्णैकरूपत्वात् सर्वं सर्वत्र चापि तत् ।
अन्यथा खण्डनायोगान् न पूर्णा पूर्णता भवेत् ॥

1.133

ततः पूर्णतया सर्वंसहभैरवधामनि ।
पञ्चात्मको ऽयं शास्त्रार्थः शाम्भवः. शक्त्यणुस्थितिम् ॥

1.134

न्यक्कृत्यैष परां देवीं स्वात्मन्य् उद्रेच्य वर्तते ।
इत्थं स विसिसृक्षुः सन् भावान् विस्रष्टृतापदात् ॥

1.135

पूर्वम् उच्छलितानन्दघनाम् अभजत स्थितिम् ।
विस्रष्टृतापदे त्व् एष विसर्गावेशभाग् अपि ॥

1.136

रिक्तीभविष्यन्न् आनन्दघनया पूर्णया चिता ।
तावद् आनन्दशक्त्यंशविसर्गावेशनिर्भरः ॥

1.137

वर्तमानः स्वशक्त्योघपूर्णश् चाभूद् भविष्यति ।
रिक्तशक्तिर् इति त्र्यात्मचित्रसंवेदनात्मकः ॥

1.138

तदासौ देवदेवः स्याद् विस्रष्टरि पदे स्फुटम् ।
ननु किं वर्तमानांशे संस्तो भूतभविष्यती ॥

1.139

किं नाम भवता ज्ञातं ते स्वतन्त्रे ऽपि के चन ।
वर्तमानावधेर् भूतं भविष्यच् च विभज्यते ॥

1.140

यच् च यत्र न विश्रान्तं तद् विभज्येत वै कुतः ।
कथं चावधिभावः स्याद् वर्तमानस्य ते प्रति ॥

1.141

तयोर् अवधिमत्त्वं वा तत् प्रत्य् अपि कथं भवेत् ।
विश्वस्य विश्वम् अवधिस् तद्वद् वा जायते न किम् ॥

1.142

तस्माद् भूतं भविष्यच् च वर्तमानाख्यसंविदि ।
रूढम् एवेति तत्रैव यदि विश्रान्तिम् आवहेत् ॥

1.143

यदि चात्रैव निखिलकल्पनारश्मिमण्डलम् ।
अविस्फार्य क्षणं तिष्ठेत् संनिरुद्धनिजस्थितिः ॥

1.144

तन् निजामृतविस्फारचमत्कारैकचर्वणाम् ।
लभते परमानन्दसुधासन्दोहवाहिनीम् ॥

1.145

तथा हि सूर्यरश्म्योघपूर्णः स्याच् चन्द्रमा यदा ।
तदा सूर्यकरान् भूयो यावन् न विसिसृक्षति ॥

1.146

तावत् स्वमण्डलाभोगे क्षणं विश्रान्तिसुस्थितः ।
अन्तःस्थविश्वदेवांशतर्पणापात्रम् उच्यते ॥

1.147

एवं भावप्रकाशार्कमरीचिनिचयाञ्चिते ।
स्वबोधचन्द्रमहसि वर्तमाने हृदन्तरे ॥

1.148

विश्रान्तो ऽन्तःस्थितोदारचित्सुधासारसुन्दरे ।
अन्तःस्थस्वामृतापूरो वम्यते न बहिर् यतः ॥

1.149

तत एवान्तर् एवासौ घूर्णमानः समुच्छलन् ।
स्वान्तःस्थदेवताचक्रतर्पणाहंविदात्मकः ॥

1.150

जायते यावद् उद्दाम्येत् तावत् स्वकरणक्रमः ।
निरुद्धे रश्मिपटले विभवाभावयोगतः ॥

1.151

न भूतं न भविष्यच् च वर्तमानाद् विभज्यते ।
अविभागस् तयोर् यावत् तावत् का वर्तमानता ॥

1.152

भूतभाविस्वभावाभ्यां सा हि याति विभागिताम् ।
तद् अस्मिन् संविदवधौ विश्रम्य तुटिमात्रकम् ॥

1.153

कालग्रासपरो योगी जायते खेचरः क्षणात् ।
उक्तं हि भावाभासो यः कालः स कलनात्मकः ॥

1.154

स्वसंविद्रश्मिसंस्फारो भावाभावः स नापरः ।
तस्मात् स्वरश्मिसंरोधद्वाररुद्धाध्वमण्डलः ॥

1.155

कालग्रासैकरसिको जायते खेचरः स्वयम् ।
तद् उक्तं परमेशेन तन्त्रे श्रीडामराभिधे ॥

1.156

निरुद्ध्य रश्मिचक्रं स्वं पीत्वामृतम् अनुत्तमम् ।
कालोभयापरिच्छिन्ने वर्तमाने सुखी भवेत् ॥

1.157

रोधो ऽपि नाम नैतस्मिन् संकोचपरिवर्जिते ।
तदभावान् न विस्फारो ग्रासतृप्ती तथात्र के ॥

1.158

किं तूक्तनीत्या संरोधस्फारग्रासादि भासते ।
न तथाभासनाच् चान्यद् वस्तु विश्वत्र किं चन ॥

1.159

इत्य् अलं खेचरीचक्रगोष्ठ्यालापेन भूयसा ।
को वाभिनवगुप्ते ऽस्मिन् योगः संवेदनक्रमे ॥

1.160

प्रकृतं ब्रूमहे देवीविसृष्टाश् चित्रसंविदः ।
यावत् तावद् तद् ऊर्ध्वोर्ध्वं स्रोतो यद् भेदवर्जितम् ॥

1.161

सौरभर्गशिखादीनि ततः शास्त्राणि तेनिरे ।
उक्तं भर्गशिखायां च देवेन परमेष्ठिना ॥

1.162

ऊर्ध्वस्रोतोद्भवं ज्ञानम् इदं तत् परमं प्रिये ।
परमध्वनिनोर्ध्वोर्ध्वसंविद्रूपाभिधायिना ॥

1.163

ईशानवक्त्रनिर्यातात् सिद्धान्ताद् भेदम् आदिशत् ।
अत्रापि पूर्वभेदांशव्यामिश्रीभावचित्रिताः ॥

1.164

विज्ञानसंपदस् तांस् तांस् तन्वते शास्त्रविभ्रमान् ।
इह यावत् तु मुख्येयं षडात्मा शास्त्रसंततिः ॥

1.165

एतत्पूर्वार्धभागीनि त्रिकशास्त्राणि यानि तु ।
षडर्धसंज्ञया तानि गुरुभिर् भाषितान्य् अलम् ॥

1.166

न तु गूढरहस्यत्वाद् एवैष वचनक्रमः ।
एवं हि द्वादशार्धार्धम् इत्याद्य् अपि न किं भवेत् ॥

1.167

अत्र शक्तित्रयं मुख्यं संपूर्णस्थिति कल्पते ।
अनन्योन्योपरोधेन पूर्णं पूर्णचिदात्मकम् ॥

1.168

ततः परं तु त्रितयं कस्यांचिद् गुणिताजुषि ।
अन्यस्यां गुणताभाजि यामलं परिभाष्यते ॥

1.169

पश्चाद् विसृष्टे ऽर्थौघे तद्वैचित्र्योपाधियोगतः ।
पृथग्भाववियोगासु स्वात्मशक्तिषु पञ्चसु ॥

1.170

चित्स्पन्देच्छाविदाकर्मरूपासु स्वौचितीवशात् ।
पञ्चब्रह्माङ्गसुभगात् स्फुरद्भावांशबोधजम् ॥

1.171

रूपं शास्त्रात्मतां प्राप्तं पञ्चधैव विजृम्भते ।
तथा हि प्राग् अनन्तान्तःस्थितभावौघजृम्भणम् ॥

1.172

यावत् करोति भगवांस् तावद् ईशमुखस्थितिः ।
अन्तःस्थाया अभिन्नायाः क्रियाशक्तेर् विजृम्भणे ॥

1.173

क्रमाद् उन्मिषिते तावान् एष स्फारः प्रतायते ।
क्रियाशक्तेः स्फुटः स्फारो मायात्वं प्रतिपत्स्यते ॥

1.174

मायातत्त्वस्वरूपे हि शिवेशानीति वक्ष्यते ।
शुद्धशुद्धेतराशुद्धविश्वनिर्माणकारिणः ॥

1.175

पञ्चमन्त्रतनोः शम्भोर् निर्मेयाशुद्धसंगतिः ।
अस्त्य् एव पूर्वकोट्यां हि सर्वम् एव व्यवस्थितम् ॥

1.176

तथा हि स्वगृहात् क्वापि यियासोः प्रथमक्षणे ।
यावत् किं चन गन्तव्यं यच् च तन्मध्यवृत्ति तु ॥

1.177

तुटिपाते ऽपि सर्वज्ञसर्वकर्तृत्वलब्धृता ।
तत एव विशेषांशनिष्कम्पकुशलात्मनाम् ॥

1.178

तथा हि जात्यखड्गाग्रधारासंस्पर्शसंमिता ।
स्फुरत्त्वसमकालं धीर् विशेषांशान् प्रकर्षति ॥

1.179

रत्नतत्त्वस्फुटप्रज्ञो विद्युत्तत्कालदर्शितान् ।
तांस् तान् विशेषांश् चिनुते रत्नानां भूयसाम् अपि ॥

1.180

अनेकस्वरसंभारस्पर्शलाघवयोजिते ।
वीणायाम् एकविस्तारे वैचित्र्यं वेत्ति तन्मयः ॥

1.181

निबिडाभ्यासधाराग्रविश्रान्तश्रवणेन्द्रियः ।
वेत्त्य् एव तत्स्वरांशान्तःश्रुत्यूनाधिकताम् अपि ॥

1.182

आस्ताम् अभेदवादे ऽस्मिन्न् अयत्नेनैव सिद्ध्यति ।
एतद् यत्र विभाते ऽपि भेदे वास्तवम् अद्वयम् ॥

1.183

भेदैकजीविते शास्त्रे यावद् एतद् स्थितं स्फुटम् ।
तथा हि पातञ्जलिना पादे वैभूतनामनि ॥

1.184

न्यरूप्यत `प्रातिभाद् वा सर्वम्ऽ अत्र मयापि च ।
प्रातिभे प्रथमोन्मेषे संविद्रूपिण्य् अखण्डिते ॥

1.185

स्थितः सर्वस्फुरत्तात्मा सर्वसिद्धिफलोदयः ।
एवं जगति निर्मेये निर्मित्सास्वीकृतं बलात् ॥

1.186

अशुद्धम् अपि तद्रूपनानावैचित्र्ययोग्य् अपि ।
सामान्याकाररूपेण दलं भेदात्मसुन्दरम् ॥

1.187

आस्ते प्रोन्मिषितं सैषा भेदाभेदात्मिका स्थितिः ।
अत एव हि सादाख्ये ज्ञानशक्तिस्वरूपिणि ॥

1.188

अशुद्धिलेशकालुष्यात् परापरतया स्थितिः ।
तेनेशभुक्ताद् एतस्माद् अप्य् ऊर्ध्वपदभागिनः ॥

1.189

मायाप्रकटनौत्सुक्यात् तत्संस्कारजुषस् तथा ।
बहुक्रियासमारम्भमयं विविधमन्त्रणम् ॥

1.190

प्रादुर्भूतं महाज्ञानसन्ततेश् च शिवप्रदम् ।
स हि तत्रापरो भावः परभावनिमीलितः ॥

1.191

न तु रूढिम् उपागच्छेद् अशुद्धोर्ध्वविधाव् इव ।
तेन वैष्णवबौद्धादिशासनान्तरनिष्ठिताः ॥

1.192

यथा सम्यङ् न मुच्यन्ते न तथा शैवसंस्कृताः ।
अतिमार्गक्रमकुलत्रिकस्रोतोन्तरादिषु ॥

1.193

परमेशानशास्त्रे तु ये सम्यग् दीक्षिता नराः ।
तेषां नैवापवर्गस्य लाभे भेदो ऽस्ति कश् चन ॥

1.194

न चैतदतिरिक्तो ऽपि मोक्षोपायो ऽस्ति कश् चन ।
केवलं क्वाप्य् अनायासाज् जीवन्मुक्तिक्रमेण च ॥

1.195

शीघ्रम् एव परा सिद्धिर् यथास्मद्दर्शनेष्व् इति ।
क्वापि तत्त्वावलीयोगपरिपाटीक्रमाच् चिरात् ॥

1.196

तैस् तैः क्रियाकलापैश् च लभ्यते परमं फलम् ।
अत एवास्ति संहारदृशाम् कौलिक्य् अपीह दृक् ॥

1.197

यथोक्तं कालपादादौ दीक्षयेच् छ्वपचान् इति ।
चिदुन्मेषादिकाः पञ्च याः पूर्वं प्रागभेदतः ॥

1.198

प्रोक्ताः परस्मिंश् चिन्नाथे भैरवे समवायतः ।
ता एव भावोपाध्यंशलब्धभेदविभाविताः ॥

1.199

भेदांशम् एव पुष्णन्ति प्रागभेदजुषो ऽप्य् अलम् ।
तथा ह्य् ओदनसंभोगो यो देहस्योपचायकः ॥

1.200

कफसंचयपातेन स देहस्यापचायकः ।
ननु देवस्य विश्वात्माभेदे ऽपि स्वापरिच्युतेः ॥

1.201

विकारिष्व् एव योग्यानाम् उपाधीनां गतिः कुतः ।
तदुपाधिवशाद् भेदो भैरवे भावसंभवात् ॥

1.202

इति नास्मन्मनोभूमाव् उपारोढुम् इवार्हति ।
तूष्णीं विकारिणो भावाः सन्तीति ह्य् अतिसाहसम् ॥

1.203

देवः स एव विश्वात्मा तथारूपेण भासते ।
अनुपाधेर् अभिन्नस्य भिन्नम् औपाधिभासनम् ॥

1.204

नन्व् इत्थं तद् असत्यं स्यात् कथं सत्यं तद् एव हि ।
तथावभासनाद् अन्यत् क्व किं सत्यं निरूप्यताम् ॥

1.205

नन्व् एवं स्वप्नसंसारः किं सत्यं किंत्व् असौ किल ।
अभीष्टार्थक्रियावन्ध्यो ऽसत्यो व्यवहृतः परम् ॥

1.206

एतच् चाग्रे प्रपञ्चेन युक्तियुक्तं निरूप्यते ।
तस्माद् उन्मेषशक्तिर् या पूर्वम् आसीद् अभेदिनी ॥

1.207

भावोन्मेषस्वरूपासौ याता तत्पुरुषस्थितिम् ।
यद् अभिन्नं तद् अग्राह्यं यच् च ग्राहकम् ईश्वरम् ॥

1.208

अधुना तत् स्थितं ग्राह्यं भेदात् तद्ग्राहकं भिदः ।
पुरुषाख्यं ततः प्रोक्तं सृष्टेः प्रारम्भयोगतः ॥

1.209

सुस्फुटप्रत्यभिज्ञानान् मुख्यं वक्त्रं च भण्यते ।
अत एवात्र विसरभावस्थितिविघातकम् ॥

1.210

नानारुग्ग्रहसंघातविषादि परिचर्च्यते ।
अनेकयुक्तिदलितव्याधिसंशान्तसुस्थिताः ॥

1.211

अत्र सुस्फुटतां यान्ति भावा भेदैकवृत्तयः ।
भावत्वम् एव यत् सर्वं तत् त्व् इदं पूर्वजं मुखम् ॥

1.212

सर्वतश् च गुणोत्कर्षाद् ईशानस्योर्ध्ववक्त्रता ।
दिक्कालकलनाशून्ये न तु दिग्भेदकल्पनाः ॥

1.213

यो हि यस्माद् गुणोत्कृष्ट इति चोर्ध्वो भविष्यति ।
ततो भावान् यदा सम्यग् इच्छतीच्छाविभूतितः ॥

1.214

तदेच्छायां समारूढाः सा चेच्छा चैव निर्मला ।
येन तन्मयतायोगात् संविदैक्यं स्पृशन्त्य् अमी ॥

1.215

किंतूपाध्युपरक्तेच्छासंछादनतिरोहिताः ।
ते तदानीं स्थिता भावा देवस् तु स्वैषणास्थितः ॥

1.216

पराचीनितसंवित्तिवक्त्रो न च परां स्थितिम् ।
पूर्णाम् अध्युषितस् तेन सुषुप्त इव भासते ॥

1.217

असुप्तश् च प्रबुद्धत्वात् तस्य स्वापो निमीलनम् ।
न ह्य् अस्ति परमार्थेन भैरवानन्दसंविदः ॥

1.218

तस्मिन् परप्रकाशे हि निमीलत्त्वम् उपागते ।
प्रलयात् तन्निमीलत्त्वमितिर् वा कुत्र भासताम् ॥

1.219

अनाभातं च नो वस्तु व्योमसद्मगवाक्षवत् ।
सो ऽपि वा कल्पिताकारश् चित्प्रकाशे प्रकाशते ॥

1.220

तद् अमीलित एवायं निमीलन्न् इव तिष्ठति ।
प्रभूणाम् अविकल्प्या हि शक्तिर् दुर्घटकारिणाम् ॥

1.221

इदं सुखेन घटते दुःखेन घटते त्व् इदं ।
इत्य् आभासनवैचित्र्ये स्वतन्त्रो हि स एव नः ॥

1.222

तद् एव तस्य स्वातन्त्र्यं शक्तिर् नियतिनामिका ।
यया रुद्धः पशुर् जातु स्वातन्त्र्यं नैव विन्दति ॥

1.223

तदपेक्षाबलात् प्रोक्ता पत्यौ दुर्घटकारिता ।
न हि विश्वात्मनः किं चित् सुघटं वाथ दुर्घटम् ॥

1.224

किं मुहुर् मुहुर् एतेनासकृन् ननु निरूपितम् ।
हन्ताविस्मृतिशीलं त्वां प्रत्य् एतत् स्याद् अपार्थकम् ॥

1.225

एकम् उद्दिश्य किंत्व् एतत्संरम्भो न विराजते ।
किं ह्य् एकाङ्कुरसंपत्त्यै प्रावृषेण्याः पयोमुचः ॥

1.226

मर्मस्थानम् इदं चात्र व्युत्पाद्यो हि जनः स च ।
व्याप्तो हृद्भुवि कर्मौघकृष्टायां सौकुमार्यतः ॥

1.227

मायाबीजोत्थितानन्तविकल्पाङ्कुरकन्दलैः ।
भेदाभिमानजनितवाचनौचित्यसेवितैः ॥

1.228

यावद् विद्यामहादावज्वालयैषा पुनः पुनः ।
नालब्धा तावद् अस्यैतद् द्वैतं रोहेत् पुनः पुनः ॥

1.229

तीक्ष्णयुक्तिकुठारौघैः सद्विद्यावह्निदीपितैः ।
निर्भिन्नो भेदविटपी पुनर् नैव प्ररोहति ॥

1.230

एवं देवे सुषुप्तांशमध्यासीने स्थिता अपि ।
असद्देशीयतां यान्ति भावाः श्वभ्रकपित्थवत् ॥

1.231

अत्र तादृशम् एव स्वं ज्ञानं वैराग्यनिर्भरम् ।
निरुपाख्यं निरालम्बं व्यजृम्भत विभागतः ॥

1.232

कपालमालाभरणाः श्मशानपदवासिनः ।
अस्मात्पराङ्मुखीभूता भूतसंघातगोचराः ॥

1.233

भोग्यं जुगुप्सावधि सर्वम् एव भोक्ता ह्य् अहं कः किल देह एषः ।
चर्मास्थिमात्रं न च सारम् अत्र लेशांशभागे ऽपि कदाचिद् अस्ति ॥

1.234

इत्थम् अभ्यस्यमानास् ते परां वैराग्यसम्पदम् ।
प्रतिक्षणम् उपारुह्य निमीलन्ति तदाहताः ॥

1.235

किम् एतद् इति धावन्ति दुःखे ऽपीन्द्रियवृत्तयः ।
एतद् एवम् इति प्रायो विरज्यन्ते सुखाद् अपि ॥

1.236

दृष्टानुश्रविकार्थौघवैतृष्ण्ये वशताधियः ।
तत्परं पुरुषख्यातेर् गुणवैतृष्ण्यम् इत्य् अपि ॥

1.237

नन्व् अकाण्डे ऽपि पृच्छामः किं चिद् यदि न कुप्यते ।
* किम् अकाण्डे भेदकाण्डभेदकाण्डघटावधौ ॥

1.238

तर्हि संविद् इयं शुद्धा स्वभावाद् एव चेत् कथम् ।
अशुचिभ्यो ऽपि भोगेभ्यो रसात् स्पृहयतेतराम् ॥

1.239

नन्व् अविस्मृतिशीलत्वाभिमानः क्वाधुना गतः ।
अलं वा बुद्ध्युपालब्धैर् उक्तम् अप्य् एतद् उच्यते ॥

1.240

स्वभावाद् एव संवित्तिः प्रकाशपरमार्थिका ।
विश्वावभासयोगेन भातीति हि विपञ्चितम् ॥

1.241

अतश् च संविदो देव्या विश्वस्मिन् भावमण्डले ।
स्वात्मन्य् एवोच्छलत्त्वं किं खण्डनादायि जायते ॥

1.242

यदापि परमेशानशक्त्या भेदो ऽवभास्यते ।
तदापि संविद् भावेषु धावतीति विविच्यते ॥

1.243

यथा लोष्टह्रदज्वालाश्वासकुम्भवियत्स्थितिः ।
धराम्बुधिमहातेजःसमीरानन्तखात्मताम् ॥

1.244

यात्य् एव मितिरूपेयं संवित् स्वोच्छलिता क्रमात् ।
संविद्रूपसजातीयान् भावान् एवानुधावति ॥

1.245

न्यरूप्यत तथा चैतत् केनापि परमेशिना ।
निम्नं तडागपानीयं कः प्रवर्तयितुं क्षमः ॥

1.246

परिपूर्णे पुनस् तस्मिन् प्रवाहाः सर्वतोमुखाः ।
ननु किं कांश् चिद् एवेत्थं सैषा स्वनियतेर् बलात् ॥

1.247

इत्थं धावति तच् चास्या रागतत्त्वात्मकं वपुः ।
तत्रापि च तथा रागाभास एव स धार्यताम् ॥

1.248

चिदात्मनि तु रागो ऽस्तु को ऽप्य् अन्यारूषणात्मकः ।
नन्व् इत्थं चेत् कथं नाम सा कुत्रापि विरज्यते ॥

1.249

हन्त प्रकृत एवायं वादः संगतिम् आगतः ।
यदा हि चितिर् एवैषा सर्वतः संकुचत्स्थितिः ॥

1.250

क्रमेण भोगोपायेभ्यो भोग्येभ्यो देहतो भुजः ।
भोगाद् भोक्तुस् तथा शून्या महाप्रलयभाग् इव ॥

1.251

जायते रुद्ररूपैषा दशा सांहारिकी यतः ।
सद्योजातश् च यद् रुद्रः पुरुषश् चेश्वरात्मकः ॥

1.252

श्रीमान् सदाशिवो देव ईशानश् चेति गीयते ।
विष्णुर् वामः कज्य् अघोर इति चैतद् भविष्यति ॥

1.253

अन्तःस्थसर्वशक्तित्वेनैकैकस्यापि बृंहणात् ।
ब्रह्माण्य् एतानि कथ्यन्ते बृहत्त्वाद् विश्वबृंहणात् ॥

1.254

तदन्यशक्त्युद्रेकांशे ह्य् अत एव विवक्षिते ।
प्रत्येकम् अस्ति ब्रह्मादिहेतुपञ्चकयोगिता ॥

1.255

सैव शास्त्रेषु भेदेन तेषु तेषु प्रतन्यते ।
अतश् च सद्योजाते ऽस्मिन् मुख्या रौद्रदशा स्थिता ॥

1.256

सा च संकोचरूपापि चिद्विकासे भविष्यति ।
यल्लीनौ ब्रह्मविष्ण्वंशौ तेनाधःकुरुते बलात् ॥

1.257

वस्त्वभावमयीत्यादिदशा रुद्राधिदेवता ।
भिन्नप्रमेयेति श्रीमदुत्पलेन न्यरूप्यत ॥

1.258

जातो ऽपि भेदतन्मात्रे संकोचं यद् उपागतः ।
ततो व्यतिनिमीलेते भोक्तृभोग्याव् इह स्फुटम् ॥

1.259

अजातम् इव तद् विश्वम् अत्र सद्यो ऽवभासते ।
सद्योजातपदं तेन शून्यसंवेदनात्मकम् ॥

1.260

ततः शून्यपदस्यान्तर् यावत् स च विविक्षति ।
देवस् तावत् स्वयं बोधे विश्वं प्रोच्छलति स्थितम् ॥

1.259

जानाति सेयं नाथस्य ज्ञानशक्तिर् विकासिनी ।
तयोर् विकासिचिद्धाम्नि लीनत्वम् उपपादितम् ॥

1.262

संविदः शून्यरूपाया विकासो विश्वम् एव तत् ।
तथा हि घनसौषुप्तविश्रान्तिवशनिर्भरः ॥

1.263

तांस् तान् गृहापणाद्यंशान् वेत्ति स्वप्नपदाभिधान् ।
अत एव न सा सृष्टिः स्थितिर् एव तु सा तथा ॥

1.264

पूर्वसृष्टेषु भावेषु तद् धि विज्ञानमात्रकम् ।
तथा च जाग्रतो रूपात् स्वप्नो भेदेन जायते ॥

1.265

किंतु जाग्रत्पदादीनां प्रत्येकं बहुभेदता ।
निर्णेष्यते ततो युक्तं सृष्टिरूपेण भासनम् ॥

1.266

अतो निजविबोधेन तान् भावान् व्याप्नुवन् विभुः ।
एतैस् त्याजयते तां स्वाम् औदासीन्यदशां विभुः ॥

1.267

ज्ञानशक्तेर् इयं जृम्भा तज्ज्ञानस्थितिभाविनः ।
भावाः प्रयान्ति पूर्णत्वं विकासिनिजतेजसः ॥

1.268

परमः खलु संकोचः सद्योजातपदे भवेत् ।
यद् एषां स्वस्वरूपस्य निष्ठा नैव स्म जायते ॥

1.269

विना संविदुपारोहं सत्तासत्ता जडो ऽजडः ।
अनीलं नीलम् इत्यादिव्यवस्था कल्पतां कथम् ॥

1.270

यद् उवाचोत्पलगुरुर् यथा सदसतां तथा ।
जडाजडानां न स्वात्मविशेष इति निश्चितम् ॥

1.271

तस्माद् बोधभरोल्लासविसृष्टस्वपरस्थितिम् ।
चिदनुप्राणनां विष्वग् वमन्न् आनन्दसुन्दराम् ॥

1.272

चिदेकवपुषा विश्वं स्वीचिकीर्षंश् चिदात्मनि ।
स्वबोधशक्तिवमनात् स देवो वाम उच्यते ॥

1.273

स्वबोधशक्त्युद्रेकेण यद्य् अप्य् एष प्रयच्छति ।
भावानां स्ववपुस् तादृक् तथापि परमार्थतः ॥

1.274

स्वीकर्तुम् इच्छन् संहारम् एषां कल्पयते भिदः ।
अतो भेदव्यवस्थायां वामो ऽसौ परमेश्वरः ॥

1.275

अत्र सौभाग्यनिःष्यन्दि तादृग् ज्ञानं प्रतायते ।
सौभाग्यं सोच्यते तेषां भिन्नानां स्वीक्रियैव या ॥

1.276

भावानां च विचित्राणां भोगाङ्गानां स्वशक्तितः ।
स्वकौतुककलालोकाद् उच्छलन्त्य् एव या चितिः ॥

1.277

सैव स्वभावरागेण विश्वं रञ्जयते यतः ।
व्यक्तो हि रञ्जयेद् विश्वं व्यक्तिश् चास्य स्वरूपतः ॥

1.278

यैव प्रोच्छलितावस्था स्वीकारेच्छाभरोदयः ।
तद्रश्मिसारसर्वस्वे क्षणं तिष्ठत्य् अनन्यधीः ॥

1.279

किं नाकर्षति किं नैष च भावयति योगवित् ।
तत एवोच्यते शास्त्रे नारक्तो रञ्जयेद् इति ॥

1.280

कामस्थं काममध्यस्थं कामाङ्कुशपुटीकृतम् ।
कामेन साधयेत् कामान् कामं कामेषु योजयेत् ॥

1.281

कामः स्वीकर्तुम् इच्छैव तदाच्छादनयोगतः ।
विश्वं साधयते कामी कामतत्त्वम् इदं यतः ॥

1.282

तथा हि परमे स्वात्मन्य् अध्यास्य स्थैर्यम् अञ्जसा ।
तदुच्छलितसंबोधकलासंछादनक्रमात् ॥

1.283

विश्वं कामाङ्कुशाधीनं किंकरत्वेन भासते ।
अध्यात्मसिद्धया युक्त्या त्व् अनयैव निजोदये ॥

1.284

प्राणः पुर्यष्टकं देहं व्याप्य विश्वं प्रकर्षति ।
तत्त्वस्य कामतत्त्वस्य प्रकटीक्रियया यतः ॥

1.285

सिद्धचक्रेष्व् इदं गोप्यं किं वा न प्रकटीकृतम् ।
शून्यानन्दात् प्रसृत्यैव देवः प्रोच्छलितात्मकः ॥

1.286

वर्तमानो निजाः शक्तीर् विकास्यैव प्रवर्तते ।
यत्रास्य प्रविविक्षास्ति यतश् च प्रावृतद् विभुः ॥

1.287

सर्वाः शक्तीर् असौ भावः स्वात्मन्य् उद्रेच्य वर्तते ।
ततश् चिदात्मको देवो न्यग्भूत इव भासते ॥

1.288

उद्भूतास् तु विभान्त्य् एताः प्रोन्मेषेच्छाविदिक्रियाः ।
अतश् चतुष्कयुक्तो ऽसौ यद्य् अपि प्रतिभासते ॥

1.289

तथापि शक्तिगणना वस्तुतो ऽस्य भवेत् कुतः ।
अत्रैव भावभेदांशनिर्मूलनकला यतः ॥

1.290

स्थितस् ततः समाचारो लोकातिक्रान्तगोचरः ।
अनन्तशक्तिवैचित्र्याद् अत्राप्य् उच्चाटनादयः ॥

1.291

संहारलीलाभूयिष्ठा अपि तास् ताः क्रियाः स्थिताः ।
तद् इत्थं ज्ञानशक्त्यन्ते भावानां वपुषि स्थिते ॥

1.292

क्रियाशक्तिर् अथान्त्यैव तान् संहरति सादरम् ।
यथा सूक्ष्मतमा शक्तिर् उन्मेषाख्या परावधौ ॥

1.293

स्रष्टव्यभावस्थौल्येन स्थूलाकारेव भासते ।
तथैवैषा क्रियाशक्तिर् यस्यां भावा निमेषिताः ॥

1.294

स्वस्वरूपस्थिता कापि पूर्णेव प्रविजृम्भते ।
नन्व् अस्त्य् एव क्रिया यस्यां भेदः प्रत्यवभासते ॥

1.295

मैवं सर्वा क्रिया भेदं प्रत्य् उत प्राग् व्यपोहति ।
तथा हि भेदभूमौ ये काष्ठज्वलनतण्डुलाः ॥

1.296

त एव पाकाविष्टत्वे भेदं प्रोज्झन्ति सादरम् ।
यदि भिन्नस्वरूपास् ते पाकैक्यं तत् कथं भवेत् ॥

1.297

भिन्नं स्वरूपम् अङ्गानां न हि युक्त्योपपद्यते ।
ननु पाको न कश् चित् स यत् तन् नानास्वरूपकम् ॥

1.298

ज्वलनक्लेददाहादि तत् पाक इति शब्द्यते ।
भिन्ना एव क्रियाः सर्वाः फलम् एकं प्रति स्थिताः ॥

1.299

पाक इत्य् उच्यते नान्या क्रिया नामास्ति काचन ।
एतद् एव कथं बह्व्य एकं फलम् अभीप्सितम् ॥

1.300

कथं संपादयेयुस् ताः. पूर्वोक्ताद् एव हेतुतः ।
ननु लोचनदीपार्थमनस्कारैर् अपि स्फुटम् ॥

1.301

जन्यते ज्ञानम् एकं तत् तथैवात्र भविष्यति ।
सो ऽयं कर्दमसंमर्दमलिनीभूतविग्रहः ॥

1.302

मरौ मरीचिकाम्भोभिः स्नानेच्छुर् अभिधावति ।
भिन्नस्वरूपाद् यद्य् एकम् अस्ति वस्त्व् इति संभवः ॥

1.303

तर्हि कारणभेदेन न भेदः पारमार्थिकः ।
अथ भिन्नस्वरूपं तद् एकं चेत्य् उपगम्यते ॥

1.304

स्वभावभेदो भेदायेत्य् एतत् त्यक्तं व्रतं भवेत् ।
नन्व् इत्थं सा क्रिया मा भूद् एका काष्ठादि कारकम् ॥

1.305

फलं जनयताम् एवम् अप्य् अस्तु न हि नः क्षतिः ।
क्रिया हि नाम नास्माकम् अन्या शक्तिस् त्व् असौ यतः ॥

1.306

शक्तिश् च फलभित्कॢप्त्या भावात्मैवाविभेदतः ।
सा च शक्तिर् विभोर् एव स च विश्वात्मविग्रहः ॥

1.307

फलकारकभेदेन न भिन्ना परमार्थतः ।
स्वात्मन्य् अभिन्ने ऽपि विभोर् एवं भेदावभासनात् ॥

1.308

क्रियाशक्तिर् इति प्रोक्ता यया कर्ता महेश्वरः ।
ननु यत् पशवः कुर्युः कथं तद् उपपद्यताम् ॥

1.309

ते हि भेदैकजीवत्वात् कुर्युर् भेदवतीं क्रियाम् ।
अलम् एतेन पशवः कथं कुर्युर् इति स्फुटम् ॥

1.310

स एव स्ववचश्छिन्नो वादो वन्ध्यासुतादिवत् ।
न हि कुम्भकृतः क्वापि कदाचित् कर्तृता भवेत् ॥

1.311

यदि नासौ महेशाख्यात् कर्तुर् अव्यतिरेकभाक् ।
ननु किं स्वित् कुलालेन कुम्भो ऽपि क्रियते ततः ॥

1.312

ईशस्य विश्वकर्तृत्वे किं पटे ऽपि न कर्तृता ।
यद्य् एवं तत् कुलालेन पटो ऽपि क्रियते न किम् ॥

1.313

नन्व् एवं सति नो कर्ता को ऽप्य् अन्य इति कर्मणाम् ।
शुभाशुभानां स्वफलं कर्तुं कं प्रति हेतुता ॥

1.314

एवम् एवैतद् आयुष्मंस् तथाह्य् एवं विजानताम् ।
न किं चन फलं क्वापि शुभाशुभसमुद्भवम् ॥

1.315

इत्थं ये तु न जानन्ति भुञ्जते ते ऽविपश्चितः ।
तद् एव कर्मसंज्ञं तु मलम् अज्ञानमूलकम् ॥

1.316

एतद् एवानुमन्यैव केचित् संवित्तिमात्रकम् ।
संमन्यन्ते ह्य् अकर्तारं कर्तृत्वानुपपत्तितः ॥

1.317

चित्स्वरूपाधिकं ह्य् अस्य यत् तत् कर्तृत्वम् उच्यते ।
तज् जाड्यम् अर्पयेद् अस्मै चिदाधिक्यप्रसङ्गतः ॥

1.318

प्रकृतेः कर्तृता पुंसि ननु नामोपचर्यते ।
एतन् न्यायपथापेतैर् वृथा जेगीयते गृहे ॥

1.319

उपचारो हि नो वस्तुतथात्वं प्रतिपद्यते ।
व्यपदेशः परं तादृग् वस्तुशून्यो ऽस्तु तावता ॥

1.320

नोपचारिकवह्नित्वव्यपदेशे ऽपि मानवः ।
हिमानीशीकरासारिवातोत्थशिशिरापहः ॥

1.321

द्रष्टुः पुंसश् च न द्रष्ट्री प्रकृतिः परिगीयते ।
न चान्यो ऽस्ति वराको ऽतः कर्तृभावोपचारकः ॥

1.322

किं च प्रयोजनं तस्य कर्तृत्वव्यवहारजम् ।
व्यपदेशस् तु नावस्तु परिवर्तयितुं क्षमः ॥

1.323

ये ऽप्य् आत्मानं नयविदः कर्तारं समुपागमन् ।
ते ऽपि प्रश्नम् इमं तावद् अस्माकं प्रतिभार्पितम् ॥

1.324

किं यादृग्लोकसंसिद्धकर्तृत्वं कर्मयोगतः ।
स्पन्दात्म तद् विभौ स्पन्दहीने समुपपद्यते ॥

1.325

ननु ज्ञानं चिकीर्षा च यत्नश् चेति गुणत्रयम् ।
समवैति यद् अत्रास्य तत् कर्तृत्वम् उदाहृतम् ॥

1.326

इत्थं बालमतीनां धीर् विप्रलभ्येत वञ्चकैः ।
दारका अपि वा विद्युर् न संवेदनवर्जिताः ॥

1.327

तत्र ज्ञानं न कर्तृत्वं सर्वत्रास्त्य् एव तद् यतः ।
इच्छायत्नाव् अपि प्रायः संस्तः सर्वस्य सर्वतः ॥

1.328

कुम्भकारो गृहाभावपरितापितचेतनः ।
जानन्न् इच्छन् सयत्नो ऽपि किं कुर्यान् नात्मनो गृहम् ॥

1.329

ननु कर्तुं न जानाति ततः कर्तुं न चेच्छति ।
तस्मात् कर्तुं न यतते तद् गृहं कुरुतां कथं ॥

1.330

कर्तुम् इत्य् एव यद् रूपं ज्ञानादीनां विशेषणम् ।
करोतेस् तत्र को ऽर्थः स्याद् यदि सस्पन्दता किल ॥

1.331

तदासौ स्पन्दितुं वेत्ति प्रेप्सतीति भवेद् वचः ।
तच् च स्वात्मगतं नास्य स्पन्दितं वैभवोद्भवात् ॥

1.332

अन्यद् अस्पन्दितं ज्ञानं शर्वस्यापि न संभवेत् ।
ज्ञानेच्छायत्नवत्त्वं च करणं तस्य भाषितम् ॥

1.333

आत्मनः कर्तुम् इत्य् अस्य ततो ऽर्थप्रविवेचने ।
जानातीच्छन् प्रयतते ज्ञातुं यतितुम् एषितुम् ॥

1.334

प्रत्येकम् इति यो ऽर्थः स कर्तुं वेत्तीति शब्दितः ।
चिकीर्षितृत्वं चैतत् स्यान् न कर्तृत्वं पुनर् भवेत् ॥

1.335

तथात्वे मानसैः साम्यं भवेद् वाक्कायकर्मणाम् ।
वाक्कायकर्मभिर् वास्य कथं कर्तृत्वम् आपतेत् ॥

1.336

मानसान्य् अपि कर्माणि कथं तस्येति गीयताम् ।
तद्गुणत्रयसद्भावे मनोवाक्कायसम्भुवाम् ॥

1.337

कर्मणां संचितेर् एष कर्मभागीति चेन् ननु ।
उपचारो ऽयम् एवं स्यात् स चावस्त्व् इति वर्णितम् ॥

1.338

किं चात्मगमहत्त्वादिद्रव्यान्तगुणसंनिधौ ।
तानि सन्तीति किं सो ऽपि कर्तृत्वायतनो भवेत् ॥

1.339

न चास्त्व् इत्य् उपगन्तव्यं मुक्ताव् अपि हि तद् भवेत् ।
अन्यात्मगुणसांनिध्ये समश् चैष विधिर् यतः ॥

1.340

आत्मस्व् अतः प्रवर्तेरन् कृतनाशाकृतागमाः ।
किं चेश्वरेण सर्वत्र बुद्धिमत्ताव्यपेक्षिणि ॥

1.341

संनिवेशाधिके कार्ये निमित्तत्वं कृतं यदि ।
स्वैः स्वैश् च समवायान्यकारणांशैः प्रपूरिते ॥

1.342

कम् अंशं कुम्भकारादेः प्रातुं भवतु हेतुता ।
न हि सो ऽस्त्य् अंशलेशो ऽपि सर्वकर्तरि यं प्रति ॥

1.343

न ज्ञानेच्छायत्नम् अस्ति कर्तृत्वं नान्यद् इत्य् अपि ।
तस्मान् नान्यस्य कर्तृत्वं कदाचिद् अपि संभवेत् ॥

1.344

ईश्वराद् ईश्वरस्यापि स्वातन्त्र्यं कर्तृतां विदुः ।
तद् इत्थं परमेशानां भेदे भेदे ऽपि वात्मनाम् ॥

1.345

प्रभवन्ति न कर्माणि बन्धनाय स्वभावतः ।
तस्माद् इदम् अमुष्मात् स्यात् कर्मणो वा शुभाशुभम् ॥

1.346

तद् ऐश्वर्यम् अमुष्यैव विहितं परमेशितुः ।
निर्णीतम् एतद् अन्यत्र मयैव विततं यतः ॥

1.347

तद् अलं प्रकृतं ब्रूमः क्रियाशक्तिर् इयं परा ।
अघोरत्वेन देवस्य तत एव प्रकीर्तिता ॥

1.348

दाक्षिण्यम् अत एवास्या भावानां शिवसंश्रये ।
यतो ऽञ्जसैव मार्गो ऽयं या क्रिया च न सात्मिका ॥

1.349

ननु नात्र स्थिताः केचिद् भावा ये शिवताश्रिताः ।
कर्तारः सत्यम् इत्थं तु बोध्यमानो ऽवधारयेत् ॥

1.350

देशकालक्रियाकारकल्पनापथवर्जितः ।
देवदेवस् तथैवास्य शक्तिः सा विश्वरूपिणी ॥

1.351

तद् विश्वम् अपि कालादिकलङ्काङ्ककलोज्झितम् ।
\ह्स्पचे{3च्म्} भैरवाभेदवर्तिनम् ॥

1.352

तत्स्वातन्त्र्यात् स्वतन्त्रं तत् स्वात्मनि प्रोच्छलत् स्थितम् ।
यतो भाति ततो ऽप्य् अस्तशिवावेशबहिष्कृतम् ॥

1.353

अत एव परा सेयं दक्षिणाघोररूपिणी ।
यद् वक्ष्यते जन्तुचक्रे शिवधामफलप्रदाः ॥

1.354

पराः प्रकथितास् तज्ज्ञैर् अघोराः शिवशक्तयः ।
अन्यत्रापि क्रियाशक्तिः शिवस्य पशुवर्तिनी ॥

1.355

बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिनी ।
अकारादिहकारान्तः प्रसरो यः प्रगीयते ॥

1.356

स एव बिन्दुनिलयाद् अस्वरत्वम् उपाश्रितः ।
क्रियाशक्तिविजृम्भेयं समस्तवर्णमालिका ॥

1.357

क्रोडीकृताव् अहम् इति परामर्शस्वरूपिणी ।
तिष्ठत्य् एव. ततः पूर्णपराहंकारसस्फुरः ॥

1.358

अनन्तादिविरिञ्चान्तपशुसंघातघस्मरः ।
निजोदरदरीनीतचराचरजगद्व्रजः ॥

1.359

स्वचैतन्यविमर्शान्तर् ग्रस्तपुद्गलसंचयः ।
यावद् उल्लसितस्, तावत् क्रियाशक्तिस्वरूपतः ॥

1.360

असंविज्ञाननिःसंख्यवैचित्र्यचर्चितस्थितेः ।
अनन्तकार्यशान्त्यादिसौम्यरौद्रभिदात्मनः ॥

1.361

अपि स्वग्रासमाहात्म्यप्रकटीकृतसुस्थितेः ।
औचित्याद् विविधाकारा अपि भैरवतेजसः ॥

1.362

रिक्तपूर्णोभयभवपुनरावृत्तिचित्रिताः ।
शाक्तस्वरूपविश्वाख्यस्वांशग्रासैकलम्पटाः ॥

1.363

लोककालचिरारूढभावोन्मूलनभाविताः ।
शक्तयो निजविस्फाराद् रश्मिपुञ्जं निजं निजं ॥

1.364

प्रसारयन्त्यः संकल्पसत्यभावसमाश्रयात् ।
स्वोचितान्य् एव लोकोत्थवामाचारबहिष्कृतेः ॥

1.365

घटयन्त्य् एव शास्त्राणि यातानि परिपूर्णताम् ।
यादृक् प्रथमसंभूतो लोकातिक्रान्तिगोचरे ॥

1.366

समाचारः स एवात्र ग्रस्तभेददशो भवेत् ।
पूर्णेयं परमेशस्य महासृष्टिर् इह स्थिता ॥

1.367

यस्यां संहारसृष्ट्यंशा विश्वे ते मध्यवर्तिनः ।
सा चाद्या सृष्टिर् इत्य् एव नैव वक्तुं भवेत् क्षमम् ॥

1.368

अदेशकाले तत्त्वे हि कथम् आद्यादिसंभवः ।
जाग्रद्दशेयं सा मुख्या प्रोन्मेषपदभागिनी ॥

1.369

ब्रह्मैष निजशक्त्यंशसंबोधकमलासनः ।
ता एताः सौशिवाद् रूपात् प्रभृति ब्राह्मम् अन्ततः ॥

1.370

रूपं कृत्वा विजृम्भन्ते संविन्नाथस्य शक्तयः ।
एतावान् एव देवो ऽयम् इति यद्य् अपि शक्यते ॥

1.371

न वक्तुम् अप्रमेयत्वाच् चिद्रूपस्य महेशितुः ।
प्रबोधपञ्चदशिकामध्ये तादृङ् मया स्फुटम् ॥

1.372

उक्तं मितप्रकाशत्वं जडस्य किल लक्षणम् ।
जडाद् विलक्षणो बोधो यतो न परिमीयते ॥

1.373

तथापि स्वयम् एतादृग् देवो मानविवर्जितः ।
निजस्वातन्त्र्ययोगेन कृत्वात्मानं चराचरम् ॥

1.374

ईशतत्पुरुषाजातैर् उद्भूतैर् उद्बुभूषुभिः ।
एककैः षड्भिर्, एकेन त्रिकेण, द्व्यात्मकैस् त्रिभिः ॥

1.375

जायते शिवभेदानां दशानां विविधा स्थितिः ।
अत एव विचित्राभ्यः संविद्भ्यो मिश्रतावशात् ॥

1.376

चित्राण्य् अत्र शिवाख्ये ऽपि भेदज्ञानानि तेनिरे ।
यदा त्रयाणां वक्त्राणां वामदक्षिणसंगतिः ॥

1.377

तदा प्रत्येकशक्तित्वं भविष्यद्भवदुद्भवैः ।
षण्णां त्रित्वे रुद्रभेदस् तेनाष्टादशधा स्थितः ॥

1.378

एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात् प्रगीयते ।
दशाष्टादशभिन्नस्य ततो भेदैर् असंख्यता ॥

1.379

पूर्वोदितयथास्वस्वज्ञानकर्मविचित्रिताः ।
निर्णीयन्ते यतस् तेषु तेन नो पुनरुक्तता ॥

1.380

अन्यान्य एव बोधो हि समाचारः क्रियाक्रमः ।
तत्र तत्र तथा प्रोक्तः सर्वस् तु शिवधामगः ॥

1.381

यथा जलकणाह् सर्वे विश्राम्यन्ति महाम्बुधौ ।
तथा ज्ञानक्रियाः सर्वाः संवित्सिन्धौ महेश्वरे ॥

1.382

मितम् अपि जलं भूमौ सूर्यांशुभिः किल पीयते । तद् अपि च पुनर् वृष्टिद्वारैः प्रयाति महार्णवम् ।
जगति निखिलं ज्ञानं कर्म स्फुटं किम् अपि स्वयं । किम् अपि च परैः पारम्पर्याच् छिवार्णसि मज्जति ॥

1.383

यच् चान्ते दक्षिणे हार्दं लिङ्गं हृत् परमं मतम् ।
तद् अप्य् अन्तःकृताशेषसृष्टभावसुनिर्भरम् ॥

1.384

भेदभावकमायीयतेजोंशग्रसनाच् च तत् ।
सर्वसंहारकत्वेन कृष्णं तिमिररूपधृत् ॥

1.385

विज्ञानशास्त्रे कथितम् अत एव महेशिना ।
लीनं मूर्ध्नि वियत् सर्वम् इत्यादि तिमिरं विभोः ॥

1.386

एवम् एव दुर्निशायां कृष्णपक्षागमे चिरम् ।
भावयेद् भैरवं रूपं भावयद्भिर् दुराभिदम् ॥

1.387

उक्तं च यत्र स्वर् दुःखं तमो वाद्वयसंवृते ।
नाविद्याकर्मसंबन्धः पारतन्त्र्यादिदर्शनात् ॥

1.388

तद् अत्र तिमिराकारे भैरवीये वपुष्य् अलम् ।
अन्तर्लीनतया भाति यावद् वक्त्रचतुष्टयम् ॥

1.389

उद्बुभूषु तथोद्भूतं तिरोधित्सु तिरोहितम् ।
ततो युगपद् एवैतद्भिदा षोडशकात्मकम् ॥

1.390

दक्षे वैसर्गिके हार्दे स्वतन्त्रे च शिवे विशत् ।
अष्टाष्टकात्मकं शास्त्रं युगपद् भैरवाभिधम् ॥

1.391

इत्थं तन्त्रं रुद्रशिवभैरवाख्यं स्थितं त्रिधा ।
वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ॥

1.392

भेदेन भेदाभेदेन पूर्णेनाभेदसन्धिना ।
तथा च मुख्याः शाम्भव्यस् तिस्र इच्छादिशक्तयः ॥

1.393

तत्रैव तु प्रपञ्चेन पञ्चशक्त्यादियोजनम् ।
इत्थं मध्ये विभिन्नं तत् त्रिकम् एव परं तथा ॥

1.394

शास्त्रम् अस्मद्गुरुगृहे संप्रदायक्रमात् स्थितम् ।
अत एव हि नैकट्याद् वामदक्षिणशास्त्रयोः ॥

1.395

धारा प्रान्तधराप्रान्ते कौलिकी प्रविजृम्भते ।
ततो ऽपि संहृताशेषभावोपाधिसुनिर्भरः ॥

1.396

भैरवः परमार्थोद्यद्रवबृम्हितवृत्तिकः ।
ईशानवामदक्षासु तासु शक्तित्रयं क्रमात् ।
अपरादिपराप्रान्तं क्रोडीकृत्यावतिष्ठते ॥

1.397

तद् विभावयति भेदविभागं तत्स्फुटत्वकृद् अथो तम् अनन्तम् ।
संग्रसिष्णु परमेश्वररूपं वस्तुतस् त्रिशिर एव निराहुः ॥

1.398

ऊर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च ।
रूढान्य् अमुष्यां धारायां भेदसंकोचहानये ॥

1.399

परप्रकाशविषयस् त्रिकार्थस् त्रैधम् आस्थितः ।
स एष परमेशेन ज्ञानचन्द्राख्ययोदितः ॥

1.400

स एव सर्वः शास्त्रार्थः परवाग्वृत्तिसंश्रितः ।
अनुल्लसिततद्वाच्यवाचकादिविभक्तिकः ॥

1.401

पश्चात् तु ज्ञानशक्त्यंशप्राधान्यस्फुरितात्मनि ।
क्रियाशक्तौ सुसूक्ष्मायां सादाख्यैश्वर्यसंपदि ॥

1.402

पश्यन्तीमध्यमाधाम्नि सञ्जल्पोल्लेखयोगतः ।
पदवाक्यस्वरूपेण वर्तते वर्णरूपिणा ॥

1.403

स्वच्छन्दशास्त्रे तेनोक्तं स्वयं देवः सदाशिवः ।
पूर्वोत्तरपदैर् वाक्यैस् तन्त्रं योजितवान् इति ॥

1.404

तथा च तत्रैवोक्तं तत्सुशिवावरणे ऽध्वनि ।
सुशिवावरणं पूर्वं तत्र ज्ञेयः सदाशिवः ॥

1.405

शिवदशकसंयुक्तो रुद्राष्टादशकान्वितः ।
अधिकारो हीशतत्त्वे तज्जिघृक्षा तु सौशिवे ॥

1.406

वरणे बिन्दुतो भोगधाम्नि विभवतो विभोः ।
भैरवाख्यस्य बोधस्य शक्तितत्त्वे परं त्रयम् ॥

1.407

स्थितिस् तस्माद् ईश्वरोर्ध्वे सदाशिवपदाद् अधः ।
सुशिवावरणेनोक्ता श्रीमत्स्वच्छन्दशासने ॥

1.408

तदनन्तरम् एतासु शिवरुद्रभिदास्व् अलम् ।
मायीयाध्वनि कॢप्तासु शिवैर् उक्तः शिवाभिधः ॥

1.409

भेदो रुद्रैश् च रुद्राख्य इति प्राप्तो विचित्रताम् ।
ततः प्रोद्यत्क्रियासारप्रोल्लासात् क्रमशः स्फुटम् ॥

1.410

सर्वगोचरमायीयश्रुतवैखर्युपाश्रिताः ।
वर्णवाक्यपदात्मानः शास्त्रार्था लोकगोचराः ॥

1.411

समाश्रित्य प्रवर्तन्ते तांस् तांस् तन्त्रावतारकान् ।
तेन प्रथमतो यावन् मायीयां वैखरीं दरीम् ॥

1.412

मायीयवर्णसंदृब्धः शास्त्रार्थो नायम् आगतः ।
अन्तः सारविबोधैकपरवाङ्मयवर्णकः ॥

1.413

अकृत्रिमपरावेशमूलसंस्कारसंस्कृतः ।
शास्त्रार्थो लौकिकान्तो ऽस्ति सप्तत्रिंशे परे विभौ ॥

1.414

तत्रासतां हि भावानां क्वापि नास्त्य् एव सत्यता ।
स्वामिन्य् अविनयाक्रान्तप्रकृतौ विनयः कुतः ॥

1.415

तस्मात् समस्तशास्त्रार्थः परतत्त्वात्मना स्थितः ।
अतो वेदादयो ऽप्य् एते मायीयाः शासनांशवः ॥

1.416

स्फुरन्ति भैरवादित्यप्रभावाद् एव नान्यतः ।
न हि संविद्विमर्शात् स्याद् अन्यत् क्वाप्य् एव कारणम् ॥

1.417

संविन्नाथस्य संवित् स्यात् संविद् एव तथा यतः ।
कार्यं च कारणं चेति तथात्व उपचार्यते ॥

1.418

परिणामे हि भावस्य क्रमाद् विततधर्मणः ।
आद्यन्तयोः संविद् एव रूपत्वेनावभासते ॥

1.419

संविच् च कालकलनां सहेत यदि तत् स्फुटम् ।
भुञ्जीमहि निशातासिच्छिन्ना व्योमांशशर्कराः ॥

1.420

अतः समग्रशास्त्राणि संविद्रूपापरिच्युतेः ।
संविदः स्वप्रकाशत्वात् स्वप्रकाशानि वस्तुतः ॥

1.421

न च वाच्यं पृथग् जातु वाचकाद् व्यवतिष्ठते ।
स्वातन्त्र्याद् अभिधातैव भाविवाच्यतया यतः ॥

1.422

कदाचिद् वाचकांशस् तु स्वरूपग्रस्तवाच्यकः ।
निर्भासते कदाचित् तु सामान्योल्लासवाचकः ॥

1.423

जातुचिन् निकटानन्तविशेषणविशेषितः ।
स्फुटस्वरूपवाच्यांशसमुद्रेकेण भासते ॥

1.424

तेनार्थपरता जातु स्वरूपपरता तथा ।
बुभूत्सितार्था क्वापि क्वचिद् रसमयी दशा ॥

1.425

शब्दानां लक्ष्यते चित्रा संविद्रूपानपायतः ।
संविद्विचित्रकचनैः कचतीति किम् अद्भुतम् ॥

1.426

इत्थं शिवात्मकविमर्शपदाद् अभिन्नः शब्दः स्फुटत्वत इह स्वपरप्रकाशः ।
मानं तद् एव चितिसारविमर्शमात्रम् अन्यत् पुनस् तदुपचारवशात् तथा हि ॥

1.427

स्वप्रकाशात्मिका येयं संवित्तिः पारमार्थिकी ।
तत् स्वसंवेदनं प्रोक्तं यतो विश्वव्यवस्थितिः ॥

1.428

सा चैषा न विमर्शात्मस्वरूपम् अतिवर्तते ।
विमर्शो ऽस्याः परो भोगः पूर्णः पश्यन्त्य् उदाहृता ॥

1.429

परापरा सैव देवी मानम् इत्य् अवधार्यताम् ।
यत्रापरांशगं मेयं तादात्म्याद् व्यवतिष्ठते ॥

1.430

न हि भिन्नेन मानेन मेयस्य स्याद् व्यवस्तितिः ।
न हि हंसस्य शुक्लत्वे काकः श्वेतत्वम् अर्हति ॥

1.431

एतद् एव तथा चाह गुरुः शङ्करनन्दनः ।
न मानत्वात् ततो ऽन्यत्वान् न बाधाद् अस्थितेः स्थितिः ॥

1.432

प्रकाशेनाविनाभूतैः सत्तायां नियतात्मभिः ।
धर्मैर् भावो बहिर्भावान् न भावः सिद्धिम् ऋच्छति ॥

1.433

तेन संवित्तिकात्मैव मातृमानप्रमेयता ।
गृह्णती स्वप्रकाशत्वं स्वभावाद् एव भासते ॥

1.434

सा चान्तःस्थितमन्त्रात्मशब्दनामर्शसुन्दरा ।
अनपेक्षान्यविरहात् प्रमाणं स्वत एव हि ॥

1.435

तस्या एव विचित्राणि नामानि बहुभङ्गिभिः ।
तत्प्रसादोत्थितान्य् एव वादिनः पर्यचीकॢपन् ॥

1.436

तथा च चक्षुराद्यक्षमण्डलीटङ्कनिष्ठितम् ।
प्रत्यक्षम् इति यद् गीतं तत् तावत् प्रविविच्यते ॥

1.437

संवित्तिव्यतिरेकेण यद्य् अक्षाणां व्यवस्थितिः ।
न स्याद् अर्थप्रमाणैक्यं तर्हि बाह्यघटादिवत् ॥

1.438

नन्व् आत्मनश् चक्षुरादि करणं न घटादिकम् ।
तस्मात् तेनैव भावानां मानं न तु घटादिभिः ॥

1.439

व्यापकाभिमतस्यास्य संयोगे चाविशेषिणः ।
भौतिकत्वाविशेषेण घटाद्यैश् चक्षुरादिना ॥

1.440

आत्मनः करणाकाङ्क्षापूरणं नियतं कुतः ।
विशिष्ट एव संयोगः करणत्वे निबन्धनम् ॥

1.441

विशेषः कर्मभिस् तैस् तैर् धर्माधर्मगिरोदितैः ।
तद् एतद् युक्तिसद्भावप्रतिभाविकलात्मकः ॥

1.442

ब्रुवन् वञ्चयते मुग्धान् पलायनपरायणः ।
यच् चाशेषाक्षसंयोगिव्यापकात्मवशोत्थिताम् ॥

1.443

युगपज् ज्ञप्तिम् आच्छेत्तुं मनो नाम निगद्यते ।
तत्रापि ब्रुमहे पूर्वं मनसात्मैव युज्यते ॥

1.444

तत्राप्य् आत्ममनोयोगं कः कुर्याद् इति चर्च्यताम् ।
व्यापकत्वाद् असौ स्याच् चेत् सर्वैर् एव मनो व्रजेत् ॥

1.445

एकस्य जाते संयोगे सर्वः सर्वज्ञताम् इयात् ।
यदि स्वान्तम् अधिष्ठातृ चक्षुराद्यम् अपेक्षते ॥

1.446

तेनाधिष्ठानम् अर्थानां तावतो ऽक्षांशवर्त्मनः ।
अक्षाधिष्ठितसूक्ष्मांशभागसंपर्कभासितः ॥

1.447

बाह्यस्यार्थस्य कुण्डादेर् अणुर् एको ऽवभासताम् ।
अथापि मानसाधिष्ठा जाता चेद् अक्षगोचरे ॥

1.448

तद् एतस्य स्वविषये शक्ततैवोपजायते ।
तर्हि सूक्ष्मतमच्छिद्रनिस्सृता नेत्ररश्मयः ॥

1.449

विश्ववर्तिनि भावौघे न प्रमां कुर्वते कुतः ।
योग्यदेशस्थितान् भावान् गृह्णते ऽक्षाणि नन्व् अलम् ॥

1.450

योग्यतैव हि देशस्य कीदृशीति विचार्यताम् ।
यत्रस्थस्य भवेद् वित्तिः स देशो योग्य उच्यते ॥

1.451

कुत्रस्थस्य भवेद् वित्तिर् इति किं वा न दर्श्यते ।
तद् अमी तार्किकम्मन्या युक्त्युपन्यासवर्जिताः ॥

1.452

पूर्वम् एव कथं तूष्णीं नातिष्ठन् किं विकत्थनैः ।
आत्मनश् चाभिसंधानवन्ध्यस्यैव बलादयम् ॥

1.453

मनोक्षजालसंयोगो भवेत् किं नासमञ्जसः ।
अभिसन्धिर् अथैतस्य विषयं प्रति जायते ॥

1.454

अज्ञाते को ऽभिसन्धिः स्याज् ज्ञाते को ऽर्थो ऽक्षसंयुजा ।
प्रज्ञाते स्मर्यमाणे चेद् अभिसन्धातृभावितः ॥

1.455

अन्यद् एवाभिसन्धातुः प्रयत्नो ऽन्यत्र जायते ।
म्मनोयुक्तात्मसंबद्धचक्षुराद्यक्षसंश्रिताः ॥

1.456

विषयाः सविधीभूतनेत्राद्युल्लङ्घनक्रमात् ।
आत्मन्य् एव कथंकारं प्रमातृत्वं प्रतन्वताम् ॥

1.457

ननु ज्ञानकृतो मातृभावो विज्ञानम् आत्मनि ।
समवैति ततो ऽन्यस्य कथं मातृत्वशङ्कनम् ॥

1.458

एतद् एव वयं ब्रूमो ज्ञानं तत्रैव वै कुतः ।
भयात् स्वपक्षपातान्धस् तद् एवोत्तरम् अभ्यधात् ॥

1.459

यथेन्द्रियात्मसंयोगे मनः कारणम् उच्यते ।
तथैवात्ममनोयोगे कारणान्तरम् उच्यताम् ॥

1.460

तथात्वे चानवस्थैव मूलक्षतिकरी च सा ।
अथ स्वान्तात्मसंयोगो ध्रुव एवाभ्युपेयते ॥

1.461

ज्ञातारः स्युः सदा सुप्तमत्तमूर्छितदुर्भगाः ।
न चैतद् भवतां ज्ञानम् अभीष्टं शाक्यशिष्यवत् ॥

1.462

तस्मात् प्रत्यक्षता नाम कथम् इन्द्रियगोचरात् ।
अथ प्रत्येकम् एतेषां परीक्षेयं प्रतन्यते ॥

1.463

तत्राणु नित्यं सर्वार्थं वेगवल्लघ्व् अभौतिकम् ।
मनस् तच् चापि नैवेह युक्तिसिद्धत्वम् अश्नुते ॥

1.464

अणु चेच् छीग्रसंचारि मनो यद् विषयान् मुहुः ।
स्पृशेत् तदैव देहस्य भवेच् छवशरीरता ॥

1.465

देहस्थे ऽपि मनोयोगे तत्रैव ज्ञानयोगतः ।
एकाणुमात्रं जीवः स्याच् छिष्टं स्याद् घटकुड्यवत् ॥

1.466

अथ स्वान्तेन योगश् चेज् जातः क्वाप्य् आत्मगोचरे ।
तद् विभोर् आत्मनो ज्ञानं समवायीति मातृता ॥

1.467

जातेति सर्वदेहस्थं जीवनं किं न सिद्ध्यति ।
एनयैव न किं युक्त्या घटादेर् जीवनं भवेत् ॥

1.468

विभाव् आत्मनि जातं हि ज्ञानं तत्रैकदेशतः ।
देहमात्रे पुनः स्वान्ते भवेत् सावयवा स्थितिः ॥

1.469

विभुत्वे मानसस्य स्याद् युगपत् सर्ववेदनम् ।
नित्ये च मनसि ज्ञानं सर्वदैव भवेत् ततः ॥

1.470

मोक्षावस्थापि विज्ञानयोगिन्य् एवोपजायते ।
मुक्तौ चात्ममनोयोगो नास्तीत्य् एतन् महाद्भुतम् ॥

1.471

किं हि व्यापकता मोक्षे स्वात्मनो विनिरुध्यते ।
अभौतिकं चेत् सर्वार्थं कथंकारं मनो भवेत् ॥

1.472

विशिष्टविषयव्यक्तिकौशलाद् एव चक्षुषः ।
तैजसत्वम् अभीष्टं हि तन् मनो भौतिकं न किम् ॥

1.473

सर्वर्थत्वे च मनसः किम् अन्यैर् अक्षडम्बरैः ।
ननु बाह्ये ऽस्य विषये प्राग् अस्त्य् अक्षोपयोगिता ॥

1.474

तथा हीन्द्रियसंदृष्टे पाश्चात्या मनसः स्थितिः ।
अत्रोच्यते यथैव प्राग् इन्द्रियेण न गृह्यते ॥

1.475

तच् चेत् स्वलक्षणं पश्चाद् अनुयन्त्र् इति का कथा ।
अथ सामान्यमात्रं तद् गृहीतं प्राक् तदिन्द्रियैः ॥

1.476

व्यक्तिनिष्ठं तदानीं च मनसा व्यक्तिनिश्चयः ।
नास्तीति मनसा कस्मात् सामान्यग्रहणं भवेत् ॥

1.477

विना व्यक्तिग्रहेणैव सामान्यग्रहणं य[कु]तः ।
सामान्यग्रहणे चास्य सर्वार्थत्वं निरुध्यते ॥

1.478

विशेषग्रहवन्ध्यस्य सर्वशब्दविलोपतः ।
आशुगामित्वम् एतस्य यच् चोक्तं तत्र वस्तुनि ॥

1.479

पुरःस्थिते स्वहस्तादौ किंचिद् दूरगते घटे ।
अतिदूरे च मेर्वादौ कथं तुल्यैव गन्तृता ॥

1.480

आशुसंचारिणां यस्मात् क्वापि पूर्वकतेजसाम् (?) ।
सविधासविधत्वेन विशेषः प्रविभाव्यते ॥

1.481

कथं चाभौतिकं सूक्ष्मं गृह्णीयात् पर्वतादिकम् ।
अभिव्यक्तिः समानस्य समानेन विधीयते ॥

1.482

नन्व् अस्तु प्राकृती बुद्धिस् ततो ऽहंकृत् ततो मनः ।
इत्थम् अप्य् अणुता नैव मनसः संप्रसिद्ध्यति ॥

1.483

व्यापकत्वेन पूर्वोक्तदूषणानि स्थितान्य् अलम् ।
इत्थं मनो न युक्त्यंशैर् मानसावर्जनाय नः ॥

1.484

यादृग् वाद्यन्तरैर् इष्टं द्वैतव्यामूढदृष्टिभिः ।
चिदात्मनः प्रकाशस्य तथाभासनभागिनी ॥

1.485

या शक्तिस् तन् मनस् त्व् अस्तु स्वस्वातन्त्र्योपकल्पितम् ।
यत्र श्रोत्रं नभस् तत्र सर्वशब्दश्रुतिर् भवेत् ॥

1.486

चक्षुराद्यैश् च सर्वत्र निर्विबन्धं यतो नभः ।
धर्माधर्मैर् विबन्धश् च युक्त्युपन्यासवैकली ॥

1.487

बाधिर्यादि कथं च स्यात् कथं वा तच्चिकित्सनम् ।
बन्धाश्रयविघातेन तदनुग्रहस् तथा ॥

1.488

अक्षं स्वावयवेष्व् एव x x x समवायिनः ।
विशेषेण नभो नैव क्वाप्य् आश्रितम् इति स्थितिः ॥

1.489

संयोगिता तु \ल्दोत्स् साकं भावेन वर्तते ।
तदनुग्रहघाताभ्याम् अपि विक्रियतां ततः ॥

1.490

यद् अनुग्रहस् तद् अनुग्रहः स तदाश्रयः ।
इतीयं स्ववचःकॢप्तिर् निःसारैव विभाति नः ॥

1.491

आश्रयद्वारको ऽक्षाणाम् अनुग्रह इति स्फुटम् ।
अभिधत्स्व क एतेषाम् आश्रयो ऽस्त्व् इति चोदिते ॥

1.492

यद् अनुग्रहयोगो ऽस्य स एवाश्रय इत्य् अयम् ।
न्यायो ऽन्योन्यसमालम्बी चक्रकं नातिवर्तते ॥

1.493

वायुप्रकृति यच् चोक्तं स्पर्शनं तद् विविच्यते ।
वायोर् वेगवती तावद् अनिरुद्धा स्थितिः स्थिता ॥

1.494

देहदेशे ततः स्पर्शः न कुड्य इति कः क्रमः ।
चक्षुश् च तैजसं तेजः प्रसृतं बाह्यगोचरे ॥

1.495

अर्थान् रूपप्रधानांश् च वेत्तीत्य् एतन् निरूप्यते ।
अदृश्यं यदि तत् तेजः प्रेर्यते मनसा कथम् ॥

1.496

प्रेरणं न ह्य् अविज्ञानं कदाचिद् उपपद्यते ।
इन्द्रियेण न च ज्ञातं कदाचिच् चाक्षुषं महः ॥

1.497

न चापीन्द्रियविज्ञाते स्वतन्त्रं भवतां मनः ।
अप्रेरितं च तत् पश्येत् सर्वतः सर्वथा सदा ॥

1.498

आसमञ्जस्यम् एव स्यात् प्रवृत्तौ वा निवर्तने ।
किं च गोलकसंस्थानं तावच् च यदि तन् महः ॥

1.499

तावतस् तद्गतस्यैव ग्रहः स्यान् नान्यतः क्वचित् ।
तथैतद् विपरीतं तु गोलके ऽपि निमीलिते ॥

1.500

उन्मीलिते वा सर्वत्र वस्तुनि ग्रहणं भवेत् ।
उन्मीलिते चक्षुषि च प्रसृते रश्मिमण्डले ॥

1.501

तस्यास्ति न पटस्येव संवृतिर् नेत्रमीलने ।
ततो निमीलिताक्षस्य वस्तुदृष्टिर् न किं भवेत् ॥

1.502

घने चातपमध्ये ऽस्ति विनिमीलितचक्षुषः ।
चित्रतेजोवभानं तत्पीडिताक्षयुगस्य च ॥

1.503

योगिनां बिन्दुदृग् ध्वान्ते कथं तद् वा भविष्यति ।
भवेद् उन्मीलिते ऽप्य् अक्ष्णि न वस्तुग्रहणं क्वचित् ॥

1.504

मनोधिष्ठानयोगेन परमाण्वधिकप्रथा ।
दीपापेक्षा च यामुष्य सापि किं न विबाध्यते ॥

1.505

दीपप्रकाशः स्वान्तात्मनेत्रार्थेषूपकारकः ।
न प्रत्येकं मनोवृत्तेः संस्कारस् तेन चेद् भवेत् ॥

1.506

दीपे संकल्प्यमने स्याद् रात्रौ रूपपरिग्रहः ।
आत्मनः संस्क्रिया चेत् स्यात् तस्य सर्वगतत्वतः ॥

1.507

सर्वदा रूपसंवित् स्यात् संयोगः संस्क्रिया यतः ।
अमूर्तस्य्पि नित्यस्य को ऽन्यः संस्कार उच्यते ॥

1.508

नेत्रोपकारश् चेत् तर्हि नेत्रदेशस्थिते ऽर्चिषि ।
तेजोमध्यगतं रूपं न भासेत कदाचन ॥

1.509

ननु तद् वेद्यदेशे ऽसौ नायनः किरणव्रजः ।
हन्त तत्रैव विज्ञानम् आत्मदेशे न किं भवेत् ॥

1.510

तत्रैवात्मा विभुत्वेन तत्रैव करणं यतः ।
तस्माद् भोगाश्रयो देहो जीवन्न् इति वृथोक्तयः ॥

1.511

नायनानां मयूखानां गन्तृत्वे ऽवसिते सति ।
अनावृते ऽरण्यमार्गे स्वहस्तात् प्रभृति स्फुटम् ॥

1.512

अर्कचन्द्रादिसंदृष्टिः कथं नामोपजायताम् ।
शीघ्रत्वे ऽपि यतः प्रोक्तभेदो दूराविदूरगः ॥

1.513

दीपनेत्रावभासाभ्यां छन्ने तस्मिन् कथं मतिः ।
शुद्ध एव भवेद् भावे ताभ्यां व्यामलताजुषि ॥

1.514

अन्धत्वं तच् चिकित्सा च न युक्ताश्रयदूषणा ।
रसना च जलात्मा चेत् तज् जलं स्रुतिमद्यतः ॥

1.515

ततः स्थैर्यं कथं तस्य का च नानारसप्रथा ।
तस्यैकरसतायोगे तस्या नैकरसस्थितेः ॥

1.516

न स्याद् एकरसज्ञप्तिर् यथा पित्तभरे सति ।
तिक्ता रसनवृत्तिर् नो माधुर्यं विदितं क्षमा ॥

1.517

ननु पित्तगतं तैक्त्यं न त्व् एवं रसनागतम् ।
तर्हि पित्तगूडौ तुल्यं रसनापथगामिनौ ॥

1.518

इति स्याद् युगपज् ज्ञप्तिस् तिक्तमाधुर्यगोचरा ।
नीरसा रसना चेत् सा रसाभिव्यञ्जिका कुतः ॥

1.519

स्वभावाद् इति चेद् अस्याः को ऽयम् आम्भसताग्रहः ।
घ्राणं च पार्थिवं तस्य काठिन्यं किं न दृश्यते ॥

1.520

ननु गन्धगुणोद्रेकि किं स गन्धो न भासते ।
नास्ति तत्रेन्द्रियव्यक्तगन्धवत्त्वे तथा प्रमा ॥

1.521

निर्गन्धम् अपृथिव्यात्मा मनो गन्धग्रहक्षमम् ।
अस्त्य् एव भवतां तेन नानुमा तादृशा क्षमा ॥

1.522

तस्माद् इन्द्रियसंघातो भौतिको नोपपद्यते ।
आहंकारिकतायां तु व्याप्तृत्वम् अविभिन्नता ॥

1.523

देहाश्रयविरोधश् च करणत्वेन चास्थितिः ।
वागादि यच् च कर्माक्षपञ्चकं तद् विविच्यताम् ॥

1.524

आनाभेर् मूर्धपर्यन्तं यः समीराभिघातजः ।
विशेषः को ऽपि वागात्मा स तादृग् इह कथ्यते ॥

1.525

तस्य कार्यं भवेच् छब्दः कर्ता को ऽत्र विचार्यताम् ।
आत्मनो नैव कर्तृत्वं तथात्वे ऽपि विभुत्वतः ॥

1.526

मया प्रोच्चारिते शब्दे त्वं वक्ता किं न जायसे ।
प्रकृताव् अपि दोषो ऽयं कर्त्र्यां कर्तृत्ववर्जिता ॥

1.527

करणस्य स्थितिर् नास्ति तुल्ये वागिन्द्रिये सति ।
कथं चास्फुटसुस्पष्टभावः शब्देषु जायते ॥

1.528

कथं चोपांशुसंजल्पस्मृत्यादौ शब्दगा भिदा ।
प्रयत्नाच् चेत् प्रयत्नो ऽपि यद्य् उत्पत्तिस् ततः कथम् ॥

1.529

विशेषो जायते ह्य् अन्यो न ह्य् अन्यगुणसंभवः ।
प्रयत्नमान्द्यामान्द्याभ्यां येन प्रतिविधीयते ॥

1.530

पाणीन्द्रियं चाददानं मुखाद्यैर् ग्रहणं कुतः ।
ग्रहणं च किम् उच्येत स्वीकारो यदि संमतः ॥

1.531

अस्वस्य स्वस्य करणं स्वीकार इति भण्यते ।
स्वशब्दश् चात्मवाची चेत् तत्रात्मा प्रकृतिर् यदि ॥

1.532

तन् नास्त्य् अप्राकृतं किंचिद् इत्य् अस्वतत्वं कथं किल ।
अहङ्कारो ऽप्य् अथात्मा स्यान् नाहंकारी कृतिर् घटे ॥

1.533

आत्मीयो ऽयम् अनेनैतद् दूषणेनैव दूषितम् ।
अहंकारस्य संबन्धि सर्वम् एव हि तत् स्वकम् ॥

1.534

आत्मनो व्यापकस्यास्ति न स्वं नास्वं च किंचन ।
एवं पादेन्द्रियस्यापि समो ऽयं युक्तिविक्रमः ॥

1.535

देशाद् देशान्तरप्राप्त्या गमनं च यद् उच्यते ।
तत्त्यागरूपं स्वीकाराभावेनैव प्रसिद्ध्यति ॥

1.536

स्वीकारो दूषितश् चैष स्वीकारांशो ऽपि यो गतौ ।
तस्य पाणीन्द्रियं युक्तं करणं नाङ्घ्रिनामकम् ॥

1.537

इन्द्रियाणां हि सांकार्यम् एवं कार्येषु जायते ।
अत एव महान्यायवेदिभिश् चरमे नये ॥

1.538

प्रोक्तो गतिनिषेधाय भूयान् सद्वाक्यडम्बरः ।
गतं न गम्यते तावद् अगतं नैव गम्यते ॥

1.539

गतागतविनिर्मुक्तं नास्तीत्यादि स्वके नये ।
पाय्विन्द्रियं च न च्छिद्रमात्रं कोष्ठ्यमरुत्क्रमात् ॥

1.540

उत्सर्गः किल सांकार्यं तेन स्याद् इयती स्थितिः ।
उपस्थम् इन्द्रियं यच् च तस्य कार्यं निगद्यते ॥

1.604

शाम्यतीति न युक्तेत्थम् अनुमानप्रमाणता ।
तद्भेदवादिनां तावद् द्वे माने नैव संगते ॥

1.605

शब्दादेस् त्व् अनुमानेन सुधीभिः परिनिश्चितम् ।
तस्मात् स्वसंविद् एवैषा स्वप्रकाशतया स्थिता ॥

1.606

समुल्लासः सिन्धोर् बहललहरीविभ्रममयः प्रकाशः शाशाङ्कः कुमुददलनिर्भेदसचिवः ।
परस्याः संवित्तेर् मितिविषयमातृव्यतिकरैर् विकासो यः सेयं जगति विविधा कल्पनकला ॥

1.607

तस्मात् प्रकाश एवायं चित्रशक्तिसुनिर्भरः ।
स्वयं विचित्ररूपेण भाति विश्वत्र विश्वतः ॥

1.608

तद् अयं प्रस्फुटाभासो लोकरूपादिवर्त्मना ।
स्वशक्त्यंशाद् विकल्पाख्यात् प्रत्यक्षव्यपदेशभाक् ॥

1.609

तथा हि देवदेवांशस् तत् समुन्मीलनं दृशः ।
प्राणस्पन्दस् तदैकाग्र्यं भावस् तद्धर्मसंचयः ॥

1.610

इत्यादि सर्वं यद् भाति तत् प्रत्यक्षम् इति स्फुटम् ।
न त्व् अत्र कर्तृकर्मांशकरणत्वादिना गतिः ॥

1.611

नन्व् असाव् अस्ति पाश्चात्ये वैकल्पिकपथे ततः ।
यतो देहघटाभासो स्फुटः पश्चात् तु सो ऽस्फुटः ॥

1.612

स एव च्छन्नरूपस् तु शुद्धांशस्वात्मसंविदम् ।
ततो देहघटाभासस् तत्राप्य् एषैव वर्तनी ॥

1.613

यावत्सहस्रदेहौघभावकोट्यवभासनम् ।
तत्रापि च पुरा पश्चान् न तु तादृक्प्रथा यदि ॥

1.614

आमर्शपदवीं याति तत् स्पुटास्फुटचित्रितः ।
तावान् असाव् एक एव स्वरूपप्रस्फुटात्मकः ॥

1.615

\ \ \ \ \ \ \ \ \ \ \ \ विचित्रो ऽयं न वस्तुतः ।
तत्रातद्रूपसंवेशाद् वैचित्य्रं परिचर्च्यते ॥

1.616

शिवप्रकाशे ऽतद्रूपप्रवेशस् तु न संगतः ।
यदि वा कथितन्यायबलात् क्वापि न चित्रता ॥

1.617

किंतु चित्रतयाभासश् चित्रभावं प्रसूयते ।
एवं चैत्रो ऽयम् अस्माकं चित्रवद्भवन्न् ईदृशः ॥

1.618

मैत्रेण तन्मतेनालं दृष्टो मां भावदर्शिनम् ।
पश्यन् पश्यति यः सो ऽयं समाधौ परिनिष्ठितः ॥

1.619

प्राक् त्व् एष जन्मकोटीषु तत्तत्तापाद्य् अभुङ्क्त वै ।
मोक्ष्यते ध्यानचर्याद्यैर् यो ऽप्य् एतेन पथागतः ॥

1.620

सो ऽप्य् अन्यो मोक्षभाग् ईत्थम् अपर्यवसितोदयः ।
प्रकाश एक एवायं यश् चिरान् न विभिद्यते ॥

1.621

अत एव हि भेदो ऽस्ति न कश्चिद् यो महेश्वरम् ।
अद्वयं संप्रबिन्धीत प्रकाशानन्दसुन्दरम् ॥

1.622

देशकालाकृतिज्ञानधर्मोपाध्यन्तरादयः ।
संमता भेदकत्वेन भान्ति चेत् सा विभा तथा ॥

1.623

न चेद् विभैव सा तादृक् तद् अद्वैतम् इदं स्फुटम् ।
भेद इत्य् एष शब्दस् तु केवलं प्रतिभोज्झितः ॥

1.624

अस्तु वा भेदकलना प्रतिभासंप्ररोहिणी ।
उक्तनीत्या तु तत्रैव सप्रतिष्ठा भविष्यति ॥

1.625

अयं घटः पटश् चायं ताव् अन्योन्यविभेदिनौ ।
प्रमात्रन्तरभिन्नौ च तौ मत्तो ऽपि विभेदिनौ ॥

1.626

इति प्रकाश एको ऽयं तथामर्शस्वरूपकः ।
नन्व् एवं पक्षपातो ऽयम् अद्वैतं भवतां कथम् ॥

1.627

भेदो ऽप्य् अस्तु स आहत्य किं नाम न विषह्यते ।
सेयं बधिरगोष्ठीषु गीतवाद्यप्ररोचना ॥

1.628

न ह्य् अद्वयं द्वयावेशबाधेनास्माभिर् उच्यते ।
त्वत्पक्षोपगमो ह्य् एष स्याद् द्वयं तद्धि सुस्फुटम् ॥

1.629

इदं द्वैतम् इदं नेति तद् इदं च द्वयाद्वयम् ।
इति यत्र समं भाति तद् अद्वयम् उदाहृतम् ॥

1.630

नन्व् इत्थम् अस्तु भेदो ऽपि न वयं शब्दकामुकाः ।
अस्त्व् असौ न हि नो हेयम् आदेयं वा यथात्र वः ॥

1.631

सर्वानुग्राहकं पक्षम् आलिलम्बिषसे यदि ।
परमाद्वयदृष्टिं तत् संश्रयेः शरणं महत् ॥

1.632

एतद् अष्टादशे तत्त्वम् अधिकारे भविष्यति ।
यत् तद् अन्ते परप्राप्यं तद् अस्तु परमार्थतः ॥

1.633

अत्र ये न हि विश्रान्तास् ते मितां संविदं श्रिताः ।
सर्वथैवापबाध्यन्ते जन्ममृत्यूत्थविभ्रमैः ॥

1.634

तस्मात् स एक एवासौ प्रकाशः परमेश्वरः ।
प्रत्यक्षम् इति तेनैव प्रकाशेनैव भासते ॥

1.635

तत्र ता दृष्टयः सर्वा महानद्य इवार्णवे ।
विशन्त्य् अवश्यं नाविष्टाः प्रयान्ति कृतकृत्यताम् ॥

1.636

तथा हि मानसामग्री रूपालोकमनोक्षजा ।
साकं मातृप्रमेयाभ्यां तद्वर्जं वाप्य् अनेकशः ॥

1.637

ज्ञातं च गमयेन् मानं न चापि उज्झति मानताम् ।
प्रत्यक्षपादोत्प्रेक्षेयम् इदानीम् उपपद्यते ॥

1.638

किं चानधिगतग्राहि मानं नवनवं यतः ।
भैरवेच्छावशाद् एतद् विश्वं भाति तथा तथा ॥

1.639

वस्तु प्रदर्शयन् मानं प्रवृत्तिं विदधत् स्फुटम् ।
प्रापयत्य् एव तद् वस्तु तथाभासनयोगतः ॥

1.640

सद् अप्य् एकान्ततो नेदं नासच् चेत्यादिसंविदः ।
भान्त्य् एव परमार्थेन तद् अनेकान्तदृक् स्फुटा ॥

1.641

एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः ।
अर्हद्वादः सो ऽयम् अस्मद्सुदृष्टौ युक्तश् च श्रीसारशास्त्रे ऽपि चोक्तः ॥

1.642

इदं मानं मेयं तद् इदम् इति संख्यां कलयितुं स्वरूपं वा शक्तः क इव जगतीत्य् एतद् अपि सत् ।
मतं वाचां पत्युर् भगवति चिदानन्दसुभगे यतस् तूष्णींभावाद् अपर इह कः किं प्रकुरुताम् ॥

1.643

अहेतोर् भाने स्याद् यदि न तनुदिक्कालनियमस् ततो हेतोर् ईदृङ् नियम इति कस्यैष महिमा ।
स्वभावो ऽयं हेतोर् अथ विवृतकण्ठं कथम् असौ न भावस्यैवोक्तो यमयति परे केन हि परः ॥

1.644

स्वभावाच् चात्मासौ परमशिव इत्य् आगमकथा निरुक्तो विश्वात्मा जगति निखिले जृम्भत इति ।
धरादेश् चानन्यो भवतु तद् इयं भूतचितिता स वन्ध्यो दिक्कालैर् जननमरणापायरहितः ॥

1.645

तद् अस्यायं लोकस् तदनु परलोको ऽप्य् अयम् इत् ग्रहः कस्माद् धेतोः स्पृशति न हि तं कालकलना ।
ततः स्वातन्त्र्योद्यत्सुखरसपरानन्दमहिमा भवद्भस्मीभूताखिलकलुषपाशौघसुभगः ॥

1.646

सांख्यदृक् पुनर् इहैव भूयसा चर्च्यते निखिलतत्त्वगोचरा ।
दृश्यते धरणीप्रभृत्य् अलं तच् च सूक्ष्मतमकारणोत्थितम् ॥

1.647

तद्गृहीतिकरणोद्यतं पुनर् बाह्यतः करणकं दशात्मकम् ।
आन्तरं त्रिविधम् अस्य कारणं सौख्यदुःखपरिमोहदर्पणः ॥

1.648

तादृशं त्रिगुणम् एव यद् भवेत् तत् पुनर् जडतयाथ भेदतः । मूलकारणम् अपेक्षते परं सा निशेयम् इह भोग्यम् उच्यते ।
तच् च भोक्तृ परतन्त्रतामयम् नो परस्परम् उपैति भोक्तृताम् ॥

1.649

भोग्यभोक्तृवपुर् एकम् एव नो जाघटीति हि विरुद्धधर्मतः ।
तेन भोक्तृ चितिशक्तिमात्रकम् तच् चिदात्ममयतावशान् मनः ॥

1.650

व्याप्तृ सर्वगतम् ईश्वरं कथं भोक्तृतां व्रजतु भेदसंगताम् ।
तेन तन्निजवशित्वनिर्मितां संकुचत्स्थितिजुषं दशां श्रयेत् ॥

1.651

अन्यकारणकलाद्यभावतः सो ऽयम् अस्य सहजो मलः स्मृतः ।
स त्रिधा समवभाति तद्वशाद् एष एव स पुमान् उदाहृतः ॥

1.652

भोक्तृभावपरतन्त्रतावशा नान्तरीयकतयास्य कञ्चुकम् ।
भाति नैवम् इति कालवित्कला रागसन्नियतिनामधेयकम् ॥

1.653

यद्य् आत्मैष पुनर् निरर्गलनिजस्वातन्त्र्यसंछादितं स्वं रूपं विवृणोत्य् अलं निजबलात् तच्छुद्धवित्संभवः ।
कर्तृत्वं किल कार्यवर्गम् अखिलं बोधे निधाय स्वके पश्यन्न् ईश्वरतां व्रजेद् अहम् इदं सर्वं सदेत्य् उद्धुरः ॥

1.654

ज्ञातृत्वं हृदयान्तरस्फुरितदृग् दृष्ट्वा स्फुटाभासिनि ज्ञेये भेदतिरोधितां निजचितौ यस्मात् स संपश्यति ।
तेनास्येदम् अहंविदोः सरभसं भेदैक्यम् आजग्मुषी सामानाधिकरण्यधीः प्रकटयेत् सादाशिवीं संस्थितिम् ॥

1.655

ज्ञेयं कार्यं सर्वम् अन्तर् विबोधे यावल् लीनं तावद् उद्रिक्तवृत्तेः ।
बोधज्वालासंचयस्यान्तराले तत्प्रस्त्यानं स्वं वपुः प्रोज्झतीव ॥

1.656

इदंभावः सो ऽयं विगलितुमना नो विगलितो भवेत् प्राक्कक्ष्यायाम् अपि स समकान्तिस् तद् अधुना ।
अहंभागोद्रेके विधिर् अनवधिर् भावविसरे तद् एषा शाक्ती भूरिषिर् इति स्वसिद्धात्मनि परा ॥

1.657

ईहते गलितुमन्वतो गलेत् तत्र पूर्वपररूपसंगतेः ।
शाक्तभूमिर् अखिलेयम् उच्यते चित्रचिन्निचयचर्चिता सती ॥

1.658

तत्त्वे तत्त्वे स्वेच्छया देवदेवः सर्वां सर्वां भूमिम् आलम्बमानः ।
पूर्णैकात्मा पूर्णसंवित्स्वरूपः श्रीमाञ् शास्त्रे भैरवो निरुक्तः ॥

1.659

शक्तिपातदृग् इयं निरुच्यते मन्दमध्यपरतीव्रभेदतः ।
तत्परस्परभिदाभिर् अप्य् अलं या स्वरूपपरिदृष्टिर् आत्मनः ॥

1.660

ननु किं कदाचिद् अयम् ईश्वरो निजरूपं प्रकाशयति पूर्णचितिः ।
किं वा कदाचिद् अथ संवृणुते निर्हेतुको हि नियमः किल कः ॥

1.661

उक्तम् अत्र किल पूर्वम् अनन्तं नान्यद् अस्ति नियमेषु निमित्तम् ।
लौकिकेष्व् अपि स एव महेशश् चित्रचित्रपरिभासनशीलः ॥

1.662

तत्स्वातन्त्र्याद् अधिकम् अधुना नोत्तरं बम्भणीमः संवित्सिन्धोः प्रथितलहरीहर्म्यधाराधिरूढिः ।
शान्तिस् तस्यास् तदनु तद् अयं बन्धनाम्नापदिष्टस् तेनैवेत्थं परिगतरसो मोक्ष इत्य् उक्तरूपः ॥

1.663

सदा कदाचिद् अधुना तदेत्यादि च संविदः ।
तत्स्वातन्त्र्यावभासीयकालकेलिविकल्पनाः ॥

1.664

न च कालकलाभिः स स्पृश्यते परमेश्वरः ।
न हि तासां स्वतन्त्रास्ति स्थितिस् तत्कल्पनां विना ॥

1.665

तेन स्वसृष्टे भावांशे स्वरूपात्मन्य् अपि स्फुटम् ।
पारतन्त्र्यावभासो ऽयं देवेनैवावभास्यते ॥

1.666

पारतन्त्र्यं कलयति स्वतन्त्रः परमेश्वरः ।
स्वातन्त्र्ये पारतन्त्र्ये च नान्यल् लक्षणम् उच्यते ॥

1.667

परिच्छिन्नप्रकाशो हि जडस् तेनात्र यः स्थितः ।
परिच्छेदक एषो ऽपि परिच्छेद्यो यदि स्फुटम् ॥

1.668

तद् अस्य रूपग्रहणे न प्रकाशः प्रकाशते ।
तथा हि बाह्यो भावांशः स्वयं नैष प्रकाशते ॥

1.669

ज्ञानम् अर्थप्रकाशात्म तच् चानाभातम् एव हि ।
तस्यापि समवाय्य् आत्मा नैव भाति स्वरूपतः ॥

1.670

तदीयकरणं नेत्रप्रभृत्य् अपि न भासते ।
आलोकादेश् च विज्ञानाद् ऋते नैवावाभासनम् ॥

1.671

ननु जातं यदि ज्ञानम् अर्थस्यासौ प्रकाशता ।
शक्तिर् धर्मो यदि प्राप्तं सार्वज्ञ्यं विश्वमण्डले ॥

1.672

अन्यद् एवाथ तत् किंचित् प्रकाशत्वाभिशब्दितम् ।
तन् मेयमातृमानेषु नैव कुत्रापि संगतम् ॥

1.673

ततश् चाप्रकटं विश्वं सर्वदैव भवेद् इदम् ।
अप्रकाशस्य भावस्य यदि च स्याद् प्रकाशनम् ॥

1.674

तावतैवास्य हीयेत स्वरूपं परिहानितः ।
ज्ञानोत्पत्तिश् च भावस्य स्वरूपस्थस्य चेत् प्रथा ॥

1.675

अविशिष्टे स्वरूपस्थभावे विश्वस्य सा न किम् ।
तस्मात् प्रकाशो विश्वस्य परिच्छेदकनिष्ठितः ॥

1.676

तत्स्वातन्त्र्यावभासोत्थचित्राकारविभेदितः ।
परिच्छेदक इत्थं चेत् परिच्छेद्यो भवेत् ततः ॥

1.677

मूलक्षतिकरी सेयम् अनवस्था पतिष्यति ।
अतश् च सो ऽपरिच्छिन्नः परिच्छेदक उच्यते ॥

1.678

अकाल्प्यस् तेन शास्त्रेषु तन् न कालस्य गोचरः ।
तेनास्य वेद्यधर्मत्वं कालस्य परिभाषितम् ॥

1.679

यदि कालश् च मातारं परिच्छिन्द्यात् ततो ध्रुवम् ।
मातृलग्नैव कालस्य स्थितिर् निर्वाहम् इच्छति ॥

1.680

न च मात्रन्तरं किंचित् संभवेद् अनवस्थितेः ।
तां हन्तुं वोपगम्यो ऽसौ माता कालकलोज्झितः ॥

1.681

य एव तु परिच्छेद्यो माता तल्लग्न एव चेत् ।
स कालो मातृमेयत्वे तर्ह्य् एकस्य कथं तव ॥

1.682

भेदवादे हि भवतां निष्ठिता मतिर् ईदृशी ।
अभेदवादिनां नस् तु नैव काप्य् अस्तु खण्डना ॥

1.683

विश्वं मातृमयं येषां माता विश्वमयस् तथा ।
तन् न कालकलाजालजम्बालैः परमेश्वरः ॥

1.684

चितिशक्तिप्रकाशो हि मालिन्यम् अवलम्बते ।
अतस् तदा संवृतो ऽसौ पश्चात् प्रकटरूपकः ॥

1.685

इति तस्यैव जृम्भेयं तथात्वव्यपदेशिनी ।
कलनैवास्य सा काचित् स्वरूपामर्शनात्मिका ॥

1.686

शिवयोगार्हम् आत्मानं यस्याम् आत्माभिमन्यते ।
यतो वैचित्र्ययोगेन तथात्मानं स मन्यते ॥

1.687

शक्तिपातस्य तेनोक्ता नवधात्र व्यवस्थितिः ।
अन्यथा नेश्वरस्यास्ति रागो द्वेषो ऽथ वा क्वचित् ॥

1.688

येन क्वाप्य् एष नियतां स्वां शक्तिं पातयेद् विभुः ।
अनिमित्तस् तथा चायं शक्तिपातो महेशितुः ॥

1.689

तेन रागक्षयात् कर्मसाम्यात् सुकृतगौरवात् ।
मलपाकात् सुहृद्योगाद् भक्तेर् भावाच् च सेवनात् ॥

1.690

अभ्यासाद् वासनोद्भेदात् संस्कारपरिपाकतः ।
मिथ्यज्ञानक्षयात् कर्मसंन्यासात् काम्यविच्युतेः ॥

1.691

साम्याच् चित्तस्य सा शक्तिः पततीति यद् उच्यते ।
तद् असन् ।
ननु तत्रापि निमित्तान्तरमार्गणात् ॥

1.692

अनवस्थातिप्रसङ्गसंभवाभावयोगतः ।
अन्योन्याश्रयनिःश्रेणिचक्रकाद्युपपाततः ॥

1.693

अस्मिंस् तु पक्षे सर्वेषां प्रवादानाम् अपि स्थितिः ।
युक्ता सर्वंसहे पक्षे न किंचित् किल दुष्यति ॥

1.694

युक्तिः सुधीभिः स्वयम् एव तत्र शक्येत संयोजयितुम् ततो न ।
पृथक्तया योजनम् उक्तम् अत्र यद् ग्रन्थतो विस्तर एष मिथ्या ॥

1.695

उपजग्मुर् अतो ऽनपेक्षिणीं शिवशक्तिं न च तां विना भवेत् ।
अपवर्गपदं यतो मुधा परशास्त्रेषु विमोक्षसंकथाः ॥

1.696

शक्तिपातसमये विचारणं प्राप्तम् ईश न करोषि कर्हिचित् ।
श्रीमदुत्पलगुरुर् न्यरूपयत् तत्र तत्र निजशास्त्र ईदृशम् ॥

1.697

तस्यैव हि प्रसादेन भक्तिर् उत्पाद्यते नृणाम् ।
यया यान्ति परां सिद्धिं तद्भावगतमानसः ॥

1.698

इत्थं पुराणशास्त्रादौ शक्तिः सा पारमेश्वरी ।
निरपेक्षैव कथिता सापेक्षत्वे ह्य् अनीशता ॥

1.699

केवलं भेदवादान्ध्यस्थगितालसदृष्टिभिः ।
दुःसमर्थत्वम् एतस्या नियमेन क्वचित्स्थितेः ॥

1.700

पर्यालोच्यानिशं कर्ममलसाम्यप्रपाकतः ।
इत्यादिहेतुजालेषु वृथात्मा परिखेद्यते ॥

1.701

तत् तेषां नोपकाराय कुशकाशावलम्बनम् ।
तस्मात् स एव तादृक्षस्वस्वातन्त्र्योपबृंहितः ॥

1.702

तदा तथा तथेत्यादिवैचित्र्येणावभासते ।
तद् इत्थं सर्वदृष्टीणाम् अत्रैव परमेश्वरे ॥

1.703

अनुप्रवेश इत्य् अन्यैर् अलं वा युक्तिडम्बरैः ।
तद् इत्थं देवदेवेन स्वस्वरूपम् इहोदितम् ॥

1.704

प्रत्यक्षं तत्र तन्मानं सर्वमानधुरोद्धुरम् ।
एकम् एवेदृशं मानम् इति केचित् प्रपेदिरे ॥

1.705

धूमाद् अग्निर् इति प्रायस् तस्यैवैतद् विजृंभितम् ।
यथा घटस्य पूर्वांशदृष्टैकपरिनिष्ठितः ॥

1.706

माता स्फुटास्फुटाकारतावदर्थावलेहिनीम् ।
स्फुटाम् एव मतिं मत्वा प्रत्यक्षत्वं प्रपद्यते ॥

1.707

न चानुमानम् अन्त्यांशे संविद् एकैव सा यतः ।
धूमाध्यक्षप्रतीत्यन्तर्निविष्टाग्निप्रथा तथा ॥

1.708

एकैव तावद् अर्थांशलेहिनी जायते मतिः ।
तावत्य् आंशे स्फुटाकारा प्रत्यक्षम् इति भाष्यताम् ॥

1.709

यथा रत्नादिवैचित्य्रं तथा संस्कारसंस्थितेः ।
नेत्रात्ममानसालोकविषयादिषु संविदि ॥

1.710

प्रत्यक्षम् एव संवित्तौ स्फुटत्वेनावभासते ।
तथा तथाविधव्याप्तिधामसंकारसंस्थितेः ॥

1.711

अन्ते तथैव सा वित्तिर् धूमाग्न्याकाररूपिणी ।
यथा च दृढसंस्काराः सोल्लेखाः सपदि स्वयम् ॥

1.712

रत्नादितत्त्वं पश्यन्ति विघ्नान्तरतिरोधितः ।
तथा बुभुक्षितात्मानः शीघ्रम् एवातिनिश्चितम् ॥

1.713

अन्नादि गृह्णते भोक्तुं व्याप्त्याद्यव्यवधानतः ।
तेन प्रत्युक्तम् एव स्याद् यद् आहुः परिकल्पनम् ॥

1.714

अभ्यस्तेष्व् अविनाभावस्वभावव्याप्तिसंविदः ।
किं हि तत्कल्पनाव्याप्तिवित्तेर् इति न मन्महे ॥

1.715

आशूत्पत्तिवशाद् अस्या न खल्व् अस्त्य् उपलक्षणम् ।
अनुमीयत एवं सा तद् एव परिकल्पनम् ॥

1.716

अहो स्वपक्षपातान्धाः स्वम् अप्य् उपगतं मुहुः ।
अमी विस्मर्तुम् आरब्धास् तार्किकम्मन्यबुद्धयः ॥

1.717

क्षणापवर्गिणी बुद्धिः सर्वैव हि भवन्मता ।
उत्पत्तिमात्रयोगेन विषयस्यावभासिका ॥

1.718

न क्षणाच् चापरं किंचिद् आशुभावित्वम् उच्यते ।
तत् सर्वम् आशुभाव्य् एव विज्ञानम् इति तत्त्वतः ॥

1.719

सर्वत्र भावजातेषु भवेद् अनुपलक्षणम् ।
अथाविच्छिन्नदृष्टीनां द्राघीयःकालगोचरम् ॥

1.720

ज्ञातं तेनापि तर्ह्य् अर्थो जन्ममात्रेण भास्यते ।
यच् चोत्पत्तिवशाद् एव विषयस्फुटतात्मकम् ॥

1.721

तस्य शीघ्रतरस्थास्नुभावो भेदावहः कथम् ।
यत् तत् किल ग्रहापेक्षं स्वप्रकाशम् अथापि सत् ॥

1.722

अन्यत्रोपायतां याति विद्युद्दीपादिवत् तथा ।
तत्रैव चिरशीघ्रस्थभावो भेदाय भासते ॥

1.723

न च क्वाप्य् अनुमानेषु व्याप्त्यादेर् ग्रहणं भवेत् ।
पुनः पुनः स्फुटीभावं याति येनोपलक्ष्यते ॥

1.724

किं च क्रमिकधूमादिज्ञानमालात्मनि स्फुटम् ।
उदितापि कथं कुर्याद् एकभावावभासनम् ॥

1.725

अथान्त्यम् अनुसन्धानज्ञानम् एवं करिष्यति ।
तद् अपि प्राक्स्थसंवित्तिसमं भिन्नं कथं तथा ॥

1.726

तेन प्राक्तनविज्ञानमालामन्वस्यते यदि ।
तद् असन् न हि संधानं नष्टायाम् उपपद्यते ॥

1.727

अथ स्मरणम् एवेह संधानं संविदां भवेत् ।
तद् अप्य् अनुभवाभावे कथं नाम भविष्यति ॥

1.728

न च ज्ञानेष्व् अनुभवो युज्यते संविदः क्वचित् ।
युगपज् ज्ञानयुगलं नास्तीति हि भवन्मतम् ॥

1.729

ज्ञानज्ञेयात्मता दृष्टा युगपत्स्थितताजुषोः ।
न तु पूर्वापराकारसमुत्पन्नविरोधिनोः ॥

1.730

तस्माद् व्याप्त्यनुसारावभासपूर्वापि या मतिः ।
तत्राप्य् अक्रमम् एवेदं प्रत्यक्षमानवेदनम् ॥

1.731

यथा झटिति सौषुप्तप्रबुद्धः प्रोन्मिषद्दृषिः ।
प्रत्यक्षम् इति भावांशध्यामलत्वनिवृतये ॥

1.732

नेत्रसंमार्जनादीनि विदधन्नाभिमन्यते ।
भावान् अनुमिनोमीति तथैवात्रापि बुद्ध्यताम् ॥

1.733

यथा च घनसौषुप्तमोहाव्युत्थितदर्शनः ।
स्वात्मानम् अथ तत्स्थानं विस्मरत्य् एव तत् क्षणं ॥

1.734

अथ प्रयत्नसंभारप्रबुद्धविमलस्वदृक् ।
सो ऽहम् अस्मीति मन्वानः संवित्तेः परमार्थतः ॥

1.735

तत्र सर्वत्र नाथो ऽयं भैरवश् चित्स्वरूपकः ।
स्वातन्त्र्यात् स्वं वपुर् यावद् गूहते विवृणोति च ॥

1.736

तावद् अज्ञानम् एतस्य विज्ञानं चोपजायते ।
तच् च स्फुटतया सर्वप्रत्यक्षम् इति मन्यताम् ॥

1.737

घटशब्दे श्रुते या च पृथुबुध्नोदरादिधीः ।
तत्रापि खलु सम्केतस्मरणादि तथाविधम् ॥

1.738

यथा रत्नपरीक्षायां स्वां संवित्तिं स्फुटात्मिकाम् ।
सम्विदन्तरसंघातैस् तिष्ठति प्रतिबोधयन् ॥

1.739

ततः प्रबुद्धचरमस्फुटसंवित्तियोगतः ।
रत्नतत्त्वं विभात्य् अत्र नोपयोगे ऽन्यसंविदाम् ॥

1.740

ताः परं तत्प्रबोधाय कारणत्वं वितेनिरे ।
तस्यैवावभासयोगे हि न तासाम् उपयोगिता ॥

1.741

बालवैकटिकज्ञानदृष्टान्ताद् ईदृशात् स्वयम् ।
शाब्दे ऽपि खलु विज्ञाने स्फुटैवैका प्रकाशधीः ॥

1.742

अतस् तथाविधे शब्दे श्रुते यत् समनन्तरम् ।
अर्थावभासने सेयम् इयती मतिर् ईदृशी ॥

1.743

अर्थः स तावांस् तत्रास्ते घटपूर्वापरांशवत् ।
नन्व् असौ घट एकः स्याद् अवयव्यात्मकस् तथा ॥

1.744

न तु शब्दार्थयोर् ऐक्यं तत् कथं साम्यम् ईदृशम् ।
अहो भेदग्रहाभ्यासतिमिराविललोचनः ॥

1.745

सद्युक्त्यञ्जनयोगे ऽपि न दृष्टिं विमलां गतः ।
अभिन्नो भगवान् एष भैरवो भोग्यभोक्तृताम् ॥

1.746

आत्मन्य् एवानुसन्धाय सर्वदा पूर्णविग्रहः ।
इति प्रसाधिते पूर्वं कः प्रश्नस्यास्य संभवः ॥

1.747

तद् एवम् उपमानादाव् अपि मानान्तरे स्फुटम् ।
संवित्प्रत्यक्षरूपैव सर्वत्र प्रतिभासते ॥

1.748

अन्धो ऽपि स्पर्शशब्दाद्यैस् तत्तद्रूपं विलोकयन् ।
स्फुटताम् एव तां तावत् संवेत्ति स तथाविधाम् ॥

1.749

एवं जातिजडा रूपस्पर्शाद्यैर् अभिमन्वते ।
स्फुटम् एव हि भावांशं तेषां नाज्ञातधीः क्वचित् ॥

1.750

इयं लावण्यसरसी तारुण्योद्यानकण्डली ।
इति तुष्यति जात्यन्धस् तदङ्गपरिमर्शनात् ॥

1.751

अहो नु सदलंकारं गायतीति जडो जनः ।
गातुर् मुखं विलोक्यैव तावता परितुष्यति ॥

1.752

इति प्रत्यक्षम् एवैकं निःसपत्नं विजृम्भते ।
तद् अस्य फलचिन्तादि कर्तुं प्रस्तूयते मनाक् ॥

1.753

तद् एव खलु विज्ञानं परिमर्शरसात्मकम् ।
तस्माद् भेदकथा नैव फलं प्रति सुसंगता ॥

1.754

हानादिधीः फलं वास्तु तस्या अप्य् अथ भासनात् ।
यदि वा स्वप्रकाशैव संवित्तिः पारमार्थिकी ॥

1.755

तद् एव पर्यन्थफलं सर्वत्रैव सुनिश्चितम् ।
ह्लादादिकं फलं मुख्यं यत् सर्वत्रेह गीयते ॥

1.756

तत्स्वसंविदि विश्रान्तिम् अभ्येति भरितात्मनि ।
तद् एवम् इदम् अध्यक्षं सर्वतः प्रविजृम्भते ॥

1.757

एतदभ्यासनिष्ट्ःअस्य केव सिद्धिर् न जायते ।
ब्रह्मादिभाषितश्रौतप्रौन्मुख्येन कलादिकात् ॥

1.758

दूराच् छ्रवणविज्ञानम् अचिरात् संप्रवर्तते ।
मनोदृष्टे ऽपि भावांशे स्फुटवृत्त्युदयो ह्य् अलम् ॥

1.759

स्वविमर्शबलाक्रान्ते किं चित्रं यदि जायते ।
स्पन्दशास्त्रे तथा चोक्तं सावधाने ऽपि चेतसि ॥

1.760

भूयः स्फुटतरो भातीत्य् अलं बहुलविस्तरैः ।
इत्थं प्रत्यक्षम् एवेदं विश्वं यत् परमेशितुः ॥

1.761

तत् ततो ऽप्य् अविभिन्नस्य मातृवर्गस्य तत् तथा ।
न च प्रतीतिसांकार्यं तथा भासनयोगतः ॥

1.762

प्रत्यक्षे ऽपि समे साम्यं नो घटाघटसम्विदोः ।
इत्थं प्रत्यक्षम् एवेदं निःसपत्नं विजृम्भते ॥

1.763

ततो न भिद्यते चार्थः प्रत्यक्षाद्वैतम् ईदृशम् ।
इदं सन्धानकलिकापरिनिष्ठितबुद्धिना ॥

1.764

आचार्यनरसिंहेन प्रत्यक्षाद्वैतम् उच्यते ।
अनुमानप्रमाणत्वं विश्वस्मिन् कैश् चिद् उच्यते ॥

1.765

तथा हि देवः सर्वज्ञो निर्विकल्पस्वभावकः ।
स चाध्यक्षस्वभावो ऽपि नायाति व्यवहार्यताम् ॥

1.766

अविकल्पे विकल्पात्मा व्यवहारः कथं किल ।
विकल्पेन च सर्वो ऽयं व्यवहारो ऽवतन्यते ॥

1.767

स एव चानुमानं स्यात् तस्यैताः परिकल्पनाः ।
पक्षतद्धर्मतद्व्याप्तितत्प्रतीत्यादयो ऽखिलाः ॥

1.768

वस्तुतस् त्व् एक एवासौ प्रत्ययः पारमार्थिकः ।
नन्व् अध्यक्षवियोगे स्याद् अनुमानं कथं यतः ॥

1.769

तत्प्रत्यक्षपरिच्छिन्नप्रतिबन्धनिबन्धनम् ।
सत्यं किंतु य एको ऽसौ देवः सर्वज्ञतास्पदम् ॥

1.770

तदावेशवशाद् एषा व्याप्तिर् बोधे ऽवकल्पते ।
अन्यथा वह्निधूमादि तदभावादिवेदनम् ॥

1.771

अन्वयव्यतिरेकात्मा न स्याद् युगशतैर् अपि ।
अत एव हि मुख्यस्य मानस्य सदृशत्वतः ॥

1.772

अनुमानम् इति प्रोक्तं व्यवहारप्रवर्तनम् ।
तद् एवम् एते मातारः सर्वत्रेश्वरसंविदम् ॥

1.773

उपजीवितुम् आयान्ति मातृभावं न चान्यथा ।
अज्ञो हि जन्तुवर्गो ऽयं कथं तदनिवेशतः ॥

1.774

ज्ञस्वरूपत्वम् आप्नोति तद् विना मातृता कुतः ।
तस्माद् संविदि योगो ऽस्य स च नानेन दुर्लभः ॥

1.775

वस्तुतो हि न कश् चित् स सविन्नाथो ह्य् असौ तथा ।
तद् एवं पक्षम् ईशानप्रत्यक्षाक्षिप्तवृत्तिकम् ॥

1.776

सापेक्षं परतन्त्रे च पाशवं मानम् उच्यते ।
अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः ॥

1.777

ईश्वरप्रेरितो यातीत्य् अत एव मुनिर् जगौ ।
एवम् ईश्वरसापेक्षानुमानैकप्रमाणता ॥

1.778

निर्णीता लोलटाख्येन गुरुणा लोकसंमता ।
अन्यस् तद्गृह्य एवाह सत्यं वाध्यक्षसंविदः ॥

1.779

व्यवहारे ऽस्ति मानत्वम् अनुमा तु कथं प्रमा ।
सुलभव्यभिचारायाम् अनुमायां विनिश्चितः ॥

1.780

विशंश्रमीतु को नाम परीक्षकतया स्थितः ।
अन्वयो व्यतिरेकश् च यः सपक्षेतरस्थितिः ॥

1.781

आदिदृष्टस् तदात्वे नो विनिश्चयविधायिनौ ।
यैस् तु तस्माद् अपास्येत पक्षधर्मादिदूषणात् [णम्] ॥

1.782

वर्चस्ककूटे शुद्धिं ते कुर्युः पांसुकणोच्चयैः ।
तस्मात् संशय एवायं प्रवृत्त्यङ्गतया स्थितः ॥

1.783

स एव भेदाभासित्वान् मायेति परिभाष्यते ।
मायेव च पशूनां स्यान् मानं मायाचिदातकम् ॥

1.784

तर्को वाप्य् एकपक्षांशस्थितिसंभावनात्मकः ।
अर्थानर्थबलीयस्त्वात् प्रवृत्तौ [त्त्यै] वा निवृत्तये ॥

1.785

प्रभविष्णुः स एवेति किम् अन्यैर् मानडम्बरैः ।
प्रमाता शिव एवैको यस्येदं स्वाङ्गम् ईद्र्शम् ॥

1.786

मेयत्वेन समाभाति सर्वतो निश्चयात्मकम् ।
अन्यः पुनः पशुः सर्वः संशयध्वान्तमध्यगः ॥

1.787

सौदामनीद्युतिप्रायसंवित्समनुरञ्जितः ।
पक्षद्वितयसत्यान्यभावान्यतमनिश्चयम् ॥

1.788

विन्दान एव लभते नात्र रूढिं कथं चन ।
तद् एवं तर्कतः सर्वो व्यवहार इति स्थितम् ॥

1.789

अशुद्ध सैव विद्येयम् इति मानं विधीयताम् ।
अशुद्धिर् इयती तस्या यद् वस्त्व् अननुसारिता ॥

1.790

अन्ये त्व् अनर्थिनो नास्ति प्रवृत्तिर् इति निश्चिताः ।
अर्थित्वम् एव सचिवम् इत्य् एवं पर्यचूचुदन् ॥

1.791

रागस्य मानताम् इत्थं प्राहुर् अन्यात्मवेदिनः ।
अन्ये त्व् आहुः संशयो ऽपि न नामानिश्चिते गजे ॥

1.792

शक्तत्वे सति जायेत रागो वापि प्रवृत्तये ।
ततः स्वां कर्तृताम् ईषद् आलोच्य जनताः सदा ॥

1.793

प्रवर्तन्त इतीत्थं स्यात् कलाया एव जृम्भितम् ।
तेनार्थः स तथा वास्तु मा वाभूत् स्वात्मनस् तया ॥

1.794

मन्वानः कर्तृताम् एष सर्वत्रैव प्रवर्तते ।
अन्ये त्व् आहुर् अनादिर् यो व्यवहारः क्रियात्मकः ॥

1.795

नियतिः सैव विश्वस्य प्रवर्तकतया स्थिता ।
स एव चागमो नाम वृद्धव्यवहृतिक्रमः ॥

1.796

ततः समग्र एवायं धर्मादिपरिनिश्चयः ।
न प्रत्यक्षान् नानुमानाद् भूयसा विप्रलम्भकम् ॥

1.797

मतिर् अभ्येति विश्वासं परीक्षापक्षशालिनाम् ।
अन्नं क्षुधं शमयते तृषं वारीति बालकाः ॥

1.798

अन्यतः परिनिश्चित्य तथात्वानतिशङ्किनः ।
अन्यदाक्षादिके ऽप्य् अर्थे तत एवाद्यमानतः ॥

1.799

लभन्ते निश्चयं सम्यग् आगमाख्यात् परीक्षकाः ।
तथा च मुनिर् आहेदं पुण्यं पापम् इति द्वये ॥

1.800

शास्त्रप्रयोजनं स्वल्पं नागमस्य प्रयोजनम् ।
आगमो हि न नामैष पुस्तकग्रन्थसंचयः ॥

1.801

केवलं प्रथिताभिख्यो ऽनादिर् वेदादिकः किल ।
किं तु प्रसिद्धिर् एवासौ सा च शब्दस्वरूपिणी ॥

1.802

या सर्वदर्शनेष्व् एव न जात्व् आयात्य् अपोह्यताम् ।
छागैश् चैत्यो जटा भस्म भिक्षा दण्डः कमण्डलुः ॥

1.803

जालं तप्तशिला श्मश्रुकेशलोमविलुञ्चनम् ।
अग्निर् एधा इष्टकौघचयनं गृहमेधिता ॥

1.804

इत्यादिसर्वशब्दानां प्रसिद्धिप्रक्रमाद् ऋते ।
को ऽभ्युपायो ऽर्थतः कॢप्ततदन्यार्थावबोधयोः ॥

1.805

इत्थम् आगम एवायं प्रमाणम् इति धीधनैः ।
उक्तं सत्यैव वाग् ऐशी प्रसिद्धिर् अविगानतः ॥

1.806

प्रसिद्ध आगमो लोके युक्तिमान् अथवेतरः ।
विद्यायाम् अप्य् अविद्यायां प्रमाणम् इति तत् स्थितम् ॥

1.807

प्रामाण्यं नियतेः श्रीमद्भूतजान्तनिवासिनाम् ।
अन्ये त्व् आहुर् विशेषो ऽयं कालो नामाभिवर्तते ॥

1.808

स्फुटभावस्वभावो ऽसौ वर्तमानो ऽभिवर्तते ।
वृत्तस्फुटस्वभावांशस् तदा त्व् अस्फुटतामयः ॥

1.809

भूतः कारणकॢप्त्या तु भाव्य् असौ परिकल्प्यते ।
स चायं न स्वतन्त्रो ऽस्ति कश् चिद् अन्योन्यसंश्रयात् ॥

1.810

अनवस्थानतो रूपपरावृत्त्यवलोकनात् ।
इयत्तारूढ्यभावाच् च मातृमेयोभयाश्रयात् ॥

1.811

निरुपाधिकतद्रूपप्रतिभानवियोगतः ।
एकानेकध्रुवानित्यस्वरूपानुपपत्तितः ॥

1.812

एकस्यैकोपधेर् ऐक्यात् तिरोधेर् (?) उपधेरपि ।
क्रियायाः स्वगते भेदे कालस्यानुपयोगतः ॥

1.813

तत्कृते ऽन्योन्यसंश्रित्यान्यकृते ऽप्य् अनवस्थितेः ।
औपाधिकभिदावृत्तेर् असत्यत्वाद् अवास्तवात् ॥

1.814

कार्यस्यानुपपत्तित्वाद् एकस्यानुपयोगतः ।
चितश् च स्फुटतादत्तवर्तमानसदात्वतः ॥

1.815

भूतभाविलयात् तस्माद् वर्तमानलयाद् अपि ।
चिन्नाथ एव देवो ऽसौ कालम् आभासयत्य् अलम् ॥

1.816

तद् अस्य कालाभासाख्या चित्स्वरूपस्य संसृतिः ।
स्वभाव[स्वाभास]गर्भा भावेषु भावाभावमयी स्वके ॥

1.817

रूपे स्थितिः प्रमातृत्वसमुल्लासो ऽभिधीयते ।
इदं न यद् अहं चाहं यन् नेदम् इदम् अप्य् अदः ॥

1.818

यन् नेदम् इति चित्रेयम् अभाव[आभास]स्यैव मानता ।
परा प्रमातृता यासौ शुद्धा तस्यां पृथक्स्थिति ॥

1.819

न मानम् अस्तीत्य् अत्रांशे किं तया प्रविविक्तया ।
यस् तु सांसारिको मातृभावः सर्वो ऽयम् ईदृशः ॥

1.820

तत्राभाव[स]स्य मानत्वं स च कालप्रसादतः ।
तथा हि परिपूर्णो ऽसौ सर्वसर्वात्मरूपधृत् ॥

1.821

क्व माता क्व च वा मानं क्व च मेयो ऽवतिष्ठताम् ।
मात्रादीनां हि सत्यत्वे न स्याद् आपेक्षिकी स्थितिः ॥

1.822

मेयाद् एव च मात्रादेर् भावो जातु प्रकल्पते ।
अन्योन्यरूपस्यालाभे लाभे वा तदयोगतः ॥

1.823

सर्वत्रातिप्रसङ्गाच् च सर्वज्ञत्वादियोगतः ।
युगपच् चाप्य् अनुल्लासात् तत्त्वस्यानुपकारिणाम् ॥

1.824

अन्यमेयादिजनिते मातृत्वादौ तदन्यतः ।
तद्भावस्याप्य् अनुत्पन्नसमत्वेनैव संस्थितेः ॥

1.825

तस्माद् पूर्णश् चिदात्मासौ शिवः स्वांशं विखण्डयन् ।
नाहम् इत्यादिभेदांश इदम् अप्य् अवकल्पयेत् ॥

1.826

तदन्यसर्वपूर्णत्वम् अहम् आत्मनि तावति ।
ततो ऽन्यतो ऽपि संहर्ता जायते नाहम् इत्य् अपि ॥

1.827

उभौ तौ इदम् अंशौ चाप्य् अपोहति परस्परम् ।
बुद्धिस्थम् इदम् अंशं स्वं स्वाहम् अंशे तिरोदधत् ॥

1.828

आस्ते न द्रावयत्य् एनं वस्त्रावृतघटादिवत् ।
तद् एव बुद्धिसंस्थात् तु समयाग्रथिताद् अथो ॥

1.829

इदम् अन्तरसंघाताद् अहमंशव्यपोहिनः ।
अहमंशाद् इदन्तौघव्यपोहाद् अहम् अन्तरात् ॥

1.830

व्यपोहात्स्वाहमो ऽन्यान्याहंव्यपोहस्य भासनम् ।
षड्देवताः शून्यरूपा यदाश्रित्य प्रवर्तते ॥

1.831

तद् एवेदम् इति ज्ञानं विकल्प इति गीयते ।
स कालः कल्यते येन विश्वं निजकलोदयात् ॥

1.832

तद् अत्रांशे य एषो ऽस्ति भासांशः स्वप्रकाशकः ।
भावरूपतया सो ऽयं सर्वानुप्राणनात्मकः ॥

1.833

न मातासौ न वा मानं न च मेयं निरुच्यते ।
यस् त्व् असौ शून्यतायोगाद् अभावो रुद्रदैवतः ॥

1.834

स एव मानताम् एति यद्योगान् मातृताभावि[व]तः ।
मानाच् च पृथङ्मेयम् इत्य् एवम् उपपादितम् ॥

1.835

इत्थं कालस्य मानत्वं प्रतिपेदे ऽत्र कैश् चन ।
ये श्रीमद्भवतीत्याख्यगुरुपादोपसेविनः ॥

1.836

तद् इत्थं पुंसि चिद्धर्मविभवामोदशालिनि ।
मातृत्वदायि यत् प्रोक्तं षट्कं कञ्चुकसंज्ञितम् ॥

1.837

तद् एकैकस्य मानत्वं के चन प्रतिपेदिरे ।
अन्ये त्व् एकस्य सर्वान्यसचिवस्येति मन्वते ॥

1.838

अन्ये कदापि कस्यापि कथंचित् क्व चनेत्यादि ।
अन्ये द्वयोर् द्वयोर् अन्ये त्रिकद्वयनियोगतः ॥

1.839

अन्योन्यानुग्रहाद् अन्ये बोधेनान्योन्यतो ऽपरे ।
अन्ये तु गुणसाम्यात्मप्रकृतिम् एव मानताम् ॥

1.840

मुख्यत्वेन विदुः सुप्तमत्तमूर्च्छादिदर्शनात् ।
स यत्रैव प्रमातायं यतः सुप्त इव स्थितः ॥

1.841

सैवास्य मातृता मानमेययोर् अप्रवेदनात् ।
अन्योन्यम् अविकार्यत्वात् प्रसुप्ते ऽपि तथाविधे ॥

1.842

केवलं प्रकृतिः सेयं जानामीत्य् अभिमन्यते ।
तत्र मुख्यं तु यन् मानं यत्पुंसैवानुदर्शनम् ॥

1.843

तच् च शुद्धं निर्विकारं सदसद्रूपतोज्झितम् ।
इत्थं के ऽप्य् अभिमन्यन्ते सांख्यकञ्चुकसंश्रयात् ॥

1.844

वय्याभिधानस्य गुरोर् गृहे ज्ञानोपजीविनः ।
अन्ये धीभूमिम् एवाहुर् द्रष्टृदृश्योपरागिणीम् ॥

1.845

प्रमाणं पारमर्षेयाः केचित् तद्वृत्तिसंचयम् ।
धर्मादिकाष्टसंख्यातं धर्मजातं परे विदुः ॥

1.846

अन्ये ऽहंकारम् एवाहुः केचिद् धियम् अथो मनः ।
केचिद् त्रितयम् एवेदं समं सर्वत्र मन्वते ॥

1.847

अन्ये दशानाम् एकैकम् इन्द्रियाणाम् प्रपेदिरे ।
केचित् समस्तान्य् एतानि सर्वत्राकूटवृत्तितः ॥

1.848

अन्धस्यापि हि तत् किंचिद्रूपायतनम् अस्ति यत् ।
विकारम् एकश्रोत्रस्पृग् अक्षान्तरसमस्थिति ॥

1.849

प्रभातं प्रविलीनाभ्रनभोमण्डलमण्डितम् ।
इत्य् आकर्ण्य परां तूष्टिं यात्य् अन्धो हैमने दिने ॥

1.850

यद्य् अप्य् अनुमिमीते ऽसौ शीतवारणजं सुखम् ।
तथाप्य् अस्य स्वसंवित्तिर् न रूपानवभासिनी ॥

1.851

अन्ये तन्मात्ररूपाणां मानत्वं प्रतिपेदिरे ।
चक्षूरश्मिस् त्व् असंस्पर्श इत्यादिविधियोगतः ॥

1.852

अदृश्यत्वं चक्षुरादेर् अत एवोपपद्यते ।
योगिनः प्रत्य् अदृश्यत्वं जातुचिन् नोपपद्यते ॥

1.853

अन्ये तु स्थूलभूतानां ज्योतिषां मानतां जगुः ।
मेयस्यापि प्रमाणत्वम् अपरे प्रतिपेदिरे ॥

1.854

यतो भवति मातृत्वं तत्प्रमाणम् इति स्थितिः ।
तद्घटाद्यैश् च यत् तस्मात् ते ऽपि मानम् इति स्मृताः ॥

1.855

लौकिको व्यपदेशश् च नैव वस्त्वनुसारतः ।
स हीच्छामात्रकॢप्तत्वात् प्रायेणैवोपचारिकः ॥

1.856

कथं जानासि भोः सो ऽहं जानामीति च चोदितः ।
घटेनानेन दृष्टेन जानामीत्य् अभिभाषते ॥

1.857

तस्मान् मेये ऽपि मानत्वं न हि नाम न लौकिकम् ।
अभेदवादे मूलस्थे विरोधो ऽपि न दूषणम् ॥

1.858

ये तु प्रमाणम् आहुस् तत्सामग्रीं तैर् अपि स्फुटम् ।
अर्थादेर् मानताभीष्टा सा सङ्घे ऽप्य् अन्यथा कुतः ॥

1.859

अन्ये तु सर्वस्यैवेयत्तात्तभेदस्य मानताम् ।
क्रमोदितां हि सर्वत्र क्वचिच् चाप्य् अक्रमोदिताम् ॥

1.860

क्वचित् क्रमाक्रमग्रासपरिपूर्णत्वबन्धुराम् ।
मन्वते तन्मतं तावद् दिङ्मात्रेणोपदर्श्यते ॥

1.861

प्रथमं मेययोगेन झटिति प्रतिभासिना ।
अन्यार्थदृश्यभिप्रायप्रच्छनेनैव सर्वतः ॥

1.862

मातृत्वं चरमं तत्र चक्षुषः प्रविजृंभणम् ।
ततो मनो ऽहंधीवर्गविजृंभान्तःसमुज्ज्वलम् ॥

1.863

ततः पौंस्नाभिसंशुद्धसंविदुल्लासशालिता ।
ततः कालकलारागयत्यविद्यानिशाः क्रमात् ॥

1.864

अन्यथा वा समं वापि द्वन्द्वयोगेन वा त्रिशः ।
सर्वशो वा चतुष्पञ्चयोगेनाप्य् आणवे पदे ॥

1.865

अभावकर्तृतासङ्गसिद्धितर्काख्यसंशयाः ।
तत्रापि ननु जायन्ते तत्तत्क्रमविचित्रिताः ॥

1.866

तत्पृष्टे चाविकल्पासौ शुद्धैश्वर्यावभासिका ।
विद्या प्रमाणताम् एति पर्यन्तप्रमितिस्थितौ ॥

1.867

ततः सदाशिवोदारज्ञानेच्छाशक्तिसंश्रये ।
स माता पूर्णताम् एति शक्त्यन्ताध्वसुनिर्वृतः ॥

1.868

इत्थं पूर्णं प्रमातृत्वं यतः समवभासते ।
तदन्यतमभागांशतिरोधानवियोगजाः ॥

1.869

संविदः स्फुटतान्यत्वभेदान् निःसंख्यतां गताः ।
अत एव ह्य् अजानानैः शिवशास्त्रोदितां स्थितिम् ॥

1.870

स्फुटास्फुटादिसंवित्सु स्मृत्यस्मृत्यादिगोचरे ।
सौषुप्तादिषु शीघ्रत्वे युक्त्यामर्शाद्यसंभवात् ॥

1.871

मनोवधानं संस्कारो धर्माद्यदृष्टकल्पनम् ।
इत्य् एते हि स्फुटं शब्दा नात्र को ऽर्थस् तत्रि ... मा ॥

1.872

ऊर्ध्वोर्ध्वतत्त्वव्रातस्य मानत्वे च निरूपिते ।
अधराधरतत्त्वांशो मेयताम् अवलम्बते ॥

1.873

न चात्रास्ति क्रमः कश् चिद् व्यवधाने हि संभवात् ।
न हि विद्या न बौद्धी ताम् आलोचयति संविदम् ॥

1.874

विद्या विवेक्त्री प्रोक्ता हि बुद्धिपृष्टसमाश्रिता ।
प्रकाशात्मवपुर् बाह्यम् अक्षम् आलोचनात्मकम् ॥

1.875

संकल्पार्थं मनः प्राहुर् अभिमन्त्रीम् अहङ्कृतिम् ।
निश्चेत्रीं च धियं तत्र विद्यां चापि विवेचिकाम् ॥

1.876

तत्रैव रञ्जकं रागं कलां शक्तत्वदर्शिनीम् ।
कालं व्यवच्छित् कर्तारं नियतिं च नियामिकां ॥

1.877

आमृशन्तीम् अन्यमातृसाधारण्यावभासिकाम् ।
ग्राह्यमण्डलतद्ग्राहिनानारूपावमर्शिनीम् ॥

1.878

मायां पूर्णत्वसंभोगप्रच्युतिक्षोभकारिणीम् ।
सद्विद्यां पूर्णविश्रान्तिदायिनीं सुशिवात्मिकाम् ॥

1.879

ज्ञाननिर्भरभावांशस्वरूपपरिमर्शिकाम् ।
इच्छाशक्तिं प्रमात्रंशपूर्णभावावभासिकाम् ॥

1.880

आश्रित्य परिपूर्णो ऽयं मातृभावो विजृम्भते ॠü ।
प्रकाशालोचने पूर्वं संकल्पाभिमते ततः ॥

1.881

निश्चयानुदृशौ पश्चाद् विवेकासङ्गिताद्वयम् ।
कर्तृतास्थाव्यवच्छेदः साधारण्यावभासनम् ॥

1.882

नानाविमर्शाप्रक्षोभपूर्णमेयप्रवेदनम् ।
पूर्णमातृत्वसंवित्तिर् भैरवीभाव एव च ॥

1.883

इत्थं षोडशधा मेयमयं यावत् प्रकाशयेत् ।
तावद् विज्ञानचन्द्रो ऽसौ प्रोक्तो द्व्यष्टकलास्थितिः ॥

1.884

अनुत्तरा स्थितिः पूर्वम् आनन्देच्छेशनान्य् अतः ।
उदयश् चोनतावेश इति षट्कं व्यवस्थितम् ॥

1.885

अनुत्तरात् समारभ्य ज्ञानशक्त्यन्तम् ईदृशम् ।
इच्छैव तु क्रियाशक्तिम् ईशनेन समास्थिता ॥

1.886

प्रकाशस्थितिलेशांशं गृह्णती षण्ठतां गता ॠü ।
इच्छादि यच् च तत्पूर्वानुत्तरानन्दसंगतेः ॥

1.887

तदादिश्लेषयोगेन संध्यक्षरचतुष्टयम् ॠü ।
ततः स्वरूपसंवित्तिलाभाद् बिन्द्वादिका स्थितिः ॥

1.888

ततः समग्रसंदर्भभरिताकाररूपिणि ।
विसर्गः किल शाक्तो ऽसौ विक्षेप इति यः स्मृतः ॥

1.889

विसर्गस्यैव विश्लेष इति सप्तदशी कला ।
क्वचिद् अष्टादशी सैव पुनः प्रक्षोभयोगतः ॥

1.890

अनुत्तरस्याकारस्य परभैरवरूपिणः ।
अकुलस्य परा येयं कौलिकी शाक्तिर् उत्तमा ॥

1.891

स एवायं विसर्गस् तु तस्माज् जातम् इदं जगत् ॠü ।
तस्य प्रक्षोभयोग्यत्वं प्रक्षोभकलनोदयः ॥

1.892

प्रक्षोभपूर्णताभावात् तदकुलक्रमोनता ।
इति षट्कस्वरूपात्मविमर्शान्दोलनोदितम् ॥

1.893

अनुत्तरस्वभावत्वाद् आद्यस्यैव विजृम्भितम् ॠü ।
स एव भगवान् अन्तर् नित्यं प्रस्फुरदात्मकः ॥

1.894

अन्तःस्थसर्वभावौघपूर्णमध्यमशक्तिकः ।
स्वेच्छाक्षोभस्वभावोद्यज्जगदानन्दसुन्दरः ॥

1.895

नित्यं स्फुरति संपूर्णविसर्गरससुन्दरः ॠü ।
शिवशक्त्योः स संघट्टः स्नेह इत्य् अभिधीयते ॥

1.896

अत्रैव पूर्णवैसर्गपदे लब्धुं प्रवेशनम् ।
लेहनामन्थनेत्यादिसंप्रदायम् उपासते ॥

1.897

तथा हि मध्यमां नाडीम् अधिष्ठायाखिलं वपुः ।
प्राणयत् परमं तेजः प्रक्षुब्धामृतमध्यतः ॥

1.898

विसृष्टिरूपतां गच्छेद् यात्य् आनन्दचमत्क्रियाम् ।
अपूर्णा केवलं सा तु पूर्णा तु भगवन्मयी ॥

1.899

तेन वैसर्गिकी शक्तिर् एकैवेयं प्रजृम्भते ।
विसर्ग एव प्रक्षुब्धः प्रयत्नद्विगुणत्वतः ॥

1.900

हकारो नाम विश्वेषां व्यञ्जनानां प्रसूतिकृत् ॠü ।
स एव च पुनर्बिन्दुयोगात् स्वाम् एव भूमिकाम् ॥

1.901

अनुत्तराम् आश्रयते सो ऽहंभाव इहेष्यते ॠü ।
अत्रैवावर्णजः काख्यस् तदन्यश् च इवर्णजः ॥

1.902

तत एव हि रेफांशच्छायोपाधेर् ऋवर्णतः ।
टवर्गस् तत एवाथ धराच् छायोपधिक्रमात् ॥

1.903

तवर्गस् तत्परः पश्चाद् उवर्णाद्यरलाश् च वः ।
इवर्णवर्गाच् चोवर्णात् क्रमेणेत्य् अत एव हि ॥

1.904

अन्तःस्था इत्य् अशीताश् च इवर्णाद् द्विप्रभेदशः ।
शषसानां समुद्भूतिः शुद्धोपाधिकलायुजः ॥

1.905

इच्छाया एव विश्वो हि प्रसवो बहुधा स्थितः ॠü ।
अत एव हि सस्थानभावो युक्तत्वम् अर्हति ॥

1.906

जीवस्यैवेयम् आश्यानस्थितिर् योन्यत्मिका यतः ।
सैवानुत्तरदेवस्य शक्तिर् अत्र निरुच्यते ॥

1.907

तत्रैवन्तःस्थतत्त्वानि परावाग्भूमिकाक्रमात् ।
अवर्गे शिवतत्त्वं तु कादौ हान्ते शिवान्तकम् ॥

1.908

इति संपुटयोगो ऽयं त्रिंशकार्थो निरूपितः ॠü ।
एवं पूर्णानवच्छिन्ना चिद्देवी स्याद् यदि स्फुटम् ॥

1.909

सर्वम् अस्यां भवेद् एषा सर्वत्र च तथा भवेत् ॠü ।
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ॥

1.910

तस्याहं न प्रणश्यामि स ममेत्यपि तन् मुनिः ।
अभाषतार्जुनाचार्यवचसा तत्र तत्र च ॥

1.911

संविदात्मा हि विच्छिन्नो यदि स्यात् सर्वभावतः ।
भाव एव भवेद् एष स्वलक्षणघटादिवत् ॥

1.912

अतश् च संवित्संवित्त्वहानेर् एषा प्रणश्यति ।
पलायते हि चित् सा चेद् व्यवचिच्छेदयिष्यते ॥

1.913

निजोत्तमाङ्ग्च्छायेव स्वपदाक्रमणक्रमे ।
यच् च सर्वं मयि प्रोक्तं न पश्यति महाजनः ॥

1.914

स सर्वमध्यवर्तित्वान् मयि तावत् प्रतिष्ठितः ।
एवं प्रकाशानिष्ठत्वाद् अस्यासत्समताजुषः ॥

1.915

प्रणाश एवेति मुनिः प्रोवाचोभयवर्त्मना ।
एष वस्तुक्रमस् तावद् यो ऽयं संपुट उच्यते ॥

1.916

तत एव समस्ताध्वकलितासनसद्मनि ।
संविद् आधेयतां प्राप्ता पुनर् आधारतां गता ॥

1.917

\ह्स्पचे{3च्म्} ततः ।
अत्र तु प्रविविक्षूणां ज्ञप्तिक्रमवशान् मुनिः ॥

1.918

ऊचिवान् भगवान् एव विश्वं तन् नान्यथेति यत् ।
अभिन्नसंवित्स्वातन्त्र्यं भासते भेदवर्त्मनि ॥

1.919

उपदेश्योपदेष्टृत्वव्यवस्थेयं प्रतायते ।
स्वात्मैव हि गुरुर् देवः पर इत्य् अभिमन्यते ॥

1.920

स्वोदीरितानि वाक्यानि परोक्तानीति मन्यते ।
प्रतिपाद्यं च यद् वस्तु येन च प्रतिपाद्यते ॥

1.921

तत् सर्वम् आत्मरूपं हि भेदेनैवाभिमन्यते ।
यथा स्वप्नपदावस्थाम् उपदेशपरम्पराम् ॥

1.922

आकर्णयज् जडो जन्तुर् अन्योक्तम् अभिमन्यते ।
तथैव जाग्रद्गर्भो ऽयं व्यवहारः समस्तकः ॥

1.923

को भेदः स्वप्नजाग्रत्सु तर्हि स्याद् इति चेत् पुनः ।
भणिष्यते ऽथ वा नाथे स्वतन्त्रे किन् न भाषितम् ॥

1.924

एवं ज्ञप्तिक्रमेणैव भेदो विध्यनुवादयोः ।
सर्वं देवो ऽथ वा देवः सर्वम् इत्य् एकम् एव हि ॥

1.925

वस्तुतः कुम्भघटवद् विश्वं पर्यायमात्रकम् ।
वाच्य एषां त्वम् एवेति तच् छ्रीनारायणो ऽभ्यधात् ॥

1.926

नन्व् अभेदे कथंकारं कॢप्तिर् विध्यनुवादयोः ।
यो दन्तुरः स चैत्रो ऽयम् इति दन्तुरम् आदितः ॥

1.927

अनूद्य चैत्र इत्यंशो यदि नाम विधीयते ।
तद् दन्तुरो ऽन्यश् चैत्राच् चैत्रश् चान्यस् ततः कथम् ॥

1.928

घटश् चैत्र इतीदृक्षा न स्याद् विध्यनुवादता ।
तस्माद् य एव चैत्रो ऽसौ स दन्तुर इति स्थितिः ॥

1.929

अज्ञातपर्यायपदस्थितीन् प्रति प्रयुज्यते पादप एष भूरुहः ।
कुम्भो घटश् चेति तथैव भण्यते महेश्वरः सर्वम् इदं जगत् त्व् इति ॥

1.930

इत्थं संपुटयोगेन परिपूर्णा हि या स्थितिः ।
यस्यां संहारसृष्ट्यंशशतान्य् अन्तःस्थितान्य् अपि ॥

1.931

ताम् एव भागशः के चिद् उपासितुमनस् तया ।
एकादिद्विगुणत्वोत्थचतुःषड्द्वादशादिभिः ॥

1.932

संविच्चक्रमयैर् भेदैर् भिन्दते विविधैः क्रमैः ।
एका संविद् द्विधा सैव दृक्क्रियात्मा त्रिधाथ सा ॥

1.933

प्रोन्मेषशक्तिसाचिव्याच् चतुर्धाप्य् अथ गीयते ।
चिच्छक्त्यानन्दरूढ्या तु पञ्चधासौ प्रभाष्यते ॥

1.934

षोढा तु स्वरषट्कोक्तसंविच्चर्चाविचारणात् ।
यावद् द्वादशधा संवित्सृष्ट्यादौ तुल्यगोचरे ॥

1.935

एकैकशस् त्र्यात्मकत्वात् त्रये वा चातुरात्म्यतः ।
सृष्टिं कलयते संवित् तत्राभ्येति च रक्तताम् ॥

1.936

स्थितिनाशं कलयते क्वापि शङ्कां प्रकल्पयेत् ।
तां संहृत्य च भावांशं संहारात् स्वात्मनः पुनः ॥

1.937

संहर्त्रीत्वं चर्चयते तदन्तः पुण्यपापयोः ।
न द्रुतं न निरोधं वा स्वस्वातन्त्र्येण वाञ्छति ॥

1.938

एवं बोधांशकरणमरीचीचक्रम् आत्मनि ।
ग्रसमाना संहरते प्रमाणांशस्थितान् रवीन् ॥

1.939

ततः कल्पितमात्रंशं संहृत्याकल्पिते हृदि ।
तत्सर्वातीतम् अप्य् अन्तर् अनवच्छिन्नधामनि ॥

1.940

नयेत् तन् नयनद्वाराद् विश्वं यावत् तथा नयेत् ।
ततः सृष्टिं च कलयेद् इत्यादिक्रमयोगतः ॥

1.941

द्वादशारम् इदं चक्रं सर्वदा परिवर्तते ।
यस्यैताः स्थूलमात्रत्वं मासराश्यादिसंपदः ॥

1.942

अक्रमक्रमवशाद् द्विशस् त्रिशो भूरिशो ऽथ विविधैः क्रमाक्रमैः ।
चक्रम् एतद् उदितं विजृम्भते मेयमानमितिमातृभक्षकम् ॥

1.943

एतच्चक्रगतानन्तकिरणारासमाश्रयात् ।
चक्रभेदो न संख्यातुं कदाचिद् अपि शक्यते ॥

1.944

यथा हि वर्हिणः पत्रे सितपीतारुणादिकम् ।
प्रोन्मिषन् निमिषच् चात्र भासते ऽप्य् अतथात्मकम् ॥

1.945

तथानुन्मिषितालीनसूक्ष्मसंवित्सुनिर्भरः ।
चक्रेशो भाति निमिषत्प्रोन्मिषद्वृत्तिचित्रितः ॥

1.946

तत् कस्यापि निमेषेण कस्याप्य् उन्मेषयोगतः ।
एकारचक्रात् प्रभृति सहस्रारं विवर्तते ॥

1.947

तद् असंख्यानम् अथ वाप्य् अन्योन्याश्रितगर्भकम् ।
न वा तच् चक्रम् अथ किं व्योमैवैकं विजृम्भते ॥

1.948

तद् अप्य् अनन्तसच्चक्रगर्भं वापि विभासते ।
अनन्तव्योमगर्भं वा महाव्योमैकम् उच्यते ॥

1.949

यथा व्योमैवैकं कचति सितनीलारुणतया यथा चैते मेघाः पुनर् अथ तथा भान्ति बहुधा ।
तथा संवित्तत्त्वं कलनपरिसंख्याविरहितैः स्वतन्त्रं स्वाकारैः स्फुरति न च ते के चन ततः ॥

1.950

इति तत्त्वम् इदं न्यरूपयन् मम नाथो हृदयस्थितः स्वयम् ।
प्रतिपद्य विचित्ररूपकम् गुरुसंतानपरम्परायितम् ॥

1.951

तद् अमुत्र नये न ये प्ररूढिं प्रतिपत्तुं क्षमताम् उपाश्रयन्ते ।
ननु तत्प्रतिबोधनाय देवो विविधां मण्डलकल्पनाम् अवोचत् ॥

1.952

बालो यद्वत् रेखया वर्णजाते स्वैः संकेतैर् योज्यते तत्क्रमेण ।
तद्वन्मुद्रामण्डलैर् मन्त्रतन्त्रैः पूर्णे स्वस्मिन् योज्यते धाम्न्य् अनर्घे ॥

1.953

अत्रापि किञ्चन विभाति तदिच्छयैव दूरं तथा सविधम् आश्रिततारतम्यम् ।
असंस्पृग् अप्य् अथ निरंशपदप्रतिष्ठम् इत्थं क्रियापटलगो बहुधैव भेदः ॥

1.954

इत्थं प्रमाणताभागि यत् तत्त्वं हि न्यरूप्यत ।
परापरा भगवती सेयं भाति तथा तथा ॥

1.955

तद् अत्रैव परांशो यः स मात्रंशो ऽपरः पुनः ।
मेयांश इति तत् पूर्वम् एवास्माभिः प्रकाशितम् ॥

1.956

मात्रंशो ऽपि परे भागे बहुधा यत् स्थितस् ततः ।
परापरतयोद्रिक्तः परो मन्त्रेशरूपकः ॥

1.957

उद्रिक्तापरभावस् तु मन्त्र इत्य् अभिधीयते ।
परापरस् तु यो माता समुद्रिक्तपरापरः ॥

1.958

स विज्ञानाकलः प्रोक्तः प्रबुद्धपरभावकः ।
अपरोद्रेकयोगेन स एव प्रलयाकलः ॥

1.959

अपरः किल यो माता सकलः स तु भाष्यते ।
परापरादिभेदेन तस्यापि बहुधा स्थितिः ॥

1.960

विचार्यमाणा निःसंख्यान् मातृभेदांस् तनोत्य् अलम् ।
मुख्यत्वेन तु सप्तैव मातृभेदाः प्रकीर्तिताः ॥

1.961

प्रमाणांशे पतन्त्य् एव तेषाम् एव स्वशक्तयः ।
व्यापारयोगितैवैषा शक्तित्वम् इति मन्महे ॥

1.962

यच् च व्याप्रियमाणत्वं करणत्वं तद् एव हि ।
एवं च शक्तिमच्छक्क्तिभेदान् मातृप्रमाणजाः ॥

1.963

चतुर्दशस्वरूपं च प्रमेयम् इति भाष्यते ।
माता मानं च मेयं च यत एकं प्रकीर्तितम् ॥

1.964

ततः पञ्चदशात्मैकम् एकं प्रकृतिपञ्चितम् ।
तत्राप्य् एकैकशो भेदे निजतत्त्वस्वरूपिणि ॥

1.965

संक्षेपविस्तरकृतं भेदानन्त्यं प्रतायते ।
पुनर् जलादिमूलान्तभेदसंकलनक्रमात् ॥

1.966

एवं धरातः प्रभृति प्रधान तत्त्वान्तम् उक्तं दशपञ्चधैव ।
पुंसः कलान्तं सकलः स्वरूप भूतो न माता न च मानरूपः ॥

1.967

त्रयोदशात्मत्वम् अतो ऽत्र निष्ठितं निशि स्वरूपं तु भवेल् लयाकलः ।
मध्ये तु विज्ञानकलस्वरूपता विद्यापदे मन्त्रगतस्वरूपता ॥

1.968

ऐशे मन्त्रेशवर्गस्थितिर् अथ सुशिवे धाम्नि तन्नाथनिष्ठा पूर्वं पूर्वं च तत्र प्रकटयति निजां मातृमानव्यवस्थाम् ।
तेनानन्यप्रमातृ स्फुरति शिवपदं स्वप्रकाशं सदैकं मन्त्रेशेशानतस् तु त्रिशरमुनिनवत्र्यक्षसंख्याविभेदाः ॥

1.969

शक्तिश् च नो शक्तिमतो विभिन्ना तेनैति नो भेदम् इयं पृथक्त्वम् ।
अमातृतायां न च शक्तिर् अस्ति तेन स्वरूपं न हि शक्तियुक्तम् ॥

1.970

धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते ।
स एव शिवनाथो ऽत्र पृथिवी ब्रह्म तत्परम् ॥

1.971

धरातत्त्वगताः सिद्धीर् वितरीतुं समुद्यतान् ।
प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः ॥

1.972

प्रेर्यमाणास् तु मन्त्रेशा मन्त्रास् तद्वाचकाः स्फुटम् ।
धरातत्त्वगतं योगम् अभ्यस्य शिवविद्यया ॥

1.973

न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा ।
अप्राप्तध्रुवधामानो विज्ञानकलताजुषः ॥

1.974

तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः ।
सौषुप्तावस्थितौ यद्वत् ते ऽत्र प्रलयकेवलाः ॥

1.975

सौषुप्ते तत्त्वलीनत्वं स्फुटम् एव हि लक्ष्यते ।
अन्यथा नियतस्वप्नसंसृष्टिर् इयती कुतः ॥

1.976

सौषुप्तम् अपि चित्रं च स्वच्छास्वच्छादि भासते ।
अस्वाप्सं सुखम् इत्यादिस्मृतिवैचित्र्यदर्शनात् ॥

1.977

मायाकर्मसमुल्लाससंमिश्रितमलाबिलाः ।
धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः ॥

1.978

अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने ।
प्रक्षोभो यस् तद् एवोक्तं शक्तीनां सप्तकं ततः ॥

1.979

शिवो ऽविच्युतचिद्रूपस् तिस्रस् तच्छक्तयस् तु याः ।
ताः स्वातन्त्र्यवशोपात्तग्रहीतृग्राह्यरूपिकाः ॥

1.980

ग्रहीतृभागोद्रेकेण ग्राह्यभागोच्छलत्वतः ।
सप्त सप्तेति यत् त्व् एकं जडमात्रं नरात्मकम् ॥

1.981

तत्स्वरूपं ततस् त्रैधं प्रतितत्त्वं व्यवस्थितम् ।
किं चार्थे खलु निर्ग्राह्ये तुटयः षोडश क्षणाः ॥

1.982

सपादद्व्यङ्गुलावेशात् प्रत्येकं परिकल्पिताः ।
तत्राद्यः परमाद्वैतनिर्विभागरसात्मकः ॥

1.983

अन्त्यस् तु ग्राह्यतादात्म्यान् न पृथक् प्रविभाव्यते ।
उपान्त्यस् तत्स्वरूपस्य ग्राहकः परिभाव्व्यते ॥

1.984

आद्यं च सप्तकं तत्र निर्विकल्पकतां गतम् ।
क्रमोन्मिषद्विकल्पांशच्छायाच्छादनकोविदम् ॥

1.985

तद् एव शिवरूपं हि परशक्त्यात्मकं विदुः ।
द्वितीयं सप्तकं तत्र परापरपदात्मकम् ॥

1.986

विकल्प इति संगीतम् इति भेदो ऽवभास्यते ।
तद् अस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः ॥

1.987

संवेदयन्ते यद्रूपं तत्र किं वा विकत्थनैः ।
क्रमात् तु भेदन्यूनत्वे तुटीनाम् अपि यो मतः ॥

1.988

विकल्पस्य च निर्ह्रासो निर्विकल्पोपलक्षणम् ।
यथा हि चिरदुःखार्तः पश्चाद् आत्तसुखस्थितिः ॥

1.989

विस्मरत्य् एव तद्दुःखं सुखविश्रान्तिवर्त्मना ।
तथा गतविकल्पे ऽपि रूढाः संवेदने जनाः ॥

1.990

विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या ।
संवित्स्वरूपप्रकटत्वम् इत्थं तत्रावधाने यततां सुबुद्धिः ॥

1.991

ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता ।
इयं सा भण्यते तत्र यथेष्टफलयोगतः ॥

1.992

अत एव हि तद्भेदबाहुल्याद् भुवनान्य् अपि ।
विचित्रत्वं प्रयान्तीति न चातिक्रम इष्यते ॥

1.993

सक्रमाक्रमम् एवेदं कालस्य प्राक्प्रदूसणात् ।
दिशश् च परमार्थत्वं नैव युक्त्योपपद्यते ॥

1.994

पूर्वापरप्रतीतिं हि नैका सा कुरुते तथा ।
उपाधिभेदो नो वस्तु तत् कथं सा प्रकल्प्यताम् ॥

1.995

यो हि यस्माद्गुणोत्कृष्ट इत्य् अतः परमेश्वरः ।
अभाषत निजानन्दकॢप्तदिक्कालमण्डलः ॥

1.996

तद् एवं तत्त्वरूपे ऽस्मिन् विचित्रे प्रविविक्षताम् ।
उपायभेदात् त्रैविध्यं समावेशेषु वर्णितम् ॥

1.997

अनुपायः शांभवो ऽसौ चिदुपायस् ततः परम् ।
जडोपायस् त्व् आणवः स्यात् स चापि बहुधा मतः ॥

1.998

अजडे ऽपि जडाभासः पारमेश्वर्ययोगतः ।
नाडीकरणबाह्यादेस् तेन संविदुपायता ॥

1.999

तत्राक्षवृत्तिम् आश्रित्य बाह्याकारग्रहो हि यः ।
तज्जाग्रत्स्फुटम् आसीनम् अनुबन्धि पुनः पुनः ॥

1.1000

आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः ।
लयाकलस्य यो भोगः लयकर्मवशान् न तु ॥

1.1001

स्थिरो भवेन् निशाभावात् सुप्तं सौख्याद्यवेदने ।
ज्ञानाकलस्य मलतः केवलाद् भोगमात्रतः ॥

1.1002

भेदवन्तः स्वतो भिन्नाश् चिकीर्ष्यन्ते जडाजडाः ।
तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास् त्रयः ॥

1.1003

यावद् भैरवबोधांशप्रवेशनसहिष्णवः ।
भावा विगलदात्मीयसाराः स्वयम् अभेदिनः ॥

1.1004

तुर्यातीतपदे संस्युर् इति पञ्चदशात्मके ।
यस्य यद् यद् स्फुटं रूपं तज् जाग्रद् इति मन्यताम् ॥

1.1005

तद् एवास्थिरम् आभाति स्वरूपं स्वप्न ईदृशः ।
अस्फुटं तु यद् आभाति सुप्तं तत् तत् पुरो ऽपि यत् ॥

1.1006

त्रितयस्यानुसंधिस् तु यद्वशाद् उपजायते ।
स्रक्सूत्रतुल्यं तत्तुर्यं सर्वभेदेषु गृह्यताम् ॥

1.1007

यत् त्व् अद्वैतभरोल्लासि द्राविताशेषभेदकम् ।
तुर्यातीतं तु तत् प्राहुर् इत्थं सर्वत्र योजयेत् ॥

1.1008

लयाकले हि स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु ।
स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद् बुधः ॥

1.1009

एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतम् उच्यते ।
आनन्दस् तुर्यम् इच्छैव बीजभूमिः सुषुप्तता ॥

1.1010

ज्ञानं तु स्वप्नवृत्तित्वं क्रिया जाग्रद् इति स्मृता ।
अत्रैव योगभूम्युत्थाः संज्ञाः पिण्डस्थतादयः ॥

1.1011

सर्वतोभद्रताद्यास् तु प्रसंख्याज्ञानिनिर्मिताः ।
एकैकत्र चतूरूपसद्भावाद् वितते ततः ॥

1.1012

चतूरूपत्वम् एकत्र त्रित्वं पश्चाद् अथैकता ।
एकस् तु भैरवो नाथः प्रोल्लसद्विश्वरूपकः ॥

1.1013

एकः शिवादिसकलपर्यन्तस्थितिसंगतः ।
सो ऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् ॥

1.1014

तत्स्वातन्त्र्यात् स्वतन्त्रत्वम् अश्नुवानो ऽवभासते ।
सो ऽयं मातृस्वरूपस्थो मन्त्राध्वेति विभाव्यते ॥

1.1015

प्रमारूपतया सो ऽयं वर्णाध्वेति निरुच्यते ।
प्रमाणरूपताम् एत्य प्रयात्य् एष पदाध्वताम् ॥

1.1016

प्रमाणरूपतावेशम् अपरित्यज्य मेयताम् ।
गच्छन् संकल्पनयोगात् कलाध्वा मातृसंगतः ॥

1.1017

शुद्धे प्रमेयतायोगे स तत्त्वाध्वेति गृह्यताम् ।
तत्स्थौल्याधारतायोगाद् भुवनाध्वेति वर्णितः ॥

1.1018

तथा हि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा ।
शिवज्ञानक्रियायत्तमननत्राणतत्परा ॥

1.1019

अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् ।
मन्त्राध्वा रभसेन द्राक् प्राग् उद्भूतः शिवात्मकः ॥

1.1020

उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः ।
सर्वाभिधानसामर्थ्याद् अनियन्त्रितशक्तयः ॥

1.1021

सृष्टाः स्वात्मसहोत्थार्थधरापर्यन्तवृत्तयः ।
स्वात्मीये चिद्विलसिते तावतो ऽर्थान् निजात्मनि ॥

1.1022

आमृशन्तः प्रमारूपां सत्यां बिभ्रति संविदम् ।
बालास् तिर्यक्प्रमातारो ये ऽप्य् असंकेतभागिनः ॥

1.1023

ते ऽप्य् अकृत्रिमसंस्कारसाराम् एनां स्वसंविदम् ।
भिन्नभिन्नाम् उपाश्रित्य यान्ति चित्रां प्रमातृताम् ॥

1.1024

अस्याम् अकृत्रिमानन्तवर्णसंविदि रूढताम् ।
संकेता यान्ति चेत् ते ऽपि यान्त्य् असंकेतवृत्तिताम् ॥

1.1025

अनया तु विना सर्वे संकेता बहुशः कृताः ।
नैव चेतसि विश्रान्तिं संकेतान्तरयोगतः ॥

1.1026

व्रजेयुर् अनवस्थानान् मूलक्षतिकरत्वतः ।
तत्रापि खलु संकेते बालो व्युत्पाद्यतां कुतः ॥

1.1027

तेनानन्तस् त्व् अमायीयो यो वर्णग्राम ईदृशः ।
स चिद्विमर्शसचिवः सदैव प्रविजृम्भते ॥

1.1028

तत एव च मायीया वर्णाः सूतिं वितेनिरे ।
तेषां ते खल्व् अमायीया वीर्यम् इत्य् अवधार्यते ॥

1.1029

तथा हि परवाक्येषु श्रुतेष्व् आवृणुते निजा ।
प्रमा यस्य जडो नासौ तत्रार्थे याति मातृताम् ॥

1.1030

यस्य तु स्वप्रमा बोधे प्रविशेद् भेदगर्भगा ।
मायीयवर्णपुञ्जे स्वे स प्रमातृत्वम् ऋच्छति ॥

1.1031

यथा यथा चाकृतकं तद्रूपम् अतिरिच्यते ।
तथा तथा चमत्कारतारतम्यं प्रकल्प्यते ॥

1.1032

तदुद्रेकमहत्त्वे तु प्रतिभात्मनि निष्ठिताः ।
ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः ॥

1.1033

अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता ।
तेषाम् एव ततस् तेन गुप्ता गुप्तेन भाषिताः ॥

1.1034

ततो यावद्विभोः शश्वद्विश्रान्तिर् युगपद्बहून् ।
वर्णान् उदृङ्क्य भोगांशपरिपूरणसुस्थितान् ॥

1.1035

तावद् एव पदाध्वासौ मेयभूमिम् उपाश्रितः ।
संसारमृतसंकेतसंघाते प्रथमाङ्कुरः ॥

1.1036

एवं प्रमेयता मातृभावो मानत्वम् अप्य् अथ ।
षट्त्रिंशदात्मनस् तत्त्वकलापस्येति निश्चितम् ॥

1.1037

तत्र सर्वं विभात्य् एतत् परमेशितरि ध्रुवे ।
प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः ॥

1.1038

चिद्व्योम्न्य् एव शिवे तत्तद्देहादिमतिर् ईदृशी ।
भिन्ना संसारिणां भाति रज्जौ सर्पादिका यथा ॥

1.1039

यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः ।
देहान्तरादिर् मरणात् कीदृग् वा देहसंभवः ॥

1.1040

स्वप्ने तु प्रतिभामात्रसामान्यप्रथनाद् बलात् ।
विशेषाः प्रतिभासन्ते न भाव्यन्ते ऽपि ते तथा ॥

1.1041

सालिग्रामोपलाः केचिच् चित्राकृतिहृदो यथा ।
तथा मायादिभूम्यन्तलेखाश् चित्रहृदयश् चितः ॥

1.1042

नगरार्णवशैलाद्यास् तदिच्छानुविधायिनः ।
न स्वयं सदसद्रूपकारणाकरणात्मकाः ॥

1.1043

चिरप्ररूढे नियमे समुच्छेदात् प्रवर्तनात् ।
अरूढे ऽपि स्वतन्त्रो ऽयं स्थितश् चिद्व्योमभैरवः ॥

1.1044

एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि ।
एवम् अस्मीत्य् अनामर्शो भेदको भावमण्डले ॥

1.1045

सर्वप्रमाणैर् नो सिद्धं स्वप्ने कर्त्रन्तरं यथा ।
स्वसंविदः स्वतन्त्रायास् तथा सर्गो ऽपि बुध्यताम् ॥

1.1046

चित्तचित्रपुरोद्याने क्रीडन्न् एवं हि वेत्ति यः ।
अहम् एव स्थितो भावैर् भूतैश् चिन्मात्रकैर् इति ॥

1.1047

एवं जातो मृतो ऽस्मीति जन्ममृत्युविचित्रताः ।
अजन्मन्य् अमृतौ भान्ति चित्तभित्तौ स्वकल्पिनाः ॥

1.1048

परेहसंविदामात्रं परलोकेहलोकता ।
किंत्व् अकालकलासंविद्देशभेदे ऽप्य् अभेदिनी ॥

1.1049

अभविष्यद् अयं सर्गो मूर्तश् चेन् न तु चिन्मयः ।
तद् अवेक्ष्यत तन्मध्यात् केनैको ऽपि धराधरः ॥

1.1050

भूततन्मात्रवर्गादेर् आधाराधेयचर्चने ।
अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी ॥

1.1051

तस्मात् प्रतीतिर् एवेत्थं कर्त्री सा प्रतिभा शिवः ।
अत्र स्वात्मनि ते तेन शक्तिः साधारसंज्ञिता ॥

1.1052

सांकल्पिकं निराधारम् अपि नैव पतत्य् अधः ।
स्वाधारशक्तौ विश्रान्तेर् विश्वम् इत्थं विमृश्यताम् ॥

1.1053

अस्या घनाहम् इत्यादिरूढेर् एव धरादिता ।
यावद् अन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ॥

1.1054

मणाव् इन्द्रायुधे भास इव नीलादयः शिवे ।
परमार्थत एषां तु नोदयव्यययोगिता ॥

1.1055

देशे काले ऽत्र वा सृष्टिर् इत्य् एतद् असमञ्जसम् ।
चिदात्मनो हि देवस्य सृष्टिर् दिक्कालयोर् अपि ॥

1.1056

जागराभिमते सार्धहस्तत्रितयगोचरे ।
प्रहरे च पृथक्स्वप्नाश् चित्रदिक्कालमानिनः ॥

1.1057

अत एव क्षणं नाम न किंचिद् अपि मन्महे ।
क्रियाक्षणे ऽपि ह्य् एकस्मिन् बह्व्यः सन्ति द्रुताः क्रियाः ॥

1.1058

तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे ।
ते नूनम् अनया नाल्या शून्यदृष्ट्यवलम्बिनः ॥

1.1059

तद् य एव सतो भावाञ् शून्यीकतुं तह्तासतः ।
स्फुटीकर्तुं स्वतन्त्रत्वाद् ईशः स परमेश्वरः ॥

1.1060

तद् इत्थं परमेशानो विश्वरूपः प्रगीयते ।
न तु भिन्नस्य कस्यापि धरादेर् उपपन्नता ॥

1.1061

उक्तं चैतत् पुरैवेति न भूयः प्रविविच्यते ।
बहुभिश् चापि बाह्यार्थदूषणा प्रव्यरच्यत ॥

1.1062

नन्व् इत्थं जन्ममरणे कर्मणः फलयोगिता ।
कथं स्यात् किन् नु पूर्वोक्तं चित्स्वातन्त्र्यं सुविसृम्तम् ॥

1.1063

तथा हि चित्स्वतन्त्रेयं यथा भासयते तथा ।
सत्यं भात्य् अखिलाकारगर्भा सा चेति निश्चितम् ॥

1.1064

इक्षौ प्रत्यणु माधुर्यं यथा सर्वात्मना तथा ।
प्रत्येकपरमाणौ हि सर्वसृष्टिमयी स्थितिः ॥

1.1065

अज्ञाततत्त्वमूलास् तु विवदन्ते ऽत्र ये बुधाः ।
नूनं निजमनोराज्यरक्षायै ते समुद्यताः ॥

1.1066

प्राणे खे चिति बाह्ये वा कुत्रापीदम् इति भ्रमः ।
अज्ञत्वात् तन्नियत्युत्थस्वातन्त्र्याभावजृम्भितः ॥

1.1067

अतः स्वसंविदामर्शो जन्मत्वेनेह भासते ।
पुरस्तात् तु न संवित्तिः स्वातन्त्र्योचितरूपिणी ॥

1.1068

प्राक्तनी संविद् एवेह पूर्वकर्मेति भाष्यते ।
तत्संविद्बाधिका संवित्कर्मक्षयकरी ततः ॥

1.1069

अकृतं च यथा स्वप्ने मया कृतम् इति स्फुरेत् ।
फलदा दृश्यते सैव वार्ता जाग्रति कर्मणः ॥

1.1070

तथा च प्राच्यकर्मौघफलसंप्लोषणात्मिका ।
यस्यैकाप्य् उत्तरोदेति संवित् स फलभाङ् न हि ॥

1.1071

किं चान्यद्बहुसंवित्सुस्फुरत्त्वादयशो यशः ।
भूयःफलवदाकाशनद्यम्भःसिक्तबीजवत् ॥

1.1072

एवम् अल्पफलं कर्म स्वल्पसंवेदने स्फुरत् ।
अस्फुरन् निष्फलं त्व् एव न्यायः सो ऽयं स्वसंविदम् ॥

1.1073

तत्राप्य् अल्पत्वभूयस्त्वे संविदां ये प्रकल्पिते ।
ते कर्मकर्तुः संवित्तिरूढ्या तद्रूपभागिनी ॥

1.1074

या च (यस्य) संवित् स्वयं तादृक्फलगर्भा न जायते ।
नाप्य् अन्यफलनिर्ग्राहिमातृसंगतितस् तथा ॥

1.1075

फलवेदितुर् अन्यस्य प्रमातुर् अपि संविदि ।
अन्यप्रमातृसंकल्पाद् यावदन्ते स को ऽप्य् अलम् ॥

1.1076

प्रबुद्धः सृष्टिर् अक्षायै स्थितिशक्तिविजृम्भकः ।
विदाः स्म संकोचयति फलालम्बनकल्पनाः ॥

1.1077

मत्स्याद् अमत्स्यदृष्ट्येयं सृष्टिर् इत्य् आशयेन ते ।
परोपकारं कर्तव्यम् उपादिक्षन् पुरातनाः ॥

1.1078

एवं नामोपकारो ऽयं मृतस्यापि प्रतन्यते ।
पिण्डदानादिना भूयो दीयते देहसंगमः ॥

1.1079

वरं स्वात्मनि संक्लेशाः परं मा पीडयन् त्व् इति ।
इति कल्पितम् एतस्य कृच्छ्रादेस् तपसः फलम् ॥

1.1080

लशुनादावभक्ष्यत्वम् उक्तम् आज्ञेय ईदृशी ।
अकारणकम् एवेति गृह्णन्तु किल जन्तवः ॥

1.1081

तद् एवं हंसपक्ष्यादिभक्ष्याभक्ष्यत्वनिर्णये ।
युज्येत भिन्नबुद्धित्वम् अन्यथा न्न कथं चन ॥

1.1082

एवं दृष्टे ऽप्य् अदृष्टे ऽथ कल्पितांशांशिकाक्रमात् ।
फलयोगः स एवाद्य रूढः संविद्भुवि स्थितः ॥

1.1083

देहः पिण्डात् परे लोके नान्यथेति स्थितिः कृता ।
अन्योन्याननुषक्तत्वं जन्तूनां देहभृद् इति ? ॥

1.1084

तत्सर्वशास्त्रपूगैश् च शङ्काशङ्कुः प्ररोपिताः ।
अज्ञचित्तधरारूढः फलपर्यन्ततां गतः ॥

1.1085

अस्ति मे पिण्डदो ऽद्याहं पिण्डदानक्क्रमात् तथा ।
प्रप्नोभ्।म्(?)यवयवाभोगं पूर्णदेहो ऽस्मि सुस्थितः ॥

1.1086

अदृष्टक्रियया पुत्रशिष्यस्वात्मादिकॢप्तया ।
स्वर्गभागहमत्यन्तमात्तसंभोगसुस्थितः ॥

1.1087

नास्ति मे पिण्डदः कश् चित् स्वयं चास्म्य् अतिदुष्कृती ।
न मे त्रातास्ति कुत्रापि पतामि नरकार्णवे ॥

1.1088

भविष्यति मम त्राता क्वापि काले कथं चन ।
इत्यादिः संविदां स्फारस् तथैव फलति स्वयम् ॥

1.1089

तस्यास् तु पिण्डकर्त्रादिर् माभूद् अथ यथा स्फुरेत् ।
स तावत् तत्फलं भुङ्क्ते स्वसंकल्पेन कल्पितम् ॥

1.1090

शङ्कावज्रप्रलेपान्तर्दृढबद्धां त्व् इमां मतिम् ।
भैरवानल एवैकः समूलं प्लुष्यति क्षणात् ॥

1.1091

अशेषचित्रचिद्गर्भसंसारस्वप्नसद्मनः ।
प्लोषकः शिव एवाहम् इत्युल्लासी हुताशनः ॥

1.1092

तन्मूढः कर्मसंवित्तिचित्रीभूतचितिस् तथा ।
संकल्पम् एव संसारं विचित्रम् अभिमन्यते ॥

1.1093

अत एव मृतो बालो वासनान्तरवर्जितः ।
शिशुर् एव भवेत् सुप्तदृढसंसारवासनः ॥

1.1094

तान्यौ तथा (?) ।
यावद्यौवनम् अभ्येति पुनस् तद्वासनक्रमात् ॥

1.1095

संस्कारसंविदा तास् ताः संसृतीर् अभिमन्यते ।
कश्चिज् जडत्वसंस्काराज् जडीभूतो ऽपि खानिलैः ॥

1.1096

सह भूजलयोगेन याति पुष्पफलात्मताम् ।
भक्षितो वीर्यरूपेण पुनर् आयाति गर्भताम् ॥

1.1097

यावद् पुनः पुनश् चित्रान् संसारान् अभिमन्यते ।
एकत्रैव स्वसंस्कारवासनावासितः शिवः ॥

1.1098

भुङ्क्ते स्वर्नरकाद्यांस् तु भोगान् स्वातन्त्र्यकल्पितान् ।
क्वचिद् भूमिमयी क्वापि जलात्मा क्वापि मिश्रिता ॥

1.1099

एवं भुवनमय्य् एषा संविद् भाति स्वरूपतः ।
ध्रियते यत्र तत्रैव स्वसंस्कारात् सुखादिकम् ॥

1.1100

वेत्त्य् अन्येन न दृश्यस् तु स त्व् अन्यान् वेद चान्यथा ।
न देशः परमार्थेन न च कालो ऽस्ति कश् चन ॥

1.1101

भेदवादे हि गगनदेशात् सर्वैकदेशता ।
उपाधेर् एव देशाद् भिद्देशस्याप्य् उपाधेर् भिदा ॥

1.1102

इत्य् अन्योन्यसमाश्रित्या देशभेदो न कश् चन ।
स्वरूपभेद एवातो भेदकत्वे सुसंगतः ॥

1.1103

स च नास्ति प्रकाशैकस्वरूपेष्व् इति साधितम् ।
एनयैव परामर्शदृशा ये परिवर्जिताः ॥

1.1104

ते शङ्काकारिशास्त्रौघशङ्कितास् तन्मयीकृताः ।
स्वस्वप्ननिर्मितानन्तजडजन्तुविकल्पितैः ॥

1.1105

शास्त्राभासैर् वृथा शङ्कां ग्राह्यन्ते बोधवर्जिताः ।
यथा प्रबुद्ध्यन्ते संविन् निभृतापि चिरं स्थिता ॥

1.1106

तथापि फलतीत्य् एवं प्रायश् चित्तादिकल्पितैः ।
एवम् आभासनानात्वस्वातन्त्र्यैश्वर्यशालिना ॥

1.1107

कॢप्तं यद् एव तत् तस्य याति तन्वादिरूपताम् ।
विपर्ययाभासयोगे शीताद्याभासदूषिते ॥

1.1108

नाड्यादाव् अथ संकोचस्फोटघातादिपीडिते ।
देहभस्त्रामहायन्त्रवातचक्रे ऽन्यथागते ॥

1.1109

प्राणो विघटते तेन जडाभासं कलेवरम् ।
यस्मिन् यात्य् अधिकारे वा जाते प्राग् वासनाक्रमात् ॥

1.1110

तत्रैव कल्पयेद् भोगं परलोकाभिधानकम् ।
पाषाणतां वा वेत्त्य् एष पुनर् वा प्रतिबुध्यते ॥

1.1111

परो ऽयं लोक इति च रूढ्यास्य परलोकिता ।
स्वर्गमोक्षादि यस्येह यथारूढं च चेतसि ॥

1.1112

तथैवास्य बहिर् भाति ततस् तत्रापि चित्रता ।
बन्धो मोक्षः सुखं स्वर्गो दुःखं जडमयी स्थितिः ॥

1.1113

संविद् एव स्वतन्त्रेत्थं शिवरूपता विराजते ।
भूयो ऽवयवयुक्तस्य यथा तावत्य् अहंस्थितिः ॥

1.1114

तथा विश्वात्मके रूपे भैरवस्याप्य् अहंस्थितिः ।
शिशुः शून्ये ऽपि वेतालं वेत्ति सत्यार्थकारिणम् ॥

1.1115

ध्येयपूज्यादिवैचित्र्यम् इत्थम् अर्थक्रियाकरम् ।
मूर्तो भिन्नः समाहूतो हित्वा भोगान् निजान् क्षणात् ॥

1.1116

देव एतीति वार्तैषा वचनेष्व् एव शोभते ।
अमूर्तादिस्वरूपत्वं सर्वम् एतत् तु युज्यते ॥

1.1117

आत्मैव हि तथाभूतस् तथा भात्य् एव भेदतः ।
एवं स्वभाव एवैष संविदो यः स एव तु ॥

1.1118

भेदग्रस्ततया कार्मो मलः शास्त्रे निरूप्यते ।
दीक्षादिकर्मयोगे तु न मलत्वं प्रतायते ॥

1.1119

स हि भेदमयाशेषसंसारदहनव्रतः ।
दीक्षा च वस्तुतस् तादृक्सत्यसंवित्स्वरूपिणी ॥

1.1120

एवं यो वेद तत्त्वेनेत्य् उक्तं चानुत्तरे नये ।
एवं विज्ञानयोगे हि शमिते भेदगोचरे ॥

1.1121

आत्मैव शिव एवैकः को बन्धः का च मुक्तता ।
एतद्दीक्षामहासंविद्प्रवेशाय तु भण्यते ॥

1.1122

क्रियास्वभावदीक्षासौ कर्मादिमलहानये ।
स्वभावकॢप्तनियतिबलाक्षिप्तेषु कर्मसु ॥

1.1123

भोगो ऽस्य युगपद्यस्मात् क्रियते मन्त्रशक्तितः ।
तथा हि प्राणगा देशकलाकालाध्वनिश्चयाः ॥

1.1124

जातयो ऽस्य प्रतायन्ते धरण्यादिशिवान्ततः ।
तत्रैव जन्मसंभोगाधिकारलयभाजनम् ॥

1.1125

इत्थं गुरोर् निश्चितसंविदात्म रूढेश् च शिष्यस्य परस्परेण ।
निष्कर्मचेतोर् अचितैव दीक्षा प्राक्कर्मशक्तीर् अखिला रुणद्धि ॥

1.1126

तत्रापि तण्डुलतिलाज्यचरुप्रबन्ध इत्यादि शैवनियतिप्रतिभारकॢप्तम् ।
तावत्य् अपि स्फुटपदे न निशाप्रपञ्चो निर्मूलताम् उपगतो ऽपि विभेदवृत्तेः ॥

1.1127

भेदे ऽपि किंत्व् एष पुनर् भविष्य संसारकारिसुकृतादिविघातहेतुः ।
शुद्धस् ततस् तद् अत एव हि तत्त्वजालं शुद्धेतरस्थितितया निखिलं द्विधैव ॥

1.1128

शुद्धं त्रिशक्तिखचितं ननु यामलं च भात्य् एव तेन बहुधैष कृतः क्रियायाः ।
व्यापारकल्पनावशान् नियतिप्रपञ्चः स्वल्पेतरत्वकृततादृशभोगयोगः ॥

1.1129

मुद्रामण्डलसंघातः समन्त्रतन्त्रचर्चितः ।
यत्र योगादिकं सर्वं फलदानाय कल्पते ॥

1.1130

निर्वृतिफलसंप्राप्तिकाङ्क्षासंकोचसुस्थिताः ।
अनवच्छिन्नताम् एव फलत्वेनात्र मन्वते ॥

1.1132

तत्सर्वोत्तीर्णदृष्टयः ।
तथापि विदिते ह्य् अर्थे परमाद्वयसुन्दरे ॥

1.1133

संवित्स्वभावस्वातन्त्र्यात् केषांचित् फलकामता ।
तान्य् एवोद्दिश्य तत् सर्वं पूरणाय धरादितः ॥

1.1134

इह हि नान्यनयेष्व् इव किञ्चन स्फुरितम् अस्ति न यत् किल सत्यतः ।
तद् इह सत्यपदे स्थितिभागिनां किम् इव हेयपदे निपतिष्यति ॥

1.1135

इत्थं सप्तदशाधिकारचरमं तत्त्वं यद् आभासते तन् निर्णीतम् अनुत्तरं शिवपदं संप्राप्तिकामान् प्रति ।
एतत् सर्वम् इहोदितं च जगदानन्दे विपक्षात्मकं भेदप्राणतया यतो ऽत्र निखिलो ऽप्य् एष प्रपञ्चः स्थितः ॥

मूल पाठ: Mālinīślokavārttika · Edition: Hanneder: Abhinavagupta's Philosophy of Revelation. An Edition and Annotated Translation of Malinislokavarttika I, 1-399, Oriental Studies 14, Groningen: Egbert Forsten 1998; ed. Madhusudan Kaul Shastri, Srinagar 1921, KSTS XXX · Data entry Jürgen Hanneder · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc