माहेश्वरतन्त्रम् · अध्याय 1
----
मुक्तबोध इन्दोलोगिचल् रेसेअर्छ् इन्स्तितुते
उसे ओf थिस् मतेरिअल् (ए-तेxत्स्) इस् चोवेरेद् ब्य् च्रेअतिवे चोम्मोन्स् लिचेन्से ब्य्-न्च्
चतलोग् नुम्बेर्: म्
उनिfओर्म् तित्ले: माहेश्वरतन्त्र
मैन् तित्ले: श्रिइमाहेश्वरतन्त्र
देस्च्रिप्तिओन्:
नोतेस्:
चोपिएद् fरोम् छोwखम्ब सेरिएस् 469, 470, 471 .
दत एन्तेरेद् ब्य् थे स्तff ओf मुक्तबोध उन्देर् थे सुपेर्विसिओन् ओf मर्क् स्. ग्. द्य्च्क्zओwस्कि.
रेविसिओन् 0: सेप्त्. 18,
पुब्लिस्हेर् : छोwखम्ब
पुब्लिचतिओन् येअर् :
पुब्लिचतिओन् चित्य् : बेनरेस्
पुब्लिचतिओन् चोउन्त्र्य् : इन्दिअ
----
श्रीमाहेश्वरतन्त्रम्
अथ प्रथमं पटलम्
श्रीपार्वत्युवाच
देवदेव महादेव करुणार्णव शङ्कर ।
हर शम्भो शिव मृड् पशुनाथ नमोऽस्तु ते ॥ १-१-
नमस्ते सर्वदेवानां दैवताय परात्मने ।
पिनाकिने नमस्तुभ्यं गङ्गाधर नमोऽस्तु ते ॥ १-
भूतिभूषितदेहाय भक्तानामभयङ्कर ।
कर्पूरविशदाभाय त्रिनेत्राय नमोऽस्तुते ॥ १-
नमश्चन्द्रकलाधारिन् नीलकण्ठ महेश्वर ।
महाभुजङ्गमाबद्धजटाजूट शिवप्रद ॥ १-
अकिञ्चनाय शुद्धाय ह्यणिमाद्यष्टसिद्धये ।
संसारवारिधितरणे प्लवभूतपदाम्बुज ॥ १-
योगीश्वराय योगाय योगिनां पतये नमः ।
योगिहृत्पद्ममार्तण्ड योगानन्दमयाय ते ॥ १-
सृष्ट्यर्थं ब्रह्मरूपोऽसि पालनार्थं स्वयं हरिः ।
रुद्रोऽस्यन्ताय देवेश नमस्त्रितयरूपिणे ॥ १-
नमो वेदान्तवेद्याय नित्यानन्दमयाय ते ।
निरञ्जनाय शुद्धाय सच्चिदानन्दचेतसे ॥ १-
निर्मलाय निराशाय निरीशायाखिलात्मने ।
अणोरणीयसे तुभ्यं महतोऽपि महीयसे ॥ १-
दिक्कालाद्यनवच्छिन्ननित्यचिन्मात्रमूर्त्तये ।
नमस्ते सर्वलोकैकपालकायार्त्तिनाशिने ॥ १-
ब्रह्मा त्वं हरिरुद्रोऽसि हव्यवाट् हुतमित्युत ।
मन्त्रर्त्त्विक् देवता चासि यज्ञस्त्वं तत्फलात्मकः ॥ १-
दयां कुरु महादेव प्रसीद परमेश्वर ।
त्वयि प्रसन्ने लोकानां फलन्ते कामपादपाः ॥ १-
त्वयाहं दीननाथेन शरीरार्द्धे निरूपिता ।
कृतकृत्याऽस्मि तेनाहं किमन्यदवशेषितम् ॥ १-
तस्मात्संप्रष्टुमिच्छामि रहस्यं किञ्चिदुत्तमम् ।
यद्यहं ते प्रियतमा ब्रूहि नाथ ! तदाखिलम् ॥ १-
त्वया प्रोक्तानि तन्त्राणि चतुःषष्टिमितानि भोः ।
न तेषु तत्वविज्ञानं प्रकटीकृतमीश्वर ॥ १-
तत्प्रकाशय देवेश प्रवक्तुं यदि मन्यसे ॥ १-
शिव उवाच
नैतज्ज्ञानं वरारोहे वक्तुं योग्यं वरानने ।
राज्यं देयं शिरो देयं देयं सर्वस्वमप्युत ।
न देयं ब्रह्मविज्ञानं सत्यं सत्यं शुचिस्मिते ॥ १-
ब्रह्महत्यासहस्राणि कृत्वा यत्पापमाप्नुयात् ।
तत्पापं लभते देवि परमार्थप्रकाशनात् ॥ १-
बालहत्यासहस्राणि स्त्रीहत्यायुतमेव च ।
गवां लक्षवधात्पापं तथा विश्वासघाततः ॥ १-
मित्रद्रोहाद्गुरुद्रोहात्साधुद्रोहाच्च यद्भवेत् ।
तत्पापं लभते देवि परमार्थप्रकाशनात् ॥ १-
तस्मात्तु गोपयेद्विद्वान् जननीजारगर्भवत् ।
भक्तासि त्वं प्रियतमा तस्मात्तेऽहं वदामि भोः ॥ १-
ज्ञानं तत्तु विजानीयात् येनात्मा भासते स्फुटः ।
अज्ञानेनावृतो नित्यं मोहरूपेण नित्यदा ॥ १-
तावत्संसारभावः स्याद्यावदज्ञानमुल्लसेत् ।
तावन्मोहो भ्रमस्तावत्तावदेव भयं भवेत् ॥ १-
अहं ममेत्यसद्भावो विस्मृतिर्दुःखदर्शनम् ।
नानाधर्मानुरागश्च कर्मणां च फलैषणा ॥ १-
बन्धमोक्षविभागश्च जडदेहाद्यहंकृतिः ।
तावदीश्वरभावः स्यात्पाषाणप्रतिमादिषु ॥ १-
जलादौ तीर्थभावश्च यावदज्ञानमुल्लसेत् ।
उदिते तु परिज्ञाने नाऽयं लोको न कल्पना ॥ १-
न त्वं नाहं न वै किञ्चिन्निवृत्ते मोहविभ्रमे ।
स्वयमेवात्मनात्मानमात्मन्यात्माभिपद्यते ॥ १-
तदा सुखसमुद्रस्य स्वरूपनिरतो भवेत् ।
लयश्चात्यन्तिको देवि कदाचिद्वा भविष्यति ॥ १-
तदेवात्माक्षरः साक्षादेक एवावशिष्यते ।
स शिवो विष्णुरेवेन्द्रः स एवामरदानवाः ॥ १-
स एव यक्षरक्षांसि सिद्धचारणकिन्नराः ।
सनकाद्याश्च मुनयो ब्रह्मपुत्राश्च मानसाः ॥ १-
पशवः पक्षिणश्चैव पर्वतास्तृणवीरुधः ।
स एवेदं जगत्सर्वं स्थूलसूक्ष्ममयं च यत् ॥ १-
अज्ञानाद्रजतं भाति शुक्तिकायां यथा प्रिये ।
ज्ञानात्तद्रजतं देवि तस्यामेव विलीयते ॥ १-
तथाक्षरे परे ब्रह्मण्याभाति सकलं जगत् ।
मोहने केनचिद्देवि मोहनाशे तु शाङ्करि ॥ १-
अवशिष्यते परं ब्रह्म साक्षादक्षरमव्ययम् ।
न त्वं नाहं तदा विष्णुर्लक्ष्मीर्ब्रह्मासरस्वती ॥ १-
नेश्वरो न शिवश्चापि यथापूर्वं भविष्यति ।
मृदुद्भवानि कार्याणि मृच्छेशाणि यथाप्रिये ॥ १-
तथैवाखिललोकोऽयं ब्रह्मभूतो भविष्यति ।
यथा वायुवशाद्देवि समुद्रे तरलोर्मय ।
प्रादुर्भवन्ति देवेशि तस्मिन् शान्ते तु पूर्ववत् ॥ १-
तथा विस्मारितज्ञानान्मोहाद्भ्रान्तं चराचरम् ।
चतुर्विंशतितत्त्वोत्थं सत्यमित्येव रूपितम् ॥ १-
तत्र जाता इमे लोकाश्चतुर्दश महेश्वरि ।
अधः सप्त तथा चोर्ध्वमेवं संख्याश्चतुर्दश ॥ १-
अतलं वितलं चैवं सुतलं च तलातलम् ।
रसातलं च पातालं भूर्भुवः स्वस्तथोपरि ॥ १-
महर्जनस्तप इति सत्यं वैकुण्ठ इत्यपि ।
शिवलोको देवलोकस्तथाऽवान्तर्गता अपि ॥ १-
मोहशान्तौ भविष्यन्ति सर्वे ब्रह्ममया इमे ।
यावत्सर्पमयी भ्रान्ती रज्जौ तावद्भयं प्रिये ॥ १-
रज्जुत्त्वेन तु विज्ञाता भयं नोद्वहते पुनः ।
अप्रपञ्चे प्रपञ्चोऽयं मोहादुन्मीलति स्फुटः ॥ १-
तावद्भयप्रदोऽज्ञानं यावन्मोहं न विन्दते ।
द्विधा त्रिधा पञ्चधा च चतुर्विंशतिधा पुनः ॥ १-
एकधा च पुनस्त्रेधा बहुधा च पुनः स्वयम् ।
विस्तीर्णः स तु मोहोऽयं आवृत्य परमेश्वरम् ॥ १-
कालमायांशयोगेन ब्रह्माण्डमसृजत्प्रभुः ।
कोटिब्रह्माण्डलक्षाणां स निर्माताक्षरो विभुः ॥ १-
न तस्येच्छा न कर्त्तव्या निर्गुणः प्रकृतेः परः ।
तथापि बालवत् क्रीडन् कोटिब्रह्माण्डसंहतीः ॥ १-
सृजते संहरत्येषः कटाक्षाक्षेपमात्रतः ।
चिन्मात्रः परमः शुद्धः कूटस्थः पुरुषः परः ॥ १-
विराट् तस्य वपुः स्थूलं पञ्चधा तु समुद्भवम् ।
पातालं पादमूलेऽस्य पार्ष्णिदेशे रसातलम् ॥ १-
गुल्फे महातलं तस्य जङ्घयोश्च तलातलम् ।
जङ्घयोपरि सुतलं वितलं कट्युत्तरं प्रिये ॥ १-
कटिमध्येऽतलमस्ति मर्त्यलोकोदरे तथा ।
पार्श्वदेशेभुवर्लोकस्तदूर्ध्वं च स्वरादयः ॥ १-
ज्योतींष्यस्योरःस्थले च ग्रीवायां च महस्तथा ॥ १-
वदने जनलोकोऽस्य तपोलोको ललाटके ।
सत्यलोको ब्रह्मरन्ध्रे बाह्वोरिन्द्रादयः सुराः ॥ १-
दिशः कर्णप्रदेशस्य शब्दस्तच्छ्रोत्रमध्यगः ।
नासयोरस्य नासत्यौ मुखे वह्निः समाश्रितः ॥ १-
सूर्योऽस्य चक्षुषि गतः पक्ष्मणि ह्यहनीशितुः ।
दंष्ट्रायां यमस्तस्य हास्ये माया महेश्वरि ॥ १-
उत्तरोष्ठे स्थिता लज्जा लोभः स्यादधरोष्ठके ।
स्तनयोरस्य वै धर्मः पृष्ठेऽधर्मः समाश्रितः ॥ १-
कुक्षिष्वस्य समुद्रा वै पर्वता ह्यस्थिसन्धिषु ।
आपगा नाडिदेशस्था वृक्षा रोमपथि स्थिताः ॥ १-
मेघाः केशेषु हृदये चन्द्रमाः परिकीर्तितः ।
इदं स्थूलशरीरं तु ब्रह्मणः परमात्मनः ॥ १-
इयत्तयाऽपरिच्छेद्यमन्तपारविवर्जितम् ।
लिङ्गं नारायणस्तस्य ह्यक्षरस्य चिदात्मनः ॥ १-
हिरण्यगर्भं जगदीशितारं नारायणं यं प्रवदन्ति सन्तः ।
सर्वस्य धातारमनन्तमाद्यं प्रधानपुंसोरपि हेतुमीशम् ॥ १-
तं सर्वकालावयवं पुराणं परात्परं योगिभिरीड्यपादम् ।
ब्रह्मेशविष्णुप्रमुखैकहेतुं यतः प्रवृत्तो निगमस्य पन्थाः ॥ १-
तं देवदेवं जगतां शरण्यं नारायणं यस्य वदन्ति लिङ्गम् ।
यावन्न लिङ्गं प्रलयं प्रयाति स्थूलं वपुश्चापि न शान्तिमेति ॥ १-
ततः परं कारणमेव तस्य वपुः परस्यात्मन एव मोहः ।
यावद्विमोहः प्रशनं न याति न लिङ्गमुत्सीदति कार्यबद्धम् ॥ १-
न कारणं तावदुपैति शान्तिं चराचरस्यापि च बीजभूतम् ।
यावन्महाकारणमम्बिके तत् न शान्तिमायाति च बीजबीजम् ॥ १-
गुह्याद् गुह्यतरं शास्त्रमिदमुक्तं तवानघे ।
न कस्याप्यग्रतो वाच्यं सत्यं सत्यं प्रियंवदे ॥ १-
न पद्मायै हरिः प्राह प्रार्थितोऽपि पुनः पुनः ।
तन्मयात्र तव स्नेहात्प्रकटीकृतमुच्चकैः ॥ १-
न गुह्यायापि पुत्राय गणराजाय नन्दिने ।
सुगोपितमिदं भद्रे तव स्नेहादुदीरितम् ॥ १-
तस्माद्गोप्यतरं भद्रे वराङ्गमिव सर्वतः ।
इतीदं ते समाख्यातं किमन्यत्प्रष्टुमिच्छसि ॥ १-
इति श्रीनारदपञ्चरात्रे माहेश्वरतन्त्रे ज्ञानखण्डे शिवपार्वतीसंवादे प्रथमं पटलम् ॥ १-
अथ द्वितीयं पटलम्
श्रीपार्वत्युवाच
भगवन् देव देवेश लोकनाथ जगत्प्रभो ।
धन्यास्म्यनुगृहीतास्मि सकलं जीवितं मम ॥ २-
वाक्यपीयूषवर्षेण शीतलीकृतमानसा ।
न जानामि परं श्रेयस्तत्वज्ञानकथादृते ॥ २-
किमायुषा च दीर्घेण पाषाणस्येव दुर्मतेः ।
क्षणं वै यस्य नो लग्नं चेतो वा तत्त्वचिन्तने ॥ २-
यज्ञदानतपस्तीर्थव्रतानि नियमा यमाः ।
न तुलामभिगच्छन्ति स्वात्मतत्वैकचिन्तया ॥ २-
आत्मतत्वैकशुद्ध्यर्था (र्थं) यज्ञादीनामनुष्ठितिः ।
शुद्धे मनसि तत्वस्य स्फुरण भवति प्रिय ॥ २-
तदेव यदि वा लब्धमनायासेन कुत्रचित् ।
दैवाद्वा गुरुतोषाद्वा साधनैर्वापि शङ्कर ॥ २-
किन्नु तस्यावशिष्टं वा साधनं स्वात्मदं परम् ।
तस्मान्महत्तरमिदं सर्वतस्तत्वचिन्तनम् ॥ २-
श्रुतं मया महेशान पुनर्ब्रूंहि यथातथम् ।
प्रष्टव्यं बहुधा भाति तथाप्येकं वदेश्वर ॥ २-
क्रमयोगेन तच्चापि पुनः पृच्छे कृपानिधे ।
पद्मायै हरिणा नोक्तं यद्रहस्यं महाद्भुतम् ।
तदत्र संशयो जातो तद्भवान् छेत्तुमर्हति ॥ २-
या लक्ष्मीः परमा शक्तिः नित्यं तत्सहचारिणी ।
तत्प्राणवल्लभा साध्वी किं तया पृष्ठमुत्तमम् ॥ २-
किं रहस्यं किमध्यात्म्यं यन्नोक्तं हरिणा स्वयम् ।
तदत्र ब्रूहि भगवन् प्रवक्तुं यदि मन्यसे ॥ २-
न मे त्वत्तः परं किञ्चित् प्राणादप्यधिको भवान् ।
तथाप्यहं तवैवास्मि यन्मेर्द्धं वपुराहितम् ॥ २-
न त्वया तद्रहः कार्यं तेन गुप्तमिति प्रभो ।
इत्युक्त्वा शिवपादाब्जप्रणताभूत्पुनः पुनः ॥ २-
शिव उवाच
अहो धन्यासि धन्यासि धन्यासि भुवनत्रये ।
न त्वया सदृशीं पश्येत्प्रेयसीं प्राणवल्लभाम् ॥ २-
त्वद्वागमृततृप्तोऽहं प्रजल्पामि शृणुष्व तत् ।
एकदा खलु वैकुण्ठे विष्णुरेकान्तसंस्थितः ॥ २-
सन्नियम्येन्द्रियगणं मनसा बुद्धिसारथिः ।
किञ्चिद्दध्यौ महातेजाः प्रमोदभरनिर्वृतः ॥ २-
गलद्वाष्पाम्बुपूर्णाक्षः पुलकाङ्कितविग्रहः ।
स्तिमितोद इवाम्भोधिः स्मृत्वा लीलारसाम्बुधिम् ॥ २-
प्राणेन्द्रियमनश्चेष्टा निमग्ना ध्यानवर्त्मनि ।
अन्तःप्रमोदभरितो बहिः सम्वेदनाक्षमः ॥ २-
केवलेन शरीरेण स्थित इत्यद्भुतं च यत् ।
क्रीडन्ती सखिभिः सार्द्धं तत्राभूद्भार्गवी हि सा ॥ २-
ध्यानवर्त्मनि संलीनप्राणेन्द्रियमनोमतिम् ।
प्रध्वस्तबाह्यविज्ञानं दृष्ट्वा विस्मितमानसा ॥ २-
कोऽसौ त्रिलोकगुरुणा ध्यायते स्थिरचेतसा ।
न चास्मादपरं लोके ध्येयं पश्यामि किञ्चन ॥ २-
ब्रह्मणो वापि रुद्रस्य कारणं दैवतं च यः ।
यस्यावतारचरितं गायन्ते नारदादयः ॥ २-
यत्पदं प्राप्तुमिच्छन्तो वानप्रस्थं यतिव्रतम् ।
चरन्ति ब्राह्मणाः शुद्धा धृतविद्यातपोवृताः ॥ २-
न यत्समोऽन्यो लोकेऽस्मिन् ह्यधिकस्तु कुतो भवेत् ।
यदुन्मेषाज्जगज्जातं यन्निमेषात्प्रलीयते ॥ २-
यस्मिन् चित्तं समाधाय योगिनो ज्ञाननिर्मलम् ।
अविद्यां हृदयग्रन्थिमुन्मुञ्चन्ति गतक्लमाः ॥ २-
यस्य चेतस्ययं देवो वर्त्ततेऽसौ कृतार्थकः ।
सोऽयं हरिः परानन्दः कस्मिंश्चित्तं दधात्यहो ॥ २-
इत्येव सन्दिहाना सा सखीनां पुरतः स्थिता ।
सस्मितं जगदे सख्या कयाचित्परया मुदा ॥ २-
सख्युवाच
अयं त्रिलोकेशगुरुः कमन्यं ध्यातुमर्हति ।
देवासुरनरा नागा गन्धर्वाप्सरसां गणाः ॥ २-
सिद्धा योगेश्वरा रुद्रा आदित्या वसवस्तथा ।
मरुद्गणाः सोमपाश्च पितरश्चापि चारणाः ॥ २-
यं पूजयन्ति सततं भक्तिप्रवणचेतसः ।
न तस्मात् त्रिषु लोकेषु ह्यस्य पूज्यतमो भवेत् ॥ २-
त्वामेकां ध्यायते चित्ते प्रेयसीं प्राणवल्लभाम् ।
प्रतिव्रतां पतिप्राणां प्राणनाथो रहो गतः ॥ २-
धन्यासि कृतकृत्यासि यत्त्वया हरिरीश्वरः ।
शुद्धभावेन सततं सेवया च प्रसादितः ॥ २-
क्षणं तद्विरहं सोढुमशक्तो मिलितेक्षणः ।
रहः स्थितः स्वहृदये त्वन्मूर्तिं ध्यायते हरिः ॥ २-
तस्माद्धन्याः स्त्रियो लोके याः पतिप्रेमभाजनम् ।
इति हासच्छलेनोक्ता मेने वितथमेव सा ॥ २-
रमोवाच-
अहो सखि यदीत्थं त्वं निरर्थकमिदं वचः ।
न मां स्मरति देवेशो ध्यानमार्गे कदाचन ॥ २-
मयि विरक्तः सततमकिञ्चनजनप्रियः ।
कथं मां ध्यायते चित्ते विरहं सोढुमक्षमः ॥ २-
अकुण्ठितमहाबाधा प्रसादादस्य सन्ततम् ।
जानामि सकले लोके भजतो मां दृढव्रतान् ॥ २-
ये चापि त्रिषु लोकेषु यत्र कुत्रापि संस्थिताः ।
भजन्ते तानहं भक्तान् हृदि पश्यामि सन्ततम् ॥ २-
तदा कथं तु हरिणा चित्ते ध्यातापि तं सखि ।
न वेद्मि सर्वभावज्ञा सर्वलोकान्तरस्थिता ॥ २-
तस्मान्न मां न च विधिं न रुद्रमपि शङ्करम् ।
नान्यं वा प्राणसदृशं भक्तं वा ध्यायतीश्वरः ॥ २-
को वेदास्य परं चित्ते निहितः कश्चिदीश्वरः ।
तस्मात्प्रबुध्यमानेऽस्मिन् सर्वं पृच्छाम्यसंशयम् ॥ २-
इत्युक्त्वा सखिवर्गेण कुतूहलसमन्विता ।
पुरः तस्थौ परेशस्य प्रबद्धकरसम्पुटा ॥ २-
तावदेव हरिः साक्षान्मुक्तध्यानो ददर्श ताम् ।
बद्धहस्ताञ्जलिपुटां सखीमण्डलमध्यगाम् ॥ २-
विरोचयन्तीं प्रभया दिव्यालङ्कारभूषिताम् ।
मणिकुण्डलनिर्भान्तकपोलविमलप्रभाम् ॥ २-
सुनासां सुदतीं सुभ्रूं चिबुकोद्देशशोभिताम् ।
कम्बुकण्ठीं हृदि भ्राजन्मणिहारमनोहराम् ॥ २-
काञ्चीकलापरुचिरां वलयाङ्गदनूपुराम् ।
त्रिलोकीदेवतां साक्षाद्विनयावनतेक्षणाम् ॥ २-
दृष्ट्वा प्रबोधमापन्नं हरिं कमललोचनम् ।
शीर्ष्णा स्पृशन्ती चरणं प्रोवाच विनयान्विता ॥ २-
रमोवाच
अहो देवेश भगवन् भक्तवत्सल भूधर ।
कृपां कुरु जगन्नाथ सन्देहं विनिवारय ॥ २-
त्वमेकः सर्वलोकानां स्रष्टा हर्त्ता च पालकः ।
दैवतं सर्वदेवानां न त्वया न समोऽधिकः ॥ २-
किं ध्यायसि रहः स्थित्वा विलीनकरणाशयः ।
तद्ध्यानानन्दसन्दोहपुलकाङ्कतनुर्भृशम् ॥ २-
अस्मिन् खिद्यति मच्चित्तं त्वत्तोऽप्यपरशङ्कया ।
तं ब्रूहि करुणासिन्धो यथाहं प्रकृतिं व्रजे ॥ २-
इत्युक्तो रमया देव्या हरिरात्मा शरीरिणाम् ।
गिरा मधुरया वाचा रमणी रमयन्निव ॥ २-
श्रीभगवानुवाच
अहो कल्याणि वचनं वदामि शृणु साम्प्रतम् ।
अहं लोकगुरुः साक्षान्न मे ध्येयोऽस्ति कश्चन ।
अहमात्माखिलाधारो ब्रह्मरुद्रेन्द्रवन्दितः ॥ २-
विश्वस्मिन्विततं पश्य मामेव सचराचरे ।
विश्वं मयि ततं पश्य किमन्यज्ज्ञातुमिच्छसि ॥ २-
तस्य मे विश्वजीवस्य शक्तिस्त्वं समधर्मिणी ।
आद्याखिलाधारमयी मदानन्दमयी शुभा ॥ २-
तां त्वां ब्रह्मादयो देवा ऋषयोऽथ धृतव्रताः ।
इन्द्रादयस्तु दिक्पाला मुनयो नारदादयः ॥ २-
भजन्तोऽपि न ते सुभ्रु प्रसादकणिकास्पृशः ।
सा त्वं मे हृदये लीना परमानन्दरूपिणी ॥ २-
यदा त्वां नैव पश्यामि जगदान्ध्यं विभाति मे ।
दृष्टायां त्वयि देवेशि सम्यक् पश्याम्यह पुनः ॥ २-
त्वं गता सखिभिः सार्धं पुष्पावचयहेतवे ।
तावत्ते विरहं सोढुमशक्तोऽहं वरानने ॥ २-
त्वच्चित्तो रहसि स्थित्त्वा त्वत्प्राणस्त्वन्मनाः प्रिये ।
त्वामेव हृदये ध्यायन्निमीलितविलोचनः ॥ २-
ललने ललितं रूपं त्वदीयं सुरदुर्लभम् ।
ध्यायामि ध्यानयोगेन तावत्त्वं समुपागता ॥ २-
इत्येवं ते मया प्रोक्तं सत्यं जानीहि सुव्रते ।
श्रीलक्ष्मीरुवाच
देवेश त्वत्प्रसादेन सर्वेषां हृदि चेष्टितम् ।
जानामि सकलं नाथ यथाकर्म यथारुचि ॥ २-
अहं हृदि त्वया ध्याता विरहेणापि माधव ।
त्वययेव निवसाम्येव त्वदन्तःकरणैक्षिणी ॥ २-
अहो चित्रमिदं भाति त्वदन्तःस्थाप्यहं प्रभो ।
न जानामि त्वदन्तःस्थं आत्मानमिवसन्मतिः ॥ २-
न प्रतारयितुं योग्या भक्ता तेतीव वल्लभा ।
भक्तप्रतारकं लोके कथमन्यो भजिष्यते ॥ २-
त्रिलोक्यां यदि वा कञ्चित् भक्तं ध्यायसि दुर्गतम् ।
त्वदिच्छयैव तद्दुःखं सर्वं विलयमेति च ॥ २-
तस्मात्त्वदन्यो वै कश्चिदीश्वरस्त्वनुमीयते ।
तं वै वदस्व देवेश यद्यहं तव वल्लभा ॥ २-
न चान्यो मे प्रियतमो नेश्वरो वा भवत्परः ।
परं वेदितुमिच्छामि कौतुकेन समन्विता ॥ २-
विष्णुरुवाच
न कौतुकं त्वया कार्यं मदुक्त्या निर्वृतिं व्रज ।
न चाग्रहं प्रकुर्वन्ति विद्वांसः साधवो जनाः ॥ २-
देव्याग्रहवतां पुंसां न धर्मार्थौ न कामना ।
प्रसिध्यन्ति कदाचिद्वा बुद्धेः फलमनाग्रहः ॥ २-
प्रार्थितं तु शिरो देयं पशुद्रविणसम्पदः ।
राज्यं कोशो मही दुर्गं तथान्यदपि सुन्दरि ॥ २-
धनैः प्राणैः शरीरैश्च त्यक्षद्भिर्नोपकुर्वते ।
ते यास्यन्ति स्वयं त्यक्त्वा कालवेगेन कर्षिताः ॥ २-
याचकाशा हता येन हतं तेन चराचरम् ।
तस्मात्प्राणादिकं सर्वं याचते देयमेव हि ॥ २-
अदेयं तु परं तत्वं लोकातीतं यतो हि तत् ।
तस्माद्दुराग्रहं त्यक्त्वा प्रसन्नेनान्तरात्मना ॥ २-
वर्तितव्यं त्वया भद्रे मत्प्रसादपरीप्सया ।
इत्युक्ता सा तदा लक्ष्मीर्विष्णुना प्रभविष्णुना ।
ईषत्कोपसमाविष्टा कषायीभूतलोचना ॥ २-
आत्मानमात्मना धृत्वा प्रोवाच वचनं पुनः ।
स्त्रीपुंसोर्देहभागाभ्यामेकमेव वपुः स्मृतम् ॥ २-
कथं पश्यसि भेदेन मामेकतनुरूपिणीम् ।
पुरातनैश्च कविभिर्दाम्पत्ये प्रेम रूपितम् ॥ २-
तन्नाशितं त्वयैकेन प्रेमरीतिविदापि भोः ।
पत्युः प्रेमबहिर्भूतां धिक् स्त्रियं विमतां गृहे ।
पतिश्चापि शठस्तस्या यः साध्वीमप्युपेक्षते ॥ २-
तस्माद्देवाल्पपुण्याहं कथं प्राप्स्यामि चेप्सितम् ।
आप्रसादं च भवतः करिष्ये तप उल्बणम् ॥ २-
येन प्रसन्नो भगवान् उपदेश्यति तत्पदम् ।
इत्युक्त्वा भगवत्पादं प्रणम्य च मुहुर्मुहुः ।
प्रदक्षिणीकृत्य ययौ वैकुण्ठात्तपसे रमा ॥ २-
सामभिर्विविधैश्चापि वचनैश्च नयान्वितैः ।
निवार्यमाणापि रमा न न्यवर्तत निश्चयात् ॥ २-
इति श्रीनारदपञ्चरात्रे माहेश्वरतन्त्रे ज्ञानखण्डे शिवोमासंवादे द्वितीयं पटलम् ॥ २-
अथ तृतीयं पटलम्
पार्वत्युवाच
भगवत् श्रोतुमिच्छामि परं कौतूहलं हि मे ।
रमया परया साध्व्या प्रार्थितोऽपि पुनः पुनः ॥ ३-
नोक्तवान्परमं तत्वं तदर्थं तपसे गता ।
महाश्चर्यतमं देव तन्मे व्याख्यातुमर्हसि ॥ ३-
शिव उवाच
शृणु सुन्दरि वक्ष्यामि तव स्नेहादशेषतः ।
अवाच्यमन्यथा देवि कोटिकल्पशतैरपि ॥ ३-
प्रार्थितोऽपि यदा विष्णुर्नोक्तवान् स्वहृदि स्थितम् ।
श्रवणेच्छाविघातेन विरहाग्निविधूतया ॥ ३-
कृतं महत्तपश्चोग्रं सर्वलोकोपतापनम् ।
केतुमालं (ले) समासाद्य कृत्वा नियममात्मना ॥ ३-
साध्वी चकार प्रतिमां विष्णोः परमसुन्दराम् ।
तत्र पर्यचरत् प्रीत्या गर्हयन्ती स्वकं वपुः ॥ ३-
स्नानेन त्रिषु कालेषु नियमेन दमेन च ।
भावशुद्धिं गता साध्वी स्थण्डिले शयने गता ॥ ३-
शीतकाले जले मग्ना ग्रीष्मे पञ्चाग्निसेविनी ।
वर्षाष्वपि स्थलगता वृष्टिवातसहा स्थिता ॥ ३-
स्त्रीत्वचाञ्चल्यमुत्सृज्य नानालङ्कारसम्पदम् ।
भूम्यामशेत सततं चिन्तयन्ती हरिं हृदि ॥ ३-
स्वप्ने ददर्श सततं हरिं कमललोचनम् ।
तत्रापि प्रार्थयन्तीदं सोऽपि नेत्त्याह विक्लवम् ॥ ३-
सुप्ता सोत्थाय तत्रैव पुनरुद्बोधमागता ।
एवं सा तन्मयीभूतहृदया विवशा भृशम् ॥ ३-
आत्मानं गर्हयामास मनोरथमपश्यति ।
यदा मनोरथं नैवं प्राप्ता देवी तपस्विनी ।
तदैकपादेन भुवमाक्रम्यात्मनि निर्मला ॥ ३-
निधाय स्वामिनं चित्ते तस्मिन् चित्तं निधाय च ।
एकात्म्यं तु गता साध्वी तताप परमं तपः ॥ ३-
तच्छिखायाः समुद्भूतः सधूमोऽग्निः परिज्वलन् ।
तापयामास निखिलं ब्रह्माण्डं भयविह्वलम् ॥ ३-
देवासुरनरा नागा गन्धर्वाप्सरसस्तथा ।
पिशाचा गुह्यकाः सिद्धा विद्याध्राः खगचारणाः ॥ ३-
तपोमयेन ज्वलता वह्निना दुःसहेन च ।
व्यथिताः शोकसंविग्ना न सुखं लेभिरे क्वचित् ॥ ३-
ततश्चेन्द्रादयो देवा मरुतश्रोष्मपादयः ।
आदित्या वसवो रुद्रा ह्यश्विनौ पितरस्तथा ॥ ३-
ब्रह्माणं शरणं जग्मुः पितामहमनिन्दितम् ।
ददृशुः परमं देवं ब्रह्माणं परमासने ॥ ३-
प्राणायामेन युञ्जानं शुभ्रकूर्चं चतुर्मुखम् ।
सनकाद्यैः परिवृतं नारदाद्यैरुपासितम् ॥ ३-
मूर्तिमद्भिस्तथा वेदैः पृथक्सिंहासनस्थितैः ।
पुराणैः संहिताभिश्च विद्याभिः परिवेष्टितम् ॥ ३-
विचारयन्तमात्मानं परमं तमसः परम् ।
पुण्योत्कर्षेण धर्मेण त्यागेन ज्ञानसम्पदा ॥ ३-
विमर्षेणात्मनश्चापि ब्रह्मचर्येण संयमैः ।
नियमैर्योगधर्मैश्च यत्र क्रीडन्ति सङ्गताः ॥ ३-
दृष्ट्वामरास्ते परमासने स्थितं ब्रह्माणमाद्यं पुरुषं पुरातनम् ।
प्रणेमुरानन्दजलाकुलेक्षणाः कृष्यत्वचो गद्गदयाब्रुवन् गिरः ॥ ३-
नमो नमस्ते जगदेककर्त्रे नमो नमस्ते जगदेकपात्रे ।
नमो नमस्ते जगदेकहर्त्रे रजस्तमःसत्वगुणाय भूम्ने ॥ ३-
अण्डं चतुर्विंशतितत्त्वजातं तस्मिन् भवानेष विरञ्चिनामा ।
जगच्छरण्यो जगदुद्वमन्स्वयं पितामहस्त्वं परिगीयसे बुधैः ॥ ३-
त्वं सर्वसाक्षी जगदन्तरात्मा हिरण्यगर्भो जगदेककर्त्ता ।
हर्त्ता तथा पालयितासि देव त्वत्तो न चान्यत्परमस्ति किञ्चित् ॥ ३-
त्वमादिदेवः पुरुषः पुराणः साक्षात् स्वयं ज्योतिरजः परेशः ।
त्वन्मायया मोहितचेतसो ये पश्यन्ति नानात्त्वमहो त्वयीशे ॥ ३-
त्वमाद्यः पुरुषः पूर्णस्त्वमनन्तो निराश्रयः ।
सृजसि त्वं च भूतानि भूतैरेवात्ममायया ॥ ३-
त्वया सृष्टमिदं विश्वं सचराचरमोजसा ।
कथं न पालयस्येतत् ज्वलदाकस्मिकाग्निना ॥ ३-
विनाशमेष्यति जगत् त्वया सृष्टमिदं प्रभो ।
न जानीमो वयं तत्र कारणं तद्विचिन्त्यताम् ॥ ३-
कोऽयं वह्निरपूर्वोऽयमुत्थितः परितो ज्वलन् ।
तेनोद्विग्नमिदं विश्वं ससुरासुरमानवम् ॥ ३-
तस्य त्वं शमनोपायं विचारय महामते ।
न चेदद्य भविष्यन्ति लोका भस्मावशेषिताः ॥ ३-
इति तेषां च गृणतां देवानामातुरं वचः ।
विमृश्य ध्यानयोगेन तदिदं हृद्यवाप सः ॥ ३-
ततः प्रोवाच वचनममरांस्तु पितामहः ।
शृणुध्वममराः सर्वे वचनं मदुदाहृतम् ॥ ३-
तपस्यति रमा देवी साक्षात्पत्यावमानिता ।
किं त्वं ध्यायसि देवेश परं तत्त्वं भवत्परम् ॥ ३-
तद्वदस्वेति चाप्युक्तस्तथा नोवाच वै हरिः ॥ ३-
ततो निर्बन्धनिर्विण्णा रमा देवी रुषान्विता ।
केतुमालं समासाद्य तपो दारुणमाश्रिता ॥ ३-
सा तपो लोकभयदं दारुणं विष्णुवल्लभा ।
करोति तद्भालदेशादुत्थितोऽग्निस्तपोमयः ॥ ३-
तेन लोकाः सुसन्तप्ता दग्धप्राया विचेतसः ।
नाशमेष्यन्त्यसन्देहो यदि सा न तपस्त्यजेत् ॥ ३-
तस्माद्वैकुण्ठनिलयं हरेर्गत्वा दिवौकसः ।
विष्णुं प्रसादयिष्यामः सरुद्राः सर्व एव हि ॥ ३-
एवं निश्चित्य ते सर्वे मम धाम समाययुः ।
मामस्तुवन् गिरा माध्व्या प्रबद्धकरसम्पुटाः ॥ ३-
मयापि सत्कृता देवि सेन्द्रा ब्रह्मपुरोगमाः ।
दृष्ट्या सम्भाव्य देवेशं उपगुह्य पितामहम् ॥ ३-
नत्वा बृहस्पतिं देवि यथा योग्यं तथापरान् ।
निषीदध्वं निषीदध्वमित्युक्तास्ते मयामराः ॥ ३-
निषेदुर्म्लानवदनाः सज्वरास्ते दिवौकसः ।
अपि स्वित् कुशलं देवा भवतामनुवर्तते ॥ ३-
स्वागतं भो ! सुराः सर्वे यूयं मे चातिवल्लभाः ।
दृष्टो मदीयो लोकोऽयमदृष्टो मत्पराङ्मुखैः ॥ ३-
वनेषूपवनेष्वेव रमध्वमिह चेत्स्पृहा ।
शृण्वन्तु रुचिरालापान् शुकसारसपक्षिणाम् ॥ ३-
जिघ्रन्तु परमामोदमोहितानेकषट्पदान् ।
लतानामतिदिव्यानां सर्वर्तुकुसुमाकरान् ॥ ३-
महामरकतकॢप्तस्वर्णवेदिषु निर्भरम् ।
गङ्गानिलसुखस्पर्शाः परिक्रीडन्तु चामराः ॥ ३-
नदन् मत्तमरालासु सुधापूर्णासु नित्यशः ।
खेलन्तु सस्त्रियः सर्वे दीर्घिकासु गतक्लमाः ॥ ३-
यद्यद्वा मनसोऽभीष्टं तत्कुरुध्वमतन्द्रिताः ।
किमर्थमिह सम्प्राप्ता ब्रह्मोपेन्द्रपुरोगमाः ॥ ३-
निवेदयध्वं कर्त्तव्यं यदि चेदस्ति किञ्चन ।
इत्येवं ते मया प्रोक्ता मामवोचन् दिवौकसः ॥ ३-
भगवन् करुन्णासिन्धो भक्तवत्सल धूर्जटे ।
त्वया सञ्चिन्त्यमानानां कुशलेषु च का कथा ॥ ३-
तदेवाकुशलं विद्मस्त्वत्पादस्मरणच्युतिः ।
जानीमः पूर्णमात्मानं अद्य तेऽनुग्रहोदयात् ॥ ३-
किं ध्यायसि चिरं तात निरुध्य हृदये मनः ।
लब्धानन्द इवाभासि स्वयमात्माऽपि देहिनाम् ॥ ३-
एतदाचक्ष्व नो ब्रह्मन् प्रवक्तुं यदि मन्यसे ।
अहमाकर्ण्य वै तेषां वाचं परमशोभनाम् ।
मन आह्लादयन्नेषामवोचं परमोक्तिभिः ॥ ३-
शृणुध्वं त्रिदशाः सर्वे भवद्भिर्यदुदाहृतम् ।
किं ध्यायसि चिरं तात निरुध्य हृदये मनः ॥ ३-
लब्धानन्द इवाभासि स्वयमात्मापि देहिनाम् ।
तन्न वाच्यं मया देवा अपि कल्पायुतायुतैः ॥ ३-
न यान्ति योगिनो योगैर्न यज्ञैस्तप आदिभिः ।
न ज्ञानतीर्थवैराग्यैर्विना साधुनिषेवया ॥ ३-
मायामात्रमिदं विश्वं वस्तुतो नास्ति किञ्चन ।
भूरादिसप्तलोकाश्च कालेन कवलीकृताः ॥ ३-
विषयानन्दसन्तुष्टा लोकाः सर्वेऽपि देवताः ।
न प्राप्नुवन्ति कणिकां नित्यानन्दमहोदधेः ॥ ३-
वेदे कर्मप्रधानं हि ततः कर्ममयी गतिः ।
कर्मभिर्भ्राम्यमाणा ये तृणानीवाम्भसो रयैः ॥ ३-
न ते विन्दन्ति तत्तत्वं कोटिकल्पशतैरपि ।
केचित्स्वर्गपरा लोके यजन्ते ज्ञानदुर्बलाः ॥ ३-
केचिदष्टाङ्गयोगेन निगृहीतधियः परे ।
वर्णाश्रमविधानेन तत्तदाचारशालिना ॥ ३-
केचित्पत्राशनरता वायुभक्षास्तथेतरे ।
केचिद्दिगम्बराः केचित् कृष्णरक्ताम्बराः परे ॥ ३-
केचिन्मुण्डितमुण्डाश्च फलमूलाशने रताः ।
केचिद्भस्मनि निष्णाता मोक्षमिच्छन्ति दुर्बलाः ॥ ३-
नैव ते मुक्तिमायान्ति विना तत्त्वावमर्षणात् ।
मायाम्भोधिरयं भाति ह्यसन्नपि सदात्मकः ॥ ३-
अनेककोटिब्रह्माण्डबुद्बुदाकुलितो भृशम् ।
तत्त्वोर्मिजालजटिलो वासनाजलगह्वरः ॥ ३-
पापपुण्यतटोन्नद्धो मोहपङ्कप्रपूरितः ।
सदसत्कर्मकमलकैरवानन्तमण्डलः ॥ ३-
अहन्ताशिशुमारेण निरन्तरमुपासितः ।
तृष्णाफेनौघबहुलः कामनातटपादपः ॥ ३-
कामक्रोधमहालोभगर्तपाषाणदुःखदः ।
परनिन्दापरद्रोहभुजङ्गमभयानकः ॥ ३-
श्रद्धोरुपद्मिनी यत्र अक्षयो मोहकल्पितः ।
विषयतृडभिक्लान्ताः पतन्त्यस्मिन्ननेकशः ॥ ३-
दृष्ट्वारमत वै कश्चित् सरागं कमलाकरम् ।
सेव्यमानोऽपि नातृप्यत् षट्पाद इव लोलुपः ॥ ३-
अह्नः क्षयमजानन्वै लोभितात्माजितेन्द्रियः ।
मधुलिट् मधुलोभेन तत्रैव विलयं व्रजेत् ॥ ३-
यत्र हंसगणास्तूर्णमाघ्राय कमलाकरम् ।
अशाश्वतमिति ज्ञात्वा सुखं नीडेषु शेरते ॥ ३-
यत्र पङ्केषु निर्मग्ना सीदन्ती गौस्तृषातुरा ।
महात्मना समुद्धृत्य सुधासिन्धौ निवेशिता ॥ ३-
यत्र खेलन्ति बहुशो मातङ्गाश्च करेणुभिः ।
अतृप्यमानाः सततं कमलामोदलम्पटाः ॥ ३-
यत्र मत्स्यगणान् बालान् निघ्नन्ति बलवत्तया ।
मकरास्तानपि क्षिप्रं निगृह्णातीह जालिकः ॥ ३-
शिशुमारभयोद्विग्नाः पिपासामतिवाह्य ते ।
न पिबन्त्यपि पानीयं पद्मिनीछायमाश्रिताः ॥ ३-
यत्र पान्थो भुजङ्गेन परिदष्टोम्बुलालसः ।
चिकित्सकेन सुज्ञेन रसदानेन बोधितः ॥ ३-
यत्राभिमानिनी वेश्या सेव्यमानातिनिर्घृणैः ।
उपस्थिता पञ्चनटैर्नित्यसेवनतत्परैः ॥ ३-
पिपासबो नटान् यान्ति प्रापयन्ति नटीं हि तान् ।
ततः क्रीडन्ति वेगेन स्वच्छन्दं च तदाज्ञया ॥ ३-
यदि सूर्यसहस्राणां प्रकाशपरमोज्ज्वलम् ।
उदेति ज्ञानविज्ञानं तदा शुष्यति नान्यथा ॥ ३-
उदिते तु परे ज्ञाने नाहं यूयं न किञ्चन ।
न यास्यन्ति परं तत्त्वं मदाद्या अपि देवताः ॥ ३-
किमुताल्पधियश्चान्ये स्वप्निका इव जाग्रतम् ।
यन्निर्बन्धसमाविष्टा प्राणेभ्योप्यति वल्लभा ॥ ३-
नोपदिष्टादूनचित्ता केतुमाले तपस्यति ।
तस्मान्मदानन्दमूलं नाहं वक्ष्ये कथञ्चन ॥ ३-
अन्यन्निवेद्यतां कृत्यं यदि योग्यं भवेन्मम ।
इत्युक्तास्तेमराः सर्वे वीक्ष्यमाणाः परस्परम् ॥ ३-
परं विस्मयमापन्नाः श्रुत्वा शङ्करभाषितम् ।
देवा ऊचुः
देवदेव महादेव जगतां ज्ञानदो गुरुः ॥ ३-
यदात्थ देव तत्सत्यं विष्णुपत्नी तपस्यति ।
तत्तपो वह्निना विश्वं परितप्तं समन्ततः ।
किमद्य करणीयं वै तच्च शम्भो विचार्यताम् ॥ ३-
शिव उवाच
रमा देवी जगच्छक्तिः प्रकृत्यंशमयी शिवा ।
विष्णोरानन्दलहरी यया भाति जगच्छिवम् ॥ ३-
सा तपश्चरते तीव्रं जगद्दाहकरं महत् ।
पतिव्रता पतिं त्यक्त्वा नान्यं चापि प्रभाषते ॥ ३-
न तस्मादन्यसंसाध्या विना स्वपतिमाधवम् ।
तस्माद्विष्णुं व्रजामोद्य सर्वैं चापि वयं सह ॥ ३-
गत्वा निवेदयिष्यामो जगतामशिवं च यत् ।
दृष्ट्वास्मानपि मानार्हान् जगद्भङ्गमपीक्ष्य च ॥ ३-
निषेधयिष्यति रमां तपसोऽसौ दुरत्ययात् ।
इति मे वाचमाकर्ण्य देवाः सर्वे गतज्वराः ॥ ३-
अहं चापि च तैः सार्धं गतः प्रियनिकेतनम् ।
यत्र सर्वे घनश्यामाः पीतकौशेयवाससः ॥ ३-
किरीटिनः कुण्डलिनः शङ्खचक्रगदाधरः ।
तत्र गत्वा जगन्नाथः स्तुतो देवगणैरपि ॥ ३-
नमो मत्स्यकूर्मादिनानावतारैर्जगद्रक्षणायोद्यतायार्त्तिहर्त्रे ।
जगद्बन्धवे बन्धहर्त्रे च भर्त्रे जगद्विप्लवोपस्थितौ पालयित्रे ॥ ३-
यदा वेदपन्थास्त्वदीयः पुराणः प्रभज्येत पाखण्डचण्डोग्रवादैः ।
तदा देवदेवेश सत्त्वेन सत्त्वं वपुश्चारु निर्माय रक्षां विधत्से ॥ ३-
भूम्यम्बुतेजोनिलखात्मकं यत् ब्रह्माण्डमेतत्प्रविशन्निव त्वम् ।
चराचरं जीव इति प्रसिद्धिं गतोऽसि तस्मान्न भवत्परं यत् ॥ ३-
रक्षस्व नाथ लोकांस्त्वं तपसोग्रेण पद्मया ।
दह्यमानान् गतानन्दान् रक्षितासीश्वरो यतः ॥ ३-
निवर्त्तय परमां साध्वीं तव प्राणाधिकां प्रियाम् ।
न वै स्त्रियो विरोद्धव्या गृहमेधिभिरन्वहम् ॥ ३-
यद्गृहे स्त्री विरुद्धा स्याद्यदिवाप्यवमानिता ।
न तद्गृहे सुखं सम्पन्न चारोग्यं प्रजासुखम् ॥ ३-
कथं सुखेन वर्त्तेत विश्वमेतद्भवद्गृहम् ।
त्वयि विरोधमापन्ने गृहिण्या समशीलया ॥ ३-
तस्माद्विश्वस्य रक्षार्थं सावधानो भव प्रभो ।
इत्यावेद्यामराः सर्वे प्रणम्य जगतां पतिम् ॥ ३-
बद्धाञ्जलिपुटास्तूष्णीमासन् म्लानमुखाम्बुजाः ॥ ३-
इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसंवादे तृतीयं पटलम् ॥ ३-
अथ चतुर्थ पटलम्
शिव उवाच
अथ तेषां वचः श्रुत्वा देवानामतिविक्लवम् ।
प्रहसन्वाचमकिरत् देवानां हृदयङ्गमाम् ॥ ४-
विष्णुरुवाच
भो महेश विधे ब्रह्मन् शक्राद्याः शृणुतामराः ।
मम प्राणप्रिया देवी रमा देवी तपस्विनी ॥ ४-
कलहान्तरिता जाता केतुमाले तपस्यति ।
तेनोग्रतपसा विश्वं परितप्तं समन्ततः ॥ ४-
न सा सन्तोषमायाति स्वनिश्चितमृते सुराः ।
स्त्रीणां जातिस्वभावोऽयं कार्कश्यमविवेकिता ॥ ४-
अशौचं निर्दयत्वं च निर्बन्धः साहसं तथा ।
लोभानृतं च कपटं मूर्खत्वमपदे च रुत् ॥ ४-
नष्टं कुलं कुतनयात् नष्टं राज्यं कुमन्त्रिणा ।
ब्राह्मणः शूद्रसेवाभिरनभ्यासात्सरस्वती ॥ ४-
निद्रया नष्टमायुष्यं [अत्र आयुरेवायुष्यम् नत्वायुषे हितमायुष्यम् ।] अनुद्योगात्समृद्धयः ।
गुणा लोभैर्धनं पापैः सुखं नष्टं कुभार्यया ॥ ४-
यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्द्धते ।
प्रातिकूल्येन नश्येत ग्रीष्मे बीजाङ्कुरा इव ॥ ४-
देवी निर्बन्धमापन्ना विरमेन्न कथञ्चन ।
जगतामसुखं भूरि प्रवृत्तं तन्निवर्तते ॥ ४-
प्रतिक्रियां करिष्यामि यात यूयं मुदान्विताः ।
इति देवा वचः श्रुत्वा परिक्रम्य जनार्दनम् ॥ ४-
प्रणम्य पुनरायाताः स्वं स्वं धाम प्रहर्षिताः ।
ब्रह्मा विष्णुश्च ईशश्च केतुमालं गतास्तथा ॥ ४-
यत्र सा निश्चलवपुः पदाङ्गुष्ठेन संस्थिता ।
ऊर्ध्वदृष्टिर्निरुद्धान्तःपवना सा मनस्विनी ॥ ४-
स्वभालशिखिविद्योतज्ज्वालाभिर्ग्रसतीव हि ।
ब्रह्माण्डं कवलाकारं कल्पान्तेग्निशिखा यथा ॥ ४-
दृष्ट्वा तां च तथाभूतां त्रयो ब्रह्मादिका वयम् ।
परमं विस्मयं जग्मुर्देव्याश्चरितमद्भुतम् ॥ ४-
ततस्तन्निकटं गत्वा हरिः प्राह हसन्निव !
रमे प्राणप्रिये देवि वृथा किं परितप्यसे ॥ ४-
निवृत्तिमेहि तपसो वृथायासफलादिह ।
बह्वायासं चाल्पफलं न कर्मांचरणं सताम् ॥ ४-
ध्यानानन्दरसे लीनं तन्मनोवतरत् क्षणात् ।
एवमुक्ते तु हरिणा प्रियां सान्त्वयता भृशम् ॥ ४-
ददर्श प्रियमङ्कस्थं घनश्यामं चतुर्भुजम् ।
विरञ्चीशानसहितं वनमालाविभूषितम् ॥ ४-
ननाम दण्डवद्भूमौ कृताञ्जलिपुटा रमा ।
नोवाच वचनं किञ्चित् नोत्थितापि पुना रमा ॥ ४-
हरिस्तत्प्रेम परमं स्वस्मिन् वीक्ष्य सुविस्मितः ।
प्राह देवीं हरिः प्रीत्या शृण्वतो विधिरुद्रयोः ॥ ४-
विष्णुरुवाच
अहो धन्यासि धन्यासि कमले लोकवन्दिते ।
आत्मनोर्धं स्त्रियः साध्व्यः पुंसो धर्मपरायणाः ॥ ४-
स्त्रीसाहाययेन जेतव्या लोका धर्मपरायणैः ।
अपत्नीकस्य ते सर्वे भवन्ति विफला यतः ॥ ४-
स्त्रीमूलं सर्वधर्माणां तदभावात्कुतश्च ते ।
तैर्विना न भवन्त्येव लोका ज्ञानमथापि वा ॥ ४-
धिक् जीवितं स्त्री रहितस्य लोके जुगुप्सितं धर्मविदां समाजे ।
देवामुनीन्द्रातिथयोऽपि यस्य गृहाण्युपेक्षन्त इवाधनं जनाः ॥ ४-
किं धनैर्विभवाकल्पैर्विभवैः किं सुखच्युतैः ।
किं सुखं यस्य नो वेश्मन्युदारा धर्मचारिणी ॥ ४-
दुःशीलं दुर्नयं दुष्टं दरिद्रं जरया प्लुतम् ।
पतिं पुष्णाति कुलजा तस्मात्स्त्री तु गरीयसी ॥ ४-
न मित्रं स्त्रीसमं मन्ये न बन्धुं न सहोदरम् ।
यतस्ते पृथगालोच्याः स्त्री तु नैव कदाचन ॥ ४-
सुखे वा यदि वा दुःखे जीविते मरणेऽपि वा ।
न मित्रं स्त्रीसमं क्वापि सत्यं सत्यं प्रियंवदे ॥ ४-
तस्मात्त्वं तु विशेषेण स्त्रीरत्नं मम रोचसे ।
मूर्धन्या पतिदेवानां यतस्त्वं परिगीयसे ॥ ४-
स्त्रीणामपि परो धर्मः पतिशुश्रूषणं च यत् ।
कायेन मनसा वाचा ततोऽन्यन्नास्ति किञ्चन ॥ ४-
या स्त्रीपतिव्रता लोके पतिधर्मपरायणा ।
तदुक्तमेव कुर्वाणा सुखमक्षयमश्नुते ॥ ४-
तस्मादहं ते तपसा परितुष्टोऽस्मि साम्प्रतम् ।
उत्तिष्ठोत्तिष्ठ भद्रं ते तपसो लोकदःखदात् ॥ ४-
व्यतीयुः सप्तकल्पास्ते साधिकाः कोमलां तनुम् ।
ग्लपयन्त्या ह्यनुदिनं नोचितस्ते वृथा श्रमः ॥ ४-
पुष्पशययासु रुचिरं वपुस्ते परिखिद्यते ।
सा कथं चण्डतिग्मांशु सहते तापवर्षिणम् ॥ ४-
शीतोष्णवातवर्षाभ्यां परिक्लिष्टा वपुर्लता ।
वेणीभूता मूर्धजास्ते मनो मे खेदयन्ति च ॥ ४-
मन्दास्मितप्रभोदारं मुखं बिम्बाधरं तव ।
हिमक्लिष्टं न चाभाति हेमन्तकमलं यथा ॥ ४-
चण्डतिग्मांशुतापेन कपोलौ श्यामलौ तव ।
मुक्तादामश्रिया हीनौ न शोभा ते (शोभेते) यथा पुरा ॥ ४-
अनञ्जनं च नयनं भालं काश्मीरवञ्चितम् ।
मुखं ताम्बूलरहितं वीक्षतः कस्य ते सुखम् ॥ ४-
मा शोषय वपू रम्यं तपसा दुर्द्धरेण वै ।
मूर्ध्ना प्रणम्य ते पादं प्रार्थयामि पुनः पुनः ॥ ४-
किं ध्यायसि रह इति यत्प्रष्टं कमले त्वया ।
अवाच्यं तत्तु जानीहि अपि कल्पायुतायुतैः ॥ ४-
तथापि कथयिष्यामि कृतस्ते तपसा ह्यहम् ।
साक्षान्न जिह्वया वाच्यं तत्तु देवि कथञ्चन ॥ ४-
तथापि कथयिष्यामि प्रकारं शृणु सुन्दरि ।
द्वापरान्तेऽष्टाविंशतिमे असुरा नृपरूपिणः ।
वेदमार्गविनाशाय यतिष्यन्ति दुराशयाः ॥ ४-
स्त्रीगोब्राह्मणसाधूनां धर्मिष्ठानां तपस्विनाम् ।
वर्णाश्रमाणां सेतूनां स्वस्वधर्मानुवर्त्तिनाम् ॥ ४-
करिष्यन्ति यदा पीडां तदाहं धर्मगुप्तये ।
वेदधर्मादिरक्षार्थं विनाशाय दुरात्मनाम् ॥ ४-
ययातिकुलजातस्य यदुराजस्य वेश्मनि ।
वासुदेवो भविष्यामि नाम्ना कृष्णेति विश्रुतः ॥ ४-
तत्रापि त्वं रुक्मिणीति भविष्यसि वराङ्गना ।
तत्र त्वां केचन नृपा असुरा ज्ञानदुर्बलाः ॥ ४-
आयास्यन्ते समुद्वोढुं जित्वा तान् समरे खलान् ।
उद्वहिष्यामि भवतीं मच्चितां नात्र संशयः ॥ ४-
तदा कुलाङ्गनाः पुत्रपतिवन्त्यः पतिव्रताः ।
गास्यन्ति मङ्गलार्थं तु मच्चरित्राणि सुन्दरि ॥ ४-
उपचारविधानेन तच्छ्रुत्वा हृदय मम ।
भविष्यति सुखापूर्णं यथाम्भोधिर्विधूदये ॥ ४-
ईदृक्तादृगितिगिरां न वक्तुं भवतीं क्षमम् ।
स्वयमेवानुभवति शर्कराक्षीरपानवत् ॥ ४-
तत्सुखाम्भोनिधेर्देवि कणिकापि कथञ्चन ।
न ब्रह्मादिषु देवेषु वर्ततेन्यत्र का कथा ॥ ४-
नोपदिष्टं तु तद्वेति न शब्दैरुपदिश्यते ।
केवलानुभवाकारं वेत्येकोनुभवी सदा [प्रया वक्तुं न योग्यं यत् इति वा पाठः ।] ॥ ४-
अनुमानप्रमाणेन ह्यनुमेयं कथञ्चन ।
लक्षणैर्देव देवेशि नान्योपायैः कथञ्चन ॥ ४-
लक्षणानि तु ते वच्मि शृणु सुन्दरि यत्नतः ।
अन्तः सुखसमुद्वेल्लो बहिः सन्धानविस्मृतिः ॥ ४-
नेत्रयोरश्रु संवाहः कम्पः स्वेदोदयस्तथा ।
रोमाञ्चः कण्ठरोधश्च लक्षणानि च वै विदुः ॥ ४-
इत्येतैर्लक्षणैर्देवि मदन्तःकरणस्थितम् ।
[मया वक्तुं न योग्यं यत् इत्यपि पाठः ।] सुखमद्ध्यानयोग्यं यत्तज्जानिष्यसि केवलम् ॥ ४-
तावत्त्वं तं च समयं परिपालय वल्लभे ।
इत्येतत्ते समाख्यातं सर्वस्वं मे न संशयः ॥ ४-
श्रुतीनां चापि सर्वासां रहस्यं त्विदमेव हि ।
इदमेव परं ज्ञानमिदमेव परा क्रिया ॥ ४-
इदमेव परो योग इदमेव परो मखः ।
इदमेव परं ध्येयमिदमेव परा गतिः ॥ ४-
इदमेव परं ज्ञेयमिदमेव महाधनम् ।
इदमेवाखिला सम्पत् सत्यं सत्यं पतिव्रते ॥ ४-
इत्येवं विष्णुना प्रोक्ता रमा देवी पतिव्रता ।
जहौ तापं च ग्रीष्मार्त्ता भूरिवाम्भोदतर्पिता ॥ ४-
विकसन्नयनाम्भोजा प्रमोदभरविह्वला ।
पपात पादयोर्भर्त्तुः दण्डवत् विमलाशया ॥ ४-
ब्रह्मणापि मया चापि संस्तुता बहुधा गिरा ।
तपसः फलमभ्येत्य कृतार्थास्मीत्यमन्यत ॥ ४-
मुमुचुः पुष्पवर्षाणि नेदुर्दुन्दुभयो दिवि ।
जगुर्गन्धर्वपतयो नतुतुश्चाप्सरोगणाः ॥ ४-
सप्तर्षयः समभ्येत्य तुष्टुवुस्तामनिदिन्ताम् ।
तापः शशाम जगतां सर्वत्रासीत् सुमङ्गलम् ॥ ४-
ववौ वायुः सुखस्पर्शो दिगासीद्विमलप्रभा ।
जलान्यासन्प्रसन्नानि जज्वलुर्वह्नयः शुभाः ॥ ४-
मनांस्यासन्प्रसन्नानि भूतानां नष्टचेतसाम् ।
इत्येवं मङ्गले जाते प्रसन्ना दिवि देवताः ।
पृथिव्यां मानवाः सर्वे पाताले पन्नगेश्वराः ॥ ४-
ब्रह्मलोकं गतो ब्रह्मा अहं कैलासमागतः ।
गृहीत्वा च करे लक्ष्मीं विष्णुः स्वनिलयं प्रति ॥ ४-
इत्येव ते मयाख्यातं त्वया पृष्टमनिन्दिते ।
तत्वज्ञानं न सुलभं तस्माद् गोप्यतमं प्रिये ॥ ४-
तत्वज्ञानाधिकारण्यो विरलाः सन्ति केचन ।
कालेन बहुना देवि तान् परीक्ष्य प्रकाशयेत् ॥ ४-
स्नेहाल्लोभाद्भयाद्वापि योऽन्यस्मै वक्ति मूढधीः ।
नाऽसौ ज्ञानी भवेद्देवि उदरम्भरिरेव सः ॥ ४-
सहसवाससेवाभिस्ताडनैः परुषोक्तिभिः ।
यदा न याति कालुष्यं सोधिकारी मतो मम ॥ ४-
श्रुत्वा तत्वकथावाद वपू रोमाञ्चसङ्कुलम् ।
हर्षाश्रुव्याकुले नेत्रे सोऽधिकारी मतो मम ॥ ४-
परापवादविमुखो परस्त्रीधननिस्पृहः ।
अक्रोधी लोभनिर्मुक्तः शान्तः शास्त्रविचक्षणः ॥ ४-
वेदशास्त्रार्थतत्वज्ञः श्रद्धालुर्गतसाध्वसः ।
गुणरागी सदात्यागी विरागी बाह्यवस्तुषु ॥ ४-
पापभीतो भवेद्द्वेषो विषयादिष्वलोलुपः ।
अन्यैश्चापि शुभैर्देवि लक्षणैश्चापि लक्षितः ॥ ४-
अधिकारीति विज्ञेयस्तस्मै देयमिदं रहः ।
वेदगुह्यमिदं देवि ! नान्यथा तु प्रकाशयेत् ॥ ४-
प्रकाशयन्विमूढात्मा स भवेदापदां पदम् ।
न तस्य तत्वसंसिद्धिर्गुरोः शिष्यस्य चाप्यहो ॥ ४-
तत्वज्ञेनोपदिष्टा ये तत्वज्ञा एव सुन्दरि ।
अनर्हैरुपदिष्टा ये तेप्यनर्हा भवन्ति हि ॥ ४-
अनर्हैरुपदिष्टा ये येनर्हाश्च स्वयं शिवे [तेऽनर्हाः स्वयं शिवे इत्यपि पाठः] ।
उभयभ्रंशदोषेण ते यान्ति नरकं प्रिये ! ॥ ४-
लोकभ्रंशः कर्मलोपात् अयोग्यत्वात् फलाग्रहः ।
तेषां तमः स्यादतुलं यावच्चन्द्रार्कतारकम् ॥ ४-
सुप्तं प्रबोधयेद् बुद्धो ह्यबुद्धस्तु च तं कथम् ।
पाषाणं तारयेत्तुम्बी न पाषाणः परस्परम् ॥ ४-
तस्मादेवं विनिश्चित्य सद्गुरोः शरणं गतः ।
आत्मानं मोहविभ्रान्तं तारयेत्स च बुद्धिमान् ॥ ४-
इत्येतन्मे समाख्यातं यत्पृष्टोऽहं त्वया प्रिये ! ।
समासेन महादेवि ! किमन्यत्प्रष्टुमिच्छसि ॥ ४-
इति श्रीनारदपाञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे (ज्ञानखण्डे) शिवोमासंवादे चतुर्थं पटलम् ॥ ४-
अथ पञ्चमं पटलम्
श्रीपार्वत्युवाच
भगवन् लोकनाथेश देव देवेश धूर्जटे ।
इयं कथा महापुण्या कथिता पापनाशिनी ॥ ५-
यद्रामायै न च प्राह भगवन् प्राणवल्लभः ।
साक्षान्मुखेन देवेशाभिनयेन वदिष्यति ॥ ५-
तत्तु तत्त्वं कथयसि साक्षादेव मम प्रभो ।
त्वमेव तादृशो देव दयालूर्नापरः प्रभो ॥ ५-
तत्तत्वज्ञानसामर्थ्याद्भोगाः सर्वेवधीरिताः ।
दिग्वासा जटिलो नन्दी चरस्येकोऽपि पण्डितः ॥ ५-
त्वं गुरुः सर्वलोकस्य तत्वमार्गोपदेशकः ।
न त्वया सदृशः कश्चित् तत्वज्ञानानुभूतिमान् ॥ ५-
अर्द्धाङ्गदानतो जाने तव प्राणाधिकास्म्यहम् ।
अतो वदसि भो नाथ तत्वं गुह्यतमं च यत् ॥ ५-
न तच्चित्रं त्वयि विभो कृपासिन्धौ महेश्वरे ।
अतस्त्वां प्रष्टुमिच्छामि सन्दिहाना महेश्वर ॥ ५-
यत्त्वयोक्तं पुरा मोहो जगत्कारणरूपकः ।
यथा बीजादुद्भवन्ति पत्रपुष्पफलादयः ॥ ५-
एवं मोहात्समुद्भूतं सदेवासुरमानुषम् ।
अज्ञानप्रभवो मोहो मोहाज्जातं चराचरम् ॥ ५-
स्रजं शुक्तिं समावृत्य यथाज्ञानं स्वशक्तितः ।
अहिं च रजतं चैव यथा दर्शयते स्फुटम् ॥ ५-
तथाक्षरं परं ब्रह्म ह्यज्ञानं मोहकारणम् ।
समावृत्यात्मशक्त्यैव विश्वं सृजति शङ्कर ! ॥ ५-
इत्युक्त यत्त्वया देव तत्र मे संशयो महान् ।
अक्षरं यत्त्वया प्रोक्तं निष्प्रपञ्च निरामयम् ॥
निर्दोषं निर्मलं शुद्धं निरीहं सङ्गवर्जितम् ॥ ५-
स्वप्रकाशं गुणातीतं ज्ञानरूपं समं शिवम् ।
निर्विकारं सदाभान्तं सदसद्भावतः परम् ॥ ५-
तस्मिन्नज्ञानसंसर्गः को वा वक्तु समीहिते ।
कथमज्ञानजो मोहस्तस्मिन् ज्ञानात्मनीश्वरे ॥ ५-
स्वप्रकाशे यदज्ञानमावृत्तिं कुरुते यदि ।
तमसापि कथं सूर्यो नाव्रियेत् मनागपि ॥ ५-
कथं वा मोहनाशेऽपि कैवल्यमवशिष्यते ।
असत्य सत्यवद्भाति संशयोऽत्र महान्मम् ।
छेत्तुमर्हसि देवेश ! तत्वज्ञानासिना प्रभो ! ॥ ५-
शिव उवाच
शृणु सुन्दरि यत्नेन रहस्यं परमाद्भुतम् ।
तव स्नेहवशाद्वच्मि प्रेम्णाह प्रार्थितस्त्वया ॥ ५-
न वाच्यं यस्य कस्यापि मातृजारसमं रहः ।
गोपयेत्सर्वतो भद्रे विवदेन्न कथञ्चन ॥ ५-
न वादितर्कविषयं परं ब्रह्मसनातनम् ।
तर्कैककर्कशधियो वादिनो मूढबुद्धयः ॥ ५-
सूर्यस्यावरणे शक्तं तिमिरं न कथञ्चन ।
स्वप्रकाशे तथाज्ञानं कदाचित्प्रभवेन्नहि ॥ ५-
इति प्रामाणिकैस्तर्कैर्विरुद्धमिव भासते ।
मोहसृष्टिसमुद्भूता ये प्रमाणविदो जनाः ॥ ५-
कथं ते वेदितुं शक्ताः प्रमाणैरपि पण्डिताः ।
यथा स्वप्नजनो देवि ! स्वप्नदृष्टारमेकलम् ॥ ५-
न जानाति तथा देवि ! प्रमाणान्यपि कृत्स्नशः ।
परे ब्रह्मण्यक्षरेऽस्मिन् आज्ञानावेशमाहितम् ॥ ५-
तस्माद्युक्तिर्न कर्त्तव्या श्रुतिभिर्या विरुध्यते ।
अनुकूला श्रुतिगिरां युक्तिः सा विदुषां मता ॥ ५-
यथा न सत्यादनृतात्केवलाद् व्यावहारिकम् ।
तथा सत्यानृताभ्यां तु व्यवहारः प्रवर्त्तितः ॥ ५-
अनृतं तु तदज्ञानं सत्य ब्रह्मैव केवलम् ।
न तुषादङ्कुरोत्पत्तिः केवलात्तण्डुलादपि ॥ ५-
तुषतण्डुलयोगेन जायतेऽङ्कुरविस्तृतिः ।
ब्रह्मण्यज्ञानयोगेन जायते विश्वसम्भवः ॥ ५-
तस्मान्न संशयः कार्यो ब्रह्मण्यज्ञानसम्भवे ।
नापनेया मतिस्तर्कैर्भावा ये [भावा तच्चाप्यलौकिकः इति पाठः ।] चाप्यलौकिकाः ॥ ५-
न तांस्तर्केण युञ्जीतेत्याहुश्चोपनिषद्गिरः ।
ब्रह्मण्यज्ञानसद्भावो लोकसिद्धो न विद्यते ॥ ५-
विद्यते वेदसिद्धोऽयं तस्माद्वेदः प्रमाणकम् ।
अलौकिकं न सिध्येत विरुद्ध यच्छ्रुतेः सह ॥ ५-
अपरोक्षं लौकिकं च परोक्षं चाप्यलौकिकम् ।
कथं सिध्येदप्रमाणं परोक्षं लौकिकोक्तिभिः ॥ ५-
प्रमाणराजो यद्यादक् निरूपयति केवलम् ।
तत्तादृगेव मन्तव्यमन्यथा स बहिर्मुखः ॥ ५-
अलौकिकं लौकिकं च तस्यैतदुभय गतम् ।
स चाण्डालमयीं योनिं प्रविशेत्तद्बहिर्मुखः ॥ ५-
ब्रह्मक्षत्रियविट्शूद्राश्चैते वेदानुवर्तिनः ।
वेदैस्त्यक्तास्त्यजन्तस्ते यान्ति नीचपरम्पराम् ॥ ५-
प्रत्यक्षं चानुमानं च शब्दः सादृश्यमेव च ।
चत्वार्येतानि देवेशि ! प्रमाणानि न संशयः ॥ ५-
प्रत्यक्षं लौकिके सिद्धं न चैवालौकिके हि तत् ।
पर्वतो वह्निमान् धूमादित्येवमनुमीयते ॥ ५-
ब्रह्म केनात्र संसाध्यं सदसत्परमव्ययम् ।
तस्माद्ब्रह्मण्यनुमितिर्न सिध्येत कदाचन ॥ ५-
सादृशाभावतो लोके सादृश्यं नापि सिध्यति ।
अनादिः शब्दब्रह्माख्यो ब्रह्मवक्तीह यादृशम् ।
तादृशं तद्विजीनायात् पाखण्डी चान्यथा हि सः ॥ ५-
ब्रह्माभासमया जीवा ब्रह्मैवेति विनिश्चयः ।
अहं मनुष्य इत्याद्या अहं बुद्धिर्हिदेहिनाम् ॥ ५-
आत्मत्वेनैव गृह्णाति देहं चैनमचेतनम् ।
विपरीतमिदं भद्रे सन्दिग्धमिदमेव हि ॥ ५-
अलौकिकं हि सन्दिग्धं वेदेनैव निवर्त्तते ।
न निश्चयं विना क्वापि मुक्तिर्भवति शाश्वती ॥ ५-
तस्माद्वेदान्तवाक्यैश्च सहायैः सर्वतोधिकैः ।
विचारयेत् परं ब्रह्म स्वात्मानं लभते हि सः ॥ ५-
शब्दातीतं परं ब्रह्म शब्दगोचरमित्यपि ।
तथाप्यनादिशब्दैस्तत् ज्ञायते नान्यथा प्रिये ॥ ५-
प्रमाणराजो निगमादनुभूतिर्गरीयसी ।
तथाप्यनुभवी साक्षात् शब्दैरेवोपदिश्यति ॥ ५-
गुरूक्तं चापि वेदोक्तमेकार्थं यदि भासते ।
तदा कृतार्थः पुरुषो मुक्तो भवति संशयात् ॥ ५-
निवृत्ते संशये देवि जाते स्वानुभवोदये ।
ब्रह्माण्यज्ञानमित्येषः सन्देहो नाशमेष्यति ॥ ५-
यदि युक्त्या प्रमाणैश्च विरुद्धं श्रुतिसम्मतम् ।
नायं विरुद्धो विदुषां अनुभूतिमतामपि ॥ ५-
जाग्रत्येतत्प्रतीयेत स्वप्ने तत्प्रातिभासिकम् ।
सुषुप्तौ तन्निरासेऽपि मूलाज्ञानं हि तिष्ठति ॥ ५-
आभासस्तदवच्छिन्नो जीवत्वेन प्रतीयते ।
आभासो ज्ञानरूपो हि बहिरन्तःप्रकाशकः ॥ ५-
तदज्ञानं तु देहादिरूपैः परिणतं प्रिये ।
तत्र व्याप्तश्चिदाभास एवं स्याद्व्यावहारिकम् ॥ ५-
मूलाज्ञानमिदं देवि यदात्मनि च धिष्ठितम् ।
तन्निरासं विना देवि जीवा आभासरूपिणः ॥ ५-
न मुच्यन्ते कदाचिद्वा कथंचिद्वा सुरेश्वरि ।
व्रतोपवासनियमैस्तपोभिर्विविधैरपि ॥ ५-
स्वाध्यायाध्ययनैर्दानैस्तीर्थैर्वा चान्यसाधनैः ।
ब्रह्मचर्यवानप्रस्थसन्नायासाचरणैरपि ।
अगाधाज्ञानपाथोधौ दुरन्ते पारवर्जिते ॥ ५-
उन्मज्जन्ते निमज्जन्ते देवत्वजडतादिभिः ।
नैव पारं गताः केचिन्नैव यास्यन्ति केचन ॥ ५-
अहोऽत्र परमानन्दः पुरुषोत्तम ईश्वरः ।
यानीक्षतेनुग्रहदृशा ते यास्यन्ति गिरीन्द्रजे ॥ ५-
अस्मिन्नज्ञानपथोधौ वयं ब्रह्मादयोऽपि च ।
बुद्बुदाकारतां प्राप्तास्तदिच्छावायुजृम्भिताः ॥ ५-
वायूपशमने देवि बुद्बुदा नीरतां गताः ।
तथा यास्यति ब्रह्माण्डमस्माभिरविशेषितम् ॥ ५-
अप्रबोधो यथा स्वप्ने चित्रं सृजति कौतुकम् ।
तथैवात्माऽप्रबोधेन जातं सर्वं चराचरम् ॥ ५-
प्रबोधाद्विलयं याति परं ब्रह्मावशिष्यते ।
स्रजि सर्पलये यद्वत् स्रगेव परिशिष्यते ॥ ५-
अध्यारोपापवादेन परं ब्रह्मैव शिष्यते ।
इति ते सर्वमाख्यातं यत्पृष्टोऽहं त्वया प्रिये ॥ ५-
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ? ।
इति श्रीनारदपाञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे (ज्ञानखण्डे) शिवोमासंवादे पञ्चमं पटलम् ॥ ५-
अथ षष्ठं पटलम्
श्रीदेव्युवाच
देवदेव कृपासिन्धो दीनबन्धो जगत्पते ।
आपीय भवतः सूक्तिं महानन्दः प्रवर्तते ॥ ६-
अज्ञानान्निखिलं जातं ब्रह्मादिस्थावरान्तकम् ।
इति यद्भवता प्रोक्तं सङ्क्षेपेण महेश्वर ! ॥ ६-
प्रपञ्चय पुनः सर्वं सृष्टिसंहारभेदतः ।
शृणु पार्वति वक्ष्यामि यत्त्वं पृच्छसि तत्त्वतः ।
तस्य श्रवणमात्रेण परमात्मा प्रकाशते ॥ ६-
अज्ञानं यन्मया प्रोक्तं न सन्नासत्तदुच्यते ।
सच्चेन्मुक्तिसमुच्छेदों ह्यसच्चेद्भासते कथम् ॥ ६-
अनिर्वाच्यमिदं तस्मात् त्रिगुणोत्पादकं तथा ।
ज्ञाननाश्यं भावरूपं मूलाज्ञानं विदुः प्रिये ॥ ६-
शशशृङ्गनरशृङ्गवन्ध्यापुत्रखपुष्पवत् ।
अज्ञानं कथितं सद्भिः कथं सदिति चोच्यते ॥ ६-
नासत्तु कारणत्वेन ह्युपयुञ्जीत कर्हिचित् ।
कथं सृजति ब्रह्माण्डं ब्रह्मादिस्थावरान्तकम् ॥ ६-
न शक्यस्तदभावोऽपि यस्मात्तत्त्रिगुणात्मकम् ।
श्रुतिप्रसिद्धं व्योमादिरूपेण विततं च यत् ॥ ६-
सत्यवद्भासते वापि मूलाज्ञानं गिरीन्द्रजे ।
दीपार्चिषेव तिमिरं ज्ञानेन विनिवर्त्तते ॥ ६-
स्वस्वरूपावबोधो हि ज्ञानमित्युच्यते प्रिये ।
स्वस्वरूपभ्रमो देवि विकल्पो भवसंज्ञकः ।
भ्रान्तात्मनस्तु शयने विकल्पो जायते महान् ॥ ६-
प्राप्तात्मनः समूलोऽपि नश्यते तद्वदेव हि ।
तदज्ञानं द्विधाभूतं कार्यकारणभेदतः ॥ ६-
अक्षरे परमानन्दे मूलं स्यात्कारणं परम् ।
कार्यात्मकं बुद्धिभेदात् बुद्धिराभासदीपिता ॥ ६-
सूते कार्यात्मकं पिण्डं ब्रह्माण्डं कारणात्मकम् ।
ब्रह्माण्डपिण्डयोरैक्यं प्रवदन्ति विपश्चितः ॥ ६-
सर शरावयोर्मध्ये यथार्कः प्रतिबिम्बितः ।
अक्षरः स्वावभासेन कार्यकारणसङ्गतः ॥ ६-
यथोपाधिद्वयाभावे सूर्य एकः प्रतीयते ।
तथोपाधिद्वयाभावे विशुद्धः केवलोऽक्षरः ॥ ६-
मूलोपाधिर्विशुद्धश्च सत्वप्राधान्यतः प्रिये ।
क्षुद्रोपाधिर्हि मलिनस्तमःप्राधान्यतो भवेत् ॥ ६-
उत्कृष्टत्वाद्विशुद्धत्वात् सत्वप्राधान्यतस्तथा ।
नारायणादिकान् सूते सर्वज्ञानोपबृंहितान् ॥ ६-
कार्योपाधिर्निकृष्टत्वादशुद्धत्वाच्च तामसः ।
जीवसृष्टिं वितनुते सर्वेशगुणवर्जिताम् ॥ ६-
नारायणादिजीवन्ता सृष्टिर्मोहावधिस्थिता ।
एकमेवाद्वितीयं च ब्रह्मेति श्रुतयो जगुः ॥ ६-
बुद्धिवृत्तिस्त्रिघा यद्वज्जाग्रत्स्वप्नसुषुप्तिकाः ।
आभासात्मनि जीवाख्ये वर्तन्ते ताः पुनः पुनः ॥ ६-
तद्वद्ब्रह्मणि चाज्ञानं त्रिधैव परिवर्तते ।
मूलाज्ञानं लयस्थानं सुषुप्तिः परिकीर्तिता ॥ ६-
नारायणोपाधिकं यत्स्वप्नं तत्परिचक्षते ।
विष्णुपाघिमयाज्ञानं जाग्रदित्यभिधीयते ॥ ६-
आदिजीवो महाजीवो विष्ण्वाख्यः परिकीर्त्तितः ।
स एव सर्वजीवाख्यः [आभासात्मनि पश्यति इत्यपि पाठः ।] आभासात्मा परस्य तु ॥ ६-
जाग्रत्स्थानगताज्ञानं नानारूपैर्विजृम्भितम् ।
देवासुरमनुष्याद्यैर्गन्धर्वोरगकिन्नरैः ॥ ६-
पशुकीटपतङ्गाद्यैर्विचित्रैः कर्मनिर्मितैः ।
तानेतान्वासनारूढान्नानाभेदव्यवस्थितान् ॥ ६-
नारायणेन रूपेण स्वयं पश्यति चाक्षरः ।
जाग्रत्स्वप्ने विलीयेत स्वप्नस्तु शयनं व्रजेत् ।
तत्तुरीयं लयं याते स्मृतिरत्रावशिष्यते ॥ ६-
यथा जागरणे स्वप्नः स्वप्ने जागरणं यथा ।
तथा वृत्तमिदं देवि यो जानाति स मुच्यते ॥ ६-
अक्षरः परमात्मायं जाग्रत्स्वप्नं प्रपश्यति ।
जीवो जाग्रति वै स्वप्ने चित् क्षरस्य परात्मनः ।
स्वप्न तज्जागरश्चापि द्वयमेतद्गतार्थकम् ॥ ६-
स्थूलार्थोपासत्तिकालो जागरः परिकीर्त्तितः ।
स्थूलं त्यक्त्वा तु सूक्ष्मार्थोपासत्तिः स्वाप्निकी मता ॥ ६-
सूक्ष्मार्थानामप्यभावोपासत्तिः शयनात्यिका ।
शयनं तत्तु चाज्ञानं मोहरूपं वरानने ॥ ६-
कारणं तद्विजानीयात् महाकारणनिर्मितम् ।
कार्यरूपेण विततं क्रमात्स्थूलविभेदतः ॥ ६-
तदहं ते प्रवक्ष्यामि शृणुष्वैकाग्रचेतसा ।
अज्ञानं प्रकृतिर्माया मोहोव्यक्तं प्रधानकम् ।
अदृष्टं चेति बहुधा वादिनस्तत्प्रचक्षते ॥ ६-
एकार्थमेव तत्सर्वं गुणस्तत्वाविरोधतः ।
नाममात्रेण कलहो नार्थं दृष्ट्वा कदाचन ।
प्रकृतिश्चापि पुरुषो यतस्तत्सृष्टिसम्भवौ ॥ ६-
कार्यकारणयोर्भेदः अभेदाख्यः प्रकीर्तितः ।
मृत्सुवर्णादिकानां च घटादेर्वलयस्य च ॥ ६-
भेदोऽथाभेद एव स्यात् तद्वदेतत्प्रकीर्त्यते ॥ ६-
तदज्ञानस्य शक्ती द्वे विक्षेपावरणात्मिके ।
ब्रह्मावृणोति सहसा शक्त्यावरणसंज्ञया ॥ ६-
यथाच्छादयति स्वल्पो मेघो भानुं सहस्रगुम् ।
तथाच्छादयते मिथ्या ब्रह्मानन्तमखण्डकम् ॥ ६-
अनावृतोऽपि पूर्णात्मा निःसङ्गो निर्विकल्पकः ।
तद्वासनानुवशगस्तिभितात्मा चिदक्षरः ॥ ६-
अथ विक्षेपशक्तिः सा यथा बहिरिवान्तरे ।
दर्शयामास विततं प्रपञ्चं सकुतूहलम् ॥ ६-
ददर्शासौ तदात्मानं नारायणमिति स्थितम् ।
वेदानां वेदमार्गाणां लोकानां च परायणम् ॥ ६-
नारायणेन रूपेण स्वयं पश्यति चाक्षरः ।
स [स वेदात्मा परो देवो स्यामित्यमन्यत इत्यपि पाठः ।] वेदात्मोप देवोऽपि बहु स्यामित्यमन्यत ।
अहङ्कारस्ततो जातो विकुर्वन्समभूत्त्रिधा ॥ ६-
सात्विको राजसश्चैव तामसश्चेति वै त्रिधा ।
तामसादप्यहङ्काराज्जडमासीन्नभः प्रिये ॥ ६-
तस्य शब्दो गुणश्चासीदेक एव सुलोचने ।
सत्वानुविद्धान्नभसो जातं श्रोत्रमथेन्द्रियम् ।
शब्दस्तु विषयस्तस्य सात्विकी दिक् च देवता ॥ ६-
रजो गुणप्रधानात्तु वागासीद्वचनग्रहा ।
अग्निस्तत्राभवद्देवः सात्विकः सुरवन्दिते ॥ ६-
यथाकाशादभूद्वायुः शब्दस्पर्शौ च तद्गुणौ ।
सत्त्वानुविद्धात्पवनात् त्वगासीदिन्द्रिय प्रिये ॥ ६-
रजोनुविद्धात्पवनादासीत्पाणीन्द्रियं प्रिये ।
आदानं तस्य विषये इन्द्रस्तस्याधिदेवता ॥ ६-
अथ वायोरभूदग्निः शब्दस्पर्शस्वरूपवान् ।
तेजसः सत्वविद्धाद्वे चक्षू रूपग्रहं सति ॥ ६-
रजोगुणप्रधानात्तु पादेन्द्रियमभूत्प्रिये ।
उपेन्द्रः सात्विको देवो गमनं विषयो भवेत् ॥ ६-
आपस्तेजःसमुद्भूता रसाधिकगुणास्त्रयः ।
सत्त्वानुविद्धात्सलिलाद्रसनं तद्रसग्रहम् ॥ ६-
वरुणः सात्विको देवो बभूव सुरवन्दिते ।
रजःप्रधानात्सलिलात् पायवासीच्च विसर्गकृत् ॥ ६-
यमोधिदेवता तत्र सात्विकः सम्बभूव ह ।
अद्भ्योऽभवद्वसुमती शब्दादिगुणपञ्चका ।
पृथिव्याः सत्वविद्धायाः घ्राणं गन्धग्रहं शिवे ॥ ६-
नासत्यौ देवता तत्र सात्विकी सम्बभूव हा ।
रजोनुविद्धया चासीदिन्द्रियं गुह्यसंज्ञकम् ॥ ६-
आनन्दानुभवस्तेन जायते सुरवन्दिते ।
देवः प्रजापतिस्तत्र सात्विकः परिकीर्तितः ॥ ६-
रजःप्रधानभूतेभ्यो मिलितेभ्यः सुरेश्वरि ।
क्रियाशक्त्यात्मकं प्राणपञ्चकं जायते शिवे ॥ ६-
सत्वप्रधानभूतेभ्यो मिलितेभ्यः सुरेश्वरि ।
ज्ञानशक्तिप्रधानं तु ह्यन्तःकरणमुच्यते ॥ ६-
मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् ।
त्वक् चक्षूरसनाघ्राणं श्रोत्रं ज्ञानेन्द्रियाणि च ॥ ६-
वाक् पाणिपादपायूपस्थानि कर्मेन्द्रियणि च ॥ ६-
दिक्वातार्कप्रचेतोऽश्विवह्नींद्रोपेन्द्रमित्रकाः ।
दशेन्द्रियाधिदेवाश्च मया ते परिकीर्तिताः ॥ ६-
पृथिव्यधिपतिर्ब्रह्मा विष्णुः सलिलनायकः ।
तेजसोऽधिपतिः शम्भुर्वायोरीश्वर एव च ॥ ६-
व्योम्नः सदाशिवः प्रोक्त इत्येता भूतदेवताः ।
दशेन्द्रियाणि बुद्धिश्च मनःप्राणादिपञ्चकम् ।
एतल्लिङ्गं समाख्यातं जीवोपाधिरिति स्फुटम् ॥ ६-
विशेषं तत्र देवेशि ! वर्णयामि शृणुष्व तत् ।
प्राणादिपञ्चकं देवि ! कर्मेन्द्रियसमन्वितम् ॥ ६-
प्राणकोश इति ख्यातः क्षुत्पिपासादिधर्मवान् ।
मनोज्ञानेन्द्रियैर्युक्तं मनःकोश उदीरितः ॥ ६-
बुद्धिज्ञानेन्द्रियैर्युक्तो विज्ञानाख्यः प्रकीर्तितः ।
इदं कोशत्रयं देवि ! व्यष्ट्या लिङ्गमुदाहृतम् ॥ ६-
तत्राभासमयो जीवो याति चायाति सुन्दरि ! ।
जडं कोशत्रयं देवि ! ब्रह्माभासेन चेष्टते ॥ ६-
यथायस्कान्तसान्निध्ये यथा लोहं सुरेश्वरि ! ।
यज्जडं तदसद्देवि यत्सत्तत्सदिति प्रिये ! ॥ ६-
तस्मात्तच्चेतनं ब्रह्म सत्यमित्येव सुन्दरि ! ।
समुदायस्तु लिङ्गानां तत्राभासस्तु यः प्रिये ॥ ६-
हिरण्यगर्भं तं प्राहुः सूत्रात्मानं पुनस्तथा ॥ ६-
इति ते कथितं देवि ! यत्पृष्टोऽहं त्वया शुभे ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ ६-
इति श्रीनारदपाञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे (ज्ञानखण्डे) शिवोमासंवादे षष्ठं पटलम् ॥ ६-
अथ सप्तमं पटलम्
पार्वत्युवाच
देवदेव ! महादेव ! करुणार्णव ! शङ्कर ! ।
श्रुत्वा त्वदीयवचनं नात्मा मे परितुष्यति ॥ ७-
नारायणादिरूपाणि त्वयोक्तानि च शङ्कर ! ।
तदुद्भवे हेतुमात्रं ब्रह्माज्ञानं निरूपितम् ॥ ७-
ब्रह्मण्यज्ञानसम्बन्धः सन्देहस्ते निवारितः ।
कारण ब्रूहि देवेश मोहोत्पत्तौ विशेषतः ॥ ७-
शिव उवाच
शृणु देवि ! प्रवक्ष्यामि रहस्यं वेदगोपितम् ।
यस्य कस्यापि नो वाच्यं वाच्यं सर्वस्वदायिने ॥ ७-
तव स्नेहवशाद्देवि ! कथयामि न चान्यथा ।
सच्चिदानन्दकं ब्रह्म सदंशेन क्षरं जगत् ॥ ७-
चिद्रूपं ब्रह्म परमं नित्यमक्षरमव्ययम् ।
बाललीलाविनोदेन कोटिब्रह्माण्डसंहतीः ॥
सृजते संहरत्येव निर्विकारं तथापि यत् ॥ ७-
तस्मादप्यक्षरादूर्ध्वं परमानन्दसुन्दरम् ।
नित्यवृन्दावनानन्दि नानाक्रीडारसार्णवम् ॥ ७-
विराजति ब्रह्मपुरे मनोवाग्विषयातिगम् ।
अम्भोजकर्णिकावच्च नित्यवृन्दावनान्तरे ॥
तत्पत्रवदनेकैश्चिन्महोद्यानैर्विराजितम् ॥ ७-
निजं धामं रसानन्दं स्वप्रकाशं महोज्ज्वलम् ।
कालिन्दी यत्र कोट्यर्कभास्वद्रत्नतटोन्नता ॥ ७-
हंससारसकारण्डनानापक्षिनिनादिता ।
फुल्लाम्भोजवनामोदलुब्धभ्रमरमण्डला ॥ ७-
नवरत्नमयीभिस्तु सिकताभिरलंकृता ।
महामणितटोत्तुङ्गकुट्टिभैः परिमण्डिता ॥ ७-
नानादिव्यलताकुञ्जैरम्लानकुसुमोज्ज्वलैः ।
दिव्यगन्धसमाकृष्टभृङ्गझङ्कारपेशलैः ॥ ७-
सप्ततीर्थैर्दिव्यरत्नराजिराजितभूतलैः ।
उपरिस्थमणिभ्राजत्कुट्टिमैर्दिव्यमण्डपैः ॥ ७-
शोभमानामृतजला स्वर्णपङ्कजमालिनी ।
रक्ततुण्डपदैश्चित्रपक्षैः पक्षिगणैः शिवे ॥ ७-
सेव्यमाना सुखस्पर्शैर्वायुभिश्चलपङ्कजा ।
क्वचित्पर्यस्तमुक्तालिमहामरकतावनौ ।
शुद्धतामसहृद्युच्चैर्भाति भक्त्यङ्कुरा इव ॥ ७-
यत्रोन्नदन्तःशुकसारसाद्याः पठन्ति दिव्यां गुणचित्रसत्कथाम् ।
शाखास्थिताः कल्पमहीरुहाणां मन्दानिलान्दोलितपल्लवश्रियाम् ॥ ७-
न यत्र शोको न भयं मृतिर्वा
कालो न यत्र प्रभवेदनन्तः ।
यदेत्य शोचन्ति पुनर्नहीश्वराः
कुञ्जेषु लीलावपुषोऽमलाशया ॥ ७-
प्रतप्तजाम्बूनदसुन्दरत्विषः
कटाक्षविक्षैपविलोभितेश्वराः ।
चरन्ति मूर्त्तां इव विद्युतः स्फुटा
घनेषु कुञ्जध्वनियोषिताङ्गणाः ॥ ७-
प्रफुल्लचाम्पेय वनोल्लसल्लता
शतोपशङ्कं ययिता समीरणः ।
तनुष्विवानन्द परंपरां परां
तनोति तारुण्यभृतोन्नतद्भ्रुवाम् ॥ ७-
सख्यः कुशेशयदृशो विलसद् विभूषाः प्रोत्तुङ्गपीनकुचमण्डललम्बिहाराः ।
काश्मीरनीरलुलिताम्बररश्मिमाला
निर्भत्सितोदितदिवाकरबिम्बशोभाः ॥ ७-
दिव्यन्ति यत्र सुरसिद्धदुरापलोकाः
श्रुत्युल्लसत्कनककुण्डललोलगल्लाः ॥ ७-
द्युमणिमणिसमुद्यत्कान्तिसन्दोहरम्याः [द्युमणिः=अम्बरमणिः सूर्य इत्यर्थः द्युमणिमणि=सूर्यकान्तमणिः ।] विशदमरकतानामंशुकिर्मीरिताश्च ।
प्रचलदचलशोभैः पद्मरागैः सरागैः
प्रकटपरमशोभा भूमयो यत्र भान्ति ॥ ७-
नीलाद्रिकान्तिसन्दोहैरूर्ध्वगैः सर्वतः प्लुतैः ।
दूरादाभाति वसुधा हरितृणमयाङ्कुरा ॥ ७-
परापरविभागेन नीलपुष्पमयौ गिरी ।
नानाश्चर्यमयौ दिव्यौ दिव्योद्यानमनोहरौ ॥ ७-
स्फुरन्मयूखमालाभिः प्रकाशितदिगन्तरः ।
पद्मरागाचलः श्रीमानास्ते यत्र महाद्धिंमान् ॥ ७-
सरांसि यत्र भूयांसि चित्सुधारसवन्ति च ।
विलसन्ति महारत्नशिलाबद्धानि सर्वतः ॥ ७-
यत्रोद्यानलताकुल्या वमन्ति मधुरां सुधाम् ।
यूथशः खेलमानास्ताः पिबन्त्यानन्दनिर्भराः ॥ ७-
यत्रैव कुञ्जसदनानि हसन्मुखानि
व्याकीर्णकाञ्चनभुगासनमण्डितानि ।
प्रत्याहसन्मणिविजृम्भितकुट्टिमानि
कूजद्विहङ्गमकुलानि शिवानि नित्यम् ॥ ७-
स्फूर्जन्मणिप्रविततिर्वितनोति लक्ष्मीं
विस्फूर्जदूरुशशिकान्तशिलातलेषु ।
कूलप्ररूढनलिनीदलरश्मिबिम्बा
रूढेषु कामपि नितान्त मुदः प्रणाली ॥ ७-
वैदूर्यवीरुध इह प्रतिभान्ति विष्वक्
यासूल्लसन्त्यरुणविद्रुमनर्त्तनानि ।
दूरादुपेतसितमौक्तिकरश्मिलेश
शोभां दधाति विमलां विलसन्तमार्याम् ॥ ७-
यत्रैव चम्पकवनानि जयन्ति विष्वक्
मत्तभ्रमद् भ्रमरदूरतरोज्झितानि ।
प्रत्युन्नदन्ति विटपेष्वनिशं द्विजेन्द्रा
गीतध्वनिं सुखसमीरसमुन्नमत्सु ॥ ७-
श्यामोदरद्युतिसरोजवनीस्थिताभिः
कान्तिच्छटाभिरभितोघृतदुर्दिनेषु ।
प्रोत्फुल्लपङ्कजकदम्बपरागपुञ्जो
विद्युच्छविं वहति गन्धवहः प्रणुन्नः ॥ ७-
क्रीडासरः स्फुटमुदञ्चति कुञ्जलीन-
गुञ्जद्द्विरेफपटलाकुलपङ्कजश्रिः ।
वप्रप्ररूढगुणरूढकदम्बलम्बद्
दोलासहस्रकमनीयगुणं गुणोरु ॥ ७-
दूरादिहाद्रितनये कमलाकराणा-
मुद्यत्परागपटलैश्च समीरवेगात् ।
स्फारीभवत्सुरभिगन्धसुधामयाम्भश्-
चेतःसरो रमयतीत्यनुरागिभावम् ॥ ७-
मध्योल्लसद्विपुलविद्रुमदेहलीक-
विश्रान्तिमण्डपसमृद्धसमस्तभोगम् ।
सोपानवर्त्मसु निविष्टसखीसहस्र-
व्याहन्यमानमृदुमर्दलपूर्णकुञ्जम् ॥ ७-
उद्यन्मयूखमयशुद्धसुधातिवर्षै-
रत्नेन्दुरुल्लसति नित्यमनस्त भावः ।
नित्याभिरन्विततमः स्वकलाभिरन्तः
शुद्धेतरप्रथितपक्षविपक्षधामा ॥ ७-
यत्रामृताम्भोनिधिमध्यविस्फुर-
द्रत्नोल्लसद् द्वीपनिवेशमद्भुतम् ।
चकास्ति तस्मिन्परमाद्भुतं मह-
न्नैकेन भास्वन्मणिना विनिर्मितम् ॥ ७-
निजालयं मन्दिरमद्भुताकृतिं
महामणिस्तम्भविराजमानम् ।
समोदितानेकर्दिवाकरेन्दुरुक्-
प्रभावनिर्भर्त्सनरत्नमण्डितम् ॥ ७-
नानाविधानन्दविहारभूमिका
दशैव यस्मिन् प्रतिभान्ति पेशलाः ।
विहारशययासनचारुचामरा-
मृतानुलेपोत्तमगन्धसाधना ॥ ७-
गवाक्षमालापथचारिभिर्महा-
गरुद्भवैर्धूमवरैः सुगन्धिभिः ।
इतस्ततः केलिवनानिलोद्धतैः
सुवासयन्त्यो वनपुष्पसम्पदः ॥ ७-
क्वचिद्दिनमणिज्योत्स्नाजालैर्मध्याह्नसूचकम् ।
क्वचिदञ्जनसङ्काशैर्मणिभिर्दर्शितक्षपम् ॥ ७-
उदितार्कमिवान्यत्र पद्मरागप्रभारुणम् ।
सन्ध्यायमानमेकत्र इन्द्रनीलमणित्विषा ॥ ७-
जलजाकृतिमत्यम्ब चतुरस्रा च वेदिका ।
तस्याश्चतुर्षु कोणेषु हेमकुंभाः सुधाभृताः ॥ ७-
रत्नपङ्कजसंशोभैर्मुखा यत्र चकासते ।
मुक्तामयवितानानि मणिभूमिप्रभाङ्कुरैः ॥ ७-
निर्भिन्नानीह लक्ष्यन्ते नानाचित्राकृतीनि च ।
कर्णिकावन्महासौधं परितस्तस्य सुन्दरि ॥ ७-
द्वादशैव सहस्राणि प्रियाणां सोधपङ्क्तय ।
प्रवालदेहलीकानि मणिद्वाराणि पार्वति ।
मुक्तातोरणवन्त्युच्चैर्नानाश्चर्यमयान्यपि ॥ ७-
नानावर्णैर्महाचित्रैश्चित्रितानि समन्ततः ।
गवाक्षमालाविलसन्मणिदीपोज्ज्वलानि च ॥ ७-
दीर्घिकाभिश्च दीर्घाभिर्विकचोत्पलपङ्क्तिभिः ।
गाहमानाभिरनिश सखीवृन्दैर्विभूषितैः ॥ ७-
क्वणत्कनकभूषाढ्यैः कौशम्भाम्बरशोभितैः ।
नानाकेलिरसास्वादविघूर्णितविलोचनैः ॥ ७-
महाद्वारमहं वन्दे भास्वद्रत्नकपाटकम् ।
सन्मुखं दूरतो यस्य विभाति यमुना नदी ॥ ७-
तत्प्राऽऽगणं कुङ्कुमपङ्कपिच्छलं
समुद्यदादित्यसहस्रभास्वरम् ।
मुक्तामयूखावलिमिश्रितैर्महा-
मणिप्रकाशैररुणीकृतान्तरम् ॥ ७-
यत्र कार्त्तस्वरमयी पर्यस्तमणिमौक्तिका ।
परमानन्दभवनं विभाति विविधास्थली ॥ ७-
सव्यापसव्ययोर्यस्य पुरश्च सुरवन्दिते ।
कुट्टिमानि विचित्राणि भान्ति भूयांसि यत्र वै ॥ ७-
यत्र जाम्बूनदस्तम्भेष्वारोपितमणिव्रजाः ।
प्रपुष्णन्ति महीदीपशोभामधूतवर्चसः ॥ ७-
तन्मध्यतो जयति कश्चिदनर्ध्यमुक्ता
माणिक्यराशिरचितो विलसत्पताकः ।
वैदूर्यविद्रुमविनिर्मितदेहलीकः
श्रीमण्डपः कुसुमराशिभिरुद्यतश्रीः ॥ ७-
नृत्यन्ति कूजदलघुध्वनिनूपुराणां
केयूरचारुवलयावलिभासुराणाम् ।
यूथानि सस्मितमुखद्युतिनर्त्तकीना-
मादर्शिताभिनयमुच्चलकुण्डलश्रीः ॥ ७-
यत्रेन्द्रनीलमणिनिर्मितनीलपद्मे-
षूद्भ्रान्तभृङ्गवनितापटलीविभाति ।
यत्रोल्लसत्स्फटिकभूमितलोपविष्टा-
हंसाविशेषमभजन्पदचञ्चुभासा ॥ ७-
आमोदमोदितदिगन्तरभृङ्गसङ्घ-
कल्पद्रुकोमलपरागसरागमार्गे ।
मन्मानसं गिरिसुते सितसैन्धवीयः
खण्डो निमज्जतु महामणिमण्डपान्तः ॥ ७-
यमुनायाः परे कूले निजं धाम प्रतिष्ठितम् ॥ ७-
अपरस्मिन् महेशानि धाम स्यादक्षरस्य तु ॥ ७-
धाम्नोभिमुखमीशानि वनान्युपवनानि च ।
चिदानन्दमयी वापी मणिमण्डपमण्डिता ॥ ७-
पारिजातवनं यत्र प्रवालकुसुमोज्ज्वलम् ।
पद्मरागमयाकारनानावृक्षैर्विराजितम् ॥ ७-
वैदूर्यमयवल्लीनां पद्मरागपलाशकैः ।
मुक्तास्तबकयुक्तैश्च काञ्चनाङ्कुरसंगतैः ॥ ७-
यूथैर्विराजितं विष्वक् नानाक्रीडारसालयम् ।
सपादलक्षयोजनानां संख्यायां विमलं सरः ॥ ७-
मणिरत्नशिलाबद्धमणिकुट्टिममण्डपम् ।
प्रवालपद्मरागाद्यैः कॢप्तसोपानसुन्दरम् ॥ ७-
तत्रस्था भर्त्तुरुद्दाम यशो गायन्ति योषितः ।
काश्चिल्लम्बन्ति दोलाभिर्गायन्त्यो मधुरस्वरम् ॥ ७-
काश्चिन्मृदङ्गवीणाद्यैर्नांनाक्रीडारसोज्ज्वलाः ।
खेलन्ति परमानन्दाः सखीसख्यो मुदान्विताः ॥ ७-
महापद्मवनं यत्र पद्मरागमयाम्बुजम् ।
वैदूर्यदण्डपत्रालिस्फुरद् वैडूर्यपद्मिनी ॥ ७-
प्रवालकेसरोद्भासिदिव्यगन्धमनोहरम् ।
सृजद्वितानमाकाशे रजोभिर्वायुनोद्धतैः ॥ ७-
संख्यया परितो देवि लक्षयोजनविस्तृतम् ।
यद्गन्धानन्दसंसर्गात् ब्रह्मानन्दपरम्पराः ॥ ७-
अप्रार्थनीयतमाभान्ति केनचित्सर्वथा सदा ।
रमते भगवान् क्वापि सप्रियाभिः समन्वितः ॥ ७-
वसन्ते कुंकुमाम्भोभिर्जलयन्त्रैर्विनिर्गतैः ।
वसन्तपुष्पाभरणैः स्फुरन् मुक्ताविभूषणैः ॥ ७-
प्रच्छन्नाभिः प्रकाशाभिः क्रीडाभिरितरेतरम् ।
नानापरिमलोद्गारैर्नानापक्षिगणस्वनैः ॥ ७-
पिककोलाहलैर्दिव्यैर्नित्यानन्दविवर्द्धनैः ।
स्फुरत्तडितमेघालिध्वनन्नभसि प्रावृषि ॥ ७-
भूमिकासु सखीवृन्दैर्गायमानः प्रमोदते ।
एवं क्रमेण भगवान् क्रीडते ऋतुचर्यया ॥ ७-
कदाचिन्मणिगेहस्थकुट्टिमे सुमनोहरे ।
चतुर्दिक्षुमहारत्नस्तम्भैः षोडशभिर्युतैः ॥ ७-
अन्योन्यप्रतिबिम्बत्वादन्योन्येतरथागतैः ।
प्रियामध्यगतो भाति तारामध्ये यथा शशी ॥ ७-
नानानर्मविनोदैश्च नानाक्रीडाकुतूहलैः ।
रमते भगवान् यत्र स्वय रसमयः पुमान् ॥ ७-
अक्षरः परमात्मा च पुरुषोत्तमसंज्ञकः ।
उभावप्येक एवार्थो लीलाभेदेन सुन्दरि ॥ ७-
अक्षरे सृष्टिकर्तृत्वान्न शृङ्गाररसोदयः ।
अमायत्वाद्रसात्मत्वान्नापरः सृष्टिकृत्प्रिये ॥ ७-
दिदृक्षा ह्यक्षरस्यासील्लीलाया दर्शने प्रिये ।
पूर्णप्रियाप्रेम पश्ये विलसत्पुरुषोत्तमे ॥ ७-
तज्ज्ञात्वा पुरुषः श्रेष्ठः प्रियास्विच्छां दधे प्रिये ।
प्रार्थयामासुरेतास्तं श्रीस्वामिन्या समन्विताः ॥ ७-
सख्य ऊचुः
भो भो स्वामिन्परानन्द परात्परतर प्रभो ।
वयं प्रियाः प्रियोऽसि त्वं तस्मान्नः प्रियमाचर ॥ ७-
अक्षरात्मा तु भगवान् या लीलाः सृजते प्रभुः ।
अस्माभिर्नानुभूतास्ताः कीदृशीः किंविधा इति ॥ ७-
तद्दिदृक्षितचित्तानां कामो नः प्रतिबाधते ।
कारयानुभवं तस्याः कारुण्येन कृपानिधे ॥ ७-
श्रीकृष्ण उवाच
प्रियाः शृणुत मे वाक्यं सावधानेन चेतसा ।
न यूयं दर्शने योग्याः नित्यानन्दपदे स्थिताः ॥ ७-
यत्रानन्दस्वरूपस्य हानिर्भवति सर्वथा ।
त्रिगुणायास्तु लीलाया दर्शनेन प्रियंवदाः ॥ ७-
मायावेशाद्विचित्रत्वं भावरूपात्मनां भवेत् ।
स्वलीलासहितं मां च न द्रक्ष्यथ कदाचन ॥ ७-
दुःखानुभव एवास्ति न सुखस्य कदाचन ।
विस्मरिष्यथ मां तत्र किमन्यत्तु वदामि भोः ॥ ७-
इत्युक्तास्ताः प्रियाः सर्वाः प्रत्यूचुः पुरुषोत्तमम् ।
तथापि प्रिय तत्सर्वं नानुभूतं कदाचन ॥ ७-
तस्मादनुभवारूढ यथा भवति तत्कुरु ।
दुःख कामो विना दुःखदर्शनं न निवर्तते ॥ ७-
विना दुःखं न च सुखं स्वरूपेण प्रतीयते ।
तस्मात्साधय नः कामं गुणलीलानुदर्शने ।
एवमुक्ते प्रियाभिस्तु तथास्त्विति जगाद सः ॥ ७-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे सप्तमं पटलम् ॥ ७-
अथ अष्टमं पटलम्
शिव उवाच
इच्छया ससृजे निद्रा त्रिगुणा मोहरूपिणी ।
तथा विस्रंसितज्ञानो मुमोह जगदीश्वरः ॥ ८-
मोहरूपं तदज्ञानं यस्य शक्तिद्वयं प्रिये ।
आवरणा प्रथमा देवि विक्षेपात्मा परा मता ॥ ८-
स्वप्रकाशं यथा दीपमभ्रपत्रावृतिर्यथा ।
निगुह्येतं जितानेन नानाभावान्प्रदर्शयेत् ॥ ८-
एवं कूटस्थपुरुषमावृत्यावरणात्मिका ।
ततो विक्षेपरूपेण विश्वमात्मन्यदर्शयत् ॥ ८-
शक्तिद्वयसमापेतमज्ञानमिति तद्विदुः ।
यथा शयानः पुरुषो जाग्रद्दृष्टं विमुञ्चति ॥ ८-
तद्वासनावासितायां बुद्धौ स्वप्नं प्रपश्यति ।
यथा ददर्शविश्वात्मा स्वप्नारूढं जगत्प्रिये ॥ ८-
यथाशयानः पुरुषः स्वप्ने राजा यथा भवेत् ।
राजदेहेन प्रकृतीः सर्वा एव नियच्छति ॥ ८-
तथा नारायणं रूपं धत्ते देवश्चिदात्मकः ।
तेन रूपेण देवेशि स्वप्नलीलां प्रपश्यति ॥ ८-
सत्वं रजस्तम इति पृथिव्यादीनि सुन्दरि ।
तत्र जातानि देवेशि येभ्योऽण्डमभवत्प्रिये ॥ ८-
तत्र जाता इमे लोकाः सप्त चोर्ध्वमधस्तथा ।
सप्तार्णवाः सप्तद्वीपा जम्बूद्वीपस्तु मध्यगः ॥ ८-
तन्मध्ये भारतं वर्षं माथुरं तत्र मण्डलम् ।
तन्मध्ये गोकुलं जातं स्वाप्निकं सुरसुन्दरि ॥ ८-
बहिर्वत् भासते विश्वं निद्रयान्तर्गतं प्रिये ।
ब्रह्मसत्तैव तत्सत्ता पृथक् सत्ता न विद्यते ॥ ८-
भित्यन्तर्गतचित्राणि यथाधिष्ठानतः पृथक् ।
न सन्ति देवदेवेशि तदा त्रासमयान्यपि ॥ ८-
एवं विश्वमयं चित्रं आत्मभित्तिमधिंष्ठितम् ।
न पृथक् देवि कुत्रापि पृथक् जानन्त्यपण्डिताः ॥ ८-
ब्रह्मगुह्यमिदं देवि वक्तुं जिह्वा जडायते ।
गात्राणि शिथिलायन्ते वाणी मे गद्गदायते ।
तथापि प्रेमवशगो दिङ्मात्रं प्रब्रवीमि ते ॥ ८-
एकदा पुरुषः साक्षात्पुरुषोत्तमसंज्ञकः ।
सखीनां मण्डलगतः स्वामिन्या श्लिष्टया प्रभुः ॥ ८-
रत्नसिंहासनासीनः पदाक्रान्तमहीतलः ।
पाणिना भ्रामयन्पद्मं पदावष्टब्धविग्रहः ॥ ८-
दिव्यक्रीडारसानन्दो दिव्यभूषणभूषितः ।
दिव्यमाणिक्यमुकुटो दिव्यकुण्डलमण्डितः ॥ ८-
निश्चलालिकुलाकारकुटिलः स्निग्धकुन्तलः ।
शरत्पद्मलसद्वक्रो नयनानन्दवर्षणः ॥ ८-
दिव्यहीरालिदशनः प्रवालदशनच्छदः ।
अनङ्गधनुराकारकुटिलभ्रूलतोत्सवः ॥ ८-
स्मितमाधुर्यविजितमाधुर्यरससागरः ।
कम्बुकण्ठलसद्रेखात्रयशोभामनोहरः ॥ ८-
मुक्ताहारलसद्वक्षः स्फुरमाणमणिप्रभः ।
कांचीकपालविस्फूर्जत्किंकिणीजालमण्डितः ॥ ८-
वलयांगदकेयूरोर्मिकावृन्दविभूषितः ।
सुनासः सुन्दरमुखः स्मितोदारमुखाम्बुजः ॥ ८-
दिव्यगन्धानुलिप्तांगो दिव्याम्बरविभूषितः ।
सुधासमुद्रलहरीशीतलाकृतिसुन्दरः ॥ ८-
गंभीरावर्तनाभ्युद्यत्तनुरोमलतांकुरः ।
स्वामिनी संस्थिता तस्य वामदेशे सहासना ॥ ८-
अचञ्चलतडित्कोटिद्युतिभूषणभूषिता ।
दिव्यधात्रीफलस्थूलनासानटितमौक्तिका ॥ ८-
शृङ्गाररससम्पूर्णनेत्रान्दोलनविभ्रमैः ।
विलुम्पन्तीव देवेशि भर्त्तुश्चित्तगभीरताम् ॥ ८-
मधुरोल्लापमाधुर्यविनिर्भर्त्सितकच्छपी ।
मन्दर्स्मितप्रभापूरमज्जत्प्राणेशमानसा ॥ ८-
मुखामोदविलुब्धालिझङ्कारोद्विग्नलोचना ।
भ्रूलताजितकन्दर्पवरकार्मुकविभ्रमा ॥ ८-
मणिमजीरनिर्ह्रादविमोहितमरालिका ।
नखेन्दुरुचिसदोहमज्जन्नूपुरमण्डला ॥ ८-
आनन्दसागरोद्वेलविधूपममुखाम्बुजा ।
कुचकुम्भलसन्मुक्ताहारभारमनोहरा ॥ ८-
ग्रैवेयाभरणोद्दीप्ता क्रम्बुकण्ठी शुचिस्मिता ।
सख्यः प्रियां पुरस्कृत्य प्राहुः प्राणेश्वरं मुदा ॥ ८-
सख्य ऊचुः
प्राणनाथ प्रियायास्ते मनोरथमहाद्रुमः ।
फलितो नैव दृश्येत त्वयि भर्त्तरि किं पुनः ॥ ८-
मनोरथविघातेन धुनोत्येव प्रियामनः ।
बाललीलादिदृक्षास्मान् बाधते हृदयस्थिता ॥ ८-
यथेन्दोश्चन्द्रिकायाश्च यथा कुसुमगन्धयोः ।
शब्दार्थयोर्यथैवेश यथा बह्न्यर्चिषोः प्रभो ॥ ८-
अनाद्यभेदो देवेशि स्वामिन्यापि तथैव ते ।
अस्माकमपि भो स्वामिन् स्वामिन्यापि तथैव सः ॥ ८-
कस्य हेतोर्न कुरुषे तन्मनोरथपूरणम् ।
अविलम्बितमेवैतत्कुरुष्व हृदयस्थितम् ॥ ८-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे अष्टमं पटलम् ॥ ८-
अथ नवमं पटलम्
श्री शिव उवाच
अथ श्रुत्वा सखीवाक्यं दर्शनावश्यकं प्रिये ।
तूष्णीं स्थितोऽपि मनसा मेने सर्वं भवत्विति ॥ ९-
स्वामिनीसहिताः सर्वाः सख्यस्तन्मुखपङ्कजम् ।
वीक्ष्यमाणा इवातस्थुः प्रभुश्चापि तथा स्थितः ॥ ९-
वासनांशैर्गताः सर्वा मथुरामण्डलस्थिते ।
गोकुले गोपिका जाता गोपगेहेषु ताः पृथक् ॥ ९-
वृषभानुगृहे जाता राधिकेति च विश्रुता ।
स्वामिनीवासनालेशः केनाप्यंशेन सुन्दरि ॥ ९-
तत्सख्यश्चापि सञ्जातास्तासां नामानि कानिचित् ।
कथयिष्यामि देवेशि शृणुष्वैकाग्रमानसा ॥ ९-
सुन्दरी स्वर्णवर्णा च रम्याङ्गी स्वर्णमालिनौ ।
ललिता चित्रवर्णा च विशाखा विजया जया ॥ ९-
सुकुण्डला कुण्डलिनी मालिनी स्वर्णंमञ्जरी ।
मञ्जुघोषा विचित्रा च देवसेना वरूथिनी ॥ ९-
गौरी चित्राम्बरा तन्वी चन्द्रलेखा मनोजवा ।
अजिता जयिनी श्यामा बलाकी विमलप्रभा ॥ ९-
तारा कुरङ्गनयना कमला वनमालिका ।
नित्या विलासिनी ताम्रा अनङ्गानङ्गमालिनी ॥ ९-
अनङ्गमेखला माध्वी मोहिनी मदनावती ।
पुष्पावती हेमलता हेममाला मनोजवा ॥ ९-
कर्पूरगन्धा काश्मीरी पद्मगन्धा विहारिणी ।
हंसिनी चित्रिणी चित्रा सुनन्दा बिन्दुमालिनी ॥ ९-
मनोजापाङ्गलालित्या वैताली विमलप्रभा ।
पद्मरागा विचित्राङ्गी नित्यानन्दा निरङ्कुशा ॥ ९-
इत्येवं कोटिशः ख्याताः सख्यः कुवलयेक्षणाः ।
न संख्यया परिच्छेद्या नित्यवृन्दावनाश्रयाः ॥ ९-
तासां द्वादशसाहस्री संख्या प्रोक्ता तथापि या ।
अन्तःपुरगतानां च रहोमिलितचेतसां ॥ ९-
जाग्रत्स्वप्नं गताः सर्वाः स्वात्मानं ददृशुस्तदा ।
नन्दव्रजमिवोपेतमनुल्लङ्घितकेतनाः ॥ ९-
यथा समीरवेगेन नीयते पद्मसौरभः ।
न पद्मस्याधिकं किञ्चिन्न्यूनं वा भवति प्रिये ॥ ९-
तथा मोहेन ता नीता अपि स्वप्नं परात्मनः ।
अनुभूतवन्त्यस्तास्तत्र स्वप्नमायामनोरथम् ॥ ९-
परात्मा भगवांश्चापि लीलामेतां ददर्श सः ।
पार्वत्युवाच
नन्दगोपव्रजं प्राप्ताः सख्यो या भवतोदिताः ।
कूटस्थलीलानुभवप्रकारं वद शङ्कर ॥ ९-
परात्मा भगवांश्चापि कथं लीलां ददर्श सः ।
कीदृशी सा भवेल्लीला सगुणानिर्गुणापि वा ॥ ९-
अनित्या वाथ नित्या वा यथार्थं ब्रूहि शङ्कर ।
शिव उवाच
शृणु पार्वति वक्ष्यामि तव प्रश्नान् सुगोपितान् ॥ ९-
न नास्तिकेभ्यो धूर्तेभ्यो हैतुकेभ्यः सुरेश्वरि ।
न वेदनिन्दकेभ्यश्च नाविश्वासाय कर्हिचित् ॥ ९-
वेदशास्त्रपुराणादिश्रद्धापूतान्तरात्मने ।
अनिन्दकाय शुद्धाय सर्वत्र ब्रह्मदर्शिने ॥ ९-
अलोलुपाय शान्ताय निर्मलाय महेश्वरि ।
कृतज्ञाय क्रियाकाण्डाचारसंशुद्धचेतसे ॥ ९-
स्नानदानदयादाक्ष्यदमाद्यमलमूर्त्तये ।
परीक्ष्य शतधा देवि दद्यान्नान्यत्र कर्हिचित् ॥ ९-
स्नेहाद्वा धनलोभाद्वा अज्ञानाद्वा भयादपि ।
प्रकाशयति मूढात्मा नारक्याचन्द्रतारकम् ॥ ९-
तस्मात्त्वयापि देवेशि गोपितव्यं सुरेश्वरि ।
सखीनां ब्रह्मलीलाया दर्शनं तु यथा भवेत् ॥ ९-
तत्प्रकारं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा ।
मथुराधिपतिः कंसः उग्रसेनसुतः खलः ॥ ९-
श्रुत्वात्ममृत्युं देवक्याः पुत्रद्वारेण दुष्टधीः ।
भगिनीं हन्तुमारेभे खङ्गेन तरसा बली ॥ ९-
वारितो वसुदेवेन नीत्या चाध्यात्मशिक्षया ।
न निवृत्तः खलः पापस्तदीपायमचिन्तयत् ॥ ९-
न चास्यास्ते भयं वीर पुत्रेभ्यश्चेद्भयं तव ।
समर्पयिष्ये तान्पुत्रान्यानसौ प्रसविष्यति ॥ ९-
न सन्देहस्त्वया कार्यो यतः सत्यमयः पुमान् ।
सत्ये नष्टे स्वयं नष्टो विशतेन्धं महत्तमः ॥ ९-
इत्युक्तो मोहितमतिर्मुमोच भगिनीं खलः ।
तया प्रसूतः समये पुत्रः पावकसन्निभः ॥ ९-
तमादाय गतः कंसं वसुदेवः प्रसादयन् ।
अर्पयामास तनयं कंसायात्मजमृत्यवे ॥ ९-
औग्रसेनिस्तु तं दृष्ट्वा प्रसन्नेनान्तरात्मना ।
प्रत्यपर्यन् सुतं प्राह प्रसन्नोऽहं तवानघ ॥ ९-
न चास्मान्मे भयं शूर तस्मान्नो हन्मि ते शिशुम् ।
युवयोरष्टमाद्गर्भान्मृत्युर्मे संश्रुतः पुरः ॥ ९-
वृथा किमर्थं ते बालान् हन्मि लोकविगर्हितः ।
अष्टमस्तु यदा पुत्रो भविष्यति तवानघ ॥ ९-
तदा मां तूर्णमासाद्य निवेदयतु वै भवान् ।
स्वस्त्यस्तु ते चिरं याहि मा भयं धेहि सर्वथा ॥ ९-
इति कंससमादिष्टो वसुदेवो महाशय ।
निवृत्तः सुतमादाय कंसवाक्ये ससंशय ॥ ९-
ततो नारदवाक्येन विमोहितमतिः खलः ।
अहनत्तं सुतं भूयस्तत्र गत्वा रुषान्वितः ॥ ९-
जग्राह निगडे चोभौ वसुदेवं च देवकीम् ।
यान्यान्पुवान्प्रसुश्रुवे मारयामास तान् खलः ॥ ९-
दधार सप्तमं गर्भं शेषसंज्ञं सुदुःसहम् ।
आदिष्टा देवदेवेन योगमाया महेश्वरि ।
गर्भमाकृष्य देवक्या रोहिणीं प्रणिनाय सा ॥ ९-
स्वयं प्रादूरभूत्तस्मिन् देवकीजठरे प्रभुः ।
शङ्खचक्रगदापद्मधरश्चारुचतुर्भुजः ॥ ९-
पीतवासा घनश्यामः स्फुरन्मकरकुण्डलः ।
स्फुरन्माणिक्यमुकुटो वलयाङ्गदभूषितः ॥ ९-
वसुदेवस्तु तं दृष्ट्वा विस्मयोदारलोचनः ।
तुष्टावोपनिषद्वाग्भिस्ततस्तुष्टोऽब्रवीद्वचः ॥ ९-
विष्णुरुवाच
त्वयाहं तोषितः पूर्वं तपसा दुश्चरेण हि ।
पृश्निगर्भेति विख्यातो नाम्ना पत्रोऽभवं तव ॥ ९-
द्वितीये जन्मनि तथा कश्यपस्त्वं प्रजापतिः ।
उपेन्द्र इति विख्यातिं गतोऽहं यदुनन्दन ॥ ९-
वसुदेव तृतीयेस्मिन् भवे जातो भवद्गृहे ।
मुक्तिदानाय भवते प्रादुर्भूतोऽस्मि साम्प्रतम् ॥ ९-
नय मां गोकुलं यत्र यशोदा नन्दगेहिनी ।
तत्र जाता महामाया तां नयस्व स्वकं गृहम् ॥ ९-
तव मास्तु भय क्वापि कंसान्मज्ज्न्मशङ्कितात् ।
इत्युक्ता देवदेवेशो दम्पत्योः पश्यतोः पुरः ॥ ९-
अक्षरस्य तु या चित्तवृत्तिर्लीलावलोकने ।
तदुपाधिकतत्सत्तारूपे व्यूहत्त्वमागतः ॥ ९-
बभूव द्विभुजः सद्यः शिशुभावं गतः प्रभुः ।
तस्मिन्नाविविशे साक्षाद्रसरूपी स्वयं प्रभुः ॥ ९-
निनाय गोकुले नन्दगेहं निद्राविमोहिते ।
आदाय योगनिद्रां तां वसुदेवो गृहं गतः ॥ ९-
देवकीप्रसवं प्रातः कंसायाचख्युरुत्सुकाः ।
गृहपाला ध्वनिं श्रुत्वा बालस्येति त्वरान्विताः ॥ ९-
कंसस्त्वरितमागम्य हठादाक्षिप्य तां खलः ।
भूपृष्ठे प्रोथयद्देवीं ततः सा दिवमुत्पतत् ॥ ९-
सा प्रोवाच वचः क्रुद्धा हरिजातस्तवान्तकृत् ।
यो वेदधर्मरक्षार्थं पाखण्डविनिवृत्तये ॥ ९-
असुराणां विनाशार्थमाविर्भवति लीलया ।
युगान्ते तमसा ग्रस्तान् वेदानुद्धर्त्तुमिच्छया ।
मत्स्यरूपी स्वयं जातः सर्वज्ञः सर्वशक्तिमान् ॥ ९-
कूर्मरूपेण यः पृष्ठे दधार मन्दराचलम् ।
उद्दिधीर्षुर्भुवं मूढ योऽसृजत् शौकरीं तनुम् ॥ ९-
स्वभक्तद्रोहिणं हन्तुं त्रातुं भक्तजनं तु यः ।
नृसिंहरूपी यः स्तम्भात्प्रादुरासीत्कृपानिधिः ॥ ९-
आत्मानं वामनं कृत्वा भक्तकार्यार्थमुद्यतः ।
बलिं बध्वा मघवते त्रिलोकीमददात्प्रभुः ॥ ९-
क्षत्रियान् दुर्नयान् दृष्ट्वा जमदग्निगृहे तु यः ।
जातश्चकार पृथिवीं क्षत्रवीजविवर्जिताम् ॥ ९-
योऽसौ दाशरथिर्भूत्वा रावणं लोकरावणम् ।
जघान समरे दुष्टं शरण्यः शत्रुसूदनः ॥ ९-
कलौ जनिष्यमाणानां असुराणां दुरात्मनाम् ।
वेदमार्गप्रवृत्तानां अतदर्हतया तु यः ॥ ९-
अरुच्युत्पादनार्थाय नानापाषण्डकल्पनाम् ।
कृत्वा विनाशमेतेषां करिष्यति परः प्रभुः ॥ ९-
स जातो यत्र कुत्रापि मृत्युस्तव विमूढधे ।
इत्युक्त्वान्तर्दधे माया कंसस्तु विमनाः स्थितः ॥ ९-
इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे नवमं पटलम् ॥ ९-
अथ दशमं पटलम्
शिव उवाच
अथ नन्दगृहे जातः प्रातरेव महोत्सवः ।
नन्दः स्नातः शुचिर्विप्रानाहूयागमपारगान् ।
ददौ महामना गावो वासांस्याभरणानि च ॥ १०-
गोपा गोप्यो ययुर्हृष्टा नानाभूषाम्बरावृताः ।
नन्दं वर्धापयामासुराशीर्भिः सर्वतोमुखम् ॥ १०-
यशोदां च महाभागां गत्वा गोप्योऽति हर्षिताः ।
उत्सुकानि मनांस्यासां बभूवुः कृष्णदर्शने [ब्रह्मसृष्टिभ्यः तदानीं किशोरस्वरूपेण श्रीकृष्णो निजदर्शनं दत्तवान् ।] ॥ १०-
श्रीकृष्णदर्शनानन्दनिमग्ना निजमूर्त्तयः ।
बभूवुर्गोपिकाः सर्वाः निजलोकं गता इव ॥ १०-
गृहे गृहे समभवन्महोत्सवपरम्पराः ।
याचका वन्दिनः सूता मागधाः समुपाययुः ॥ १०-
तेभ्यो ददौ महार्हाणि भूषावासांसि गोपराट् ।
अथ कंससमादिष्टा पूतना बालघातिनी ॥ १०-
निघ्नन्ती बालकान् जातान् चचार परितो व्रजम् ।
शिशवस्ते पराभूताः प्रविष्टाः पूतनान्तरम् ॥ १०-
नन्दगृहे पुत्रजनिं श्रुत्वा तस्य जिघांसया ।
कृत्वा विमोहनं रूपं दिव्यालङ्कारचर्चितम् ॥ १०-
दिव्यमालाम्बारधरं दिव्यगन्धमनोहरम् ।
मनोहरन्ती नन्दस्य प्रविवेश शनैर्गृहम् ॥ १०-
अथ सा सूतिकागारमभ्येत्य क्रूरनिश्चया ।
मोहयित्वा वचोभिस्तां बहिःप्रेमनिरूपितैः ॥ १०-
सुप्ताहिमिव जग्राह बालं कमललोचनम् ।
अङ्कमारोप्य बहुधा लालयन्ती शुचिस्मिता ॥ १०-
ददौ हालाहलालिप्तं स्तनं तन्मुखपङ्कजे ।
तदन्तःस्थशिशृन् प्राणान् पूतनायाः पपौ हरिः ॥ १०-
सार्द्धयोजनविस्तारो देहस्तस्या महीतले ।
पपात पातध्वनिना कम्पयन् व्रजमण्डलम् ॥ १०-
स्तन्यं हालाहलमयं हरये परमात्मने ।
दत्वापि सद्गतिं प्राप्ता किं पुनः साधुकारिणः ॥ १०-
पार्वत्युवाच
व्रज्रस्थाः शिशवो ये च तया व्यापादिता इति ।
पूतनायां स्थितान् सर्वान् तत्प्राणैरपिबद्धरिः ॥ १०-
इति यद्भवता प्रोक्तं के तेऽत्र शिशवः प्रभो ।
शिव उवाच
एकदा ब्रह्मणः सत्रे देवगन्धर्वपन्नगाः ॥ १०-
सिद्धा विद्याधराः सर्वे समाजग्मु महर्षयः ।
आदित्या वसवो रुद्रा मरुतः पितरस्तथा ॥ १०-
अग्नयो वायवश्चान्ये तेषामासीन्महासदः ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ १०-
अप्सरोदर्शनक्षुब्धस्मरग्रस्तोन्यथा मतिः ।
न शशाक मनो यन्तुं यतन्नपि पितामहः ॥ १०-
चस्कन्द रेतस्तस्याशु तपो विद्यामयं महत् ।
अज्ञात्वा तस्य संस्थानं कुण्डाग्नावजुहोत्प्रभुः ॥ १०-
अग्निमध्यात्समुद्भूताः कुमारा वह्नितेजसः ।
बद्धाञ्जलिपुटाः सर्वे प्रणेमुस्ते पितामहम् ॥ १०-
ब्रह्मन् पितासि नः कामं वयं ते तनयाः प्रभो ।
उत्पादिताश्च भवता किंकुर्मस्तदुदीर्यताम् ॥ १०-
ब्रह्मोवाच
अग्नौ क्षिप्तं मया रेतस्तपोविद्यामयं शुभम् ।
तत्र जाता भवन्तो हि तस्मादग्निकुमारकाः ॥ १०-
दण्डकारण्यमासाद्य तपश्चरत पुत्रकाः ।
इत्युक्ता ब्रह्मणा सर्वे दण्डकारण्यमाश्रिताः ॥ १०-
तपः कुर्वन्तो यत्नेन ब्रह्मणोद्देशयन्त्रिताः ।
ततः कतिपये काले रामो दाशरथिः स्वयम् ॥ १०-
रावणं समरे हत्वा राज्यं कृत्वा बिभीषणे ।
विमानं वरमारूढो दण्डकारण्यमाश्रितः ॥ १०-
तत्रागस्त्याश्रमं रामो गत्वा चक्रेभिवादनम् ।
मुनिः सम्भावयामास कन्दैर्मूलफलादिभिः ॥ १०-
रामस्य दर्शनं चक्रुर्मुनयोपि धृतव्रताः ।
उवास रामः कतिचिद्दिनानि मुनिसत्कृतः ॥ १०-
एकदा जनकी दृष्टुं मुनीनामाश्रमान् शुभान् ।
जगाम मुनिपत्नीनां सौहार्देनापि सुन्दरि ॥ १०-
चक्रे रामकथाः पुण्याः रावणस्य वधं प्रति ।
सत्कृता मुनिपत्नीभिः मुनिभिः साधुभिस्तथा ॥ १०-
निवृत्ता जानकी तत्र जगामाग्निकुमारकान् ।
द्रष्टुं तपस्यतः पूर्णान् मुनिकन्यासमावृता ॥ १०-
जानकी तान्नमस्कृत्य कुमाराननलप्रभान् ।
निषसाद क्षणं तत्र वनशोभाहितेक्षणा ॥ १०-
ते विचित्रेण दैवेन प्रेर्यमाणाः कुमारकाः ।
अमर्षजननं वाक्यमब्रुवन्कृतहेलनाः ॥ १०-
अहो सीते प्रभुः साक्षादीश्वरो जगतां पतिः ।
वेदरक्षाविधानार्थमवतीर्णो महीतले ॥ १०-
न यस्य स्वपरो वापि न द्वेष्यः प्रिय एव च ।
सत्यसन्धः क्षमी शूरो रामः कमललोचनः ॥ १०-
जटीवल्कलसंवीतो मोहमग्नो वने वने ।
भ्रान्तश्चचार निर्विण्णः पृच्छमानो वनस्पतीन् ॥ १०-
इयं कान्तेति वै मत्वा मोहविभ्रंशिताशयः ।
क्वचित्पल्लविनीं हृद्यां लतामालिंग्य निर्वृतः ॥ १०-
निवारितो लक्ष्मणेन नेयं कान्तेति जल्पता ।
दधाराम्भोनिधौ सेतुं सख्यं कृत्वा च वानरैः ॥ १०-
त्वन्निमित्तमिदं सीते प्रभोरपि विडम्बनम् ।
तस्मात्स्त्रियः पापरूपा दोषैकनिलयाः सदा ॥ १०-
न धार्या सुखमिच्छद्भिः कदाचित् क्वापि पण्डितैः ।
इत्येवं वचनं तेषां श्रुत्वा दाशरथेः प्रिया ॥ १०-
चक्रोध रक्तनयना शापं दातुं मनोदधे ।
सीतोवाच
मन्निन्दायाः फलं शीघ्रमवाप्स्यथ कुमारकाः ॥ १०-
द्विधाविदीर्णदेहाश्च यूयं पण्डितमानिनः ।
पतन्तु भूतले सर्वे सर्वे स्वात्मकृतं भुजः ॥ १०-
इत्युक्ते सीतया तूर्णं द्विधाभूतकलेवराः ।
शिशवः पेतुरुर्व्यान्ते मुनिपत्न्यो विसिस्मिरे ॥ १०-
हाहाकारो महानासीन्मुनीनां तत्र शृण्वताम् ।
एवं शप्त्वा कुमारांस्तान् ययौ सीतानिकेतनम् ॥ १०-
रामः श्रुत्वाथ तां वार्त्तामप्रियां दुर्मना भृशम् ।
निनिन्द सीतां मनसा किमेतद्दुर्विनीतया ॥ १०-
अर्विचारितमेवेह कृतं नष्टविमर्षया ।
अहो मूढधियो दुष्टाः स्त्रियो दारुणचेतसः ॥ १०-
श्रेयसां परिपन्थिन्यो मायेयं दैवनिर्मिता ।
ससारान्मुक्तिकामानां याः स्वयं निगडोपमाः ॥ १०-
महामोहस्य मञ्जूषा स्वार्थायानर्थतत्पराः ।
क्रोधलोभानृतधियो न विश्वस्ताः कदाचन ॥ १०-
न च ता विश्वसेत्क्वापि विश्वस्तान् घ्नन्त्यसंशयम् ।
अल्पार्थे बह्वनर्थेषु प्रवर्त्तन्ते दुराशयाः ॥ १०-
न विद्वान् स्त्रीवशं गच्छेद् वशं प्राप्तो विनश्यति ।
इत्याकलयय हृदये जानकीं प्राह स प्रभुः ॥ १०-
राम उवाच
किमेतत्साधुचरिते विनिन्दितमचीकरः ।
नास्माकमुचितं कर्म यत्कुमारविहिंसनम् ॥ १०-
तपोविद्याधृतधियो विनयाचारशालिनः ।
न चैते शापमर्हन्ति यदि घ्नन्त्यपि सुन्दरि ॥ १०-
यथार्थवादिनां पुंसां श्रुत्वा वाचो यथार्थकाः ।
कुप्यन्ति ये मूढधियो न तेषां निष्कृतिः क्वचित् ॥ १०-
सीते यथार्थमुक्त तैर्मामुद्दिश्य दयालुभिः ।
तेष्वमर्षः कथं जात ईदृशोनर्थदर्शनः ॥ १०-
यदि स्वल्पोपराधोऽपि तस्मिन् दण्डो महान् घृतः ।
न चैतदुचितं चण्डि क्षत्रियाणां दयावताम् ॥ १०-
वनचराणामस्माकं मुन्याश्रमवासिनाम् ।
साध्वीत्थमुक्ता रामेण लज्जया नम्रकन्धरा ॥ १०-
बद्धहस्ताञ्जलिः प्राह भर्तृवाक्यविबोधिता ।
सीतोवाच
अपराधो महान् देव कृतो मे नात्र संशयः ॥ १०-
अदण्डेष्वप्यपापेषु यन्मया ह्युद्यमः [यन्मन्योरुर्दमः कृतः इति मूल पाठः ।] कृतः ।
अपि मे दुर्नयं देव क्षमस्व त्वं दयानिधे ॥ १०-
तेष्वनुग्रहमाधस्त्व साधुष्वपि तपस्विषु ।
राम उवाच
न करिष्याम्यहं भद्रे कुमाराणामनुग्रहम् ॥ १०-
मया त्वनुग्रहीतानां मुक्तिः स्याज्जलवज्जले ।
वेदवेदान्तसङ्गीतः परमात्मा परः प्रभुः ।
करोत्वनुग्रहं तेषामनुभूतिर्यथा भवेत् ॥ १०-
तस्मादिमे लिङ्गदेहमात्रशेषाः सुलोचने ।
मयि स्थास्यन्ति सततं कालाविर्भावहेतवे ॥ १०-
रामे च भगवत्येते विलीनास्ते ततः परम् ।
वसुदेवगृहे साक्षादवतीर्णे हरौ स्वयम् ॥ १०-
तेवतीर्णा व्रजभुवि तद्देहस्थाः कुमारकाः ।
पूतनायां स्थिताः सर्वे तया व्यापादिता इति ॥ १०-
तत्प्राणैरपिबद् बालान् दक्षिणांगव्यवस्थितान् ।
वामांगभूताः सकलाः गौडदेशेऽभवन् स्त्रियः ॥ १०-
कुमारीरानयामास परचक्रं जिघांसता ।
निरुद्धा राजधर्मेण नन्दस्तद्देशमागतः ॥ १०-
इति ते कथितं देवि यत्पृष्टोऽहं सुलोचने ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ १०-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे दशमं पटलम् ॥ १०-
अथ एकादशं पटलम्
श्री शिव उवाच
हृत्वाथ पूतनाप्राणान् सहबालान् कृपानिधिः ।
शकटं पातयामास पादपल्लवलीलया ॥ ११-
तृणावर्त्तमथाकाशे हरन्तमहनद्धरिः ।
स्तनं पीत्वा यशोदायै जृम्भमाणस्तु केवलम् ॥ ११-
मुखे प्रदर्शयामास भुवनानि चतुर्दश ।
बाललीलाविनोदेन मृदमश्नन् कृपानिधिः ।
अकल्पयद्देहयोगं कुमाराणामलौकिकम् ॥ ११-
नाश्नाति मृदमानन्दो दधिदुग्धान्यपि स्वयम् ।
पुष्ट्यर्थं च कुमाराणामकरोत्सकलं प्रभुः ॥ ११-
व्रजस्था गोपिकाः सर्वाः कृष्णलीलाहृताशयाः ।
विलोभयन्त्यः श्रींकृष्णं दास्ये दुग्धं दधीन्यपि ॥ ११-
मृदूनि नवनीतानीत्युक्त्वा निन्युर्गृहान् स्वकान् ।
ततोप्येकान्त आहूय दत्वा दधिमधूनि च ॥ ११-
कृष्णमालिङ्गयामासुश्चुचुम्बुर्मुखपङ्कजम् ।
बालोभूत्वापि लोकस्य यशोदानन्दयोरपि ॥ ११-
आलिङ्ग्यत्यालिंग्यमानः प्रतिचुम्बति चुम्बितः ।
गोपिकाहृदयानन्दं वर्धयन् रतिचेष्टितैः ॥ ११-
रतिज्ञमिव तं मत्वा गोपिका रतिचेष्टयाः ।
कुतूहलनिमग्नास्ता न वक्तुं शेकुरुत्सुकाः ॥ ११-
अन्यापि गृहमानीय खाद्यपानैरतोषयत् ।
भूषयित्वांजनाकल्पैरङ्गरागैः सुगन्धिभिः ॥ ११-
शुभासने समारोप्य दत्वा ताम्बूलवीटिकाम् ।
इहैव बालकैरेतैः परिक्रीडस्व निर्भयः ॥ ११-
मान्यत्र गच्छ ते माता ज्ञापिता ताडयिष्यति ।
इत्याहुर्गोपिकाः काश्चित्प्रेमबद्धा व्रजार्भके ॥ ११-
व्रजेश्वरसुतं नीत्वा गृहमूचुः पराः स्त्रियः ।
यदि नृत्यति सत्कृष्ण भवान् दास्ये मनोरथम् ॥ ११-
इत्युक्तो नृत्यति स्मासौ रभसा वै मुदान्वितः ।
हरन् कटाक्षमालाभिर्भावपूर्णाभिरावृतः ॥ ११-
वव्रे नृत्यविधानार्थं कामं देहि प्रतिश्रुतम् ।
कस्ते कामस्तयोक्तेसौ वव्रे कृष्णः स्ववांछितम् ॥ ११-
त्वदीयहृदये भाति कन्दुकद्वयमुत्तमम् ।
देह्येतद्रमणार्थाय मित्रैः गोपसुतैः सह ॥ ११-
जहास गोपीकृष्णस्य वाक्यश्रवणहर्षिता ।
वृषभानोः सुता देवि राधिकानामविश्रुता ॥ ११-
स्वामिनी वासना जाता श्रीकृष्णप्रेमविह्वला ।
द्वादशैवसहस्राणि याः सख्यः परिकीर्त्तिताः ॥ ११-
तदंगभूतास्ताःसर्वाः वस्तुभेदो न किंचन ।
स्वामिन्यात्मा भवेत्कृष्णः कृष्णात्मा स्वामिनी हि सा ॥ ११-
न तयोर्विद्यते भेदश्चन्द्रचन्द्रिकयोरिव ।
रसात्मकं रसभोक्तृ परं ब्रह्म श्रुतीरितम् ॥ ११-
रसः शृंगार एवोक्तो रसशास्त्रविशारदैः ।
संयोगो विप्रलम्भश्च शृंगारो द्विविधो मतः ॥ ११-
संयुक्तयोश्च [द्र० पृ० चतुर्विंशपटलम् ११-१२ ।] संयोगो विप्रलंभो वियुक्तयोः ।
रसनित्यतया जातो वियोगस्तद्दलात्मकः ॥ ११-
रसस्वभाव एवाय यत्सयोगवियोगवान् ।
अन्यथा ह्यक्षरे कस्माद्दिदृक्षा जायते तथा ॥ ११-
कथं प्रियाणां च तथा रसस्तस्माद्धि ताद्दृशः ।
सच्चिदानन्दकं ब्रह्म यदुक्त श्रुतिमौलिभिः ॥ ११-
चिदानन्दौ तु कूटस्थे पुरुषोत्तमे एव च ।
उभावपि भवेद्ब्रह्म ब्रह्मभेदैर्विवर्जितम् ॥ ११-
सजातीयविजातीयस्वगतैश्च सुलोचने ।
ब्रह्मत्वे ह्यक्षरस्यापि आनन्दो द्विदलात्मकः ॥ ११-
सदंशबीजमूला च प्रकृतिर्ह्यक्षरात्मगा ।
न तस्माद्रसलीलायाः स्थितिः कुटस्थ ईश्वरे ।
प्रकृतेश्च परत्वाच्च निर्गुणत्त्वान्महेश्वरि ॥ ११-
उत्तमे पुरुषे पूर्णे ह्यानन्दात्मनि केवले ।
लीला रसमयी रम्याः प्रतिक्षणनवा स्थिता ॥ ११-
दिदृक्षितान्तःकरणवृत्तिः स्यादक्षरस्य या ।
पुरुषोत्तमावेशती जाता नन्दगृहे तु सा ॥ ११-
गुणलीलादिदृक्षायुक्वासनास्तत्प्रियासु याः ।
ता एव व्रजसुन्दर्यस्ताभिः संक्रीडते रसः ॥ ११-
स्वामिनीवासना राधा स्वयं वृन्दावनेश्वरी ।
लवमात्रकालावच्छिन्नो विरहोऽभूद्रसात्मकः ॥ ११-
नलिनीपत्रसंहत्याः सूक्ष्मसूच्याभिवेधने ।
दले दले च यः कालः स कालो लववाचकः ॥ ११-
अत्रापि संयोगवियोगभावैः क्रीडति वै हरिः ।
कृष्णो राधास्वरूपेण विरहाक्रान्तचेतनः ॥ ११-
कथं सा संगता मे स्यादिति चिंतापरोऽभवत् ।
तत्सखीकृतमैत्रस्तु तत्कथाः कुरुतेऽनिशम् ॥ ११-
नित्यं स्वरूपस्तवनैर्गतिहासनिरूपणैः ।
वस्त्रमद्यतनं हृद्य तव संख्याः परिष्कृतम् ॥ ११-
इत्यावेदितहार्दास्ताः सख्यः प्राहुश्च राधिकाम् ।
राधे नन्दसुतः सोऽयं सुन्दरः प्रतिभाति मे ॥ ११-
तव रूपानुरूपोऽयं चतुरो व्रजबल्लभः ।
नित्यं च त्वत्कथालापः त्वत्प्राणस्त्वन्मनाः सदा ।
त्वामेव ध्यायते चित्ते सङ्गमस्ते यथा भवेत् ॥ ११-
राधोवाच
कुत्र सङ्गतिरेतेन मम स्यात्सखि चिन्तय ।
अहमप्यस्य रूपेण सौन्दर्येण गुणेन च ।
मोहितास्मि क्षणं नैनं विस्मरामि कथंचन ॥ ११-
यशोदानन्दनं कृष्णं स्वप्ने पश्यामि सन्ततम् ।
क्रीडमानं मया सार्द्धं पिबन्तमधरासवम् ॥ ११-
यस्मिन् दृष्टे ममांगेषु स्वेदरोमांचकंचुकम् ।
वेपथुः स्वरभङ्गो वा जायते साम्प्रतं सखि ॥ ११-
यत्सौन्दर्यरसाम्भोधौ निमग्नं सखि मे मनः ।
न निवृत्तिमवाप्नोति विना तद्दर्शनं क्वचित् ॥ ११-
कृष्णमूर्तिं प्रपश्यामि भ्रमान्निकटवर्तिनीम् ।
क्षणादन्तर्हितां दृष्ट्वा मदात्मा तप्यते भृशम् ॥ ११-
किं करोमि क्व गच्छामि कस्याग्रे कथयाम्यहम् ।
नय मां नन्दतनयं कृष्णं प्राणाधिकं मम ॥ ११-
विरहाग्निमहाज्वालावलीढा मे वपुर्लता ।
कृष्णाधरसुधापूरप्लाविता शान्तिमेष्यति ॥ ११-
तस्य मे सङ्गमोपायं विचारय निजे हृदि ।
गच्छ कृष्णागमे यत्नं कुरु सङ्केतसद्मनि ॥ ११-
इत्येवं राधया प्रोक्ता सखी प्राणपतिं ययौ ॥ ११-
इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकादशं पटलम् ॥ ११-
अथ द्वादशं पटलम्
शिव उवाच
कृष्णस्तामागतां दृष्ट्वा हर्षाकुलितचेतसाम् ।
कार्यसिद्धिमिमां ज्ञात्वा हर्षांदुल्लसितेक्षणः ॥ १२-
पप्रच्छ तां सखीं प्रेम्णा किमुक्तं राधया सखि ।
तदिदानीं ममाचक्ष्व श्रुत्वा सन्तोषमाप्नुयाम् ॥ १२-
त्वयि गतायां यावन्तः कालस्यावयवा ययुः ।
तावन्त्येव युगान्यासन् विरहाकुलितस्य मे ॥ १२-
सख्युवाच
त्वत्सङ्गविरहात्कृष्ण राधापि क्लिश्यतेतराम् ।
न निवृत्तिमवाप्नोति विना ते दर्शनं क्वचित् ॥ १२-
कृष्ण कृष्णेत्यमु मन्त्रं विरहाकुलया तया ।
जप्यतेऽहर्निश मन्यमानया निकटे मृतिम् ॥ १२-
विरहानलनिर्दग्धा शोभते न वपुर्लता ।
हिमक्लिष्टेव हेमन्ते मृदुला पद्मिनी यथा ॥ १२-
दिवारात्रौ तु रहसि कृत्वा चित्रमयीं प्रभो ।
मूर्त्तिं निधाय हृदये शेते विरहकर्षिता ॥ १२-
शुष्कौ बिम्बाधरौ तस्यास्तन्द्रा लोचनयोः स्थिता ।
अन्यथा भाषणं वक्त्रात् किमन्यत्कथयामि ते ॥ १२-
नानुसन्धानमाधत्ते मनोवृत्तिर्मनागपि ।
अन्यथासिद्ध एवासौ कामस्ते नन्दनन्दन ॥ १२-
तस्मात्तन्निकटं याहि सङ्केते कृतनिश्चयः ।
इति सख्योदितं श्रुत्वा उल्ललास हृदि प्रभुः ॥ १२-
श्रीकृष्ण उवाच
अहं तत्रागमिष्यामि सङ्केते कृतनिश्चयात् ।
तत्र तामानय क्षिप्रं वेषगुप्तिं विधाय च ॥ १२-
कस्यापि न भयं भीरु त्वया कर्त्तव्यमण्वपि ।
वञ्चयिष्ये जनान् सर्वान् इन्द्रजालकलादिभिः ॥ १२-
राधिकायै प्रणाम मे तत्र गत्वा निवेदय ।
त्वं मे प्रियासि नितरां प्राणादप्यधिका मम ॥ १२-
नावयोरन्तरं किञ्चित् प्राणरूपात्मनामपि ।
त्वन्नामस्मरणाच्चाह यथा तुष्यामि सुन्दरि ।
मत्सेवया मम ध्यानात्तथा तुष्टिर्न मे क्वचित् ॥ १२-
इत्यादि मम वाक्यानि राधिकायै निवेदय ।
पुनर्याता सखी राधामुवाच सकलं हि तत् ॥ १२-
सुधामाधुर्यधिक्कारक्षम कृष्णवचोमृतम् ।
पीत्वोल्ललास हृदय ग्रीष्मतप्तेव भूर्यथा ॥ १२-
अथ सङ्केतसदने शयया पुष्पमयोचिता ।
नानागन्धमहामोदपुष्पराजिविराजिते ॥ १२-
निर्दग्धागरुसद्धूमधूपिते च समन्ततः ।
पानयोग्यरसेर्दिव्यैस्ताम्बूलैरङ्गलेपनैः ॥ १२-
सत्कृते सदने रम्ये राधा सख्यावृता ययौ ।
तत्रासनगता राधा काङ्क्षन्ती प्रियसङ्गमम् ॥ १२-
अचञ्चलतडित्कोटिप्रभापिञ्जरिताम्बरा ।
समावृत्तसुवृत्तोरुजघनस्तनमण्डला ॥ १२-
कटाक्षसरणीनिर्यद्रसमोहितमन्मथा ।
शुकाकारसमाकारनासाभरणभासुरा ॥ १२-
दाडिमीबीजसन्देहकारिदशनहीरका ।
वीणारवघृणादायिनिजवाणीगुणोदया ।
कर्पूरबीटिकामोदसुगन्धितदिगन्तरा ॥ १२-
मणिदर्पणदर्पघ्नकपोलफलकप्रभा ।
मणिमङ्गलसूत्रेण विलसत्कम्बुकन्धरा ॥ १२-
रत्नाङ्गुलीयनिवहोल्लसदङ्गुलिपल्लवा ।
कुचभारलसन्मध्यत्रिवलीललितोदरा ॥ १२-
चन्दनागरुकस्तूरीकर्पूरादिसुगन्धिनी ।
निःश्वासहारिकुर्पासनिबद्धस्तनमण्डला ॥ १२-
कुचोपरिलसन् मुक्ताहारतारसुशोभिता ।
क्वणन्माणिक्यमञ्जीरप्रभाभिर्बद्धमण्डला ॥ १२-
रेजे राधासनगता कथंचक्रे प्रियश्रया ।
कथं नाद्यावधि प्रेयान् नागतः सखि तर्कय ॥ १२-
रुद्धः कयाचित्प्रियया किं वा त्वं तेन वञ्चिता ।
तद्वचः किमतथ्यं वा तथ्यं वा ज्ञायते कथम् ॥ १२-
नागमिष्यति चेत्कान्तः प्राणांस्त्यक्ष्याम्यसंशयम् ।
वयस्यामेतदाश्राव्य कृत्वा करतले मुखम् ॥ १२-
विरहाग्निशिखात्युष्णं निशश्वास प्रियंवदा ।
ताम्बूलगन्धपुष्पादिरतिसाधनमाहितम् ।
निनिन्द मनसा सर्वं वियोगज्वरविप्लुता ॥ १२-
तद्वक्रं हसितेन्दुमण्डलमतिस्फारं तदालोकितं
सा वाणीजितकामकार्मुकरवा सौन्दर्यमेतस्य तत् ।
इत्थं सन्ततमालि वल्लभतमध्यानप्रसक्तात्मन-
श्चेतश्चुम्बितकालकूटमिव मे कस्मादिदं मुह्यति ॥ १२-
तदैव कृष्णः सङ्केतं प्राप्तः प्राण इव स्वयम् ।
स्वासनात्तुर्णमुत्तस्थौ राधा कमललोचना ॥ १२-
समानासनसमासीनौ परस्पररतिप्रियौ ।
भावपूरितदृक्प्रान्तनिक्षेपान्योऽन्यमोहितौ ॥ १२-
श्रीकृष्ण उवाच
प्रिये त्वद्विरहज्वालावलीढवपुरुषो हि मे ।
न शान्तये सुधाम्भोधिकोटिपीयूषसेचनम् ॥ १२-
त्वदीयविरहे राधे प्रियमप्यास विप्रियम् ।
अमृतांशोरपिकराश्चण्डांशोरिव दारुणाः ॥ १२-
ग्लपयन्ति वपुर्वल्लीं विरहे तव सुन्दरि ।
शयया पीयूषचित्ता वह्न्यङ्गारचितेव सा ॥ १२-
मलयालेपनं देहे व्यथते विस्फुलिङ्गवत् ।
कोटिकल्पायते रात्रिः पुष्पं सूचीफलायते ।
दावाग्निज्वालेव मरुत् शीतलो व्यथयेत्तनुम् ॥ १२-
ध्यायामि त्वां दिवारात्रौ त्वत्प्राणस्त्वन्मनाः प्रिये ।
राधिके राधिके चेति महामन्त्रजपेन च ॥ १२-
विरहाहिविषं प्राणहारि प्रशमयाम्यहम् ।
अद्य लब्धासि भो कान्ते निधानमिव निर्धनैः ॥ १२-
विवेकविद्याविनयप्रसाद-
महेन्धने चाशुविदीप्यमाने ।
वियोगवातद्विगुणीकृतेन्तः
स्मरानले गोपि जुहोमि देहम् ॥ १२-
इतः क्षणं वा च ततः क्षणं वा
गृहे क्षणं वा शयने क्षणं वा ।
बहिस्तथान्तः क्षणमात्मनस्वद्-
ग्रहगृहीतस्य निवृत्तिरस्ता ॥ १२-
कियन्त्य एवात्र न सन्ति राधे
सुलोचना मां तु न हर्षयन्ति ।
पयोदबिन्दुप्रतिरुद्धबुद्धे-
र्विहङ्गमस्येव जलोपकण्ठम् ॥ १२-
दिशां मुखेषु प्रमदे त्वदीयां
भ्रमोपनीतामपि वीक्ष्य मूर्त्तिम् ।
गतावधिव्याप्तिमुपैति चित्ते
हर्षस्य वैयर्थ्यमुदीक्ष्य शोकम् ॥ १२-
समुद्ररुद्रौ प्रथितौ जगत्या-
मौर्बेण हालाहलधारणेन ।
अहं तु कल्पान्तहुताशकल्प-
वियोगदग्धोऽपि न चित्रमेतत् ॥ १२-
अपि प्रिये त्वद्विरहानलोत्थ-
ज्वालाहुतीभूतशरीरयष्टेः ।
त्वमेव [अत्र प्रतिपादिताक्षरातीताख्यस्य कृष्णस्यानबतारित्वेऽपि स्वप्रेममहिमप्रदर्शनायैवेत्थमुक्तं श्रीराधिका प्रतीतीति विवेकः ।] मे जन्मनि जन्मनि स्याः
प्रिया सखी चेति विधिर्व्यधत्ताम् ॥ १२-
अपि प्रिये केतककुङ्मलौघाः
स्फुटन्ति मे हृदयेन साकम् ।
विलोचनाभ्यां तु समं पयोदाः
किरन्ति वारिप्रकरानमन्दान् ॥ १२-
वियोगदावानल एष एव
क्षणात् क्षिणोत्येव तनुं मदीयाम् ।
यदा सुधारस्मिसहोदरास्य-
मसङ्कुचध्यानपथादपैति ॥ १२-
धुन्वन् पयोदावलिविस्फुरन्तस्-
तडित्प्रकाशाः शिखिनर्त्तनानि ।
सुकेतकामोदमुचश्च वाताः
सहस्रधा मे हृदयं दलन्ति ॥ १२-
स्मराशुगीभूतविलोचने द्वे
भ्रूभ्यां धनुर्भावमुपागताभ्याम् ।
स्फुटं वहन्ती जनमोहविद्या
विद्या किमेषा मम मोक्षकर्त्रीं ॥ १२-
स्मितोदयादर्शितदन्तपङ्क्ति-
प्रभावलीढाननपङ्कजेन ।
परिस्फुरल्लोचनषट्पदेन
विमोहयन्ती हृदयं मदीयम् ॥ १२-
ध्येयं ममैतत्तवपादपङ्कजं
गेयं ममैतत्तव रूपसौभगम् ।
त्वत्तो न किञ्चित्प्रतिभाति तत्त्वं
त्वया विनान्ध्यं जगतो विभाति ॥ १२-
इत्यं प्रियामनुनयन् वचोभिः प्रेमगर्भितैः ।
रेमे कृष्णः कुचतटीपरिरम्भादिभिस्तथा ॥ १२-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे द्वादशं पटलम् ॥ १२-
अथ त्रयोदशं पटलम्
शिव उवाच
एकदा तु कुमार्यस्ता व्रतं चेरुः समाहिताः ।
कात्यायनीमर्चयन्त्यः कृष्णो भर्त्ता भवेदिति ॥ १३-
मासान्ते फलदानाय गतः कृष्णः सरित्तटम् ।
तीरस्थितानि वासांसि हृत्वा नीपमथारुहत् ॥ १३-
कुमार्यः कृष्णचरितं दृष्ट्वा प्रेमपरिलुप्ताः ।
लज्जितस्मेरवदनाः कृष्णमूचुः कदम्बकम् ॥ १३-
कृष्ण वासांसि नो देहि खिन्नाः स्म सलिले वयम् ।
त्वं वृद्धसम्मतो भूत्वा नैतत्कर्त्तुं त्वमर्हसि ॥ १३-
यदि जानाति वै कश्चित्तदायं दुर्नयो महान् ।
जानिष्यति यदा राजा कंसः क्रूरमतिर्मनाक् ॥ १३-
तदा ह्यनर्थ एवायमस्माकं भवतोऽपि च ।
श्रीकृष्ण उवाच
इहागत्य प्रतीच्छध्वं स्वं स्वं वासः सुलोचना ॥ १३-
अन्यथा न ददाम्येव कंसभीत्या बिभीषितः ।
निशम्य वचनं तस्य गोप्यो लज्जास्मितेक्षणाः ।
जलादुत्तीर्य वासांसि कृष्ण देहीति चाब्रुवन् ॥ १३-
कृष्णः प्रीतमनास्ताभ्यो वासांसि पृथगाददौ ॥ १३-
तत्तद्भागैश्च [कुमारीभ्यः स्वगततत्तदंशस्वरूपदानायैव वस्त्रहरणलीलां कृतवान् भगवानिति ज्ञेयम् ।] ताः सर्वाः स्वान्तःस्थैः सन्नियुज्य च ।
चक्रे पूर्णतराः कृष्णो रसयोग्या रसप्रियः ॥ १३-
ततः प्रसन्नो भगवान् कुमारीभ्यो वरं ददौ ।
श्रीकृष्ण उवाच
रात्रयो ह्याधिदैविक्यो मयि तिष्ठन्ति ताः प्रियाः ॥ १३-
पश्यध्वं रमयिष्यामि तासु वः पद्मलोचनाः ।
प्रतियात गृहं तस्मात्कामः कालेन सेत्स्यति ॥ १३-
ततो लब्धवराः सर्वा गोप्यः पूर्णमनोरथाः ।
गृहं जग्मुः प्रगायन्त्यः कृष्णलीलां मुदान्विताः ॥ १३-
जनयन् मन्युमिन्द्रस्य कृत्वा गोर्वधनोत्सवम् ।
इन्द्रोत्सृष्टजलैरन्नैः सङ्कर्षणमहीश्वरम् ॥ १३-
वर्षद्वादशकं योऽसौ त्यक्ताम्बुफलमूलकः ।
तर्पयामास तं कृष्णः पुरूहूतमदं नुदन् ॥ १३-
एकदा कृष्ण एवैको गतो वृन्दावनं शुभम् ।
रमणाय मतिं चक्रे सखीभिः सह केवलम् ॥ १३-
दृष्ट्वा वृन्दावनं रम्यं नमत्कुसुमपादपम् ।
कूजत्पक्षिमरालालिप्रतिध्वनिमनोहरम् ॥ १३-
प्रफुल्लमल्लिकाम्भोजं मन्दमारुतकम्पितम् ।
योगमायामथो कृष्णः कालमायाविनाशिनीम् ॥ १३-
जाग्रदन्ते सुषुप्त्यादौ स्फुरणायोपलभ्यते ।
तादृशीमकरोद् देवि लीलार्थं पुरुषोत्तमः ॥ १३-
प्रकाशा चाप्रकाशा च द्विधा सेयं व्यवस्थिता ।
दर्शनांशे प्रकाशा च दृषट्टत्वाच्छादने तथा ॥ १३-
बहिः प्रकाशं विच्छिद्य अन्तराकाशते यथा ।
योगमायेति विख्याता जाग्रत्स्वप्नमायीशितुः ॥ १३-
कालमाया हृता तूर्णं तया तच्चित्स्वरूपया ।
तत्कार्यमात्रमखिलं लीन स्थावरजङ्गमम् ॥ १३-
योगमायोद्भवं स्वप्नमक्षरः संददर्श ह ।
अन्यूनाधिकमीशानि भूतेन्द्रियगुणात्मकम् ॥ १३-
दिव्यमाणिक्यमुकुटं स्फुरन्मकरकुण्डलम् ।
दिव्यमुक्तामणिभ्राजन्नानाभूषणभूषितम् ॥ १३-
कृष्णरूपमभूत्तत्र योगमायोपबृंहितम् ।
अलौकिकलतादिव्यकुसुमामोदवायुना ॥ १३-
सेवितं सर्वतः श्रीमद् वृन्दावनमहाद्भुतम् ।
खगा मृगा लता वृक्षा वायवश्चन्द्रतारकाः ॥
ऋटुः पुष्पाणि रात्रिश्च सर्वमासीन्नवं प्रिये ॥ १३-
प्रससारोत्सृजन्ती सा ग्रसन्ती विश्वमोजसा ।
उत्सारयन्ती तिमिरं यथा दीपशिखाम्बरे ॥ १३-
योगमायाप्रपञ्चोऽपि सदेवासुरमानवः ।
तासु सङ्कल्पमकरोन्मनसा पुरुषोत्तमः ॥ १३-
अबोधयत्पूर्वकामं कामरूपतया हृदि ।
यावदङ्कुरितो भूयात् हृदि कामस्तु सुभ्रुवाम् ॥ १३-
तावत्तद्वर्धनार्थाय वेणुनादमथाकरोत् ।
योगमायोद्भवाकाशे वेणुनादः प्रतिष्ठितः ।
तं नादमेव गोप्यस्ताः शुश्रुवुः प्रथमं प्रिये ॥ १३-
अधरामृतसंसिक्तवेणुनादः सहानिलः ।
प्रविश्य कर्णरन्ध्रेण हृच्छयं समतेजयत् ॥ १३-
ततस्ताः सहसा हित्वा शयनासनभोजनम् ।
सात्विकी राजसी चैव तामसी चेति विश्रुताः ॥ १३-
श्रुतिरूपा कुमार्यश्च आजग्मुर्नादमोहिताः ।
निषिद्धा अपि यत्नेन बन्धुवर्गैरनेकधा ॥ १३-
न निवृत्ता यथा वेगः सरितामर्णवं प्रति ॥ १३-
बलात् रुद्धा अपि जहुः प्राणान् विरहकर्षिताः ।
काश्चिद्गोप्यः क्षणादेव दिव्यदेहाः समाययुः ॥ १३-
पुरः प्रकाशः पश्चात्तु शून्यमासीत् व्रजस्त्रियः ।
प्रविष्टा मण्डलं सर्वा योगमायिकमुत्तमम् ॥ १३-
कुमार्यो द्वादश प्रोक्ताः सहस्राणि तथा पराः ।
तावन्त्यः किल विज्ञेयाः श्रुत्वा वेणुरव निशि ॥ १३-
चत्त्वारिंशत्तु यूथानि तासां प्रोक्तानि योषिताम् ।
तासां द्वादशसाहस्री संख्या संयोगभावतः ॥ १३-
प्रियसङ्गार्हमेतासां माया वेषमरीरचत् ।
भूषामालाम्बराण्यासन् लोकसिद्धेतराणि च ॥ १३-
समानवेषाभरणाः सर्वाः सवयसः प्रिये ।
समचित्ताः समरसाः कृष्णस्य निकटं ययुः ॥ १३-
वेदस्थित्यर्थमेवासौ क्रीडन्नपि समाहितः ।
मर्यादामुक्तवान् वाचा वागासीत्कारणोदया ॥ १३-
न निषिद्धाः स्वरूपेण स्वरूपं वागगोचरम् ।
रसभोक्तृरसात्मत्वं विरुद्धेदान्यथा प्रिये ॥ १३-
श्रीकृष्ण उवाच
किमर्थमागताः सर्वाः मिलिताश्च परस्परम् ।
रात्र्यामघटमानं तु वनेष्वागमनं स्त्रियः ॥ १३-
स्त्रीधर्मं सहसा हित्वा भर्तृसेवामयं शुभम् ।
ऐहिकं पारलौकिक्यं स्त्रियो नाशयति ध्रुवम् ॥ १३-
येन संतुष्यते भर्त्ता स धर्म उचितः स्त्रियः ।
तं विहाय ध्रुवं नारी पतत्येव न संशयः ॥ १३-
तस्माद्व्रजं स्त्रियो यात मदुक्त्या यन्त्रिताशयाः ।
गोप्यस्तद्वाक्यमाकर्ण्य तीक्ष्णं हालाहलोपमम् ॥ १३-
किं वज्रनिर्घातहता इव पेतुः क्षितेस्तले ॥ १३-
इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे गुप्तसारे शिवोमासंवादे त्रयोदशं पटलम् ॥ १३-
अथ चतुर्दशं पटलम्
पार्वत्युवाच
देवेश परमेशान धूर्जटे नीललोहित ।
ततः किमभवत्तत्र तन्मे ब्रूहि सदाशिव ॥ १४-
शिव उवाच
रूक्षं वचनमाश्रुत्य सहसा जातसम्भ्रमाः ।
गतप्राणा इवासंस्ताः प्राणरूपी प्रियोऽभवत् ॥ १४-
दुःखाकुला रुद्धवाचो निरुछ्वासा व्रजस्त्रियः ।
अश्रूण्यमुञ्चन्नेत्रेभ्यस्तापेनोष्णतराणि च ॥ १४-
अब्रुवन् धैर्यमालाम्ब्य तामस्यो विरहातुराः ।
किमेवं भाषसे कृष्णविचाररहितं वचः ॥ १४-
अविचारितवक्तारो लोके मूर्खा इति स्थिताः ।
तस्माद्विचार्य वक्तव्यं सर्वज्ञोऽसि यतः स्वयम् ॥ १४-
वयं गोप्यो भवद्दास्यस्त्वच्चित्तास्त्वत्परायणाः ।
त्वत्प्राणास्त्वन्मयाः कृष्ण नान्यत्पश्यामि किञ्चन ॥ १४-
नास्माकं पतयः पुत्रां भ्रातरो न च बान्धवाः ।
वयं त्वदेकशरणाः त्वन्न्यस्तात्मकलेवराः ॥ १४-
अहं स्त्री मत्पतिश्चायमिति यासां मतिः स्थिता ।
तासामयं परो धर्मो यस्त्वया चोपदिश्यते ॥ १४-
यस्याधिकारो यद्धर्मे त्यजेत्त न कदाचन ।
नोचेत्सन्न्यासिनः कुर्युः कथं न गृहिवादिनाम् ॥ १४-
देहातीता गुहातीता लोकातीता वयं प्रभो ।
त्वामेव शरणं प्राप्ताः कथमर्हन्ति लौकिकम् ॥ १४-
विकारेऽहमिति भ्रान्तिः पुत्रदारधनादिषु ।
तदध्यासवशात्तेषां देहधर्माधिकारिता ॥ १४-
प्रवृत्ते ह्यधिकारे तु धर्मं लुम्पति यः खलः ।
पतत्येव न सन्देहो यतः स वासनान्तरे ॥ १४-
अह ममायमित्येषः पतिपुत्रादिषु स्थितः ।
समूलमाग्रहो नष्टः कथं तत्र नियुञ्जसि ॥ १४-
न प्रेम्णि बाधकं किञ्चित्प्रेमस्थितिरलौकिकी ।
वयं प्रेमसमाकृष्टा निशि प्राप्ता वनान्तरे ॥ १४-
अविद्वानिव तद्विद्वानपि त्वं किं प्रजल्पसि ।
लोकवेदपथांस्त्यक्त्वा समूलान्विपिनान्तरे ॥ १४-
निशि स्त्रियो वयं प्राप्तास्ता अपि त्यजता त्वया ।
विनाशिता प्रेमरीतिः कृतध्नत्वमुपार्जितम् ॥ १४-
वयं तु न गमिष्यामस्त्यक्तसर्वपरिग्रहाः ।
विरहाग्नौ तनुर्हुत्त्वा त्वामेष्यामो न संशयः ॥ १४-
तस्माद्भजस्व गोविन्द नोपेक्ष्या गोपिका वयम् ।
त्यजाग्रहमिमं कृष्ण प्रेमरीतिं समाश्रय ॥ १४-
इत्यावेदितमाकर्ण्य गोपिकानां यथार्थतः ।
वचः पीयूषधाराभिस्तासामाह्वादयन्मनः ॥ १४-
उवाच वचनं कृष्णो मधुरस्मितवीक्षणः ।
धन्यातिधन्या भो गोप्यो यूयं मत्प्राणवल्लभाः ॥ १४-
न निवार्याः कदाचिद्वा भवत्प्राणमयेन मे ।
निषेधो वाग्विलासोत्थो मयि युञ्ज्यो न कर्हिचित् ॥ १४-
जानेऽहं भवतीः प्रेमबद्धा एव मयि स्फुटम् ।
त्वद्वचः श्रीतुकामत्वान्निषेधोऽयं न वास्तवः ॥ १४-
जिज्ञासूनामसन्दिग्धो रूपितो धर्मनिर्णयः ।
पतिसेवापरं शास्त्रं मामेव पतिरूपिणम् ॥ १४-
निरूपयत्यलब्धत्वाद् भावनामात्रमन्यतः ।
भवतीनां पतिस्तस्मादहमेव सनातनः ॥ १४-
इत्युक्त्त्वा मध्यगस्तासां रेमे रामाभिरन्वितः ।
पृथगालिंग्य ताः सर्वा बिम्बाधरसुधां पपौ ॥ १४-
हासयन् प्रहसन् कृष्णो नानाक्रीडाकुतूहलैः ।
नीवीराकर्षयन्कासां कासामास्यं पिबन्नपि ॥ १४-
आलिङ्गतीर्विहायान्या अन्यां आलिङ्गयन्नपि ।
पिबन्नधरपीयूषं कासाञ्चिद्दद्भिरादशत् ॥ १४-
सीत्कृतान्यसृजन् गोप्यः अर्द्धमीलितलोचनाः ।
एवं रसवशः कृष्णो रेमे तन्मण्डले प्रभुः ॥ १४-
अत्यातुरमिति ज्ञात्वा कृष्णं स्ववशमागतम् ।
मेनिरे गोपिकाः सर्वाः स भावोऽपि रासात्मकः ॥ १४-
रसः परिणतः सोऽय मानरूपेण निश्चितम् ।
एषा शृङ्गारमर्ययादा रसशास्त्रनिरूपिता ॥ १४-
कारण शृणु तत्रापि यन्न वाच्यं कथञ्चन ।
अक्षरस्य दिदृक्षाय या पूरणार्थमपेक्षिता ॥ १४-
अन्तर्द्धानं च तत्रापि मानो हेतुतयोद्गतः ।
अथ मानवतीर्वीक्ष्य तासामेव हृदि प्रभुः ।
रसरूपो विलीनोभून्मानमुत्सादयन्निव ॥ १४-
अक्षरस्थ मनोवृत्तिरावेशरहिता पुनः ।
स्थानं प्राप्ता रासलीलावासनावासिता सती ॥ १४-
तया विहितविज्ञानो मण्डलस्थमतर्कयत् ।
एवं ददर्श भगवान् रासक्रीडामहोदयम् ॥ १४-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे चतुर्दशं पटलम् ॥ १४-
अथ पञ्चदशं पटलम्
शिव उवाच
अन्तर्भूते परमानन्दे द्विधा च हृदि मण्डले ।
अदृष्ट्वा निजनाथं तमतप्यन्विरहातुराः ॥ १५-
मनस्यानन्दसम्पूर्णे लतावृक्षादिषु स्फुटम् ।
चैतन्यस्फूर्त्तिरभवत्ततोऽपृच्छंस्तरूंल्लताः ॥ १५-
यो नादादुत्तरं तं तं निनिन्दुर्धृतनिश्चयाः ।
कृष्णावेशात् कृष्णभावं गताः कृष्णोऽहमूचिरे ॥ १५-
एवं नानाविधा लीलाः कुर्वन्त्यो विरहातुराः ।
तामसीशिक्षया सर्वा एकीभूत्वाथ यूयशः ॥ १५-
व्रजस्य लीलानुकृतिं चक्रुस्तत्प्राप्तिसाधनम् ।
पूतनावधमारभ्य यावद्दाम्ना निबन्धनम् ॥ १५-
व्रजलीला [ब्रजलीलाविभवतश्चित्तगो इत्यपि पाठः ।] विधेर्भावश्चित्तगोभूत्परात्मनः [रासलीलावसाने जलक्रीडानन्तरं श्रीयमुनातटमण्डपस्थसखीमध्यगतः भगवान् स्मृतरासमध्यान्तर्धानेन सखीगणेन अन्तर्हिते भवति मया सम्पूर्णतया व्रजलीला कृतेति यदा विज्ञापितस्तदैव सम्पूर्णव्रजलीलां स्मृतिपथारूढां कृतवानिति सम्प्रसादो नवरङ्गस्वामी किलाज्ञापयति ।] ।
नित्याखण्डा व्रजस्येयं लीला वेदेनुवर्णिताः ॥ १५-
पुनरक्षरचित्तवृत्तिराविष्टाविबंभौ ततः ।
सखीनां मण्डलादेव विस्मितोदारमुखाम्बुजः ॥ १५-
तडित्प्रकाशवसनस्तारहारविराजिताः ।
स्फुरत्कटाक्षमालाभिः सुधाभिरिव शीलयन् ॥ १५-
तं दृष्ट्वा विरहाक्रान्ता दुःखमात्यन्तिकं गताः ।
पुनरानन्दसन्दोहमग्ना एव हि केवलम् ॥ १५-
रुदन्तीनां मुखान्यश्रुप्रवाहकलुशान्यपि ।
स्ववस्त्राञ्चलमादाय करेणामृजदच्युतः ॥ १५-
आलिङ्गनानि चुम्बानि नानाभावनिदर्शनम् ।
चकार भगवांस्ताभी रसलीलामहोदयम् ॥ १५-
सखीभिर्विरहे दुःखमनुभूतमभूच्च यत् ।
तच्चानन्दसुधाम्भोधौ विलापितमभूदहो ॥ १५-
जलक्रीडां ततश्चक्रे यमुनाया जले शुचौ ।
तीरे स्थित्वा पुनर्गोप्यो विवादांश्चक्रिरे ततः ॥ १५-
समाहिता भगवता परमानन्दसमप्लुताः ।
इत्येषा रासलीलायाः स्थितिः प्रोक्ता तवानघे ॥ १५-
शिव उवाच
अवशिष्टस्य कामस्य सखीनां पूरणाय च ।
आविश्चकार कालमायां पुनस्तां पुरुषोत्तमः ॥ १५-
अपश्यदक्षरः स्वप्नं कालमायाविजृम्भितम् ।
प्रातर्नन्दगृहे सुप्तः प्रबुद्धोऽस्मीति निश्चितम् ॥ १५-
सखीश्च ददृशे सर्वा गोपगेहेभ्य उत्थिताः ।
न मूलावेशतः किञ्चित् कूटस्थस्यैव वासनाः ॥ १५-
उज्जृम्भिता बहुविधा तदद्भुतमिवाभवत् ।
कुर्मार्ययः श्रुतयश्चापि कालमायाप्रपञ्चगाः ॥ १५-
अत्युग्रविरहावेशादुद्धवस्यापि शिक्षया ।
कूटस्थान्तर्हृदि स्फूर्जद्व्रजलीलारसोदधौ ॥ १५-
निम्नगा इव तिष्ठन्ति तच्चित्तस्य रसस्पृशः ।
अथ कंससमदिष्टो ह्यक्रूरो गोकुलं गतः ॥ १५-
तेन साकं गते कृष्णे गोपिका विरहातुराः ।
दुःखेन निन्युर्दिवसान् तत्कथा [तत्कथेल्लापनादिभिरित्यपि पाठः ।] ख्यापनादिभिः ॥ १५-
हत्वा कंसं मल्लयुद्धे चाणूरं मुष्टिकं तथा ।
बद्धकच्छोल्लसद्धूलिधूसरश्चासृगांकितः ॥ १५-
पश्यतां सर्वलोकानां प्राप्तः कारागृहं गृहम् ।
देवकी वसुदेवश्च यत्रैवासत्रुत्सुकौ ॥ १५-
ववन्दे चरणौ मातुः पितुः प्रणयविह्वलः ।
बद्धाञ्जलिर्जगादेदं क्षम्यतामिति मां प्रति ॥ १५-
प्रसाद्य पितरं कृष्णो मातरं च विशेषतः ।
यमुनायां ततः स्नात्वा शुचिदिव्याम्बरं दधौ ॥ १५-
जरासन्धादिकान् हत्वा समुद्वाह्य सुलोचनाः ।
षोडशैव सहस्राणि शतमष्टोत्तरं तथा ॥ १५-
हत्वासुरभरं पृथव्याः यादवैरुपबृंहितम् ।
भारं जिहीर्षुर्भगवान् कुले शापमपातयत् ॥ १५-
शापदग्धधियः सर्वे यादवाश्च परस्परम् ।
विनेशुर्भगवांस्तत्र प्रभासे रहसि स्थितः ॥ १५-
चतुर्भुजः कञ्जपलाशलोचनः
पीताम्बरः कौस्तुभशोभिताकृतिः ।
स्वपाञ्चजन्याम्बजचक्रसद्गदः
प्रगल्भसङ्गीतगुणो बभौ हरिः ॥ १५-
व्याधेन शरसंस्पृष्टः पादे मृगविशङ्कितः ।
वैकुण्ठमगमत्साक्षद्धारिः कमललोचनः ॥ १५-
कालामायागृहीताङ्गा मूलसख्यस्तुयाः स्थिताः ।
ता अपि स्वप्नलीलायां विचित्राकृतयोऽभवन् ॥ १५-
तद्वासनास्तासु लीना भविष्यन्ति यदा प्रिये ।
बोधमाप्स्यति कूटस्थः प्रलयोऽयं महान् शिवे ॥ १५-
मोहनाशे भविष्यन्ति सर्वे ब्रह्ममया इमे ।
इत्येतत्ते समाख्यातं यत्पृष्टोऽहं त्वया शिवे ॥ १५-
गुह्याद् गुह्यतरं शास्त्रमिदमुक्त मयाऽनघे ।
गोपितव्यं प्रयत्नेन जनजीजारगर्भवत् ॥ १५-
इति माहेश्वरतन्त्रे ज्ञानखण्डे शिवोमासंवादे पञ्चदशं पटलम् ॥ १५-
अथ षोडशं पटलम्
देवेश भगवन् शम्भो यत्त्वयोक्तमलौकिकम् ।
तच्छ्रुत्वा हृदयं मेद्य मज्जते विस्मयोदधौ ॥ १६-
तत्रोक्तं यत्त्वया देव प्रिया भगवतस्तु याः ।
कामशेषानुभूत्यर्थमिहासन्निति शङ्कर ॥ १६-
अवशिष्टः कथं कामोऽनुभूतस्ताभिरीश्वर ।
कथं वा लक्षयेयुस्ता लक्षणैरिति तद्वद ॥ १६-
मर्त्यलोकं गतानां च कृष्णस्त्रीणां महेश्वर ।
गुरुभावं गतोऽसि त्वं प्रोक्तवानसि यद्रहः ॥ १६-
योगिनो ज्ञानिनो भक्ताः कर्मनिष्ठास्तपोधनाः ।
तेषां गुरुस्त्वमाद्यो हि तत्तत्तत्त्वोपदेशकः ॥ १६-
त्वामनादृत्य ये पापाः प्रवर्त्तन्ते स्वकर्मसु ।
न तेषां जायते सिद्धिः कोटिकल्पशतैरपि ॥ १६-
त्वमेव सर्वधर्माणां कर्त्ता वक्ताभिरक्षिता ।
त्वद्भक्त्यैव हि संसिद्धिर्नृणां भवति कर्मजा ॥ १६-
त्वदुक्त्या बोधमाप्स्यन्ति भूतले भगवत्प्रियाः ।
मर्त्त्यदेहगतानां तु गुरुभूतोऽसि शङ्कर ॥ १६-
तस्मादवश्यमेवैतदुपदेष्टव्यमीश्वर ।
मययपि कृपया नूनं रहस्यमिदमद्भुतम् ॥ १६-
शिव उवाच
धन्यासि देवदेवेशि ललित ते परं वचः ।
श्रुत्वा प्रसन्नहृदयः कथयिष्ये कथां शुभाम् ॥ १६-
अहं लोकगुरुः साक्षात् धर्मवक्ता जगत्त्रये ।
तं मां निन्दन्ति ये मूढास्तेषां सिद्धिः कथं भवेत् ॥ १६-
नानादैवतसद्भक्त्या नानाधर्मैर्व्यवस्थिताः ।
तत्र तत्रोपदेष्टाऽहं तं मां निन्दन्ति पामराः ॥ १६-
किं न कुर्वन्ति ते मूढाः यतो माया महेशितुः ।
बलीयसी विमोहार्हान् विमोहयति नापरान् ॥ १६-
भविता फलरूपश्च येषां धर्मः सनातनः ।
ते [बहुधाधुनिका मूढधियः सुखमिति स्वर्गः दुःखमिति नरक इति अभिधायान्यत्र स्वर्गनरकस्थानं पृथक् न मन्यन्ते तदसत् चतुर्दशलोकानां मध्ये इत ऊर्ध्वं तृतीयं स्वः अधः सप्तमः पातालाख्यो लोकस्तत्रैव दक्षिणाशायां निरयाणाः मनकेषां स्थितिरिति सत्यम् ।] न निन्दन्ति देवांश्च धर्मान्वेदान्मतानि च ॥ १६-
पाखण्डवादनिरता वेदधर्मविनिन्दकाः ।
नरकं प्रतिपद्यन्ते न निवर्त्तन्ति कर्हिचित् ॥ १६-
इदमेव लक्षणं देवि मर्त्यलोकगतासु तत् ।
अक्षरः परमात्मा च स्वभिन्नौ पुरुषावुभौ ॥ १६-
शब्दब्रह्म परब्रह्म ह्येतदप्यद्वयं प्रिये ।
शब्दब्रह्मोदिता धर्माः कर्मज्ञानादयः प्रिये ॥ १६-
ते सर्वे स्वात्मबोधाय यदि कामविवर्जिताः ।
धर्माऽनुष्ठातृनिन्दाभिर्धर्मा एव विनिन्दिताः ॥ १६-
तत्र धर्मस्य निन्दाभिः शब्दब्रह्मैव निन्दितम् ।
तन्निन्दया परब्रह्म अक्षरः स्याद्विगर्हितम् ॥ १६-
गर्हिते ह्यक्षरे देवि गर्हितः पुरुषोत्तमः ।
स्वभर्त्तुर्निन्दया देवि तत्प्रियाणां कुतो गतिः ॥ १६-
न निन्देन्मनसा वाचा धर्मान्वेदपथांन् शिवान् ।
ब्राह्मणान्कर्मनिष्ठांश्च हविः कामदुघाश्च गाः ॥ १६-
तस्मादित्यादिकं सर्वं मनसा वेद्य तत्वतः ।
निन्दाद्वेषादिरहितो भजते पुरुषोत्तमम् ॥ १६-
प्रतिविंद्याद् देवदेवेशि कृष्णस्यैव प्रियेति ताम् ।
सर्वमक्षरसम्भूतं विदित्वानन्यभावतः ॥ १६-
प्रणमेन्मनसा वाचा तमाहुः कृष्णवल्लभा ।
पातिव्रत्यमिदं देवि तदनन्यविभावनम् ॥ १६-
स एवेदं बभूवाग्रे पश्चादप्येवमेव सः ।
क एवान्योऽस्ति देवेशि तत्त्वदृष्ट्यावलोकने ॥ १६-
तस्मादिदं पातिव्रत्यं कृष्णस्त्रीणां मयोदितम् ।
पातिव्रत्यपरिज्ञानं यो न जानाति केवलम् ॥ १६-
न तस्मिन्वासनालेशो निश्चितं सुरवन्दिते ।
पतिव्रताधर्ममिमं सद्गुरोः शास्त्रतोऽपि वा ॥ १६-
निशम्याप्नोति तन्निष्ठां तमाहुः कृष्णवल्लभा ।
केचिद्वदन्ति वै मूढाः पातिव्रत्यमितोऽन्यथा ॥ १६-
एक एव पतिः सेव्यो नान्यो मान्यः कदाचन ।
अन्यस्य सेवया लोके योषित्सा पतिता भवेत् ॥ १६-
पातिव्रत्यमिदं देवि लौकिकं न त्वलौकिकम् ।
अनीश्वरः परिच्छिन्नः सदोषो लौकिकः पतिः ॥ १६-
योषित्सापि तथा लोके पातिव्रत्यमतस्तथा ।
ईश्वरस्तु विभुः साक्षाद्विश्वात्मा विश्वविग्रहः ॥ १६-
स एव सर्वरूपैश्च नामभिः ख्यातिमागतः ।
सर्वनामस्वरूपं च ज्ञात्वा ब्रह्म सनातनम् ॥ १६-
दृष्ट्याऽविषमया देवि सर्वत्र परिपश्यति ।
पातिव्रत्यमिदं भद्रे मयैतत्कथितं शुभम् ॥ १६-
इत्येतन्निर्णयाज्ञानाद्विभ्रमन्ति विमोहिताः ।
षट् दर्शनानि मेऽङ्गानि पादौ कुक्षी करौ शिरः ॥ १६-
तेषु भेद तु यः कुर्यान् मदङ्गच्छेदको हि सः ।
एव पतिव्रताधर्मं सम्यक् ज्ञात्वा गुरोर्मुखात् ॥ १६-
पतिं परिचरेद्यस्तु तमाहुः कृष्णवल्लभा ।
श्रुत्वा कृष्णकथालापं यद्वपुः पुलकाङ्कितम् ।
आनन्दाश्रुजलं नेत्रे तमाहुः कृष्णवल्लभा ॥ १६-
श्री पार्वत्युवाच
कामसङ्कल्परहितं कर्म वर्णाश्रमोचितम् ।
कस्मात्करोति यस्येच्छा कामसङ्कल्पवर्जिता ॥ १६-
अनुद्दिश्य फलं देव न बालोऽपि प्रवर्तते ।
ब्रह्मसृष्टि [ब्रह्मसृष्टिवासनेह ह्यत्तमजीवानामुपरि संस्थिता मायामनु भवति ।] गतो जीवः कस्माद् व्यर्थं प्रवर्तते ॥ १६-
मोहसृष्टिसमुद्भूताः स्वर्गादिफलमोहिताः ।
ते कर्मणि प्रवर्त्तन्ते न तच्चित्रं महेश्वर ॥ १६-
कृष्णप्रियाः कृष्णरूपा [कामनाभिरित्यपि पाठः ।] वासनाभिः समागताः ।
कथं ताः कर्मणि व्यर्थे नियोजयसि शङ्कर ॥ १६-
शिव उवाच
अप्रबुद्धः प्रबुद्धो वा कर्म कुर्यात्सदाहितम् ।
सकामं निन्दितं कर्म मुमुक्षुं प्रति मानिनी ॥ १६-
क्रियावान् पुरुषः श्रेष्ठो भवाब्धिं तरते सुखम् ।
क्रियाविरहिता लोके धर्मभ्रष्टा विभान्ति मे ॥ १६-
अश्रद्दधानात् धर्मेषु विद्वांसः कृपया विभो ।
नोपदेश्यन्ति शास्त्रार्थमुषरे बीजवत्प्रिये ॥ १६-
न च तत्वस्य निर्धारः शास्त्रहीनस्य जायते ।
तदर्थं निर्णयं शास्त्र त्यक्त्वाऽन्यत् साधनं मुधा ॥ १६-
श्वपुच्छालम्बनं यद्वत्तितीर्षोः सागरं यथा ।
विना तत्वस्य निर्धारं शङ्कापि न निवर्त्तते ॥ १६-
शङ्कापङ्काङ्कमलिने हृदये नैव सुन्दरि ।
प्रेमार्कप्रतिबिम्बः स्याद्येन कृष्णः प्रभासते ॥ १६-
तस्माद्वर्णाश्रमाचारभ्रष्टे नरचतुष्पदे ।
नैव ज्ञानं तथा भक्तिर्यथार्थोदेति निश्चयः ॥ १६-
नित्यं नैमित्तिकं तस्मात्कर्तव्यं तदशङ्कया ।
काम्यं निषिद्धं यत्कर्म तत्तुदूरात्परित्यजेत् ॥ १६-
नित्यं नैमित्तिकं कर्म फलं बध्नाति न क्वचित् ।
अननुष्ठानमात्रेण प्रत्यवायस्तु जायते ॥ १६-
अनुष्ठाने फलं नास्ति चित्तशुद्धिं विनेतरत् ।
काम्यादिकर्मकर्त्तारो देहभाजः पुनः पुनः ॥ १६-
तस्मात्काम्यं परित्यज्य नित्यं विद्वान् समाचरेत् ।
अप्रबुद्धदशायां च प्रबुद्धायामपि प्रिये ॥ १६-
कर्त्तव्यं सहजं कर्म न तान्विघ्नः प्रभूयते ।
प्रबुद्धस्यापि यत्कर्म तत्र मे निर्णयं शृणु ॥ १६-
वार्त्तामात्रेण विज्ञानं प्रबोधो नैव वास्तवः ।
साक्षात्प्रबोधे देवेशि देहः सद्यो विलीयते ॥ १६-
तस्माच्छाब्दप्रबोधोऽयं परमार्थो न विद्यते ।
संसारमोहनाशाय शाब्दबोधो न हि क्षमः ॥ १६-
न निवर्त्तेत तिमिरं कदाचिद्दीपवार्तया ।
ज्वलितः पतितो देहौ यदा विरहवह्निना ॥ १६-
तदा विद्यादात्मबोधमन्यथा शाब्द एव सः ।
शाब्दप्रबोधमात्रेण नित्यं नैमित्तिकं त्यजेत् ॥ १६-
प्रत्यवायी स विज्ञेयो नासौ बोधमवाप्नुयात् ।
यावद्देहाभिमानः स्यान्ममता तावदेव हि ॥ १६-
तावद्देहानुबन्धित्वात्कर्म कर्तव्यमेव हि ।
शास्त्रोक्तं कर्म कर्त्तव्यं विकर्म विनिवृत्तये ॥ १६-
विकर्मणि प्रवृत्तिस्तु नृणां स्वाभाविकी यतः ।
विकर्मणः प्रभावेन देहभाजः पुनः पुनः ॥ १६-
नित्यं नैमित्तिकं देवि फलं सङ्कल्पवर्ज्जितम् ।
चित्तं शोधयते साध्वि ! न तु देहाय जायते ॥ १६-
का हानिस्तत्र देवेशि निष्कामाचरणे नृणाम् ।
इत्येवं निर्णयाज्ञानान्मूढाः पण्डितमानिनः ॥ १६-
त्यजन्तः शोधनं कर्म पापचित्ता भ्रमन्ति वै ।
सांसारिकसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम् ॥ १६-
कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ।
देहेन्द्रियसुखासक्तो [सुखासक्तमिति मूलपाठः ।] ब्रह्मज्ञोऽस्मीति यो वदेत् ॥ १६-
न तं वैज्ञानिनं मन्ये मणिभूषितगर्दभम् ।
ब्रह्मवादं पुरस्कृत्य वर्णाश्रमनिबन्धनाः ॥ १६-
विलुंपन्तः क्रियाः सर्वाः लोकनाशकरा हि ते ।
ब्रह्मवादः कलियुगे गेहे गेहे जने जने ॥ १६-
भविष्यति ततः काले धर्मकर्मविलोपनम् ।
धर्मकर्मविहीनानां पापमेवानुसेवताम् ॥ १६-
तेषामासुरजीवानां नरकं न निवर्त्तते ।
तस्मादेवं सुनिर्णीय धर्मकर्मपरायणाः ॥ १६-
कृष्णमेवानुसेवन्तस्तान्मन्ये कृष्णवल्लभाः ।
इति ते कथितं देवि वासनालक्षणं मया ॥ १६-
यज्ज्ञात्वा ह्यचिरादेव स्वात्मबोधः प्रजायते ॥ १६-
इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे षोडशं पटलम् ॥ १६-
अथ सप्तदशं पटलम्
पार्वत्युवाच
भगवन् देवदेवेश निर्णयः साधुसंमतः ।
कथितोऽयं सदाचारलक्षणः पावनो नृणाम् ॥ १७-
धर्मकर्मविहीनानां सदाचारं विमुञ्चताम् ।
मलीमसानां दुष्टानां ब्रह्मसिद्धिर्न जायते ॥ १७-
यथा जह्यात् शनैरम्भः सोपानानि क्रमात् क्रमात् ।
तथा देहानुसम्बन्धान् शनैर्जह्यात् स पण्डितः ॥ १७-
देहाभिमाने गलिते विज्ञाते स्वात्मनि स्वयम् ।
अश्मकाञ्चनयोस्तुल्यं भावप्राप्तौ समस्थितौ ॥ १७-
उदासीनारिमित्रेषु स्वानन्दानुभवोदये ।
न कर्मभिस्तदा कार्यं सम्राजो भिक्षया यथा ॥ १७-
यथामृतेन तृप्तस्य नाहारेण प्रयोजनम् ।
स्वात्मानन्दोदये तद्वत्कर्माभिनं प्रयोजनम् ॥ १७-
तालवृन्तेन किं कार्यं लब्धे मलयमारुते ।
स्वात्मानन्दोदये जाते कर्मणा किं प्रयोजनम् ॥ १७-
पार्वती उवाच
साध्वेतद्व्याहृतं देव त्वया भागवता प्रभो ।
परं वेदितुमिच्छामि सन्देहाकुलमानसा ॥ १७-
ब्रह्मवादः कलियुगे गेहे गेहे जने जने ।
धर्मकर्मविलोपार्थं भविष्यति न संशयः ॥ १७-
इति यद्भवता प्रोक्तं तत्र मे संशयो महान् ।
ब्रह्मवादेन सदृशं पवित्रं नहि किञ्चन ॥ १७-
तपो दानं क्रिया योगः स्वाध्यायनियमा यमाः ।
समाप्यन्ते महेशान ब्रह्मज्ञानोदयादनु ॥ १७-
ब्रह्मज्ञानैकनिष्ठानां महादेव महात्मनाम् ।
सर्वं सम्पूर्णतां याति नित्यं नैमित्तिकं च यत् ॥ १७-
ब्रह्मज्ञानेन मुच्येत यदि चेद्विश्वघातकः ।
न तस्य कर्मलोपोऽस्ति पद्मस्यैवाम्भसा यथा ॥ १७-
कलिस्तु सुमहान् पापस्तामसात्मा मलीमसः ।
अधर्मे रमते नित्यं येन स्पृष्टा प्रजा भुवि ॥ १७-
यत्रोदेष्यन्ति पाषण्डा धर्मनिर्नाशहेतवः ।
वर्णानां सङ्करो यत्र स्वस्वकर्मविलुम्पताम् ॥ १७-
कन्या विक्रयिणश्चैव वेदविक्रयिणो द्विजाः ।
म्लेच्छाचाररता लोके म्लेच्छभाषाविशारदाः ॥ १७-
म्लेच्छान्नपानपुष्टाङ्गा धर्मकर्मविनिन्दकाः ।
स्वाहास्वधाविरहिताः शिश्नोदरपरायणाः ॥ १७-
परस्त्रीपरधनलोभाय हेतुवादपरायणाः ।
कलौ सर्वे भविष्यन्ति सर्वधर्मविवर्जिताः ॥ १७-
ब्रह्मवादः कलियुगे गेहे गेहे जने जने ।
असम्भाव्यमिवाभाति ममैतत्सुरपूजित ॥ १७-
कलावपि महापापे प्रवृत्तं ब्रह्मकीर्तनम् ।
तत्कथं धर्मलोपाय लोकानां मेऽत्र विस्मयः ॥ १७-
विचार्य ब्रुहि मे देव कृपया करुणानिधे ।
शिव उवाच
साधु पृष्टं त्वया भद्रे सर्वलोकैकहेतवे ॥ १७-
तदहं ते प्रवक्ष्यामि शृणुष्वैकाग्रमानसा ।
यस्य श्रवणमात्रेण धर्मश्रद्धा प्रजायते ॥ १७-
पुरा द्वादशवार्षिक्यामनावृष्ट्यामनम्भसि ।
दवाग्न्यर्कविनिर्दग्धवनकन्दादिसम्पदि ॥ १७-
क्षुत्तृट्परीतावै [क्षतृड्भ्यां च परीतापैः इत्यपि पाठः ।] काश्चित्प्रजा गिरिगुहाश्रिताः ।
परस्परं भक्ष्यमाणामम्रिरे व्याधिकर्षिताः ॥ १७-
गौतमस्याश्रमे रम्ये तपतीतीरसंस्थिते ।
क्षुधार्ता ब्राह्मणाः प्राप्ता देहनिर्वाहकाम्यया ॥ १७-
अलक्षन् गौतममुनिं शिष्यराशिपरिवृतम् ।
ब्रह्मतेजःप्रभावेन ज्वलन्तमिव पावकम् ॥ १७-
अन्नान्युत्पाद्य तपसा पुष्णन्तं शिष्यसंहतिम् ।
प्रणेमुर्ब्राह्मणाः सर्वे निबद्धकरसम्पुटाः ॥ १७-
ब्राह्मणा ऊचुः
त्राहि त्राहि मुने प्राप्तान् शरण्यान् शरणप्रद ।
जाठरेणाग्निना तप्ता वयं सर्वे द्विजातयः ॥ १७-
अलभ्यं कन्दमूलादि निर्जले क्षितिमण्डले ।
न प्रवर्त्तन्त एवेह क्रिया निगमचोदिताः ॥ १७-
अन्नं वै प्राणिनां प्राणाः प्राणदोन्नं ददाति यः ।
तस्मादन्नप्रदानेन प्राणदो नः पिता भवान् ॥ १७-
एकतः सकला धर्मा यज्ञाः सर्वस्वदक्षिणाः ।
तपांस्युग्राणि दानानि व्रतानि सुबहून्यपि ॥ १७-
न तुलामधिगच्छन्ति ह्यन्नदानस्य वै मुने ।
क्षुत्पिपासे प्राणधर्मौ क्षुधया कृष्यते वपुः ॥ १७-
वपुःकार्श्ये चेन्द्रियाणि कर्षितानि भवन्ति वै ।
म्लानेन्द्रियमनोवृत्तेः विवशित्वं प्रपद्यते ॥ १७-
मनोम्लानौ बुद्धिलयस्ततो ध्यानं निवर्तते ।
अध्यायतः कुतः स्वात्मानुभूतिर्भवति प्रभो ॥ १७-
तस्मादन्नेन सदृशं दानं नास्ति जगत्त्रये ।
म्लानेन्द्रियमनोवृत्तेः क्षुधया पीडितस्य च ॥ १७-
अन्नाभिकाङ्क्षिणो येन प्राणतृप्तिः कृता मुने ।
तेन दत्तं हुतं जप्तं तपस्तप्तं शुभं कृतम् ॥ १७-
पृथ्वी रत्नेन सम्पूर्णा तेन दत्ता द्विजातये ।
तस्यैव ज्ञानससिद्धिर्भवतीति श्रुतं हि नः ॥ १७-
किमन्यज् ज्ञाप्यते तुभ्यं सर्वज्ञाय मुनीश्वर ।
तथाविधेह्यंग तूर्णं यथा नः प्राणधारणा ॥ १७-
शरीरमूलमन्नं हि धर्ममूलमिदं वपुः ।
चित्तशुद्धौ विशेषेण धर्म एव हि कारणम् ॥ १७-
भक्तिर्ज्ञानं च वैराग्यं [शुद्धिश्चित्तस्य इत्यपि पाठः ।] शुद्धचित्तस्य जायते ।
सर्वार्थसाधनं तस्माच्छरीरमिदमुच्यते ॥ १७-
पुनर्ग्रामं पुनर्वित्तं पुनः क्षेत्रं पुनर्गृहम् ।
पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥ १७-
शरीररक्षणायासः कर्त्तव्यः सर्वथा बुधैः ।
नहीच्छन्ति तनुत्यागमपि कुष्टादिरोगिणः ॥ १७-
तद्गोपितं स्याद्धर्मार्थे धर्मो ज्ञानार्थमेव च ।
ज्ञानं तु ध्यानयोगार्थमचिरात्तेन मुच्यते ॥ १७-
तपः प्रभावमास्थाय पाह्यस्मान् कृपणानिह ।
इत्येवं वचनं तेषां ब्राह्मणानां तपोधनः ॥ १७-
दीनानां क्षुधयार्त्तानां निशम्य करुणोऽभवत् ।
गौतम उवाच
साधु साधु महाप्राज्ञा न्याययमेतद्वचो हि वः ॥ १७-
धर्मार्थकाममोक्षाणां साधनं देह उच्यते ।
रक्षितव्यः प्रयत्नेन तस्माद्देहो मुनीश्वराः ॥ १७-
देहत्यागं न चेच्छन्ति ये भक्ता ये च साधकाः ।
महापापादिभिर्लिप्तः सर्वकर्मविनिर्गतः ॥ १७-
पृथिवीभारभूतो यो देहस्त्याज्यः स एव हि ।
पितृदेवातिथीनां च कर्मणि यः सुपुण्यकृत् ॥ १७-
ईश्वरध्यानयोग्यश्च स कथं त्यागमर्हति ।
कर्मणापि निषिद्धेन देहः पोष्य इहा यदि ॥ १७-
दग्ध्वा तानि पुनः सोऽयं नयते हि गतिं पराम् ।
यावद्देहस्थितिर्लोके तावत्कुशलमाचरेत् ॥ १७-
जलबुद्बुदतुल्योऽयं यस्मादेषो विनश्वरः ।
अस्थिरेण शरीरेण स्थिरधर्मं समाचरेत् ॥ १७-
सर्वं ब्रह्ममयं पश्यन् मुच्यते मोहसङ्कटात् ।
स चाहं तपसा तस्मात्करिष्ये वः समीहितम् ॥ १७-
विज्वराः सन्तु भो विप्राः स्वस्वकर्मण्यतन्द्रिताः ।
धन्यस्य कृतपुण्यस्य द्वार्यायान्त्यर्थिनो जनाः ॥ १७-
तेन सम्भावनीयास्ते प्राणैरपि धनैरपि ।
पञ्चभूतात्मको देहस्वनित्यः क्षणभङ्गुरः ॥ १७-
अवश्यं नाशमायाति कीर्तिधर्मौ न सर्वथा ।
भूतद्रोहं परित्यज्य दया भूतेषु नो धृता ॥ १७-
नोपार्जितोऽपि सद्धर्मः स्फारितं न यशो भुवि ।
नात्मा विमर्शितः शुद्धो वेदविद्भिश्च साधुभिः ॥ १७-
भूमिभराय तज्जन्म जीवन्नेव मृतो हि सः ।
तस्मात्तपोव्ययेनाहमर्थिनां वो मुनीश्वराः ॥ १७-
परिचर्यां करिष्येहं यथा स्याद्देहधारणा ।
इत्युक्त्वा गौतमस्तान् वै दानमानार्हणादिभिः ॥ १७-
सम्भावयामास तदातिथ्यागमनहर्षितः ॥ १७-
इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे सप्तदशं पटलम् ॥ १७-
अष्टदशं पटलम्
शिव उवाच
एवं सम्भावितास्तेन मुनिना मुनयस्तदा ।
असम्बाधे शिवे तस्मिन्नाश्रमे न्यवसन्सुखम् ॥ १८-
[प्रातरुत्थाय इति वा पाठः ।] प्रातरुप्तानि मध्याह्ने परिणामं गतानि च ।
अन्यान्यपरभागे तु तैर्मुनिस्तानजीवयत् ॥ १८-
हव्येर्देवान् पितृन्कव्यैस्तर्पयन्तो मुनीश्वराः ।
ततः शेषामृतभुजो निन्युस्तेऽहर्गणान् बहून् ॥ १८-
ततो द्वादशवर्षान्ते वृष्टिरासीत्सुशोभना ।
साङ्कुरा सजला पृथ्वी पुनरासीद्यथा पुरा ॥ १८-
प्रजाः स्थानानानि भेजुस्ताः पूर्वं गिरिगुहाशयाः ।
अन्नादिविरहान्नष्टो धर्मः प्रावर्तत प्रिये ॥ १८-
क्षितिरन्नादिसम्पूर्णा विश्वमासीत्सुमङ्गलम् ।
ततः कतिपये काले गन्तुकामाः मुनीश्वराः ॥ १८-
प्रेमबद्धोऽन्वह विप्रान्न्येषधद्विरहाक्षमः ।
निषिद्धाः कतिचिन्मासान् न्यवसंस्ते मुनीश्वराः ॥ १८-
पुनः पप्रच्छुरौत्सुक्यात्स्वस्वाश्रमगतिं प्रति ।
नेत्याह गौतमो विप्रान् विरहव्यथितो भृशम् ॥ १८-
ततस्ते कृतसङ्केताः केचित्तेष्वपि वाडवाः ।
ऊचुः परस्परं येन मुनित्यागः कथं भवेत् ॥ १८-
मुनिः स्नेहवशाद्बद्धः स्वयमस्मान्न सन्त्यजेत् ।
अस्माभिस्त्यज्यते सोऽयं तथा कुर्वध्वमादृताः ॥ १८-
विमर्षंतस्तथान्योऽन्यमुपायं मनसागमन् ।
अभिषापं मुनौ धृत्वा गमिष्यामो यथारुचि ॥ १८-
ते दैवनिहताः सर्वे परस्परममन्त्रयन् ।
कदाचिदथ मध्याह्ने कर्तुं मध्याह्निकीं क्रियाम् ॥ १८-
ऋषिसङ्घैः परिवृतो जगाम तपतीं प्रति ।
निर्मितां मुनिभिर्धेनुं जरठामतिवेपतीम् ॥ १८-
सीदन्तीं कलिले वीक्ष्य गौतमः करुणोऽभवत् ।
आसाद्य सुरभेः पार्श्वं यावत्तामस्पृशन्मुनिः ॥ १८-
तावत्पपात सहसा मायाधेनुर्मृतिं गता ।
तद्दृष्ट्वा मुनयः प्रोचुर्धिग्धिक् गौतम ते कृतिम् ॥ १८-
हिंसिता धेनुरबला किमतो निन्दितं भवेत् ।
अद्य प्रभृति ते द्वारि जलमात्रार्थिभिर्नरैः ॥ १८-
न स्थातुमर्हाः किं कुर्मो गमिष्यामो वयं ततः ।
एवमुक्तो मुनिर्ध्यात्वा तत्कृतानर्थमाप सः ॥ १८-
उवाच वचनं क्रुद्धो ज्वलन्निव हुताशनः ।
वेदबाह्या भविष्यध्वं कृतघ्नाः स्वेन कर्मणा ॥ १८-
वेदब्राह्मणगोमन्त्रनिन्दावादपरायणाः ।
कलौ भविष्यथो मूढाः ब्रह्मवादपरायणाः ॥ १८-
अन्तर्दुष्टा बहिः स्वच्छा हेतुवादपरायणाः ।
ब्रह्मज्ञत्वाभिमानेन धर्मकर्मबहिर्मुखाः ॥ १८-
ब्रह्म सत्यं जगन्मिथ्येत्यनुवादविचक्षणाः ।
मिथ्यात्वाज्जगतः किं स्यात्कर्मभिश्च शुभाशुभैः ॥ १८-
इत्येवं नास्तिका मूढा दुर्हृदा वेदनिन्दकाः ।
ब्रह्मवादविलासोत्थैर्वचनैर्भावगर्वितैः ॥ १८-
साधुवेषेण शिक्षाभिः प्रियवाक्यामृतादिभिः ।
एतैर्जवनिकाकारैः पापमावृत्य केवलम् ॥ १८-
ज्ञानित्त्वमात्मनो लोके ख्यापयन्तो दुराशयाः ।
यूयं वैडालिनो लोके भवन्तु चरमे युगे ॥ १८-
न तु वो वास्तवं ज्ञानमुदेष्यति कदाचन ।
इति गौतमशप्तानां धर्मच्छेदोद्यमे ततः ॥ १८-
वासना समभूत्तेषां गौतमं प्रतिकुर्वताम् ।
अथ तद्वासनायुक्ताः कलौ पापयुगे शठाः ॥ १८-
अवतीर्य क्षितितले [वचनमिदमाकर्ण्यं श्रीपूर्णपुरुषोत्तमसेवामतिक्रम्य वेदप्रतिपादितकर्मकाण्डादि चावलम्ब्य निजधाममार्गों ब्रह्मसृष्टिभिरिह नैव त्याज्यः पतिसेवात्यागेन प्रत्यवायदर्शनात् अतो ब्रह्मसृष्टीनां निजपतिपुरुषोत्तमसेवैव परमो धर्मः ।] ब्रह्मसृष्टिमुपाश्रिताः ।
वेदशास्त्रविरुद्धानि ह्याचरन्तीह पामराः ॥ १८-
द्विषन्त्याचारमास्तिक्यं यज्ञव्रततपांसि च ।
द्रुह्यन्त्यन्योऽन्यमासाद्य नष्टज्ञाना विचेतसः ॥ १८-
परद्रव्यपरद्रोहपरस्त्रीगमनोत्सुकाः ।
तत्सम्बन्धात् ब्रह्मसृष्टिर्मालिन्यमुपयास्यति ॥ १८-
यथा कालिमसम्बन्धात् स्फटिकोऽपि मलीमसः ।
आभाति तद्वदेवेयं ब्रह्मसृष्टिस्तदाश्रयात् ॥ १८-
तस्माद् बुभुत्सुभिः साध्वि त्याज्यो वैडालिकाश्रयः ।
समधर्मक्रियाछद्मधारिणस्ते तु कीर्त्तिताः ॥ १८-
अन्येऽपि सन्ति पाषण्डा आसुरं भावमाश्रिताः ।
तेऽपि निन्दन्ति पापिष्ठा वेदधर्म पुरातनम् ॥ १८-
तांस्ते व्रवीमि सङ्क्षेपात् शृणुष्वेकाग्रमानसा ।
यत् शृण्वतां न पाखण्डो बुद्धिं मोहयति क्वचित् ॥ १८-
पुरा देवासुरयुद्धे निर्जितेष्वसुरेष्वथ ।
पाखण्डाधिकृताः सर्वे ह्येते सृष्टाः स्वयम्भुवा ॥ १८-
तपश्चरत्सु सर्वेषु असुरेषु जयार्थिषु ।
विष्णुः सुदुस्तरां मायामास्याय सुरनोदितः ॥ १८-
मोहयामास योगात्मा तपोविघ्नाय तान्प्रभुः ।
स मूढान् बुद्धरूपेण तानुवाच महामनाः ॥ १८-
शक्या जेतुं सुराः सर्वे युष्माभिरितिदर्शनैः ।
बौद्धधर्मं समास्थाय शक्यास्ते बभूविरे ॥ १८-
तानुवाचार्हतो मम यूयं भवत मद्विधाः ।
ज्ञानेन सहितं धर्मं ते चार्हन्त इति स्मृताः ॥ १८-
बौद्धश्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथैव च ।
ऐते सर्वेपि चार्हन्तो विज्ञेया दुष्टचारिणः ॥ १८-
त्रयीक्लेशं समुत्सृज्य जीवतेत्यव्रवीत्तु यान् ।
जीवकानाम् ते जाताः सर्वधर्मबहिष्कृताः ॥ १८-
यान् भूत्वादित्यवद्व्योम्नि धर्मान्वै प्रतिपादयत् ।
कापिलास्तेपि सम्प्रोक्ताः कपिलो हि दिवाकरः ॥ १८-
चरध्वं तानुवाचेदं मच्छासनमतिद्युति ।
चरकास्तेपि विज्ञेया अधर्माचारणाः शठाः ॥ १८-
दीर्घचरमिति प्रोक्त सूक्ष्मं वा धर्मरूपकम् ।
धर्मचरध्वमित्युक्ता यस्मात्ते दीर्घचक्षुषः ॥ १८-
चीराणि चैव नीलानि बिभ्राणाश्चीरकास्ततः ।
एषश्चोक्षोतिसंशुद्धो धर्मस्तं श्रयतेति यान् ॥ १८-
उवाच मायया विष्णुस्ते हि चौक्षाः प्रकीर्त्तिताः ।
विट्भक्षाश्चैव ये केचित् कपालकृतभूषणाः ॥ १८-
तथेतरे दुरात्मानः सर्वेप्यासुरदेवताः ।
बौद्धश्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथैव च ॥ १८-
नैरात्म्यवादिनः सर्वे अपज्ञानास्तिवादिनः ।
वर्त्तमानास्त्वधर्मेषु जायन्ते तु पुनः पुनः ॥ १८-
निरय प्राप्य तैरेव कर्मभिर्भावितैः पुनः ।
वृथा जटी वृथा मुण्डी वृथा नग्नाश्च ये नराः ॥ १८-
एतेऽन्ये च त्रयीबाह्याः पाखण्डाः पापचारिणः ।
पाशब्देन त्रयीधर्मः पालनाज्जगतः स्मृतः ॥ १८-
तं खण्डयन्ति यस्मात्ते पाखण्डास्तेन हेतुना ।
यदि ह्मनादरेणैषां न कथ्येता प्रमाणता ॥ १८-
अशक्यैवेति मत्वान्ये भवेयुः समदृष्टयः ।
त्रयीमार्गस्य सिद्धस्य ये ह्यत्यन्तविरोधिनः ॥ १८-
अनिराकृत्य तान् सर्वान् धर्मशुद्धिर्न लभ्यते ।
पाखण्डिनो विकर्मस्थान् बैडालान् हेतुकांस्तथा ॥ १८-
बकवृत्तांश्च यान् तान्वै वाङ्मात्रेणापि नार्चयेत् ।
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ॥ १८-
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ते स्मृताः ।
पुराणानि तथा सांख्यं योगः पाशुपतं तथा ॥ १८-
देशजातिकुलानां च धर्माश्चान्ये महत्तराः ।
सर्वे वेदाविरोधेन प्रमाणं नान्यथा भवेत् ॥ १८-
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः किञ्च प्रत्यवायस्य हेतवः ॥ १८-
तस्मात्सर्वप्रयत्नेन देवि देवेन्द्रवन्दिते ।
त्यक्त्वा वेदविरुद्धानि वेदमेकं समाश्रयेत् ॥ १८-
पुराणन्यायमीमांसाधर्मशास्त्रांगमिश्रिताः ।
वेदाः स्थानानि विद्यानां घर्मस्येति चतुर्द्दश ॥ १८-
यथा वेदास्तथा तन्त्रं धर्मनिर्द्धारहेतवे ।
तदुक्तमाचरन् देवि ! भवपाशाद्विमुच्यते ॥ १८-
अतोऽन्यथा प्रवर्त्तन्ते ये मूढाः पापबुद्धयः ।
असुरास्तान्विजानीहि विष्णुना मोहिताः पुरा ॥ १८-
ब्रह्मवादेषु वाचाला धर्मोच्छेदैकतत्पराः ।
तेषां मुखावलोकेन कुर्यात्सूर्यांवलोकनम् ॥ १८-
तस्य संस्पर्शमात्रेण सवासा जलमाविशेत् ।
कलौ ते घोषयिष्यन्ति ब्रह्मवादं जने जने ॥ १८-
इति मे कथितं देवि यत्त्वया पृष्टमुत्तमम् ।
समासेन महादेवि किं भूयः श्रोतुमिच्छसि ॥ १८-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे अष्टादशं पटलम् ॥ १८-
अथ एकोनविंशं पटलम् ।
शिव उवाच
अथेदानीं शृणु शिवे प्रियाणां कामनिर्णयम् ।
यस्य श्रवणमात्रेण वैराग्यं देहगेहयोः ॥ १९-
मनोरथश्च यश्चासीत् प्रियाणां दुःखदर्शने ।
रासे प्रदर्शिते प्रायो ह्यसम्पूर्णेविशेषितः ॥ १९-
तद्भोगार्थं पुनः सर्वाः प्रियास्ता रासविच्युताः ।
कालमायामयं देवि ब्रह्माण्डं विविशुः सह ॥ १९-
संभूता भारते वर्षे नैकत्र स्थितयोऽभवन् ।
मोहावेशवशाद् देवि ! दुस्तरादीशनिर्मितात् ॥ १९-
विच्युतात्मानुसन्धाना बभूवुर्भगवत्प्रियाः ।
यथा स्वप्ने जनः कश्चिन्निद्रात्याजितसंस्मृतिः ॥ १९-
स्वप्नलब्धगजाकार आत्मानं मनुते गजम् ।
मोहलब्धाकृतिस्तद्वल्लब्ध्वा तादात्म्यभावतः ॥ १९-
उच्चावचासु योओनीषु विभ्रमन्ति विचित्रधा ।
तत्र देहाभिमानोत्त्थकर्मसंसर्गदूषिताः ॥ १९-
कर्मबन्धस्ततो जातो यथा स्यादुत्तरोत्तरम् ।
श्वकाकोलूकमार्जार खरगृध्रादि योनिषु ॥ १९-
भ्रान्त्वा भ्रान्त्वा मनुष्येषु भूत्वा भूत्वा पुनः पुनः ।
जायन्ते च म्रियन्ते च तेषामन्तो न विद्यते ॥ १९-
जन्मदुःख जराःदुख बाल्ये यद्दुःखमुल्बणम् ।
देहत्यागनिमित्तं च दुःखमाप्ताः पुनः पुनः ॥ १९-
क्वचिद्धर्मः क्वचिच्छोको रागद्वेषादिकं क्वचित् ।
क्वचिद्बन्धः क्वचिन्मोक्षो राजसन्ताडनं क्वचित् ॥ १९-
अन्नादिकाङ्क्षया क्वापि दरिद्रेणापि विद्रुताः ।
म्लानेन्द्रियमुखाकारा दैन्यभावं समागताः ॥ १९-
पुत्रमित्रकलत्रादिनाशोत्थं दुःखमद्भुतम् ।
प्राप्य हाहेति हाहेति परितापान् जुषन्ति ताः ॥ १९-
बृहत्सेनस्य राजर्षेर्यथा राज्ञी पतिव्रता ।
अधौतपादा चोच्छिष्टा सुष्वाप विधिमोहिता ॥ १९-
यक्षः कश्चिन्निशाचारी प्रसुप्तामहरच्च ताम् ।
समुद्रद्वीपमानीय यक्षमायामयं महत् ॥ १९-
ददर्श नगरं दिव्यं दिव्याट्टालकगोपुरम् ।
यक्षस्तिरोदधे तस्यां तदावेशविमोहिता ॥ १९-
सैका बभ्राम नगरे गृहे गृहे विचेतना ।
यत्र यत्र गता सा तु जनैस्तत्र बिभीषिता ॥ १९-
तमिश्रायां तमोमययां भ्रमन्ती भ्रान्तमानसा ।
हृतवस्त्राम्बरा क्वापि प्रसह्य परिपन्थिभिः ॥ १९-
मुक्तकेशा वस्त्रहीना धूलिधूसरविग्रहा ।
पिशाचिनीव नगरे बभ्रामैका दिवानिशम् ॥ १९-
रुदन्ती करुणा दीना ताड्यमाना जनैर्मुहुः ।
क्षुत्तृड्व्याकुलचित्ता सा वल्गन्तीव जनाज्जनम् ॥ १९-
महाजनैश्च विपिने नगरात्तु विवासिता ।
व्याघ्रसिंहध्वनिं श्रुत्वा भीषणं त्रस्तमानसा ॥ १९-
दृष्ट्वा तांस्तु पुनः साध्वी वृक्षखण्डेष्वेवलीयत ।
वृक्षकोटरगैः सर्पैदंशिता विवशाभवत् ॥ १९-
अशेत भूमिशयने विषव्याघूर्णमानसा ।
भूविलोत्थैर्वृश्चिकाद्यैः सन्दष्टा सर्वसन्धिषु ॥ १९-
एवं नानाविधांस्तापान् प्राप्ता नृपसुन्दरी ।
कर्कराकण्टकैर्विद्धपादाम्भोजा महावने ॥ १९-
का त्वं कस्यासि वामोरु ! पृष्टा सप्तर्षिभिस्तु सा ।
नाहं विदामि चात्मानं न तातं मातरं पतिं ॥ १९-
दुःखातिदुःखपाथोघौ मग्नास्मीत्यभ्यभाषत ।
भृशं नागरिकैर्दुष्टैः पीडिता भर्त्सिता पुनः ॥ १९-
तस्करैर्वस्त्रभूषादि दुष्टैरपहृतं हि मे ।
क्षुत्तृट्परीता पापिष्ठैर्नगराच्च विवासिता ॥ १९-
याता महावनं भ्रान्ता व्याघ्रसिंहभयाकुला ।
भुजङ्गवृश्चिकैः क्रूरैर्विषव्यापादितान्तरा ॥ १९-
भ्रमाम्यहं दिवारात्रौ न जाने विदिशं दिशम् ।
अतः कुरुध्वं साहाययमनाथायाः कृपालवः ॥ १९-
एवमुक्तं तया साध्व्या कृपया पीडिता भृशम् ।
कमण्डलुजलेनौक्षन् यक्षोघ्रेन मुनीश्वराः ॥ १९-
लीनायां लक्षमायायां आत्मानं समपद्यत ।
सस्मार मातरं तातं बृहत्सेनं पतिं तथा ॥ १९-
व्रीडिताधोमुखी बाला मुनीन्द्रान् प्रत्यभाषत ।
सूर्यवंशप्रसूतस्य बृहत्सेनस्य धीमतः ॥ १९-
प्रियास्म्यहं विप्रदेवा उच्छिष्टा शयनं गता ।
केनचिज्जलधेस्तीरमानीता भयविह्वला ॥ १९-
तत्रैकं नगरं दिव्यं मया दृष्टं महाद्भुतम् ।
तत्रैकला विभ्रमन्त्री लोकपीडासहानिशम् ॥ १९-
ततो निष्कासिता पौरैः प्राप्तेदं विपिनं महत् ।
अस्तंगतात्मविज्ञाना भ्रान्ता दुःखमयेऽध्वनि ॥ १९-
भवद्भिर्नष्टमज्ञानं तमः सूर्यांशुभिर्यथा ।
नष्टं लब्धमिवात्मानं मेने भवदनुग्रहात् ॥ १९-
सवस्त्रभूषणाकल्पं देहं चैव यथा पुरा ।
पश्यामि शयनोद्बुद्धा यथा स्वप्ने लयं गते ॥ १९-
भवत्प्रसादाद् दुःखाब्धिमुत्तीर्णा भगवत्तमाः ।
इत्युक्त्वा मुनिपादाब्जं प्रणताभूत्पुनः पुनः ॥ १९-
ततः प्रोचुर्मुनिवराः सान्त्वयन्तश्च तां सतीम् ।
भयं मा कुरु कल्याणि पातिव्रत्यपरायणे ॥ १९-
अज्ञानप्रभवं विश्वं वस्तुतो नास्ति किञ्चन ।
यावदज्ञानमात्मस्थं तावद्दर्शयते भयम् ॥ १९-
मिथ्या स्वप्नोऽपि राजर्षिप्रिये ! भयकरो यथा ।
तथा मिथ्यापि संसारो भयकृत्तादृशा जुषाम् ॥ १९-
अज्ञातैव यथा रज्जुः सर्पभूता भयप्रदा ।
अविद्यासबलब्रह्मविवर्त्तोऽयं प्रपञ्चकः ॥ १९-
तदंशभूतजीवानामविज्ञातो भयङ्करः ।
स्वात्मत्वेन तु विज्ञातो भयं नोद्वहते पुनः ॥ १९-
आत्मा शुद्धोऽव्ययः सूक्ष्मो व्यापी नित्यो निरञ्जनः ।
स्वमायावरणाच्छन्नः स्वस्मिन् स्वप्नं प्रपश्यति ॥ १९-
यथा तदुद्भवैश्छन्नं शैवालैः सलिलं भवेत् ।
स्वमायया तथा छन्न अक्षरं ब्रह्मकेवलम् ॥ १९-
मायावृतं परं ब्रह्म स्वप्नसाक्षितया पुनः ।
स्वाप्नमण्डं प्रविश्याशु धत्तं नारायणाभिधाम् ॥ १९-
तस्य नाभेरभूत्पद्मं तत्र जातश्चतुर्मुखः ।
प्रवरो वेदविदुषां बीजं संसारभूरुहः ॥ १९-
तत्र जाता वयं सर्वे स्वाप्निका एव भामिनि ।
भ्रमामः कर्मभिर्नुंन्नाः स्वप्नमायामये पथि ॥ १९-
त्वयानुभूतमेतद्धि यथेदं यक्षमायिकम् ।
तस्यापसरणे साध्वि स्वात्मालब्धो यथा पुरा ॥ १९-
जीवाः सर्वे वयं तद्वद् ब्रह्माभासमया अपि ।
मायाकार्यांशविलये भविष्यामोऽक्षरात्मकाः ॥ १९-
मायाकार्ये विद्यमाने दुःखशोको भयं शुचः ।
धर्माधर्मौ पुण्यपापे सत्यमित्येव गम्यते ॥ १९-
तस्मादवास्तवं दुःखं विज्ञाय हृदये दृढम् ।
वीतशोका वीतभया भव भामिनि नित्यदा ॥ १९-
इत्युक्त्वा तां मुनिश्रेष्ठा योगमायाबलेन च ।
निमिषेण गृहं निन्युर्घटिकांतरितं प्रिये ॥ १९-
प्रिया राज्ञोऽपि तद्वृत्तं विचार्य च पुनः पुनः ।
महाकुतूहलाक्रान्ता राज्ञे सर्वं न्यवेदयत् ॥ १९-
एवं ता देवदेवेशि प्रिया भगवतो हि ताः ।
भ्रान्तात्मरूपविज्ञाना मायास्वप्ने परात्मनः [परात्मना इत्यपि पाठः ।] ॥ १९-
नानायोनिषु देवेशि ससरन्ति पुनः पुनः ।
भ्रान्तात्मानश्च्युतानन्दाः संसारेप्यसति प्रिये ॥ १९-
निजधाम्नि महानन्दे दुःखाभासो न विद्यते ।
न दुःखानुभवश्चापि तत्रत्यानां कदाचन ॥ १९-
न कार्पण्यं न दुःखं च नोद्वेगो नारतिः क्वचित् ।
तत्प्रियाप्रार्थितं मत्वा निर्बन्धेन गिरीन्द्रजे ॥ १९-
कूटस्थस्वप्नसम्बन्धमनो भावान् [बावः इत्यपि पाठः ।] प्रचक्रिरे ।
असन्नपि महेशानि स्वप्नोऽयं दुःखदो महान् ॥ १९-
स्ववासनाकामशेषो ह्यधुनापि निषेव्यते ॥ १९-
इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकोनविंशं पटलम् ॥ १९-
अथ विंशं पटलम्
पार्वत्युवाच
अहो देव महादेव परात्मन् परमेश्वर ।
त्वदुक्तमेतदाश्रुत्य मनो मे क्षुभ्यतेतराम् ॥ २०-
निरीहस्यापि देवस्य कूटस्थपरमात्मनः ।
दिदृक्षा यत्समुत्पन्ना रहःक्रीडावलोकने ॥ २०-
नित्यानन्दविहाराणां प्रियाणां परमात्मनः ।
दिदृक्षा यत्समुत्पन्ना केवलं दुःखदर्शने ॥ २०-
इत्येतन्महदाश्चर्यं प्रतिभाति महेश्वर ।
तन्निराकुरु देवेश मनः शल्यं महार्तिकृत् ॥ २०-
पूर्णस्यैवाप्तकामस्य किन्तु क्रीडावलोकनैः ।
तदङ्गभूतास्तत्तुल्याः प्रियास्तु परमात्मनः ॥ २०-
दुःखकामः कथं तासु केवलानन्दमूर्त्तिषु ।
न दुःखदर्शने कश्चिन्मूर्खो वा रमते क्वचित् ॥ २०-
एतदाचक्ष्व भगवन् कृपां कृत्वा ममोपरि ।
शिव उवाच
शृणु देवि प्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥ २०-
वेदागमपुराणेषु यत्तु गुप्ततरं प्रिये ! ।
अद्यप्रभृति कस्यापि नोक्तवानहमद्रिजे ॥ २०-
तव स्नेहवशाद् देवि ! प्रवक्ष्यामि न चान्यथा ।
त्वयापि गोपितव्यं हि स्कन्दाच्च गणपादपि ॥ २०-
प्रकाशितं हरेद्धर्मं यशोलक्ष्मीसुखानि च ।
वेदशास्त्रपुराणानि सामान्यगणिका इव ॥ २०-
इयं विद्या महाविद्या गोप्या कुलवधूरिव ।
सुगुप्तेयं महाविद्या ज्ञानसिद्धिकरी नृणाम् ॥ २०-
यथा प्रकाशितं द्रव्यं तस्करेभ्योपगच्छति ।
तथा प्रकाशिता विद्या पशुभ्य उपगच्छति ॥ २०-
गोपितव्या ततो यत्नाद्विद्येयं ब्रह्मदर्शिनी ।
मन्त्रौषधक्रियाधर्माः गुप्ता एव फलन्ति हि ॥ २०-
आवाच्यमपि ते वच्मि शृणुष्वैकाग्रमानसा ।
गणनाविषयानन्दो वर्त्तते केवलेऽक्षरे ॥ २०-
सप्तद्वीपवतीं पृथ्वीं यः शास्ता व्याहतेन्द्रियः ।
निरामयो निःसपत्नो युवा राजेन्द्रवन्दितः ॥ २०-
तदानन्दो हि देवेशि ! मनुष्यानन्द ईरितः ।
मनुष्यानन्दशतकं गन्धर्वानन्द उच्यते ॥ २०-
गन्धर्वानन्दशतकं पित्रानन्द उदीरितः ।
पित्रानन्दशतेनैको ह्युपदेवस्य चोच्यते ॥ २०-
उपदेवानन्दशतं देवानन्द उदीर्यते ।
देवानन्दशतं देवि ! वैरंच्यानन्द उच्यते ॥ २०-
वैरंच्यानन्दशतकमानन्दो वैष्णवः स्मृतः ।
वैष्णवानन्दशतकं रुद्रानन्दस्तु उच्यते ॥ २०-
रुद्रानन्दशतेनोक्तः ईशानन्दपरो महान् ।
ईशानन्दशतेनोक्त [ईश्वरानन्दसंज्ञकः इत्यपि पाठभेदः ।] शैवानन्दस्तु केवलः ॥ २०-
तच्छतेन भवेद् देवि ! प्रकृत्यानन्द उत्तमः ।
प्रकृत्यानन्दशतकं पुरुषानन्द उच्यते ॥ २०-
पुरुषानन्दशतकं अक्षरानन्द उच्यते ।
अक्षरं परमं ब्रह्म ब्रह्मानन्दस्ततः स्मृतः ॥ २०-
ब्रह्मानन्दमयं विश्वं नानाभावो न विद्यते ।
मायोपाधिसमायोगान्नानात्वेन प्रतीयते ॥ २०-
तत्प्रतीतिनिरासे तु पर ब्रह्मैव शिष्यते ।
तन्माया प्रकृतिर्देवि नित्या तत्सहधर्मिणी ॥ २०-
शुद्धसत्वप्रधाना हि निर्मला ज्ञानरूपिणी ।
तत्र यः प्रतिबिम्बोऽभूदक्षरस्य परात्मनः ॥ २०-
तमाहुः पुरुषं देवि ! श्रुतिसिद्धान्तवादिनः ।
स एव कालरूपेण प्रकृतिक्षोभकारकः ॥ २०-
तस्मान्नारायणो जज्ञे स एव प्रणवाभिधः ।
हिरण्यगर्भमपि तं प्रवदन्ति मनीषिणः ॥ २०-
शब्दब्रह्ममय प्राहुस्तमेवागमवेदिनः ।
तस्माद्वेदाः प्रवर्त्तन्ते शब्दब्रह्मात्मना प्रिये ॥ २०-
आदौ शब्दात्मकं विश्वं ततश्चार्थमयं भवेत् ।
शब्दः प्रकृतिरूपश्च अर्थः स्यात्पुरुषात्मकः ॥ २०-
उभयात्मकः प्रपञ्चोऽयं तस्मात्स्त्रीपुंस्वरूपधृक् ।
त्वमहं च तथा विष्णुर्लक्ष्मीर्ब्रह्मा सरस्वती ॥ २०-
सूर्यः सञ्ज्ञानलः स्वाहा पुरूहूतः पुलोमजा ।
अम्भोनिधिश्च मर्यादा वृक्षः पल्लविनी लता ॥ २०-
महद्वाल्पतरं वापि तत्सर्वमुभयात्मकम् ।
अक्षरे शाश्वतावेतौ प्रकृतिः पुरुषस्तथा ॥ २०-
जाग्रत्स्वप्नविभेदेन प्रपञ्चपरिणामिनौ ।
नित्यत्वमुभयोर्देवि विवदन्तेऽत्र वादिनः ॥ २०-
नित्यः प्रपञ्च एवेति ह्यनित्य इति केचन ।
अहङ्कारवशाद्देवि वादिनो मूढबुद्धयः ॥ २०-
नित्यानित्यं न जानन्ति स्वपक्षाग्रहदोषतः [स्वमताग्रहदोषतः इत्यपि पाठः ।] ।
नित्यत्वात्कारणस्यापि प्रवाहे नित्यतास्तु वा ॥ २०-
श्रौतत्वाज्जन्यनाशस्य ह्यनित्यत्वेऽपि का क्षतिः ।
द्वैताद्वैते तथा देवि विवदन्ते कुबुद्धयः ॥ २०-
ईश्वराज्जीवपार्थक्यमिति तत्त्वविदो विदुः ।
ब्रह्मैवाज्ञानवशतो जीवस्तत्प्रतिगीयते ॥ २०-
न जीवं परमार्थेन विदुरद्वैतवादिनः ।
न विरुद्धमिदं देवि ! ह्यज्ञानावधिभेदतः ॥ २०-
ज्ञानेनाज्ञाननाशे तु लब्धेनेश्वरतुष्टितः ।
जाग्रत्स्वप्नस्य विलये स्वप्नसाक्षीव सुन्दरि ! ॥ २०-
एकमेवावशिष्येत नित्यं ब्रह्मैव केवलम् ।
अद्वैतवादिनो ह्येवं श्रुतिमात्रावलम्बिनः ॥ २०-
एकमेव परं ब्रह्म नाना नास्तीह किञ्चन ।
मृदेव सत्यमित्येवं नामरूपे विकारवत् ॥ २०-
इत्यद्वैतं श्रुतिशतैरुद्धोषितमनेकधा ।
द्वैतवादरताश्चापि द्वासुपर्णावितीरणात् ॥ २०-
द्वैतमेव प्रशंसन्ति ह्यभेदो भजनात्मकः ।
अद्वैतभूमिकाधस्तात्सोपानास्थास्तु ते प्रिये ॥ २०-
तेषां नारायणः साक्षात्परब्रह्म श्रुतीरणात् ।
ब्रह्माभासमया जीवाः क्षुद्रोपाधिगुणाश्रिताः ॥ २०-
अस्वतन्त्राः पराधीना नित्या इत्यपि चक्षते ।
अव्याहतं च नित्यत्वं भ्रान्तिमूलमपि प्रिये ॥ २०-
निद्रोपलब्धभावानां निद्रा तावत्स्थितिः स्थिरा ।
इति यत् शास्त्रहृदयमज्ञात्वा विवदन्ति ये ॥ २०-
द्वैताद्वैतविचारेऽस्मिन्न ते तत्त्वमवाप्नुयुः ।
तस्मात्सर्वप्रयत्नेन सर्वशास्त्रैकनिश्चयम् ॥ २०-
ज्ञात्वा भजन्ति देवेशि ! निःसन्देहः फलात्मकः ।
वाक्यभेदाननादृत्य बुद्धिक्लेशादहङ्कृतेः ॥ २०-
ये प्रवर्तन्त एवैते सशल्याः फलविच्युताः ।
एकमेवाद्वयं ब्रह्म द्विधा लीलाविभेदतः ॥ २०-
प्रवृत्तिश्च निवृत्तिश्च लीलाभेदे व्यवस्थिता ।
निवृत्तिः सुखसञ्ज्ञा हि सुखमानन्दरूपकम् ॥ २०-
प्रसङ्गात् प्रकृतेर्देवि प्रवृत्तिर्बहुरूपिणी ।
अजानतां वरारोहे ! दुःखरूपतया स्थिता ॥ २०-
अक्षरस्य तु सा प्रोक्ता लीलान्यातीतधर्मिणी ।
प्रवृत्तिलीलालेशोऽपि नैवातीते परात्मनि ॥ २०-
आग्रहमात्रो देवेशि ! नित्यानन्दमहोदधेः ।
लेश एव सदा तिष्ठेत्सकामो नित्यरूपधृक् ॥ २०-
कामरूपी सदानन्दः कामांशो लेश उच्यते ।
तस्मादेवाक्षरे देवि ! नित्यकामो हि दर्शने ॥ २०-
तस्मादेवाक्षरे जाता दिदृक्षा या तु पार्वति ।
न चैककर्तृका सा तु परापरमयी हि सा ॥ २०-
अक्षरे ज्ञानतन्मात्रे स्वत इच्छा न जायते ।
न प्रवर्तयते साक्षात्पूर्णात्मा पुरुषोत्तमः ॥ २०-
सामरस्यमयीं प्राहुस्तस्मादागमवेदिनः ।
आनन्दगा सामरस्यात् स्वपक्षविषयग्रहा ॥ २०-
साङ्गिनं तु परित्यज्य भृशमङ्गेष्वसर्पत ।
स्वामिनीषु ततो जाता दिदृक्षा दुःखदर्शने ॥ २०-
उभयव्यापिनी सा तु सर्वकारणकारणा [सर्वकारणकारणं इत्यपि पाठः ।] ।
ततः कार्यप्रवृत्तिस्तु हेतोर्गुणनिबन्धिनी ॥ २०-
स्त्रीपुंभावात्मिका जाता ब्रह्मादिस्तम्बभेदतः ।
इच्छया ससृजे निद्रा सापि जातोभयात्मिका ॥ २०-
ज्ञानात्मिका स्वतः शुद्धा बहिर्वृत्तिविवर्जिता ।
निद्रया सृजते मोहश्चेतनाचेतनो हि सः ॥ २०-
सचैतन्यस्य कार्यस्य हेतुर्यच्चेतनात्मकः ।
स एव जडहेतुश्च यस्मादयमचेतनः ॥ २०-
विद्याविद्ये स एवोक्त शृणु तत्रापि कारणम् ।
चिदचिद्ग्रन्थिको ह्येषश्चिदाकारेण केवलम् ॥ २०-
यदा परिणमेद् देवि ! यदा विद्येति तां विदुः ।
यदा चैतन्यमावृत्य केवलं मोहरूपधृक् ॥ २०-
जीवबुद्धिं समावृण्वन् अविद्येति च गीयते ।
तमः कालुष्यमुत्सृज्य शुद्धसत्वप्रधानिका ॥ २०-
जीवबुद्धेर्भेदकरी मायेति कथिता प्रिये ।
सात्विकांशं परित्यज्य केवलं चित्स्वरूपिणी ॥ २०-
अपरोक्षकरी विद्या ब्रह्मविद्येति तां विदुः ।
तस्माद्विधा त्रिधा प्रोक्ता मया ते वरवर्णिनि ! ॥ २०-
ततो गुणास्त्रयो जातास्तेऽपि तादृग्विधा शिवे ! ।
सत्वं तु चेतनं विद्धि तमो विद्यादचेतनम् ॥ २०-
रजस्तदुभयात्मत्वाच्चेतनाचेतनात्मकम् ।
भूतानि पञ्च जातानि तानि तादृग्विधान्यपि ॥ २०-
अधिष्ठेयान्यधिष्ठातृतया द्वैविध्यवन्ति च ।
ब्रह्माण्डमभवत्तेभ्यस्तदेवोभयरूपधृक् ॥ २०-
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वया शिवे ! ।
समासेन महेशानि ! किं भूयः श्रोतुमिच्छसि ॥ २०-
इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे विंशं पटलम् ॥ २०-
अथ एकविंशं पटलम्
शिव उवाच
अतोऽन्यत् शृणु देवेशि ! रहस्यं किञ्चिदुत्तमम् ।
गोपनीयं प्रयत्नेन यस्मै कस्मै न दर्शयेत् ॥ २१-
परीक्षिताय वक्तव्यं ताडनैस्तर्जनादिभिः ।
ऋते पात्रमिदं ज्ञानं न तिष्ठति कदाचन ॥ २१-
अविर्भूताक्षरे शक्तिरिच्छा नाम सुमङ्गला ।
अङ्गान्यावृत्य सत्प्रेमविरहौत्कण्ठ्यदर्शने ॥ २१-
रतिमुत्पादयामास ततः सा पुरुषोत्तमम् ।
प्रार्थयामासुरौत्सुक्यात्स्वामिन्या सह सङ्गता ॥ २१-
निवारिता बहुविधैर्वाक्यैरिच्छाविमोहिताः ।
न मेनिरे प्रियाः सर्वा प्रार्थयामासुरन्वहम् ॥ २१-
प्रार्थना स्वीकृतास्तासामतीतेनाक्षराद्यदा ।
तदा सा पुनरासाद्य निद्रा चित्यन्वधात्प्रिये ॥ २१-
चिदात्मा पुरुषः साक्षान्मोहमययैव निद्रया ।
घूर्णितोशेत सन्मंचे पञ्चब्रह्ममये शुभे ॥ २१-
यदैव निद्रया घूर्णो विस्मृतात्माऽभवत् प्रिये ।
हृदयाब्जकर्णिकामध्ये विहरेतापरा हि सा ॥ २१-
व्यचिनोत्पञ्चधा देवि ! स्वरूपमपि चात्मना ।
उद्गारिणी पालिका च तथा संहारिकापि च ॥ २१-
विशाला व्यापिका चेति शक्तयः पञ्च कीर्तिताः ॥ २१-
रजः प्रधानहारिणी पालिनी सात्विकी मता ।
तमःप्रधाना संहर्त्री शुद्धसत्वा विशालिका ॥ २१-
निर्गुणा व्यापिका शक्तिरिच्छा पञ्चविधोदिता ।
एता एवोदिता देवि ! जाग्रति प्राकृतास्तथा ॥ २१-
इच्छामययस्तु शयने तस्मान्मञ्चो निरामयः ।
उद्गारिणीपालिकयोः स्कन्धयोस्तत्पदद्वयम् ॥ २१-
विशालाहारिणीकण्ठदेशे पाणिद्वयं स्थितम् ।
व्यापिका मञ्चफलकीभूताधारतया स्थिता ॥ २१-
पञ्चसु प्रतिबिम्बोऽभूदक्षरस्य चिदात्मनः ।
बिम्बितं यत्तु चैतन्यं तस्मिन्नुद्गारिणी हि सा ॥ २१-
दर्शयामास वेदास्याद्युपाधिमतिविस्तृतम् ।
बिम्बितं यत्तु चैतन्यं तस्मिन् या पालिनी शिवे ॥ २१-
अदर्शयच्चतुर्भुजाद्युपाधिमतिविस्तृतम् ।
बिम्बितं यत्तु चैतन्य तस्मिन् संहारिणी तु या ॥ २१-
अदर्शयन्त्रिनेत्राद्युपाधिमतीव सुन्दरि ! ।
बिम्बितं यत्तु चैतन्यं तस्मिन् या तु विशालिका ॥ २१-
अष्टबाह्वाद्युपाधिं च दर्शयामास केवलम् ।
बिम्बितं यत्तु चैतन्यं तस्मिन् या व्यापिका मता ॥ २१-
दशबाहुं च पञ्चास्याद्युपाधिमसृजत्प्रिये ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ २१-
पञ्चपादत्वमापन्ना नित्यमुद्वहते परम् ।
सृष्टिं स्थितिं च संहारं तिरोधानमनुग्रहम् ॥ २१-
नित्यमेव प्रकुर्वन्ति भूताधिष्ठातृरूपिणः ।
सृष्ट्यादित्रयसिद्ध्यर्थं त्रयाणां बुभुजेंशतः [बुभुवे इत्यपि पाठः ।] ॥ २१-
तिरोधानानुग्रहौ तु मञ्चपादस्थयोर्विदुः ।
पेञ्चशक्तिप्रभेदेन परेच्छैव सुमङ्गला ॥ २१-
ब्रह्मविष्ण्वादिरूपाणि धत्ते नानास्वरूपिणी ।
अक्षरस्य तु रूपे द्वे पुरुषाक्षरभेदतः ॥ २१-
नारायणस्तु पुरुषाज्जज्ञे स्वप्नेक्षिता स्वयम् ।
नादबिन्दू शिवः शक्तिर्जातौ नारायणात्प्रिये ॥ २१-
नादबिन्दुमयत्वेन त्रिधा नारायणः स्थितः ।
सङ्कर्षणो वासुदेवः प्रद्युम्नः अनिरुद्धकः ॥ २१-
चतुर्धा विष्णुरेवोक्तो ह्यंशभेदा ह्यनेकशः ।
एकादश विभेदात्मा रुद्रोऽहमहमीश्वरि ॥ २१-
मदात्मभेदाः शतशः कोटिशः सन्ति सुन्दरि ।
सदाशिवेश्वरावेतौ आत्मभेदाविवर्ज्जितौ ॥ २१-
वेदप्रणवभेदेन द्विधा नारायणोदभूत् ।
नाद एव महेशानि बहु स्यामित्यवेक्षणात् ॥ २१-
न भेदो विद्यते बिन्दौ अखण्डात्मनि सुन्दरि ।
महत्तत्वमिदं भद्रे मनो नारायणस्य तत् ॥ २१-
मनसस्तु बहु स्यामित्यमन्यत यदा हि सः ।
अहङ्कारस्ततो जज्ञे प्रसृतो बिन्दुतां ययौ ॥ २१-
बिन्दुः शून्यात्मको ज्ञेयस्तस्माद्विश्वं निरर्थकम् ।
व्याप्तोऽहङ्कार एवायं ब्रह्माभासे दृश्यते ॥ २१-
ब्रह्माभासो निर्विकारो निष्प्रपञ्चो निरञ्जनः ।
न करोति न लिप्येत प्रदीप इव भासकः ॥ २१-
अहङ्कारस्य कर्तृत्त्वं भोक्तृत्वमपि सुन्दरि ।
धर्माधर्मौ पुण्यपापे बन्धमोक्षादिकं तथा ॥ २१-
अहङ्कारेण भिद्येत नानाभेदव्यवस्थया ।
अहङ्कारेण तादात्म्यादाभासेऽपीक्षते स्फुटम् ॥ २१-
अहङ्कारमयो ग्रन्थिर्यावन्नैव विभिद्यते ।
अविद्यमानः संसारः तथाप्येनं न मुञ्चति ॥ २१-
स्फटिकस्यैव रागित्वं जपाकुसुमयोगजम् ।
नापगच्छति तद्देवि कुसुमापहृतिं विना ॥ २१-
तथा संसरणं जीवे ह्यहङ्कारच्युतिं विना ।
निवर्तते न देवेशि कल्पकोटियुतायुतैः ॥ २१-
सोऽहङ्कारस्त्रिधा प्रोक्तो गुणभेदेन पार्वति ।
अहङ्कारोऽयमेवाहं तथा जीवगतो द्विधा ॥ २१-
महत्तत्वं त्रिधा प्रोक्तं आध्यात्मादिप्रभेदतः ।
नारायणमनोरूपमाधिदैविकमुच्यते ॥ २१-
जीवानां चित्तरूपं यदध्यात्म्यमिति चक्ष्यते ।
ब्रह्मणो देहरूपस्थमाधिभौतिकमुच्यते ॥ २१-
नारायणेधिदैवेन रूपेण [नारायणे यदध्यात्मरूपेण इत्यपि पाठः ।] परिनिष्ठितम् ।
आविर्बभूव तद्वर्णभेदैर्वेदस्वरूपतः ॥ २१-
जीवगं यत्तु देवेशि चित्तरूपतया स्थितम् ।
सुषुम्णावर्त्तिना प्राणवायुना सह सङ्गतम् ॥ २१-
वायुस्तेन युतो देवि ब्रह्मरन्ध्राहतः पुनः ।
ताल्वोष्ठपुटनासादिभेदेन [देहेन इत्यपि पाठः ।] परमेश्वरि ॥ २१-
वर्णात्माविर्भवति गद्यपद्यादिभेदतः ।
ब्रह्मदेहतया यस्मात् स्थितं त्रैलोक्यकारणम् [तल्लोक इत्यपि पाठः] ॥ २१-
अतस्तस्माज्जगज्जातं देवासुरनरोरगम् ।
इति तेऽभिहितं देवि रहस्यं परमाद्भुतम् ॥ २१-
श्रद्धाहीनाय दुष्टाय कृतघ्नाय दुरात्मने ।
नास्तिकायाविनीताय वेदशास्त्रोद्गताय च ॥ २१-
अविश्वस्ताय देवेशि दर्शयेन्न कथञ्चन ।
यदा राजा तु सर्वस्वं बलं कोशो महीगजान् ॥ २१-
निवेदयतु जिज्ञासुस्तदा तस्मै प्रकाशयेत् ।
अन्यथा सिद्धिहानिः स्यात् सत्यं सत्यं न संशयः ॥ २१-
तस्मात्सर्वप्रयत्नेन गोपितव्यं त्वयापि हि ॥ २१-
इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे एकविंशं पटलम् ॥ २१-
अथ द्वाविंशं पटलम्
पार्वत्युवाच
यदुक्तं देवदेवेश त्वया पशुपते प्रभो ।
प्रविश्य कर्णरन्ध्रेण चिदानन्दायते हृदि ॥ २२-
तीर्थानां परमं तीर्थं ज्ञानानां ज्ञानमुत्तमम् ।
योगानां परमो योगो धर्माणां धर्म उत्तमः ॥ २२-
श्रोतव्यानां च परमं श्रोतव्यमिदमेव हि ।
ज्ञातव्यानां च परमं ज्ञातव्यमिदमुच्यते ॥ २२-
श्रुतं मया विशेषेण सोपपत्तिकमित्यपि ।
न तथाप्यन्तरात्मा मे तृप्तिमायाति शाश्वतीम् ॥ २२-
अतस्त्वां परिपृच्छामि विशेषं तत्र धूर्जटे ।
तं च ब्रूहि महादेव प्रसादपरमो भव ॥ २२-
स्वप्नभूतप्रपञ्चेस्मिन्नक्षरस्य परात्मनः ।
प्रियाः सख्यो भगवतो वासनावशतो गतः ॥ २२-
क्रियांस्तत्र गतः कालस्तासामागमनादनु ।
कियत्कालं च ताः सर्वा इह स्थास्यन्ति मोहिताः ॥ २२-
कथ ता बोधमाप्स्यन्ति कस्तासां प्रतिबोधकृत् ।
युगपद्वा गमिष्यन्ति पृथक् वा परमेश्वर ॥ २२-
एतत्सर्वं महादेव कथयस्व प्रसादतः ।
संशयो मे महानद्य तमपानुद शङ्कर ॥ २२-
शिव उवाच
शृणु पार्वति वक्ष्यामि तव प्रश्नानशेषतः ।
त्वं मे प्राणाधिकैवासि तस्माद्वक्ष्ये यथातथम् ॥ २२-
विरञ्चेर्ब्रह्मणः पूर्व अष्टवक्त्रोऽभवद्विधिः ।
शब्दब्रह्मेति य प्राहुर्वेदवेदान्तपारगाः ॥ २२-
द्विपरार्द्धावसानेस्य ब्राह्मः कल्पो महानभूतः ।
प्रलयोऽयं महेशानि प्रकृत्यवधिरुच्यते ॥ २२-
एका [एकावशेषा-प्रकृतिः इत्यपि पाठः ।] शिष्टा च प्रकृतिः पुरुषाधिष्ठिता हि सा ।
कियत्कालं ततो देवि शून्यमासीदिति श्रुतिः ॥ २२-
आविर्भूता ततो निन्द्रा अक्षरे परमात्मनि ।
महत्तत्वमतस्तस्माद् अहङ्कृतिरजायत ॥ २२-
स एव च त्रिधा जातो गुणभेदेन सुन्दरि ।
सात्विकाच्च मनो जज्ञे देवताश्च दशैव ताः ॥ २२-
राजसादिन्द्रियाण्यासन् भूतानि तमसोऽभवन् ।
तेभ्यौऽण्डमभवेद्देवि तत्र नारायणः स्थितः ॥ २२-
[तत्र इत्यपि पाठः ।] तस्य नाभेरभूत्पद्म यत्र ब्रह्माभवत्स्वयम् ।
द्विपरार्द्धमितं चास्य परमायुर्निगद्यते ॥ २२-
अस्मिन् ब्रह्माण्डगोले हि जम्बूद्वीपे महेश्वरि ।
वर्षे भारतसंज्ञे हि प्रियाणां वासनाः स्थिताः ॥ २२-
परार्द्धः प्रथमो जातो द्वितीयेस्मिन् महेश्वरि ।
निर्बन्धात्स्वामिनीनां च लीलामाविश्चकार ह ॥ २२-
श्रीकृष्णः परमानन्दो नन्दगेहेभवत्तदा ।
गोपकन्यामिषेणैव ह्याविर्भूतास्ततः प्रियाः ॥ २२-
तत्कामपूर्त्तये साक्षात् श्रीकृष्णः पुरुषोत्तमः ।
रासलीलां प्रकुर्वाणो रमयामास ताः प्रियाः ॥ २२-
योगमायासमावेशान्मायाकार्यं विलुंपतः ।
ब्रह्मणोऽपि लये जाते यथापूर्वमभूदिदम् ॥ २२-
पुनर्जातं ततः सर्वं ब्रह्मादिस्थावरान्तकम् ।
मनोरथस्य चापूर्त्या वासनाः कार्यमध्यगाः ॥ २२-
विचरन्ति यथा कालं यथादेशं यथारुचि ।
द्विपरार्द्धे त्वतिक्रान्ते नष्टे स्थावरजङ्गमे ॥ २२-
विरञ्चौ मुक्तिमापन्ने प्रबुद्धे ह्यक्षरे प्रिये ।
प्रबुद्धा वासनास्ता हि भविष्यन्ति स्वबिम्बगाः ॥ २२-
आविर्भावाच्च लीलाया द्वापरान्ते कलौ युगे ।
[क्वचित्पुस्तके २६-२७ श्लोकयोः आस कृष्णः प्रियाणां च दुःखलीलानुदर्शने । तासामेका च परमा सुभगा सुन्दरी प्रिया । प्रबोधयिष्यति सा सर्वाः कथयित्वा विनिर्णयम् । ईदृशः पाठभेदो भाति ।] असहिष्णुः स्वप्रियाणां दुःखलीलानुदर्शनम् ॥ २२-
तासामेकां च परमां सुभगां सुन्दरीं प्रियाम् ।
प्रबोधयिष्यतितरां कथयित्वा विनिर्णयम् ॥ २२-
ततस्तत्सम्प्रदायेन सर्वास्ता भगवत्प्रियाः ।
स्वभर्तृविरहाक्रान्ताः त्यक्त्त्वा देहान् प्रपञ्चगान् ॥ २२-
भगवल्लोकवैकुण्ठे स्थितिमाप्स्यन्ति यूथशः ।
पद्मया रममाणास्ताः कालभोगे यथाविधि ॥ २२-
दिव्यदेहानपि त्यक्त्त्वा भविष्यन्ति स्वबिम्बगा ।
अक्षरोऽप्यनुभूयैतत्स्वप्नवत् परमेश्वरि ॥ २२-
परमानन्दसम्मग्नो भविष्यति कृतार्थधीः ।
सर्वा लीला नित्यरूपा भविष्यन्ति तदा प्रिये ॥ २२-
भगवल्लोकमात्मानं दिव्यभावेऽपि सुन्दरि ।
अविद्यालेशसम्बन्धादक्षरस्य परात्मनः ॥ २२-
निद्रांशस्यापि शेषत्वात् कियत्कालमवस्थितिः ।
युगपद्देवि सर्वास्ता गमिष्यन्ति निजं गृहम् ॥ २२-
न कथञ्चन देवेशि गतिस्तासां पृथक् भवेत् ।
स्वप्नस्य विषये साम्यादैकात्म्याच्च तथा प्रिये ॥ २२-
वैरस्याच्च विचित्रत्वे भर्तृस्नेहाविशेषतः ।
न पृथक् गमनं तासां तस्माद्वैकुण्ठसंस्थितिः ॥ २२-
क्रमयोगेन देवेशि सर्वा यास्यन्त्यसंशयम् ।
तस्माद्देवि विशेषेण स्वपतिः पुरुषोत्तमः ॥ २२-
भजनीयो हि सततं वेदशास्त्रानुरोधतः ।
देहेन्द्रियस्वभावानामन्तं कर्माणि पार्वति ॥ २२-
आत्मनोन्तं परब्रह्मध्यानश्रवणकीर्तनम् ।
स्वभावाज्जायते कर्म सदसच्चेति सर्वथा ॥ २२-
सत्त्यागादसदासङ्गन्नानायोनिभ्रमो भवेत् ।
आधिव्याधिदरिद्रोत्थपीडाविस्मारिततात्मनः ॥ २२-
उद्रिक्ततमसो देवि न शुभं स्यात्कदाचन ।
तस्मात्कर्तव्यमेवेह देहपर्यवसायि यत् ॥ २२-
देहान्ते कर्मसम्बन्धो न भविष्यति कर्हिचित् ।
प्रत्यवायनिवृत्यर्थमनिष्टाचरणस्य च ॥ २२-
नित्यं नैमित्तिकं कार्यं काम्यं कर्म परित्यजेत् ।
एवं यो वर्त्तते देवि निष्प्रत्यूहं स सिध्यति ॥ २२-
यः शास्त्रविधिमुत्सृज्य वर्तते कामलोलुपः ।
स सिद्धिमिह नाप्नोति परत्र न पराङ्गतिम् ॥ २२-
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वया प्रिये ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ २२-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे द्वाविंशं पटलम् ॥ २२-
अथ त्रयोविंशं पटलम्
पार्वत्युवाच
भूयोऽहं श्रोतुमिच्छामि तन्मे ब्रूहि सदाशिव ।
भूतले भगवद्भार्या नानायोनिषु संस्थिताः ॥ २३-
तत्र तत्र विचित्राणि कर्माण्यपि कृतानि च ।
क्वचित्तीर्थं क्वचिद्दानं क्वचिद्धोमं क्वचिज्जपः ॥ २३-
क्वचिन्मखादिचरणं स्वाध्यायाचरणानि च ।
पितृदेवार्चनं क्वापि ब्राह्मणा योः सताम् ॥ २३-
क्वचिन्निन्दादिकरणं देवब्राह्मणातिथिपूजनम् ।
क्वचिद्दत्तविलोपश्च तथेन्द्रियविलोभनम् ॥ २३-
असत्यभाषण चैव पैशुन्यं भूतहिंसनम् ।
स्वर्णस्त्येयादिकं चैव सुरामांसनिषेवणम् ॥ २३-
द्रोहमात्सर्यहिंसादिपाकभेदादिकं तथा ।
स्वस्ववर्णाश्रमाचारोल्लङ्घनं कामवर्त्तनम् ॥ २३-
स्वगुणाख्यानमीशान पङ्क्तिभेदो वृथा क्रिया ।
परेषां मर्मकथनं म्लेच्छान्नात्क्वाऽपिजीवनम् ॥ २३-
निषिद्धाचरणं देव विहिताचारलङ्घनम् ।
गोभूगजाश्वकन्यादेस्तथा विक्रयण प्रभो ॥ २३-
वेदविक्रयणं चैव भूतसन्त्रासनं तथा ।
आलस्यात्कर्मणस्त्यागस्तथैवाहङ्कृतेरपि ॥ २३-
कर्मण्येतानि देवेश सदसन्ति महान्त्यपि ।
प्रारब्धसञ्चितान्येव क्रियमाणानि यानि च ॥ २३-
तेषामन्तं न पश्यामि कल्पकोटिशतैरपि ।
स्वरूपज्ञानमात्रेण सञ्चितक्रियमाणयोः ॥ २३-
श्रुतिसिद्धो भवेन्नाशः प्रारब्धस्य तु न क्वचित् ।
नाभुक्तं क्षीयते कर्म कर्मणां भोगतः क्षयः ॥ २३-
इत्येवं शास्त्रसिद्धान्तः सर्वथैव त्वयोदितः ।
प्रारब्धविद्यमानत्वात् स्वरूपस्मरणेऽपि च ॥ २३-
कथं वकुण्ठगमनं गोचरो [न्यस्तकर्मणः इत्यपि पाठः ।] ग्रस्तकर्मणः ।
अभुक्तान्येव कर्माणि विहाय यदि यान्ति ताः ॥ २३-
न विना कर्तृ [कर्मसम्बन्धं इत्यपि पाठः ।] सम्बन्धं क्षणं तिष्ठन्ति तान्यपि ।
इत्येनं संशयं देव छेत्तुमर्हसि मामकम् ॥ २३-
शिव उवाच
साधु पृष्टं त्वया भद्रे रहस्यं परमाद्भुतम् ।
यस्य श्रवणमात्रेण कर्मबन्धाद्विमुच्यते ॥ २३-
सञ्चितं क्रियमाणं च तस्य नश्यति सर्वथा ।
विरहाग्न्याहुतीभूतशरीरा या हि केवलम् ॥ २३-
निक्षिप्य भूते भूतोत्थं तैजसं वपुरास्थिताः ।
प्रारब्धसहिता एव ब्रह्मलोकं व्रजन्ति ताः ॥ २३-
ब्रह्मलोकाद्यदा चोर्ध्वं गच्छन्ति भगवत्प्रियाः ।
वैकुण्ठनिकटे प्राप्ते बलीयान् पवनो ह्यवन् ॥ २३-
तेनाविष्टास्ततः सख्यः कम्पयन्ति वपुर्लताः ।
वपुःकम्पेन देवेशि प्रारब्धानां च पङ्क्तयः ॥ २३-
वृक्षेभ्य इव पुष्पाणि क्षरन्ति क्रमशोऽपि च ।
कर्मसम्बन्धरहिता यान्ति वैकुण्ठमुज्ज्वलाः ॥ २३-
सदसन्त्यपि कर्माणि क्षरितानि शरीरतः ।
यानाश्रयन्ति सततं वक्ष्ये तान् त्वं शृणु प्रिये ॥ २३-
यैः सेवाप्रह्वणादीनि स्तोत्राणि रचितान्यपि ।
उपकारः कृतो यैर्वा धनधान्याम्बरार्पणैः ॥ २३-
तद्गुणश्रवणे हृष्टास्तन्निन्दायां च दुःखिताः ।
सहभोज्याः सहवासाः सहयानाः सहासनाः ॥ २३-
तानाश्रयन्ते देवेशि सत्कर्माणि न संशयः ।
यैस्तु दुःखं कृतं तासां निन्दापारुष्यपैशुनैः ॥ २३-
तदर्थहरणं चैव तद्दोषस्यैव कीर्तनम् ।
वृथापवादकथनं ताडन तर्जनं तथा ॥ २३-
असत्कर्माणि सर्वाणि ह्याश्रयन्ते खलान् हि तान् ।
कर्मणां देहसम्बन्धो नात्मनस्तु कदाचन ॥ २३-
स्तुतिर्निन्दापि देवेशि देहगा नात्मगोचरा ।
तस्माद्देहस्य संस्तुत्या निन्दया वापि पार्वति ॥ २३-
प्राप्यते पुण्यपापानि तदीयानि न संशयः ।
पुण्यपापे निहत्यैवं वैकुण्ठे विहरन्ति ताः ॥ २३-
वैष्णव धाम यास्यन्ति सात्विक्यो भगवत्प्रियाः ।
द्विपरार्द्धावसाने तु यास्यन्ति युगपद्धि ताः ॥ २३-
राजस्यश्चापि वैरच्यं तामस्यो मन्निकेतनम् ।
न प्रकारविभेदोऽस्ति कर्महानौ गिरीन्द्रजे ॥ २३-
गुणानुरूपाञ्च गर्ति सर्वे यान्ति न संशयः ।
प्रकारं शृणु तत्रापि वैकुण्ठगमनं प्रति ॥ २३-
वासनालिङ्गमेतासां देहान्ते पृथिवीं विशेत् ।
कियत्कालं ततः स्थित्वा पार्थिवेन्द्रियसंयुता ॥ २३-
पार्थिवं विषयं देवि सेव्यमाना जलं विशेत् ।
कियत्कालं ततः स्थित्वा लब्ध्वा तत्रेन्द्रियं रसम् ॥ २३-
अतिदिव्यं सेव्यमाना तेजस्तत्त्वं समाविशेत् ।
कियत्कालं ततः स्थित्वा तैजसेन्द्रियसंयुता ॥ २३-
विषयं रूपमासाद्य वायुतत्त्वं ततः विशेत् ।
कियत्कालं ततः स्थित्वा त्वगिन्द्रियसमन्विता ॥ २३-
दिव्यस्पर्शं च विषयं सेव्यमाना खमाविशेत् ।
कियत्काल ततः स्थित्वा लब्ध्वा च श्रोत्रमिन्द्रियम् ॥ २३-
विषयं शब्दमासाद्य ततो भूतादिमाविशेत् ।
भूतादितामसं हित्वा राजसं याति सुन्दरि ॥ २३-
ततः सत्वमयं प्राप्य वैकुण्ठे रमते चिरम् ।
अनेन क्रमयोगेन गमिष्यन्ति हरेः प्रियाः ॥ २३-
एतत्तुभ्यं समाख्यातं वैकुण्ठगमनादिकम् ।
नाख्येयं यस्य कस्यापि तव स्नेहात्प्रकाशितम् ॥ २३-
त्वयापि गोपनीयं हि सत्यं सत्यं न संशयः ।
अपात्रायापि पुत्राय दत्त्वा पापमवाप्नुयात् ॥ २३-
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ २३-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे त्रयोविंशं पटलम् ॥ २३-
अथ चतुर्विंशं पटलम्
पार्वत्युवाच
देव देव महेशान धूर्जटे नीललोहित ।
भूयोऽहं श्रोतुमिच्छामि नित्यलीलाविनिर्णयम् ॥ २४-
निर्गुणे स्यात्कथं लीला लीला चेन्निर्गुणः कथम् ।
सगुणे वा कथं लीला नित्या गुणमयी यतः ॥ २४-
यत्तु कालत्रयाबाध्यं तच्च नित्यं प्रचक्षते ।
कदाचिद्वा पुरा जाता लीलेयं वा भविष्यति ॥ २४-
अथवा नैव जातेयं भविष्यति न वा पुनः ।
इदानीं लीला चेज्जाता जन्यकार्यं विनश्यति ॥ २४-
कथं नित्येति तां वक्तुं शक्यते विदुषा प्रभो ।
यद्यक्षरस्य हृदये लीला नित्यत्वमागता ॥ २४-
पुरा ह्यविद्यामानत्वान्नित्यतायाः कथं स्थितिः ।
इति मे संशयं देव छेत्तुमर्हसि साम्प्रतम् ॥ २४-
त्वदन्यं नैव पश्यामि सन्देहविनिवर्त्तनम् ।
न तवाविदितं किञ्चित्सर्वज्ञोऽसि यतः स्वयम् ॥ २४-
शिव उवाच
शृणु पार्वति वक्ष्यामि तव स्नेहादशेषतः ।
यस्य श्रवणमात्रेण भवेद्विज्ञानमुत्तमम् ॥ २४-
निर्गुणेप्यक्षरातीते लीलायाः किं विरुध्यते ।
सगुणस्य तु या लीला सगुणा सा निगद्यते ॥ २४-
निर्गुणे या भवेल्लीला सा लीला निर्गुणा भवेत् ।
निर्णयं तत्र वक्ष्यामि लीलाया ब्रह्मणस्तथा ॥ २४-
रसरूपं भवेद् ब्रह्म वेदविद्यासु गीयते ।
संयोगविप्रलम्भात्मा रसः स्याद् द्विदलात्मकः [द्रष्टव्य- ११,२१-२२ पृ० १२२ ।] ॥ २४-
संयुक्तयोस्तु संयोगो विप्रलम्भो वियुक्तयोः ।
नानाभावात्मिका तत्र लीला भवति शाश्वती ॥ २४-
ब्रह्मणो निर्गुणत्वाच्च नित्यत्वाच्चेति सुन्दरि ! ।
नित्या च निर्गुणा चैव लीलेयं न विरुध्यते ॥ २४-
केचिदाहुर्निर्गुणस्य नैव लीलोपयुज्यते ।
लीलाविशिष्टं [लीलाविष्टं च इत्यपि पाठः ।] सगुणं मायासम्बन्धभावतः ॥ २४-
निर्गुणं तु परं सूक्ष्ममवाङ्मानसगोचरम् ।
वर्णयन्ति विभागेन मायामोहितचेतसः ॥ २४-
श्रुतेर्विरोधमाशङ्क्य विनियोगः पृथक् कृतः ।
रसश्रुतिविरोध तु न ते पश्यन्ति मोहिताः ॥ २४-
निषेधयन्ति चाकारं श्रुतयः प्राकृतं प्रिये ।
आनन्दमात्रमाकारं रसश्रुतिरुपासते ॥ २४-
अन्यथाद्विदलः सोऽयं श्रुतिसिद्धः प्रियवदे ।
निराकारस्य देवेशि नोपयुक्तः कदाचन ॥ २४-
प्रलापाः शतशः सन्ति श्रुतियुक्तिमजानताम् ।
न तेषु रमते चित्तं रसज्ञस्य विवेकिनः ॥ २४-
रसस्तादृग्विधो देवि लीलाभिर्योनुभूयते ।
तस्माल्लीलारसमयी रसो लीलामयः स्मृतः ॥ २४-
तादात्म्यादेकरूपत्त्वाल्लीला ब्रह्ममयी भवेत् ।
लीलोपयोगिनो भावा विभावा व्यभिचारिणः ॥ २४-
आलम्बनानुभावाश्च तेऽपि तादृग्विधाः प्रिये ! ।
चन्द्रालङ्कारभूषादिमालालेपसमीरणाः ॥ २४-
दीर्घिकोपवनाराम-ऋतुवृक्षलतादयः ।
वस्त्रपानाशनं भृङ्गशुककोकिलकूजितम् ॥ २४-
रसोत्पादनसामग्री रसरूपा हि सा स्मृता ।
लीलोपयोगिनस्तस्मात् पदार्था रसरूपिणः ॥ २४-
द्रवीभूतः घनीभूतो रसस्य द्विविधा स्थितिः ।
द्रवीभूतः प्रियाधारो घनीभूतोक्षिगोचरः ॥ २४-
तस्मात्प्रियाभीष्टभावान् स्वतः प्रकटयत्यसौ ।
द्रवीभूतः प्रियाधारः प्रियाभावात्मको रसः ॥ २४-
प्राधान्यं तत्र चेच्छन्ति घनीभूतादपि प्रिये ! ।
रसो नैव प्रसिध्येत प्रियालम्बनवर्जितः ॥ २४-
प्रियादर्शे रसः पश्येत् स्वात्मानं प्रतिबिम्बवत् ।
आदर्शापसरे यद्वन्मुखस्यानुपलम्भनम् ॥ २४-
अङ्गहीनो रसस्तद्वत्स्वानुभूतिं न विन्दति ।
आनन्दो हि रसस्तस्मात्प्रियाप्रियदलद्वयम् ॥ २४-
आनन्दरूपा सामग्री सर्वभावात्मको रसः ।
न मायागुणसंसर्गः कदाचित्कुत्रचित्प्रिये ॥ २४-
रसरूपं निर्गुणं च नित्यलीलाविहारि यत् ।
अद्वैतं ब्रह्म परमं पुरुषोत्तमसंज्ञकम् ॥ २४-
अतीतानागता चासौ वर्तमानापि सुन्दरि ।
नित्या एवेति विज्ञेया लीलेयमनपायिनी ॥ २४-
इत्येतत्कथितं देवि प्रश्नमन्यं निशामय ।
यस्य श्रवणमात्रेण सन्देहो विनिवर्त्तते ॥ २४-
इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे चतुर्विंशं पटलम् ॥ २४-
अथ पञ्चविंशं पटलम्
शिव उवाच
पुरा ह्यविद्यमानत्त्वान्नित्यतायाः कथं स्थितिः ।
इति यद्देवि ते प्रोक्त [पृष्ठं इत्यपि पाठः ।] तत्र मे निर्णयं [निर्णये इ० पा० ।] शृणु ॥ २५-
अविद्यमानं यत्किञ्चिन्नैव प्रादुर्भविष्यति ।
सर्वथा विद्यमानं हि वस्तु प्रादुर्भवेत्प्रिये ॥ २५-
तस्मात्सदंशतो देवि प्रपञ्च उपवर्ण्यते ।
घटो नास्तीत्युच्यमाने घटसत्ता तु लभ्यते ॥ २५-
असच्छ्रुत्या तथा देवि प्रपञ्चः सन्निरूप्यते ।
अपरोक्षपरोक्षत्व सदसच्छ्रुतिनोदितम् ॥ २५-
तथा प्रपञ्चलीलेय रसलीलापि तादृशी ।
सर्वास्ता नित्यरूपा हि विज्ञेया वेदवादिभिः ॥ २५-
यथा मृदि घटस्यैव प्रागभावः प्रकल्प्यते ।
मृत्सकाशात्समुत्पत्तिः पश्चात्तस्योपचर्यते ॥ २५-
न पुनस्तस्य देवेशि ह्यभावोऽत्यन्तसंज्ञितः ।
आम्रबीजस्थितो ह्याम्रस्तस्माद् व्यक्तो यथा भवेत् ॥ २५-
अभूतमेव देवेशि यदि व्यक्तिं प्रयाति हि ।
आम्रबीजात् [आम्रबीजादुभ्रवस्य इत्यपि पाठः ।] छुद्छुदस्य कथं व्यक्तिर्भवेन्नहि ॥ २५-
व्यावहारिकी वास्तवी तथा च प्रातिभासिका ।
सत्ता तु त्रिविधा ज्ञेया देवि शास्त्रार्थकोविदैः ॥ २५-
शुक्तौ रजतमित्येषा सत्ता स्यात्प्रातिभासिकी ।
गजाश्वादिमहासम्पत् [स्वप्नवत् इत्यर्थ ।] स्वाप्निकी वापि तद्विधा ॥ २५-
व्यवहारार्थमित्येषा जागर्तिं व्यावहारिकी ।
ब्रह्मसत्ता तु देवेशि वास्तवी परिकीर्त्तिता ॥ २५-
ब्रह्मसत्तावशाद् देवि लीलासत्यत्वमुच्यते ।
सत्यस्याभावमीशानि शक्तः कर्त्तं न कश्चन ॥ २५-
तस्माद् देवि यथाकाल लीलाविर्भावमुच्यते ।
द्वादशद्वादशतमे स्वामिन्या वत्सरे प्रिये ॥ २५-
आविर्भवति लीलेयं पौनःपुन्येन सर्वदा ।
एतावति गते काले ह्यक्षरे परमात्मनि ॥ २५-
रहस्यरमणालोके जायते सा सुमङ्गला ।
ततः प्रियासु जायेत लीलाविस्तरणं ततः ॥ २५-
अक्षरात्मनि सा लीला ततश्चास्थिरतां व्रजेत् ।
स्मृतिमात्रा हि सा देवि न तु साक्षात्कदाचन ॥ २५-
गते द्वादशमे वर्षे स्वामिन्याः परमेश्वरि ।
पुनस्तथावलोकाय कामांशेनात्मयोगतः [नामयोगतः इत्यपि पाठः ।] ॥ २५-
इच्छा प्रवर्त्तते देवि कूटस्थस्य परात्मनः ।
ततश्च त्रिविधा [एतल्लीलात्रैविध्यं सुन्दरीतन्त्रे आलमन्दारसंहितायां श्रीशिवेन श्रीपार्वत्यै सुस्पष्टं निरूपितम् ।] लीला काले प्रादुर्भवेत्प्रिये ॥ २५-
श्वेतद्वीपस्य तु च्छाया मथुरायां प्रतिष्ठिता ।
वैकुण्ठप्रतिबिम्बस्तु द्वारिकायां तथा प्रिये ॥ २५-
व्रजस्तु साक्षाद्देवेशि गोलोकप्रतिबिम्बजः ।
गोलोकातीत[तथैवोक्तं पुराणसंहितायां प्रथमेऽध्याये-
एवं ब्रह्मणि चिन्मात्रे निर्गुणे भेदवर्जिते ।
गोलोकसंज्ञके कृष्णो दिव्यतीति श्रुतं मम ॥ २५-
नातः परतरं किंचिन्निगमागमयोरपि ।
तथापि निगमो वक्ति ह्यक्षरात् परतः परः ॥ २५-
गोलोकवासिभगवानक्षरात्पर उच्यते ।
तस्मादपि परः कोऽसौ श्रुतिभिर्गीयते सदा ॥ २५-
पाद्मेऽपि गोलोकलीलातोऽस्याः लीलायाः परत्वं पठ्यते ।]लीला [लीलेयं इत्यपि पाठ ।] च रसानन्दमयी शिवे ॥ २५-
आविर्भवति देवेशि समये समये हि सा ।
समयं तं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा ॥ २५-
परमाणुद्वयमणुः त्रसरेणुः त्रिभिश्च तैः ।
त्रयरेणुत्रयेणैव कालः स्यात् त्रुटितसंज्ञितः ॥ २५-
तच्छतेन भवेद्वेधः त्रिभिर्वेधैर्लवः स्मृतः ।
निमिषस्त्रिलवैर्देवि क्षणो ज्ञेयस्त्रिभिश्च तैः ॥ २५-
क्षणैश्च पञ्चभिः काष्ठा पञ्चभिर्दशभिस्तथा ।
काष्ठाभिर्लघु विज्ञेयं लघुभिर्दशपञ्चभिः ॥ २५-
घटिकैका तु विज्ञेया मुहूर्तो घटिकाद्वयम् ।
प्रहरः सप्तघटिकाश्चतुर्भिस्तैरहः स्मृतः ॥ २५-
पुनश्चतुर्भिः प्रहरैरुच्यते तदहर्निशम् ॥ २५-
दशभिः पञ्चभिः पक्षः पुनश्च दशपञ्चभिः ।
आद्यः शुक्लस्तथा कृष्णः पितृणां तदहर्निशम् ॥ २५-
मासः पक्षद्वयेनोक्तः तावेव द्वौ ऋतुः स्मृतः ।
ऋतुत्रयेणाप्ययनं दक्षिणं परिकीर्तितम् ॥ २५-
त्रयेणैवोत्तरं प्राहुर्देवानां तदहर्निशम् ।
संवत्सरस्तु ह्ययनद्वयं देवि निगद्यते ।
तच्छतं मानवानां च परमायुर्निरूपितम् ॥ २५-
दिव्यैर्द्वादशसाहस्रैर्वर्षाणां सुरवन्दिते ।
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगाः ॥ २५-
चतुर्युगीसहस्रेण ब्रह्मणो दिनमुच्यते ।
तावत्येव भवेद्रात्रिस्त्रिलोकी यत्र लीयते ॥ २५-
ब्रह्मणो दिवसे जाता मनवस्तु चतुर्दश ।
प्रतिमन्वन्तरे देवि युगानामेकसप्ततिः ॥ २५-
प्रतिमन्वन्तरे देवि विष्णोरवतरणं भुवि ।
इन्द्राद्या देवताश्चैव तथा सप्तर्षयश्च ये ॥ २५-
मन्वन्तरविभेदेन भिन्ना एव भवन्ति हि ।
स्वायम्भुव स्वारोचिषोत्तमतामसरेवताः ॥ २५-
चाक्षुषश्चेति मनवो व्यतिक्रान्ताः षडम्बिके ।
वैवस्वतो मनुर्नाम सप्तमोऽद्य प्रवर्तते ॥ २५-
चतुर्युगी व्यतिक्रान्ता तस्याष्टाविंशति प्रिये ।
अष्टाविंशतिके देवि कलौ लीलेयमागता ॥ २५-
परार्द्धः प्रथमोऽतीतो द्वितीयस्तु प्रवर्तते ।
तत्रापि प्रथमाब्दस्य नवमो मास उच्यते ॥ २५-
दिन तु षोडशं चैव यामस्तस्यद्वितीयकः ।
मुहूर्त्तं तृतीयं देवि वर्त्ततेऽद्य प्रियंवदे ॥ २५-
एवं विधेरहोरात्रैर्ब्रह्मणो हि दिनं स्मृतम् ।
पक्षमासविभेदेन यावत्संवत्सरः प्रिये ॥ २५-
एवं संवत्सरशत तदा स्याद् ब्रह्मणो लयः ।
विष्णोर्नेत्रनिमेषेण यात्यायुर्ब्रह्मणोऽखिलम् ॥ २५-
तावन्निमेषमारभ्य लवक्षणविभेदतः ।
यावद्वषेशत विष्णोर्मदीयः स्यान्निमेषकः ॥ २५-
मन्निमेषक्रमेणापि यावद्वर्षशतं भवेत् ।
निमेषमात्रमीशस्य तन्निमेषक्रमेण च ॥ २५-
शतवर्षं भवेद्यावत्तावच्छिवनिमेषकः ।
तन्निमेषक्रमेणैव यावद्वर्षसहस्रकम् ॥ २५-
अपाङ्गस्फुरणं तावत्स्वामिन्याः कृष्णविभ्रमे ।
तन्निमेषक्रमेणैव वर्षं द्वादशकं भवेत् ॥ २५-
लीलावलोकनार्थाय भूयः कामो भवेत्तदा ।
वर्षद्वादशकेऽतीते स्वामिन्याः सुरपूजिते ॥ २५-
पौनःपुन्येन लीलायाः नित्याविर्भाव उच्यते ।
अक्षरस्यैव हृदये यः कामांशोऽप्यधिष्ठितः ॥ २५-
तत्संयोगाद्दिदृक्षास्य स्वस्वकाले भवेद्धि सा ।
एवं नित्येव सा लीला रसरूपा प्रियवदे ॥ २५-
संयोगविप्रलम्भाख्यदलाभ्यां यानुवर्णिता ।
रसो यदाविप्रलम्भदलं समधितिष्ठति ॥ २५-
तदेवाविर्भवत्येषा लीला च सुरपूजिते ।
यदा तु संयोगदलं समधिव्याप्य तिष्ठति ॥ २५-
निजधाम्नि तदा लीला साक्षात्कृष्णकृता भवेत् ।
यदा संयोगविश्लेषसन्धिं याति रसः प्रिये ॥ २५-
तदा प्रबोधसमयो निकटः कृष्णचेतसाम् ।
गुरोः सत्सम्प्रदायेन शास्त्रार्थस्यानुरूपतः ॥ २५-
वर्त्तितव्यं ततो भद्रं साधनैरात्मलब्धये ।
इत्येवं ते मया ख्यातं यत्पृष्टोऽहं सुलोचने ॥ २५-
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ? ॥ २५-
इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे पञ्चविंशं पटलम् ॥ २५-
अथ षड्विंशं पटलम्
पार्वत्युवाच
महेश श्रोतुमिच्छामि साधनानां विनिर्णयम् ।
यस्य श्रवणमात्रेण सर्वं हि सफलं भवेत् ॥ २६-
श्रीशिव उवाच
शृणु देवि प्रवक्ष्यामि साधनस्य विनिर्णयम् ।
गुह्याद्गुह्यतरं साक्षान्न वाच्यं यस्य कस्य कस्यचित् ॥ २६-
तन्त्रार्थोऽयं रहस्यार्थो यस्तु वेदेषु गोपितः ।
ईश्वरात्तु मया लब्धः प्राप्तस्तेन सदाशिवात् ॥ २६-
मञ्चे फलकमापन्नो लक्षयोजनविस्तृते ।
सदाशिवोऽशृणोदेतत्कूटस्थोपरिसंस्थया ॥ २६-
इच्छाशक्त्या तु देवेशि वर्ण्यमानं मया रहः ।
तच्च ते गदितं साध्वि शृण्वतः परमप्युत ॥ २६-
एकदा मे वितर्कोंऽभूद्विजने स्मरतः प्रिये ।
अहमेवेश्वरो लोके मदन्यो वापि कश्चन ॥ २६-
इति तर्कयता देवि समाधिर्हि मया धृतः ।
तस्मिन् युगसहस्राणि व्यतीयुः पञ्च सुन्दरि ॥ २६-
[समाधिगीतं इ० पा० ।] समाधिस्थेन देवेशि श्रुतमीश्वरभाषितम् ।
तच्छ्रुत्वा हृदयं देवि निर्विकल्पमभून्मम ॥ २६-
तदाप्रभृति देवेशि लीलामेनां रहःस्थितः ।
ध्यायामि ध्यानयोगेन निर्विकल्पेन चेतसा ॥ २६-
समाधावीश्वरेणोक्तमिदं तन्त्रं यतो मम ।
तस्मान्माहेश्वर तन्त्रमित्येवंख्यातिमागतम् ॥ २६-
चतुःषष्टीनि तन्त्राणि मयैवोक्तानि पार्वति ।
मोहोच्चाटवशीकारमारणार्थानि तानि तु ॥ २६-
सद्यःप्रत्ययहेतूनि नानामन्त्रमयानि च ।
मोहनानि तु लोकस्य इन्द्रजालकलादिभिः ॥ २६-
तानि विस्तरतो देवि ! तदाग्रे कथितानि च ।
न तेषु विद्यते किञ्चित्परमार्थं सुरेश्वरि ॥ २६-
मायिक वर्णितं सर्वं मायाजीवोपयोगिकम् [मया इ० पा० ।] ।
इदं माहेश्वरं तन्त्रं समाधौ यच्छ्रुतं मया ॥ २६-
प्रबोधसाधनीभूतं प्रियाणामिति मे मतम् ।
अन्यथेश्वरविज्ञानान्नान्यदेतत्प्रयोजनम् [तन्महेश्वरविख्यातं तन्मयेश्वरविख्यातं तन्मेश्वरविख्या वेत्यपपि पाठः ।] ॥ २६-
वैष्णवान्यपि तन्त्राणि पञ्चरात्राभिधानि तु ।
विष्णुप्रोक्तानि देवेशि पञ्चविंशतिसंख्यया ॥ २६-
हयशीर्षं तन्त्रमाद्यं तन्त्रं संमोहनं तथा ।
वैभवं पौष्करं तन्त्रं प्रह्लादं गार्ग्यगालवम् ॥ २६-
नारदीयं च श्रीप्रश्नं [वैष्णवं पौष्करं तन्त्रं प्रह्लादं गार्गमाणवम् ।
नारदीयं च श्री वत्सं ... इति वा पाठः ।] शाण्डिल्यं चेश्वरं तथा ।
सत्योक्तं शौनकं तन्त्रं वाशिष्ठं ज्ञानसागरम् ॥ २६-
स्वायम्भुवं कापिलं च तार्क्ष्यं नारायणीयकम् ।
आत्रेयं [नारसिंहाक्षं इति वा पाठः ।] नारसिंहाख्यं आनन्दं [आदाक्षं आट्टाक्षं इति वा पाठः ।] च तथारुणम् ॥ २६-
वैहायसं तथा ज्ञानं विश्वोक्तं चेति सुन्दरि ।
अत्यन्तस्खलितानाञ्च जनानां वेदमार्गतः ॥ २६-
पञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ।
बौद्धतन्त्राणि देवेशि वर्त्तन्ते सुबहून्यपि ॥ २६-
तानि प्रोक्तानि सर्वाणि बौद्धरूपेण विष्णुना ।
न तत्र धर्मलेशोऽस्ति मोहनानि दुरात्मनाम् ॥ २६-
अन्ते तु नरकायैव भविष्यन्ति न संशयः ।
पार्वत्युवाच
किमर्थं देवदेवेन विष्णुना सत्वमूर्त्तिना ॥ २६-
दयावतापि लोकस्य प्रतारणमहो कृतम् ।
निर्दोषे पुरुषे देव नानृतं स्यात्कदाचन ॥ २६-
केन प्रयुक्तस्तु हरिर्मोहशास्त्रमरीरचत् ।
एतन्मे ब्रूहि सर्वज्ञ सन्देहविनिवृत्तये ॥ २६-
शिव उवाच
शृणु देवि प्रवक्ष्यामि कारणं मोहकल्पने ।
एकदा विधिविष्णू च स्वाभिमानावृतान्तरौ ॥ २६-
नित्यं विवदमानौ तावन्योऽन्यं प्रतिचक्रतुः ।
अहं ब्रह्मेति न भवानित्येवं पूर्णमानिनौ ॥ २६-
क्रुद्धचित्तावुभौ देवि शेपतुस्तौ परस्परम् ।
ब्रह्मोवाच
यस्मात्त्वं मामवज्ञाय स्वात्मानं बहु मन्यसे ॥ २६-
अपूज्यस्त्वं तु लोकेषु भविष्यसि न संशयः ।
इत्येव दारुणं शापं निशम्य मधुसूदनः ॥ २६-
क्रुद्धः शापं प्रतिददौ त्वमप्येवं भविष्यसि ।
अन्योऽन्यं शापमाश्राव्य भवितव्येन मोहितौ ॥ २६-
मामेव शरणं यातौ परिम्लानमुखावुभौ ।
व्यवस्था तु कृता देवि मया शापस्य वै तयोः ॥ २६-
ब्रह्मणो यन्मया प्रोक्त तत्ते वक्ष्यामि संशृणु ।
ब्रह्मन्नो वैष्णवं वाक्यमन्यथा भवति क्वचित् ॥ २६-
तस्मादपूज्यो लोकेषु भविष्यति भवान् किल ।
पञ्चायतनपूजायां न शापस्ते भविष्यति ॥ २६-
केवलं भवतः पूजाबाधकं शाप एव हि ।
त्वमेकं वपुराधत्स्व शापस्य विषयं हरे ॥ २६-
तत्रैवास्तु च ते शापः सत्त्वमूर्त्तौ न सर्वथा ।
एवमुक्ते मया चोभौ ययतुः स्वस्य केतनम् ॥ २६-
एतस्मिन्नन्तरे देवि देवासुरमहारणः ।
वभूव तत्र समरे जिता देवैः सुरेतराः ॥ २६-
जयोपाय प्रकुर्बाणास्तपस्तेपुर्महत्तरम् ।
तपोविघ्नाय तान् देवो बौद्धरूप स्वयं गतः ॥ २६-
बौद्धतन्त्राणि निर्माय दैत्येभ्यः समदर्शयत् ।
देहादन्यो न चात्मास्ति न मुक्तिर्मरणात् परा ॥ २६-
न देवाः पितरः सन्ति मुधा वेदेन दर्शिताः ।
स्ववृत्तये तु निगमः कल्पितो ब्राह्मणैरिह ॥ २६-
सर्वथा न प्रमाणत्वे धार्यः स्यादसुरेश्वराः ।
एवं तन्त्रेषु नैरात्म्यवादमुख्येषु मोहिताः ॥ २६-
असुराः समसज्जन्त बौद्धमायाहृताशयाः ।
तदा प्रभृति तद्रूप अपूज्यत्वं हरेर्ययौ ॥ २६-
बौद्धोपदेशस्य [शुद्धोदनस्य च गृहे जातस्य इत्यपि पाठः ।] ग्रहो जातश्च परमेश्वरि ।
तस्मात्तदुक्ततन्त्राणि नास्तिवादपराणि च ॥ २६-
न ग्राह्याणि बुधैर्देवि धर्माधर्मविचारणे ।
इदं माहेश्वरं तन्त्रं सर्वतन्त्रोत्तमोत्तमम् ॥ २६-
सामरस्येच्छया शक्त्या यथाभूतार्थमीरितम् ।
अक्षरस्यासनीभूतस्तन्निशम्य सदाशिवः ॥ २६-
प्रोक्तवानीश्वरायैतत् यथाश्रुतमनिन्दिते ।
समाधावीश्वरः प्राह मह्यं देवि यथाश्रुतम् ॥ २६-
मयापि च तव स्नेहादुच्यते नान्यथा प्रिये ।
त्वया तु गोपनीयं हि न वाच्यं यस्य कस्यचित् ॥ २६-
एतत्तन्त्रार्थविज्ञाने न सर्वे ह्यधिकारिणः ।
पार्वत्युवाच
अधिकारविहीनोऽपि यदि चात्र प्रवर्त्तते ॥ २६-
निःशङ्को निर्भयो भूत्वा प्रेमासक्तिसमन्वितः ।
नित्यानन्दं च पुरुष विभाव्य स्वपतिं हृदि ॥ २६-
तदीयविरहज्वालाग्लपितां तनुमुत्सृजेत् ।
कां गतिं याति देवेश तन्मे साधु निरूपय ॥ २६-
शिव उवाच
ब्रह्माभासमयः कश्चिद्यदि जीवः परिभ्रमन् ।
अनेकजन्मसंसिद्धपुण्यराशिभिरूर्ज्जितैः ॥ २६-
साधुसङ्गेन देवेशि यदिदं ज्ञानमाप्नुयात् ।
जितेन्द्रियो निविंषयः प्रेमासक्तिसमन्वितः ॥ २६-
त्यजन् देहमवाप्नोति कुमार्यः प्रापुरेव यत् ।
न जले जलवत्तस्य लयो भवति चाक्षरे ॥ २६-
यदय विरही जातो नित्यलीलाविहारिणि ।
न पश्यति तथा चापि नित्यलीलाविहारिणम् ॥ २६-
अक्षराभासमात्रत्त्वात् स्वस्यैव परमेश्वरि ।
तस्माद् वृन्दावने देवि [अक्षरे हृदयङ्गमे इत्यपि पाठः ।] कूटस्थहृदयङ्गमे ॥ २६-
लीलामनुभवन् तिष्ठेत् तिष्ठेत् पुनरागविवर्ज्जितः ।
इति ते निर्णयः प्रोक्तोऽनधिकारिणि सुन्दरि ॥ २६-
अतः परं च भजने निर्णयं वच्मि सं शृणु ॥ २६-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे षड्विंश पटलम् ॥ २६-
अथ सप्तविंशं पटलम्
शिव उवाच
नित्यानन्दविहाराणां प्रियाणां परमेशितुः ।
स्वभर्त्तुर्भजनं देवि कर्त्तव्य सर्वथैव हि ॥ २७-
भजनाङ्गं सदाचारः कर्त्तव्यः कर्मशुद्धये ।
न सिद्धाः सिद्धिमवाप्स्यन्ति सदाचारविवर्जिताः ॥ २७-
आचारहीनं न पुनन्ति वेदा आचारहीनं न तपः पुनाति ।
आचारहीनं न पुनन्ति तीर्थान्याचारहीनस्य न चैव सिद्धिः ॥ २७-
आचारः प्रथमो धर्म आचारो हन्त्यलक्षणम् ।
आचाराल्लभते शुद्धिं तस्मात्तं सततं चरेत् ॥ २७-
अनाचारेण मालिन्यं बुद्धिः समधिगच्छति ।
लीलावधारणं नास्ति मलिने बुद्धिदर्पणे ॥ २७-
आचारः कथितः सद्भिः सर्वधर्मेषु सर्वदा ।
आचाररहितो धर्मो ह्यधर्मत्वेन कल्प्यते ॥ २७-
आचाररक्षणं तस्मात्कर्त्तव्यं सर्वथा प्रिये ।
आचारो द्विविधः प्रोक्तो बाह्याभ्यन्तर एव च ॥ २७-
भावसंशुद्धिमेवैकामाचारं ह्यान्तरं विदुः ।
तत्सिद्धये देहसाध्यो बाह्यः शौचादिरुच्यते ॥ २७-
साध्यो भावः साधनं तु देहशुध्यादिकं प्रिये ।
तमाचारं प्रवक्ष्यामि येन संशुध्यते मनः ॥ २७-
नाभाषेन्नावलोकेत शृणुयान्न कथञ्चन ।
न स्पृशेन्नोपजिघ्रेत नाश्नीयाद्विमतं च यत् ॥ २७-
यदेश्वरगुणान्वक्तुमीहते वाक् विजृम्भिता ।
तदैनां विध्यते पाप्मा विद्धा विमतभाषिणी ॥ २७-
यदेश्वरं मूर्त्तिमन्तमालोकयितुमिच्छति ।
चक्षुस्तदा पाप्मविद्धं विमत पश्यति प्रिये ॥ २७-
यदेश्वरगुणान् श्रोतुमीहते श्रोत्रमिन्द्रियम् ।
तदैव पाप्मना विद्धं जानीयाद्विमते च तत् ॥ २७-
यदा निवेदितान्नेन नियमं रसनेहते ।
तदैव पाप्मना विद्धा विमतं प्रतिपद्यते ॥ २७-
पापरूपं विजानीयाद्विमताचरणं च तत् ।
विमताचरणं पापमिन्द्रियमुपगच्छति ॥ २७-
निरावरणमेवैतद्ध्यानाभ्यासः प्रपद्यते ।
नियम्य चेन्द्रियाण्यादौ अभ्यासेन दृढीयसा ॥ २७-
यदा सर्वेन्द्रियाणां च नियमं कर्तुमक्षमः ।
रसनेन्द्रियमेवैकं जेयं सर्वजिगीषया ॥ २७-
जिते रसे जितः कामः जिते [जिततृष्णे इति पाठः ।] कामे जितेन्द्रियः ।
जितजिह्वोपस्थरतेरसाध्यं किं तु [नु ।] विद्यते ॥ २७-
सिसृक्षोर्ब्रह्मणः पूर्वं स्तनाद्धर्मो विनिर्गतः ।
वृषरूपश्चतुर्वेदचतुःपादः शुभाकृतिः ॥ २७-
ज्ञानं वैराग्यमत्युग्र यस्य शृङ्गद्वयं प्रिये ।
सत्यं तपः कर्णयुग दमो दानं तु चक्षुषी ॥ २७-
लांगूलमस्य चैश्वर्यं रोमावलिः पुण्यसन्ततिः ।
तेन स्पृष्टाः प्रजाः सर्वाः शुद्धसत्वा बभूविरे ॥ २७-
ज्ञानवैराग्यसम्पन्ना मोक्षमार्गपरायणाः ।
तं दृष्ट्वा भगवान् ब्रह्मा पश्चात्पापमथासृजत् ॥ २७-
स पाप्मा महिषाकारस्तमोभूतः शरीरिषु ।
अज्ञानं चाप्यनैश्वर्यमवैराग्यमधर्मकम् ॥ २७-
चत्वारस्तस्य वै पादा छलद्रोहौ [श्रुतिद्वयम् ।] शृङ्गद्वयम् ।
क्रोधमोहौ कर्णयुगं कामलोभौ हि चक्षुषी ॥ २७-
मात्सर्यमुग्रलांगूलं ब्रह्महत्या शिरोऽस्य च ।
सुरापानं च हृदय कटिः स्यादुपपातकम् ॥ २७-
तेन स्पृष्टाः प्रजाः सर्वा नष्टसत्त्वा [मलीमसः इति पाठः ।] मलीमसा ।
ज्ञानवैराग्यरहिताः काम्यकर्मकृतश्रमाः ॥ २७-
आसुरेष्वेव भावेषु व्यसज्जन्त विमोहिताः ।
तस्मात्तं तु परिज्ञाय देहेन्द्रियचरं प्रिये ॥ २७-
स्वाचारमाचरेत्प्राज्ञो यथा स्यादुज्ज्वलात्मधीः ।
उज्ज्वलत्व तदा बुद्धेः समं पश्यति वै यया ॥ २७-
सुखेषु विद्यमानेषु दुःखशोकभयादिकम् ।
पश्यन् विरमते तेषु शुद्धत्वं च तदा धियः ॥ २७-
न व्यथेन्निंदया चित्तं हर्षते न च सस्तुवैः ।
उदासीनोरिमित्रेषु साम्य बुद्धिस्तदोज्वला ॥ २७-
अलोलुपत्वमास्तिक्यं मुमुक्षुत्वं गभीरता ।
प्रसादः स्वात्मना सौख्यं लोकसङ्गनिवर्त्तनम् ॥ २७-
एकान्तसेवाभिरुचिर् दम्भमानविवर्ज्जनम् ।
एतानि यत्र जायन्ते तस्य बुद्धिः समुज्ज्वला ॥ २७-
आचारसेवनस्येह बुद्धिशुद्धिः परं फलम् ।
शुद्धायां ततो बुद्धौ लीलाध्यानेऽर्हतां व्रजेत् ॥ २७-
शास्त्रदुष्ट भावदुष्टं लोकदुष्टमथापि वा ।
वर्जयेन्मतिमान् देवि सत्वशुद्धिविधित्सया ॥ २७-
गुह्यशौचं पादशौचं हस्तशौचं महेश्वरि ।
मुखशौचं चतुर्थं च कुर्यात्सर्वत्र सर्वदा ॥ २७-
उच्छिष्टो न स्पृशेत् क्वापि सेवाद्रव्याणि शाम्भवि ।
प्रणम्य प्रविशेत्स्थानं निर्गच्छेच्च प्रणम्य च ॥ २७-
निष्ठीवनं प्रलापं च अधोवायुविसर्जनम् ।
औदासीन्यं भयं क्रोधं न कुर्यात्तत्र संस्थितः ॥ २७-
यथावर्णं यथाज्ञानं यथाज्येष्ठकनिष्ठकम् ।
तथैवोपविशेत्तत्र रागद्वेषविवर्जितः ॥ २७-
न निन्देन्मनसा वाचा कुमारीं ब्राह्मणं गुरुम् ।
दया भूतेषु कर्त्तव्या न हिंस्यात्कमपि प्रिये ॥ २७-
सर्वं सहेत परुषं देहानित्यत्वभावनात् ।
देहगेहकलत्राप्तमित्रद्रविणसम्पदः ॥ २७-
स्वप्नविद्युन्निभाः पश्येन्नात्मानं तत्र सज्जयेत् ।
असदासक्तिवशतः संसारो न निवर्त्तते ॥ २७-
दानं दमो दया चेति न त्याज्यं सर्वथा त्रयम् ।
असत्यं न वदेद्वाक्यं वाचोऽपि मरणं हि तत् ॥ २७-
मृता वाक् नहि योग्या स्याद् गुणालापे परेशितुः ।
न परस्त्रीमुखे क्वापि दृष्टिं भोगेच्छया छिपेत् ॥ २७-
स्वस्मिन् स्त्रीभावनानश्येत्तस्मात्पातकमेव तत् ।
निर्विकाराणीन्द्रियाणि जातमात्रशिशोर्यथा ॥ २७-
ललनावृन्दमध्यस्थस्यापि चेतो द्विधा नहि ।
सखीभावः स्थिरस्तस्य विशुद्धश्च प्रियंवदे ॥ २७-
विशुद्धस्त्रीस्वभावा ये दृश्यन्ते पुरुषा अपि ।
निश्चयादवगन्तव्या प्रिया भगवतो हि ते ॥ २७-
स्त्रीदुष्टान् समयभ्रष्टान् भावनाविमुखान् शथान् ।
नास्तिकान् दुर्नयान्दुष्टान् परस्त्रीगमनोत्सुकान् ॥ २७-
विरोधिनः क्रूरचित्तान् श्रद्धाप्रेमविवर्जितान् ।
असदालापकान् देवि न पंक्त्यामुपवेशयेत् ॥ २७-
न पिबेत्तत्र पानीयमेकपात्रेण कर्हिचित् ।
पादुकावसनं शययाशयनासनसंस्थितिम् ॥ २७-
न कुर्यादेव तैः साकं दोषावेशोन्यथा भवेत् ।
अदृष्टपुरुषैर्देवि देशान्तरनिवासिभिः ॥ २७-
इन्द्रियार्थरतैर्दम्भच्छलेनापि समागतैः ।
न स्थितिः सह कर्त्तव्या परानन्दोत्सवे प्रिये ॥ २७-
अस्नातोऽधौतपादो वा ह्यनाचारो भयाकुलः ।
अधौतवसनो वापि नोत्सवं प्रविशेत्क्वचित् ॥ २७-
उत्सवे गुणगानादि कुर्यात्कृष्णकथाः शुभाः ।
न लौकिकीं कथां कुर्याद्विवदेन्न परस्परम् ॥ २७-
न मर्माणि वदेद्देवि न चोपद्रवमाचरेत् ।
परस्परं तु देवेशि स्वात्म्यैक्यं भावयेद्धिया ॥ २७-
रसावेशस्तदाभूयान्निर्विकारा यदा स्थितिः ।
तस्मात्तत्प्रवणं चेतः प्रकुर्वीत महोत्सवे ॥ २७-
ध्यायन्ति केचन निमीलितपक्ष्मभारा
गर्जन्ति हेतिपरिलब्धगुरुप्रमाणाः ।
नृत्यन्ति तद्रसविलीनमनोरथार्था
भक्त्या द्रवन्त इव दृक्कमलैगैलद्भिः ॥ २७-
तद्ध्यानदृष्टपदहृष्टधियः प्रसन्नाः
स्वानन्दसागरसमुच्छलदच्छभावाः ।
रोमाञ्चकञ्चुकविचित्रतनुप्रदेशा
जानन्ति नेदमखिलं च विभिन्नलिङ्गाः ॥ २७-
यज्जातमुत्सवे किञ्चित् वृत्तान्तं साध्वसाधु वा ।
हृदयाद्विस्मृतमिव बहिर्नैव प्रकाशयेत् ॥ २७-
यथावर्णविभेदेन स्वीकुर्याच्च निवेदितम् ।
पृथगासनपात्राणि कारयेत् सुरवन्दिते ॥ २७-
परस्परं प्रणमेदेवं कुर्यान्महोत्सवोत्सवम् ।
स्वपुत्रस्त्रीजन्मदिने गुरोर्जन्मविपर्यये ॥ २७-
मङ्गले सम्पदाधिक्ये लाभे भक्तसमागमे ।
व्यतीपाते तथाष्टम्यामेकादश्यां च संक्रमे ॥ २७-
पुष्यार्के चैव हस्तार्के ग्रहणे चन्द्रसूर्ययोः ।
कृष्णजन्माह्नि देवेशि राधाजन्मदिने तथा ॥ २७-
अवतारदिनेष्वेवं विष्णोरमिततेजसः ।
चैत्रे शुक्लस्य पञ्चम्यां भगवान्मीनरूपधृक् ॥ २७-
ज्येष्ठे शुक्ले द्वादश्यां ततः कूर्मस्वरूपधृक् ।
चैत्रे कृष्णनवम्यां तु हरिर्वाराहरूपधृक् ॥ २७-
वैशाखे शुक्लपक्षे तु चतुर्दश्यां दिनक्षये ।
प्रादुर्बभूव नृहरिर्भक्तरक्षार्थमुद्यतः ॥ २७-
वैशाखे शुक्लपक्षे तु तृतीयायां गिरीन्द्रजे ।
जमदग्निसुतो रामो रेणुकायामजीजनत् ॥ २७-
मासि भाद्रपदे देवि शुक्ले चैकादशी तिथिः ।
अदित्यां कश्यपाज्जातो वामनः सुरकार्यकृत् ॥ २७-
चैत्रे शुक्लनवम्यां तु रामो दशरथात्मजः ।
रावणस्य वधार्थाय कौशल्यायां परः पुमान् ॥ २७-
श्रावणे बहुले पक्षे अष्टम्यां च महानिशि ।
कृष्णः प्रादुरभूद् देवि सुरकार्यचिकीर्षया ॥ २७-
नभसे तु द्वितीयायां बलभद्रोऽभवद्धरिः ।
पौषशुक्ले तु सप्तम्यां बौद्धः प्रादुर्भविष्यति ॥ २७-
माघशुक्लतृतीयायां कल्की प्रादुर्भविष्यति ।
एतेष्वन्येषु पुण्येषु दिवसेषु विशेषतः ॥ २७-
प्रकुर्यादुत्सवं देवि वित्तशाठ्यविवर्जितः ।
नोत्सवो भक्ष्यभोज्याद्यैर्न पुष्परचनादिभिः ॥ २७-
रसावेशो भवेद्यत्र तमाहुः परमोत्सवम् ।
निर्विकारं भवेच्चित्तं भगवज्ज्ञानगोचरम् ॥ २७-
प्रेमैकरर्सिकं [प्रेमैक्य रासिकं इत्यपि पाठः ।] शुद्धं तत्रावेशो भवेद्ध्रुवम् ।
उत्सवे देवदेवेशि त्रिविधैव जनसङ्गमः ॥ २७-
प्रियाणां वासनाश्चैको देवसर्गो द्वितीयकः ।
तृतीयो गौतमैः शप्ता ये च वैडालिनः स्मृताः ॥ २७-
वासनासु रसावेशः शुद्धो नैवात्र संशयः ।
देवेषु देवतावेशो भगवत्प्रेमवत्स्वपि ॥ २७-
प्रेमहीना दुराचाराः परस्त्रीधनलम्पटाः ।
पिशुनाः वञ्चकाः क्रूराः कुटिलाः पापचारिणः ॥ २७-
आचाररहिता दुष्टा निर्लज्जाः कलहोत्सुकाः ।
आसुरं भावमापन्ना वेदशास्त्रार्थनिन्दकाः ॥ २७-
ते वै वैडालिनो देवि ह्यधिकारविवर्जिताः ।
असुरावेशिणस्ते तु मयोक्तमवधार्यताम् ॥ २७-
जानीयात्तत्तदावेशं तत्तच्चेष्टानुरूपतः ।
इत्येतान् त्रिविधान् ज्ञात्वा महोत्सवगतान् शिवे ॥ २७-
व्यवहार्यं यथायोग्यं सङ्करो न भवेद्यथा ।
यथायोग्यं यथाकालं यथाद्रव्यं यथोचितम् ॥ २७-
तथा कुर्यान्महेशानि ह्यन्यथा पतितो भवेत् ।
इति तेऽभिहितं देवि किं भूयः श्रोतुमिच्छसि ॥ २७-
तदहं ते प्रवक्ष्यामि सुगुह्यमपि विस्तरात् ॥ २७-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे सप्तविंशं पटलम् ॥ २७-
अथ अष्टाविंशं पटलम्
पार्वत्युवाच
पुनर्ब्रूहि महादेव यथा स्याद्भजनोदयः ।
कं वा गुरुमुपासीत कथं ज्ञानोदयो भवेत् ॥ २८-
शिव उवाच
साधु पृष्टं त्वया भद्रे प्रवक्ष्यामि यथातथम् ।
गोपनीयं प्रयत्नेन दर्शयेन्नैव कस्यचित् ॥ २८-
मायाग्रस्तमिदं विश्वं नानादुःखभयातुरम् ।
अनित्यभवसन्तापपरितप्त समन्ततः ॥ २८-
कालदण्डभुजङ्गेन ग्रस्तमानमहर्निशम् ।
दृष्ट्वा विरक्तः सततं स्वात्मनः शिवहेतवे ॥ २८-
सद्गुरोः शरणं यायात् शुद्धभावेन भामिनि ।
गुरवो बहवः सन्ति दीपवच्च गृहे गृहे ॥ २८-
दुर्लभा गुरवो देवि ! सूर्यवत्सर्वदीपकाः ।
गुरवो बहवः सन्ति शिष्यवित्तापहारकाः ॥ २८-
विरला गुरवो देवि ! शिष्यहृत्तापहारकाः ।
शुद्धान्वयः शुद्धचेत्ताः शुद्धवेशः शुभाकृतिः ॥ २८-
शुभवादी शुभाचारः शुद्धभावः शुचिः स्वयम् ।
वेदशास्त्रार्थतत्त्वज्ञो लोकसङ्गविवर्ज्जितः ॥ २८-
अलोलुपः सुशीलश्च दयादाक्षिण्यसंयुतः ।
त्यागी विरागी गुणवान् गुणज्ञः शिष्यवत्सलः ॥ २८-
येन केनापि सन्तुष्टः शरण्यः क्रोधवर्ज्जितः ।
स्वसिद्धान्तार्थतत्त्वज्ञो मितवाक् लोकवल्लभः ॥ २८-
पवित्रः संशयच्छेत्ता कृष्णप्रेमपरिप्लुतः ।
एवं विधं गुरुं ज्ञात्वा कृपापीयूषवर्षिणम् ॥ २८-
फलपुष्पादिहस्तश्च गच्छेदभिमुखं गुरोः ।
गुरोर्मन्दिरमासाद्य नत्वा तद्देहलीं प्रिये ॥ २८-
आज्ञया सद्गुरोर्देवि दक्षपाद पुरःसरम् ।
प्रविश्य तद्गृहं साज्ञाद्दण्डवत्प्रणमेच्च [तत् इत्यपि पाठः ।] तम् ॥ २८-
भो नाथकरुणासिन्धो संसारार्णवतारक ।
भ्रान्तं संसारगहने नानातापसमाकुले ॥ २८-
अत्यन्तदीनहृदयं सर्वसाधनवर्जितम् ।
अज्ञानपङ्कनिर्मग्नं मामुद्धर दयानिधे ॥ २८-
अहं त्वां शरणं प्राप्तः शरण्यस्त्वं दयानिधिः ।
अविलम्बेन संसारविच्छेदं कुरु मे प्रभो ॥ २८-
एवं सम्प्रार्थितः सोऽथ गुरुनाथः कृपानिधिः ।
पूर्वं परीक्षितं विप्रं वर्षेणैकेन सुन्दरि ॥ २८-
वर्षाभ्यां क्षत्रियं देवि वैश्यं संवत्सरैस्त्रिभिः ।
चतुर्भिर्वत्सरैः शूद्रं बोधयेद्विरहातुरम् ॥ २८-
यदिचेद्वासनाजीवस्तदा बोध्यश्च सर्वथा ।
स्वाप्निकश्चेत्तदा त्याज्यः अधिकारविपर्ययात् ॥ २८-
परीक्षा लक्षणैर्देवि पुरा प्रोक्ता मयानघे ।
अपरीक्षितजीवाय वितरेद्यदि बोधनम् ॥ २८-
न गुरुं तं विजानीयात् वासनापि न सा भवेत् ।
शिष्येभ्यो धनमादाय सुखीस्यामिति यस्य धीः ॥ २८-
न गुरुं तं विजानीयात् केवलं धूर्त एव सः ।
धनाहारार्जने युक्ता दाम्भिका वेषधारिणः ॥ २८-
भ्रामयन्ति जनान् सर्वान् ज्ञानिवत्प्रियदर्शनाः ।
शिष्येणापि गुरुर्देवि परीक्ष्यः सर्वथैव हि ॥ २८-
यद्यज्ञानवशात् शिष्यो गुरुं लक्षणवर्जितम् ।
जानीयात्तत्क्षणं त्यक्त्वा गुरुमन्यं समाश्रयेत् ॥ २८-
गन्धलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥ २८-
त्यजेन्मित्रममर्मज्ञं नारीं च व्यभिचारिणीम् ।
अहन्तादुष्टसम्बन्धं ज्ञानहीनं गुरुं त्यजेत् ॥ २८-
नदत्सु पञ्चवाद्येषु ब्राह्मणेषु पठत्सु च ।
गायन्तीषु तथा स्त्रीषु शिष्यं सम्बोधयेद् गुरुः ॥ २८-
आदौ शिष्यस्य देहं तु शोधयेन्निपुणो गुरुः ।
असंस्कृतशरीरस्तु न योग्यः स्यात्कथंचन ॥ २८-
कृतस्नानं समाहूय मुखाग्रे स्थापयेच्च तम् ।
शुभासनश्वेतवस्त्रवसानं मलवर्जितम् ॥ २८-
बोधयेत्तद्धृदाम्भोजे प्रदीपकलिकाकृतिः ।
आत्मचैतन्यमीशानि तच्च स्वात्मनि योजयेत् ॥ २८-
ततोऽस्यपदयुगले भुवनानि चतुर्दश ।
लिङ्गप्रदेशेऽस्य भूतानि चिन्तयेत्परमेश्वरि ॥ २८-
अवशिष्टानि तत्त्वानि चिन्तयेद्धृदयाम्बुजे ।
कण्ठदेशे नादविन्दुगुणांश्च परिचिन्तयेत् ॥ २८-
ब्रह्मरन्ध्रे परं ब्रह्म पुरुषं प्रकृतीश्वरम् ।
एवं संचिन्त्य देवेशि जुहुयात्तान्यनुक्रमात् ॥ २८-
जुहुयाल्लिङ्गदेशेस्य भुवनानि चतुर्दश ।
लिङ्गदेशस्थभूतानि हृदितत्वेषु होमयेत् ॥ २८-
हृदयस्थानि [हृदये यानि इति वा पाठः ।] तत्वानि बिन्दुनादे च ह्यर्पयेत् ।
ब्रह्मरन्ध्रे चिते देवि परब्रह्मणि निष्कले ॥ २८-
नादबिन्दुगुणान् हुत्वा प्रपञ्चविलयं स्मरेत् ।
निष्प्रपञ्चं तदा शिष्यं बोधयेत्परमेश्वरि ॥ २८-
न वर्णेषु तदा कश्चित् ब्राह्मणक्षत्रियादिषु ।
न देवोऽसि न गन्धर्वो नासुरः पन्नगोऽपि वा ॥ २८-
न त्वं देहो न त्वद्दहो नेन्द्रियाणि तथा मनः ।
न च प्राणो न बुद्धिस्त्व नाहङ्कारो भवान्मतः ॥ २८-
क्षरः सर्वप्रपञ्चोऽयमक्षरे प्रतिबिम्बतः ।
अक्षरस्य दिदृक्षाभूद् ब्रह्मलीलावलोकने ॥ २८-
तत्प्रियायाऽभवत्कामोऽक्षरलीलानिरीक्षणे ।
तत इच्छा समुद्भूता ब्रह्मण्यज्ञानमसृजत् ॥ २८-
मोहाण्डं प्रविशन् साक्षी ददर्श स्वप्नगं जगत् ।
तत्र वृन्दावने रासलीलायां रमिता प्रिया ॥ २८-
अन्तर्हिते प्रिये कृष्णे दुःखाद्दुःखतरं गता ।
कालमायान्धकारोऽस्मिन् भ्रान्तासि बहुधा मुधा ॥ २८-
श्रीकृष्णस्य प्रिया चासि पूर्णस्य परमात्मनः ।
उद्बुध्य स्वप्नतश्चित्ते प्रियाभावं निजं श्रय ॥ २८-
तिरोभूय [तिरोभवित्री शनकैर्मायादेहमित्यपि पाठः ।] च शनकैर्मायादेहमनीप्सितम् ।
क्षरं चैवाक्षरं हित्त्वा स्वपतिं पुनरेष्यसि ॥ २८-
ब्रह्मानन्दरसज्ञानां [क्वचित्पुस्तके ४४-५५ श्लोकयोर्मध्ये एते ४५-५४ श्लोका नोपलभ्यन्ते । १८ मा०] ब्रह्मज्ञानवतां सताम् ।
पद्धतिं ब्रह्मसृष्टीनां वक्ष्यामि शृणु सुन्दरि ॥ २८-
गोत्रमुक्तं चिदानन्दं ब्रह्मानन्दो हि सद्गुरुः ।
शिखा ज्ञानमयो प्रोक्ता सूत्रमक्षररूपकम् ॥ २८-
किशोरी परमेष्टा च सेवनं पौरुषोत्तमम् ।
पातिव्रत्यमनन्यत्वं साधनं समुदाहृतम् ॥ २८-
वृन्दावनं नित्यमुक्तं विलाससुखसञ्ज्ञकम् ।
जाप्यं च युगलं नाम तारतम्यो (मो) मनुः स्मृतः ॥ २८-
ब्रह्मविद्या परा देवी देवो ब्रह्म सनातनम् ।
शाला गोलाक इत्युक्तो द्वारमूर्ध्वमुदाहृतम् ॥ २८-
स्वसंवेदः [सुसंवेदः सूक्ष्मो वेदः इत्यपि पाठः । स्वसंवेद्यः इत्यपि कश्चित् ।] समादिष्टः फलं नित्यविहारकम् ।
दिव्यब्रह्मपुरं धाम परात्परमुदाहृतम् ॥ २८-
सद्गुरोश्चरणं क्षेत्रं सर्वशुद्धिकरं परम् ।
यमुनासञ्ज्ञकं तीर्थं मननं प्रेमलक्षणम् ॥ २८-
श्रीमद्भागवतं प्रोक्तं श्रवणं सारमद्भुतम् ।
ऋषिः प्रोक्तो महाविष्णुर्ज्ञानं जाग्रत्स्वरूपकम् ॥ २८-
आनन्दाख्यं कुलं प्राप्तं नित्ये धाम्नि प्रकीर्तितम् ।
सम्प्रदायश्चिदानन्दो निजानन्दैः प्रकाशितः ॥ २८-
एवं पद्धतिराख्याता पुरुषोत्तमसञ्ज्ञिका ।
वर्तितव्यं ततो भद्रे साधनैरात्मलब्धये ॥ २८-
प्रबोध्यैवं गुरुस्तस्मिन् चैतन्यं परमेश्वरि ।
दिव्यदृष्ट्यावलोकेन स्थापयेत्पुनरेव तत् ॥ २८-
ब्रह्मरन्ध्रपथा तस्मिन् चावतीर्ण इति स्मरन् ।
कण्ठदेशे नादबिन्दू स्थापयेच्च ततः परम् ॥ २८-
तत्वानि हृदयाम्भोजे लिङ्गे भूतानि पञ्च च ।
ततः पादप्रदेशे तु स्थापयेद्भुवनावलिम् ॥ २८-
एवं विराजं संस्कृत्य ततो मन्त्रं समादिशेत् ।
मन्त्रोपदेशतः पूर्वं गुरुं सम्पूजयेत्प्रिये ॥ २८-
सर्वस्वदक्षिणां दत्वा कृतकृत्यो भवेद्धि सः ।
तदर्द्धं वा तदर्धं वा तदर्द्धार्द्धमथापि वा ॥ २८-
सन्तोषयेद् गुरुं भक्त्या धनधान्याम्बरादिभिः ।
अन्येभ्योऽपि यथाशक्ति भूषावस्त्रादिकं ददेत् ॥ २८-
साष्टाङ्गं च ततो देवि ! दण्डवत्पतितो भुवि ।
प्रणमेद् गुरुमात्मीयं गुरुरुत्थापयेच्च तम् ॥ २८-
उपवेश्य पुनः पार्श्वे लीलाभेदान् समादिशेत् ।
लीलाभेदा गुरुमुखाद्बोद्धव्या एव सुन्दरि ॥ २८-
ततो रहो रहश्चैव संस्थितो भावयेच्च तान् ।
प्रियाभावो यदा बुद्धेः कृतकृत्यो भवेत्तदा ॥ २८-
इति तेऽभिहितं देवि गोप्याद्गोप्यतरं च यत् ।
समासेन महादेवि ! भूयः किं श्रोतुमिच्छसि ॥ २८-
इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे अष्टाविंशतिततं पटलम् ॥ २८-
अथ एकोनत्रिंशं पटलम्
पार्वत्युवाच
ब्रूहि तं च महेशान् मन्त्रराजं महेश्वरम् ।
यस्य श्रवणमात्रेण सर्वमन्त्रफलं भवेत् ॥ २९-
श्रीमहादेव उवाच
देवेशि मन्त्रराजोऽयं भाति गोप्यतरो महान् ।
पातकानि प्रलीयन्ते सकृद्यस्य जपादपि ॥ २९-
सप्तकोटिमहामन्त्रास्तवाग्रे कथिता मया ।
तेषु श्रीकृष्णमन्त्राश्च बहवः कीर्त्तितास्तव ॥ २९-
रासलीलाप्रविष्टस्य [मया इ० पा० ।] पुरा गोपालरूपिणः ।
प्रोक्ता मन्त्रा महेशानि तत्रायं गोपितो मया ॥ २९-
रहस्यत्त्वान्मया नोक्तः पुनस्तं परिपृच्छसि ।
त्वयापि गोपितव्योऽयं न देयः स्यात्कथञ्चन ॥ २९-
लेखयित्त्वा ददेन्मन्त्रं न वाचोपदिशेत्प्रिये ।
ब्रह्महत्यासहस्राणां दत्त्वा पापमवाप्नुयात् ॥ २९-
निर्धारत्वे वासनाया यदि प्रेमोद्गमो भवेत् ।
तदैवोपदिशेद्देवि ह्यन्यथा कृष्णघातकः ॥ २९-
विधिः सर्वोऽपि कर्त्तव्यो मन्त्रदानं विना प्रिये ।
ततः [परिणते इ० पा० ।] परीक्षिते काले योग्यत्वे मन्त्रमादिशेत् ॥ २९-
शृणु मन्त्रं प्रवक्ष्यामि सावधानेन चेतसा ।
स्वर [आद्यः स्वरोऽकारः चतुर्थश्च दीर्घ इकारोऽर्धमात्रबिन्दुयोगेन आकाशोऽहमिति व्योमबीजम् ।] आद्यश्चतुर्थश्च आकाशस्तदनन्तरम् ॥ २९-
वायुबीजं ततः पश्चात् अग्निबीजमतः परम् ।
ततो वरुणबीजञ्च भूबीजं स्यात्ततः परम् ॥ २९-
श्रीकृष्ण परमानन्द ते प्रियास्मीति वै वदेत् ।
मामङ्गीकुर्विति चोक्त्त्वा दर्शयेति द्वयं वदेत् ॥ २९-
प्रबोधयेति द्वितीयं मोहेति च ततो वदेत् ।
मपाकुरुद्वयं चोक्त्त्वा नमोन्तोऽयं महामनुः ॥ २९-
एकोनैकोनपञ्चाशद्वर्णैः सङ्घटितः प्रिये ।
आद्यबीजं महेशानि परमात्माक्षरः प्रभुः ॥ २९-
तस्मात्सृष्टिर्वर्णमयी हकारान्ताविजृम्भिता ।
प्रतिलोमलयं तस्याः स एव परिशिष्यते ॥ २९-
अनन्तत्वादात्मतत्वाद् व्यापकत्वान्महेश्वरि ।
न तस्यास्ति लयः क्वापि वर्णानामात्मनः प्रिये ॥ २९-
स्वरश्चतुर्थस्तन्माया ह्युपर्यङ्कुरतां गता ।
ततो ज्ञानहरा देवि जाता सा विश्वमोहिनी ॥ २९-
मध्यबिन्दुसमायोगाच्छून्यरूपा हि साभवत् ।
शून्यत्त्वेधस्तना रेखा जगदङ्कुररूपिणी ॥ २९-
अर्द्धबिन्दुसमायोगाद्योगमायात्मिका हि सा ।
एवं त्रितययोगेन ज्ञेयं तस्या गुणत्रयम् ॥ २९-
प्रतिबिम्बवदाभास [भात इ० पा० ।] निर्मले परमात्मनि ।
यदा समरसाकारा विश्वयोनिस्तदा हि सा ॥ २९-
कोणत्रयसमायोगा ब्रह्मादित्रितयात्मिका ।
लोकत्रयात्मिका चैव तथा वेदत्रयात्मिका ॥ २९-
इच्छाज्ञानक्रियात्मा च कालत्रितयरूपिणी ।
अग्निसोमार्करूपा [अग्निष्टामार्क इ० पा० ।] च सर्वत्रितयरूपिणी ॥ २९-
अधोमुखा हि सा ज्ञेयावतरन्ती परात्मनः ।
यदा चोर्ध्वमुखी भूयाद्वह्निज्वालेव सा लये ॥ २९-
शून्यत्वेऽधस्तना रेखा जगदङ्कुररूपिणी ।
यदेव च महत्तत्त्वमित्याहुस्तन्त्रवादिनः ॥ २९-
अहङ्कारस्तु रेखान्तस्तद्गुणोपाधिसङ्गतः ।
त्रिविधः स तु विज्ञेयस्तस्माद्भूतानि जज्ञिरे ॥ २९-
तद्वाचकान्यक्षराणि हकारादीनि पञ्च च ।
पुरतस्तानि दृश्यन्ते मन्त्रराजे महेश्वरि ॥ २९-
आकाशस्तु हकारस्थो देवता तु सदाशिवः ।
गुणः शब्दस्तथा श्रोत्रं श्रोतव्या दिक् च सुन्दरि ॥ २९-
यकारे देवदेवेशि वायुरीश्वर एव च ।
स्पर्शस्त्वगिन्द्रियं देवि स्पृष्टव्यं च महीरुहम् ॥ २९-
रकारेऽग्निरह देवि रूपं चक्षू रविस्तथा ।
दृष्टव्यं चेति विज्ञेयं मञ्जूषामणिवत्तथा ॥ २९-
वकारे सलिलं विष्णु रसश्च रसनेन्द्रियम् ।
रसितव्यं च वरुणो देवता चेति संस्थिता ॥ २९-
लकारे पृथिवीतत्वं ब्रह्मा गन्धश्च नासिका ।
घ्रातव्यमश्विनौ देवि देवता चेति संस्थिता ॥ २९-
इत्येवं पञ्चभूतानां बीजकार्यं तदीश्वरि [बीजोऽयं कार्यमीश्वरि इ० पा० ।] ।
सदृशं [कथितस्तेन यमाहुःक्षरसंज्ञया इ० पा० ।] कथितं ते च यदाहुः क्षरसञ्ज्ञया ॥ २९-
अकारः परमं ब्रह्म कूटस्थ व्यापकं ध्रुवम् ।
अनुत्तरं निर्विशेष चिदंशस्तेन कथ्यते ॥ २९-
अक्षरातीतरूपोऽसौ शेषवर्णैर्मनुः स्मृतः ।
तस्मादहो सच्चिदानन्दरूपोऽय मन्त्रनायकः ॥ २९-
मननं विश्वविज्ञानं त्राणं संसारसङ्कटात् ।
यतः करोति संसिद्धो मन्त्र इत्युच्यते प्रिये ॥ २९-
मन्त्रचूडामणिं ज्ञात्वा मुच्यते सर्वसंशयात् ।
विज्ञाते मन्त्रराजन्ये ज्ञातव्यं नावशिष्यते ॥ २९-
शाब्दं वपुः परानन्दवपुषः परमेश्वरि ।
मन्त्रचूडामणिरयं मया ते परिकीर्तितः ॥ २९-
अकथ्यः पारमार्थ्येन तथापि कथितस्तव ।
गोपनीयः प्रयत्नेन जननी जारगर्भवत् ॥ २९-
पश्यन्ति ये शठधियो वर्णबुध्या महामनुम् ।
ते यान्ति नरकान् सर्वे यावदाभूतसप्लवम् ॥ २९-
पुरुषं मन्त्रजप्तारं ये पश्यन्ति नराधमाः ।
तेषां पापानि नश्यन्ति ब्रह्महत्यादिकान्यपि ॥ २९-
कोटिकल्पेषु पापिष्ठा नित्यं पापपरायणाः ।
तेऽपि शुध्यन्ति सम्पर्कान्मन्त्रजप्तुर्न संशयः ॥ २९-
लब्धे चिन्तामणौ देवि किमन्यैर्धनसञ्चयैः ।
तथा लब्धे मन्त्रराजे किमन्यैः साधनैर्भवेत् ॥ २९-
एतन्मन्त्रार्थविज्ञानं मन्त्रसिद्धान्तसूचकम् ।
यो नित्यं भावयेच्चित्ते वासना तस्य शुध्यति ॥ २९-
विहाय मायामालिन्यं देहेन्द्रियनिबन्धनम् ।
वासना सम्मुखीभूयाद्विवेकं प्रनिबिम्बवत् ॥ २९-
मन्त्रमाहात्म्यमेतत्तु मया ते परिकीर्तितम् ।
किमन्यत् श्रोतुमिच्छा ते तदिदानीं वद [वदाम्यहम् इ० पा० ।] प्रिये ॥ २९-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकोनत्रिंशतितमं पटलम् ॥ २९-
अथ त्रिंशं पटलम्
पार्वत्युवाच
भगवन्देवदेवेश श्रोतुमिच्छाम्यहं पुनः ।
मन्त्रस्य साधनं साक्षात् यत्कृत्वा साङ्गता भवेत् ॥ ३०-
शिव उवाच
शृणु त्वं देवदेवेशि मन्त्रराजस्य साधनम् ।
ऋषिरस्य स्मृतो देवि परात्मा पुरुषोत्तमः ॥ ३०-
छन्दोनुष्टुप्समाख्यातं श्रीकृष्णो देवतास्य च ।
अहं बीजं नमः शक्तिर्विनियोगः प्रसादने ॥ ३०-
ऋषिः शिरसि विन्यस्य छन्दस्तु मुखमण्डले ।
देवता हृदये न्यस्य बीजं पादयुगे न्यसेत् ॥ ३०-
कटिदेशे न्यसेच्छक्तिं नियोगः करसम्पुटे ।
एवं ऋष्यादिकं न्यस्य वर्णन्यासं ततश्चरेत् ॥ ३०-
अथ बीजं न्यसेन्मूर्ध्निन्यसेन्माया ललाटके ।
व्योमबीजं न्यसेत्कर्णयुगलेऽथ समीरणम् ॥ ३०-
न्यसेत्त्वचि ततो नेत्रे वह्निबीजं न्यसेत्प्रिये ।
जिह्वायां वारुणं बीजं पृथ्वीबीजं च नासयोः ॥ ३०-
श्रीकारं कण्ठदेशे तु कृकारं हृदये न्यसेत् ।
ष्णं पं न्यसेत्कुचद्वन्द्वे वामादि परमेश्वरि ॥ ३०-
रकारं चैव माकार कुक्षियुग्मे च वामतः ।
नकारं च दकारं च न्यसेत्कट्योस्तथैव हि ॥ ३०-
तेकारं विन्यसेल्लिंगे प्रिया वर्णावुरुद्वये ।
स्मिमार्णद्वयं देवि जानुयुग्मे तथा न्यसेत् ॥ ३०-
मं गी वणौं च देवेशि जङ्घायुग्मे प्रविन्यसेत् ।
कुर्वित्यक्षरयोर्द्वन्द्वं पार्ष्णिद्वन्द्वे नियोजयेत् ॥ ३०-
दकारं च शकारं च प्रपदद्वन्दके न्यसेत् ।
प्रकारं चैव बोकारं न्यसेत्पादतलद्वये ॥ ३०-
धं न्यसेदङ्गुलीष्वेव अङ्गुल्यन्तेषु यं न्यसेत् ।
तलादिजानुपर्यन्तं प्रबोवर्णद्वय पुनः ॥ ३०-
जान्वादिनाभिपर्यन्तं धयवर्णद्वयं न्यसेत् ।
मोकारं विन्यसेन्नाभौ हकारमुदरे न्यसेत् ॥ ३०-
मपावर्णौ स्कन्धयुगे कुरु कक्षा युगेन्यसेत् ।
कुरुवर्णद्वयं दोष्णोर्गल्लयोश्च प्रविन्यसेत् ॥ ३०-
नमः शिखायां विन्यस्य समग्रं व्यापकं न्यसेत् ।
एवं [एवं न्यस्तशरीरोऽसौ इ० पा० ।] न्यासाच्छरीरेऽसौ जायते मन्त्ररूपधृक् ॥ ३०-
अलौकिकं वपुः कृत्वा गच्छेद् ध्यानेन तत्पदम् ।
तत्प्रकारं प्रवक्ष्यामि सुगुप्तमपि सुन्दरि ॥ ३०-
वर्णरूपं वपुर्ध्यायेत् पञ्चभूतमयान् हि तान् ।
तत्तत्कारणभूतेषु तत्तत्कार्य विलोपयेत् ॥ ३०-
पादादिजानुपर्यन्तं पृथ्वीतत्वं विचिन्तयेत् ।
पृथ्वीतत्त्वमयान् वर्णान् प्रवक्ष्यामि समासतः ॥ ३०-
पञ्चमश्चैव षष्ठश्च त्रयोदश एव च ।
स्वराणां त्रितयं चैतत् आकाशादग्रिमाक्षरम् ॥ ३०-
स्पर्शेषु चाष्टमश्चैव तथा चैव त्रयोदश ।
दवलाश्चेति वै वर्णाः पार्थिवाः परिकीर्त्तिताः ॥ ३०-
ऋ ऋ औ घ झ ढ ध भ वर्णास्ते वारुणाः स्मृताः ।
जान्वादिकटिपर्यन्तं जलतत्वगतान् स्मरेत् ॥ ३०-
इ ई ए ख छ ठ थ फ र क्षास्ते वह्निरूपिणः ।
कट्यादिकण्ठपर्यन्तं तेजस्तत्वगतान् स्मरेत् ॥ ३०-
अ ऐ कचटतपसषाः मारुताः कथिताः प्रिये ।
कण्ठादिभ्रूप्रदेशान्तं वायुतत्वमयान्स्मरेत् ॥ ३०-
ऌ ऌ अंङञणनमशबहानाभसाः स्मृताः ।
भ्रूमध्यादिब्रह्मरन्ध्रस्थिताकाशमयान् स्मरेत् ॥ ३०-
तत्तद्वर्णविलोपन्तु कारयेत्कारणाक्षरे ।
हित्वा स्थौल्यं भूतमयं सूक्ष्मं शब्दमयं ततः [गतः इ० पा० ।] ॥ ३०-
शब्दब्रह्मशरीरोऽसौ सर्वकारणकारणम् ।
सहस्रदलपद्मस्य कर्णिकायां व्यवस्थितम् ॥ ३०-
अकार केवलं ध्यायेदुदरे निष्कलं प्रिये ।
अकार [अकारोदरमाकाशे इ० पा० ।] चोदराकाशे दहरास्ते महेश्वरि ॥ ३०-
पूर्वानुभूता रासलीला व्रजलीलाश्च संस्मरेत् ।
अहं प्रिया भगवतः कामस्य कामरूपिणी [कामरूपिणः इ० पा० ।] ॥ ३०-
कृष्णस्येति दृढाभ्यासवशगेनैव चेतसा ।
संस्मरेत्परमेशानि नान्यत् किञ्चन चिन्तयेत् ॥ ३०-
अथ तेनैव मार्गेण शाब्दं चापि वपुस्त्यजेत् ।
शब्दातीतं परं धाम रसानन्दमहार्णवम् ॥ ३०-
नानाकेलिकलापूर्णं नानापक्षिनिनादितम् ।
भ्रमद्भ्रमरझङ्कारमुखरीकृतदिङ्मुखम् ॥ ३०-
स्वप्रकाशं समभ्येत्य स्वरूपं चिन्तयेत्तदा ।
नवयौवनसम्पन्नमनोहररतिप्रियम् ॥ ३०-
क्वणन्नूपुरसंशोभिपादाम्भोजविराजितम् ।
लाक्षारसाक्तचरणं क्वणत्किङ्किणिमेखलम् ॥ ३०-
नवीनयौवनोत्तुङ्गकुचभारमहालसम् ।
कराङ्गुलीयनिवहोल्लसदङ्गुलिपल्लवम् ॥ ३०-
नानालङ्कारसुभगं कौसम्भाम्बरशोभितम् ।
मुक्ताहारोल्लसद्वक्षः स्फुरमाणमणिप्रभम् ॥ ३०-
कामकोदण्डकुटिलभृकुटीविशिखेक्षणम् ।
मुक्तादामलसद्भालं काश्मीरतिलकोज्वलम् ॥ ३०-
दिव्यचन्दनलिप्ताङ्गं दिव्यपुष्पस्रगाकुलम् ।
भालप्रदेशविलसत्सुरत्नतिलकोज्ज्वलम् ॥ ३०-
ध्यात्वैवं स्ववपुर्दिव्य सखीयूथगतं स्मरेत् ।
यूथमध्यगतं कृष्ण ध्यात्वानन्येन चेतसा ॥ ३०-
प्रार्थयेत्तं पतिं तत्र सस्मिताननसुन्दरम् ।
प्राणनाथ त्वदीयाहं त्राहि दुःखेष्वनेकधा ॥ ३०-
त्वामहं विस्मृता नाथ परमानन्दपेशल ।
अनुभूता स्वप्नलीला नानादुःखौघसङ्कुला ॥ ३०-
कालो महान् व्यतीतोऽयं त्वां विना पुरुषोत्तम ।
स्वप्ने मया बहुभ्रान्तं देहगेहातिसक्तया ॥ ३०-
क्वचिन्मनुष्यरूपेण देवरूपेण वा क्वचित् ।
गन्धर्वोरगरूपेण [ब्रह्मसृष्टीनामीदृशी दशा कदापि न भवति । किन्तु प्रार्थनामात्रमिदं अथवा तु प्रार्थनेयं जीवानां कृते बुधैरिति बोध्यम् ।] पशुरूपेण वा क्वचित् ॥ ३०-
चेष्टापितो मया ह्यात्मा स्वप्ने मायाविनिर्मिते ।
इदानीं कृतकृत्यास्मि नष्टस्वप्नमयाकृतिः ॥ ३०-
विलोकय कृपादृष्ट्या दृष्टं देव विना त्वया ।
इति सम्प्रार्थ्य भर्त्तारं प्रणमेत्पादपङ्कजम् ॥ ३०-
प्रोत्थापिता पुनस्तेनालिङ्गिता च मुहुर्मुहुः ।
दत्ताधरसुधाचापि सखीयूथस्य पश्यतः ॥ ३०-
परस्परं वीक्ष्यमाणा सखिभिः कृतकौतुकम् [वीक्ष्यमाणः सखीभिः कृतकौतुकः इ० पा० ।] ।
नित्यानन्दविहारेषु भूमिकासु दशस्वपि ॥ ३०-
पुष्परागमयभ्राजत्पर्वतापत्यकासु च ।
नीलमाणिक्यशैलोरुशिखरेषु विशेषतः ॥ ३०-
यमुनासप्ततीर्थेषु नानावृक्षोदयेषु च ।
मणिमण्डपविभ्राजत्कुट्टिमैर्मण्डितेषु च ॥ ३०-
नानाविहारसङ्केते नीयमाना प्रियेण हि ।
तत्र तत्र महालीलारसानन्दपरिप्लुता ॥ ३०-
षोडशस्थम्भविभ्राजन्मणिकुट्टिममागता ।
सखीसमाजमध्यस्थं कृष्णं दृष्ट्वा पुरः स्थिता ॥ ३०-
लालिता प्राणनाथेन वचनामृतवर्षिणा ।
एवं धारणया देवि मनो यावत्स्थिरं भवेत् ॥ ३०-
तावदेनाभ्यसेल्लीलामेवमात्मा विशुध्यति ।
एतत्ते कथितं देवि मन्त्रध्यानादिकं मया ॥ ३०-
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ।
तदहं ते प्रवक्ष्यामि शपथस्तव सुव्रते ॥ ३०-
इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे त्रिंशं पटलम् ॥ ३०-
अथ एकत्रिंशं पटलम्
पार्वत्युवाच
ब्रूहि सेवाप्रकारं मे येन तुष्येत् स्वयं प्रभुः ।
कथं पूजा प्रकर्त्तव्या व्यवहारश्च कीदृशः ॥ ३१-
शिव उवाच
शृणु देवि प्रवक्ष्यामि व्यवहारार्चनादिकम् ।
तुर्ये यामे समुत्थाय शययायामेव सुव्रते ॥ ३१-
ब्रह्मरन्ध्रे गुरुं ध्यायेत् कर्पूरधवलप्रभम् ।
द्विनेत्रं द्विभुजं चैव श्वेतवस्त्रानुलेपनम् ॥ ३१-
पञ्चभूतात्मकैरेव पञ्चभिरुपचारकैः ।
पूजयेद् देव देवेशि आत्मानं तद्गतं स्मरेत् ॥ ३१-
तच्चरणोदकधारानिपतितं स्वमूर्द्धनिः ।
क्षालितं निर्मलं शुद्धमात्मानं परिचिन्तयेत् ॥ ३१-
नमोऽस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे ।
यस्य वागमृतं हन्ति विषं संसारसञ्ज्ञकम् ॥ ३१-
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाशिवः ।
गुरुरेव परं तत्त्वं [ब्रह्म इ० पा० ।] तस्मै श्रीगुरवे नमः ॥ ३१-
प्रणम्य मन्त्रयुग्मेन हृदि लीनं विभावयेत् ।
ततो लीलाविहारस्य ध्यायेत्कृष्णं हृदाम्बुजे ॥ ३१-
पूजयेत्पूर्ववद्देवि ह्युपचारैश्च पञ्चभिः ।
ततस्तं प्रार्थयेदीशं बद्धहस्ता प्रियंवदे ॥ ३१-
अहं नाथ त्वदीयास्मि पतिस्त्वं मेऽसि भो प्रभो ।
भ्रामितास्मि त्वया नाथ मायागहनवर्त्मनि ॥ ३१-
त्वत्पार्श्वं नय मां नाथ विरहो मां प्रबाधते ।
अनन्यगतिका चाहं तस्मात्कुरु यथोचितम् ॥ ३१-
एवं सम्प्रार्थ्य भर्त्तारं तत्प्रभापटलारुणम् ।
स्वदेहं भावयेद्देवि नमस्कुर्यात्ततः प्रिये ।
ततो भूमिं च सम्प्रार्थ्य दक्षपादं निधापयेत् ॥ ३१-
समुद्रमेखले देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ ३१-
ततो ग्रामाद् बहिर्गच्छेन्मलोत्सर्गाय सुन्दरि ॥ ३१-
अतिक्रम्य शरक्षेपमात्रा भुवमतन्द्रितः ।
आच्छाद्य च तृणैर्भूमिं शिरः प्रावृत्य वाससा ॥ ३१-
मृत्तिकां जलपात्रं च हस्तमात्रे नियोजयेत् ।
सूर्यं चैव दिशः प्रान्तान् गावं नैवावलोकयेत् ॥ ३१-
लिङ्गशौचं च तिसृभिः मृत्तिकाभिः समाचरेत् ।
पञ्चापाने प्रदेयाश्च मृत्तिकाः सुरसुन्दरि ॥ ३१-
गन्धलेपक्षयकरमेवं शौचं समाचरेत् ।
तत्रैव वामहस्ते तु प्रदेया सप्त मृत्तिका ॥ ३१-
मौनी स्वगृहमागत्य हस्तपादादि शोधयेत् ।
वामहस्ते मृदः सप्त प्रदेयाः सुरवन्दिते ॥ ३१-
उभयोश्च तथा सप्त हस्तशौचमिदं स्मृतम् ।
पञ्च पञ्च तथा पादे प्रदेया मृत्तिकाः शुभाः ॥ ३१-
ततो द्वादशगण्डूषैर्मुखं प्रक्षालयेत्प्रिये ।
तत आचमनं कृत्वा दन्तकाष्ठं समाचरेत् ॥ ३१-
जम्बूदुम्बरजं काष्ठं तथा च बदरीभवम् ।
अपामार्गोद्भवं वापि दन्तांस्तेन विशोधयेत् ॥ ३१-
अज्ञातैः कीटविद्धैश्च वनेषु दाहितैरपि ।
निषिद्धैश्च तथा काष्ठैर्दन्तान्नैव स्पृशेत्प्रिये ॥ ३१-
आयुर्देहि प्रजां देहि धनं विद्यां सुखानि च ।
वाक्सिद्धिं देहि मे नित्यं प्रार्थितोऽसि वनस्पते ॥ ३१-
द्वादशावृत्तिसञ्जप्तं मूलमन्त्रेण मन्त्रवित् ।
प्रक्षाल्य भक्षयेत्काष्ठं यावन्नो सूर्यदर्शनम् ॥ ३१-
दन्तानां शोधनं कुर्यादुदीचीं दिशमाश्रितः ।
न सूर्याभिमुखीभूय निष्ठीवादि क्षिपेत्प्रिये ॥ ३१-
जिह्वामलमपाकृत्य काष्ठं प्रक्षाल्य मन्त्रवित् ।
एकान्ते शुचिदेशे तु क्षिपेत्काष्ठं ततः प्रिये ॥ ३१-
मन्त्रजन्यजलैर्देवि मुखं प्रक्षालयेत्ततः ।
त्यजेद् द्वादशगण्डूषान् मूलमन्त्रमविस्मरन् ॥ ३१-
तत आचमनं कृत्वा नमस्कृत्य [नमस्तुत्वा इति मूलपाठः ।] रविं प्रिये ।
ध्यायन् गच्छेत्ततस्तीर्थमसक्तस्तु गृहे चरेत् ॥ ३१-
गालितं शोधितं तोयं शुचिपात्रगतं च यत् ।
सूर्यमण्डलतस्तस्मिन् तीर्थान्यावाह्य भक्तितः ॥ ३१-
तस्मिन्नष्टदले ध्यात्वा कर्णिकायां सुरेश्वरि ।
प्रियायथगतं कृष्णमावाह्य दृढमानसः ॥ ३१-
उपचारैर्जलमयैर्मानसैर्वापि पूजयेत् ।
तदीयचरणद्वन्द्वगलत्पीयूषमिश्रितम् ॥ ३१-
ज्ञात्वा तत्तु जलं देवि साक्षाच्चैतन्यरूपकम् ।
ज्ञानानन्दस्वरूपं तत् त्रिधा मूर्ध्नि क्षिपेत्ततः ॥ ३१-
अन्येनैवाम्भसा कुर्यान्मौशलं स्नानमूर्द्धनि ।
ततः स्नायाद्वरारोहे पूर्वसंस्कृतवारिणा ॥ ३१-
श्रीकृष्णं हृदये लीनमिति ध्यात्वाचमेत्ततः ।
गात्रं सम्मार्ज्य देवेशि मन्त्रवारिविशोधिते ॥ ३१-
वासांसि परिधायैव ततो मन्दिरमाविशेत् ।
पूजागृहे बहिः स्थित्वा तिलकं गोपिकामृदा ॥ ३१-
चक्रादिधारणं कुर्यात् बिभृयात्तुलसीसृजम् ।
विना च तुलसीमालां विना चक्रादिधारणम् ॥ ३१-
न जपध्यानपूजासु योग्यो भवति कर्हिचित् ।
देवान् पितृंश्च सन्तर्प्य दिक्पालान् प्रणमेत्ततः ॥ ३१-
सर्वं कृष्णमयं ध्यायेद्भेदभावं विवर्जयेत् ।
भेदभावात्मको देवि संसारः कथितो यतः ॥ ३१-
देहलीं च नमस्कृत्य दक्षपादपुरःसरम् ।
प्रविशेत्पूजनागारं निर्माल्याद्यपसारयेत् ॥ ३१-
प्रोत्थापयेत् प्रभुं सुप्तं सुगीतैर्मङ्गलस्वनैः ।
श्रेष्ठा मनोमयीमूर्तिरथाश्मा [अथाश्मो गल्लकी इति मूल पाठः ।] गण्डकीभवः ॥ ३१-
सौवर्णी राजतीं शैलीं काष्ठीं वा मृण्मयीमपि ।
चैत्रीं वा पूजयेन्मूर्त्तिमुपचारैः शुभैः प्रिये ॥ ३१-
अर्घं च पाद्याचमने मधुपर्कमपःस्पृशः ।
स्नानं वस्त्रमथाप्रोह्य वासांस्याभरणानि [स्नानं वस्त्रमथाचाम इ० पा०] च ॥ ३१-
दर्पणालोकनं चैव गन्धपुष्पे ततः परम् ।
धूपोगरुसमुद्भूतो दीपो नैवेद्यमेव च ॥ ३१-
पानीयं तोयमाचामं हस्तवासस्ततः परम् ।
ताम्बूलमनुलेपं च ततो नीराजनादिकम् ॥ ३१-
गीतं वाद्य तथा नृत्यं स्तुतिः चैव प्रदक्षिणम् ।
पुष्पाञ्जलिर्नमस्कारः साष्टाङ्गप्रणतिस्तथा ॥ ३१-
इत्येतैरुपचारैश्च पूजयेत्प्राणवल्लभम् ।
अनिर्माल्यं सनिर्माल्यं पूजनं द्विविधं मतम् ॥ ३१-
दिव्यैर्मनोभवैः पुष्पैर्गन्धद्रव्यैर्मनोहरैः ।
भक्तैर्यत्क्रियते सम्यगनिर्माल्यं तदर्चनम् ॥ ३१-
जातमात्राणि पुष्पाणि घ्रातान्येव निसर्गतः ।
पञ्चभिश्च महाभूतैर्भानुना शशिनापि च ॥ ३१-
प्राणिभिश्च द्विरेफाद्यैः पौष्पैरेव न संशयः ।
यदर्चनं सनिर्माल्यं दिव्यभोगापवर्गदम् ॥ ३१-
ग्रामारण्यादिसंभूतैः पूजाद्रव्यैर्मनोहरैः ।
घ्रातपुष्पात्फलं सिध्येदल्पं नो मानसात्तथा ॥ ३१-
तस्मादपरिहार्यत्वादन्यथा चाप्युपायतः ।
बुद्धिशुध्यै [बुद्धिशुद्धेस्तत इति पाठः ।] ततो देवि बाह्यद्रव्यैः प्रपूजयेत् ॥ ३१-
पुनस्त्रेधा कृष्णपूजा चोत्तमाधममध्यमा ।
यथोपकरणैः [यज्ञोपकरणैरिति पाठः ।] कृत्स्नैः क्रियमाणोत्तमोत्तमा ॥ ३१-
यथालब्धैर्विनिष्पाद्या द्रव्यैः पूजा तु मध्यमा ।
पत्रपुष्पाम्बुनिष्पाद्या पूजा चाधमसंज्ञिका ॥ ३१-
आदौ तु मानसीं कृत्वा ततो बाह्यां प्रवर्तयेत् ।
नीराजनान्तमासाद्य जपं कुर्याज्जितेन्द्रियः ॥ ३१-
तुलसीकाष्ठसम्भूतैर्मणिभिः कृतमालया ।
जपेच्छतं सहस्रं वा त्रिसन्ध्यास्वपि तं जपेत् ॥ ३१-
जपपूजासन कुर्याच्चित्रकम्बलनिर्मितम् ।
कौशेय वाथ चैलं वा चर्म तूलमथापि वा ॥ ३१-
वेत्रजं तालपत्रं वा दार्भमासनमेव च ।
वंशाश्मदारुधरणीतृनपल्लवनिर्मितम् ॥ ३१-
वर्जयेदासनं मन्त्री दारिद्र्यव्याधिदुःखदम् ।
एवं सम्पूजयेत्कृष्णं प्रत्यहं परमेश्वरि ॥ ३१-
न गृही ज्ञानमात्रेण परत्रेह च मङ्गलम् ।
प्राप्नोति चन्द्रवदने जपपूजादिभिर्विना ॥ ३१-
अहिंसा सत्यमस्त्येयं ब्रह्मचर्यजपार्जवम् ।
क्षमा धैर्यं मिताहारं आस्तिक्यं दानमेव च ॥ ३१-
वैराग्यं च विवेकश्च शमः श्रद्धा दमस्तथा ।
मुमुक्षुता विवेकश्च समाधानं तथात्मनः ॥ ३१-
एतत्साधनसम्पत्तीं कुर्वतां परमेश्वरि ।
ज्ञानं दारिद्र्यशमनं भविष्यति न संशयः ॥ ३१-
सर्वेषामेव जन्तूनामक्लेशजननं प्रिये ।
वाङ्मनः कर्मभिर्नूनमहिंसेत्यभिधीयते ॥ ३१-
यथादृष्टश्रुतार्थानां स्वरूपकथनं पुनः ।
सत्यमित्युच्यते सद्भिस्तद्ब्रह्मप्राप्तिसाधनम् ॥ ३१-
तृणादेरप्यनादानं परस्य च प्रियंवदे ।
अस्तेयमेतदप्यंङ्गं ब्रह्मप्राप्तेः सनातनम् ॥ ३१-
अवस्थास्वपि सर्वासु कर्मणा मनसा गिरा ।
स्त्रीसङ्गतिपरित्यागो ब्रह्मचर्यं प्रचक्षते ॥ ३१-
परेषां दुःखमालोक्य स्वस्येवालोच्य तस्य तु ।
उत्सादनानुसन्धानं दयेति प्रोच्यते शिवे ॥ ३१-
व्यवहारेषु सर्वेषु मनोवाक्कायकर्मभिः ।
सर्वेषामपि कौटिल्यराहित्यं चार्जवं स्मृतम् ॥ ३१-
सर्वात्मना सर्वदापि [सर्वदास्योपकारिषु इ० पा० ।] सर्वषामुपकारिता ।
बन्धुष्विव समाचारः क्षमा स्यात्परमेश्वरि ॥ ३१-
इच्छाप्रलापराहित्यं जातेषु विषयेषु च ।
दुःखेषु [लाभस्तु धृतिर्धैर्यं इ० पा० ।] च धृतिर्धैर्यं प्रवदन्ति वराङ्गने ॥ ३१-
भोज्यस्यैव चतुर्थांशो भोजनं स्वस्थचेतसः ।
अत्युग्रकटुतिक्ताम्ललवणादिविवर्जितम् ॥ ३१-
हितं मेध्यं सुखं चेति मिताहारः स उच्यते ।
श्रुत्याद्युक्तेषु विश्वास आस्तिक्यं सम्प्रचक्षते ॥ ३१-
ध्यात्वान्तर्यामिनं चित्ते तदर्पणधियाऽन्वहम् ।
सत्पात्रे दीयते दानं तद्दानमभिधीयते ॥ ३१-
ब्रह्मादिस्थावरान्तेषु विषयेषु बहुष्वषि ।
वान्ताशनजुगुप्सा [वान्त्य शनवज्जुगुप्सा च इति पाठः ।] च वैराग्यं प्राप्तिसाधनम् ॥ ३१-
नित्यं वै वासनात्यागः परदारगृहादिषु [पुरद्वार इ० पा० ।] ।
परानन्दपरा भक्तिः शम [सक्ति इ० पा० ।] इत्युच्यते हि सः ॥ ३१-
निगमागमवाक्येषु भक्तिः श्रद्धेति कीर्त्तिता ।
विषयानन्दचरतामिन्द्रियाणां विनिग्रहः ॥ ३१-
दम इच्युते देवि ब्रह्मप्राप्तेर्हि कारणम् ।
ससारं भयदं मत्वा विरहः [विरहस्य दशांशकं इ० पा० ।] स्यादशेषकः ॥ ३१-
मुक्तिकामस्य देवेशि कथिता सा मुमुक्षुता ।
कोऽहं कथमिदं जातं को वै कर्त्तास्य विद्यते ।
उपादानं किमस्तीह विचारः सोऽयमीदृशः ॥ ३१-
उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न किञ्चन ।
तस्मात्सर्व प्रपञ्चोऽयं ब्रह्मैवाविद्यया ततम् ॥ ३१-
ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।
कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ ॥ ३१-
यथैव व्योम्नि नीलं च यथा नीरं मरुस्थले ।
पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ ३१-
यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् ।
पात्ररूपेण वै ताम्रं ब्रह्माण्डो वै तथाक्षरः ॥ ३१-
तस्मात्प्रपञ्चविभ्रान्तां नियम्य मतिमात्मनि ।
उक्तसाधनसम्पन्नः सखीभावं निजं गतः ॥ ३१-
नित्यं लीलारसानन्दं स्वपतिं पुरुषोत्तमम् ।
भजत्यनन्यया बुध्या पुनः संयोगमाष्नुयात् ॥ ३१-
इति ते कथितं देवि तदाराधनलक्षणम् ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ ३१-
इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे एकत्रिंशं पटलम् ॥ ३१-
अथ द्वात्रिंशं पटलम्
पार्वत्युवाच
देवेश भगवन् शम्भो भक्तवत्सल धूर्जटे ।
श्रुतोऽयं मे महामन्त्रश्चूडामणिरनुत्तमः ॥ ३२-
यस्य विज्ञानमात्रेण स्वयं शुध्यति वासना ।
अन्येऽपि शुद्धिमायान्ति स्वयं तत्सङ्गिसङ्गतः ॥ ३२-
मन्त्रराजमिमं देव प्राप्नुयात्कः पुमान्यदि ।
भिन्नभिन्नफलैः कर्मपाशजालैर्नियन्त्रितः ॥ ३२-
न स्त्री न पुरुषः कश्चिद्विद्यते नामरूपतः ।
स्त्रीप्राप्यमेव तद्ब्रह्म कृष्ण आनन्दविग्रहः ॥ ३२-
भोक्तृभोग्यस्वरूपेण रसश्चेति श्रुतेर्मतम् ।
नात्यन्तं च तयोर्भेदो भेदः स्वाभाविकः प्रभो ॥ ३२-
आलम्बनादि विधुरो रस एव न सिद्ध्यति ।
यद्विना यन्न संसिद्ध्येत्तत्तदेव न चान्यथा ॥ ३२-
तथापि भोक्तृभोग्याभ्यां भागाभ्यां क्रीडतेऽनिशम् ।
भोग्यभागस्तु तापात्मा भोक्तृभागोऽमृतात्मकः ॥ ३२-
अविनाभावसम्बन्धस्तापस्य च सुखस्य च ।
भोक्तृभोग्यांशयोर्विप्रलंभस्तापस्य सिद्धये ॥ ३२-
कृष्णस्त्रीणां विप्रयोगे यदि तापोदयो भवेत् ।
कृतार्थता तदा जाता न निषेधविधिस्थितौ ॥ ३२-
विप्रयोगे तु विज्ञाते हृदि तापोदयो न चेत् ।
तदा चूडामणिजपात् शीघ्रं सिद्ध्यति नान्यथा ॥ ३२-
तस्माच्चूडामणेर्मन्त्रराजस्य च पुरस्क्रियाम् ।
वद शम्भो विशेषण यथायं जीवितो भवेत् ॥ ३२-
त्वद्वागमृतपानेन न तृप्तिर्जायते मम ।
धन्यं मत्कर्णयुगलं ब्रह्मलीलामृतप्लुतम् ॥ ३२-
अद्य मे पितरौ धन्यौ ययोरासमहं सुता ।
प्रसादपात्रं भवतो वदतो ब्रह्मणो रहः ॥ ३२-
धिक्कुलं धिग्धनं तस्य धिग्विद्यां धिग्यशोऽमलम् ।
न यस्य ब्रह्मचिन्तासु लीनवृत्ति [लीनवति इ० पा० ।] मनो भवेत् ॥ ३२-
आयुर्वर्षशतं लोके तदर्द्धं निद्रया हृतम् ।
बाल्यवार्द्धकभावाभ्यां तथा रोगादिपीडनैः ॥ ३२-
व्यर्थयन्ति महामूढा विमुखा ब्रह्मकीर्त्तने ।
तस्मात्कथय देवेश कथां पापप्रणाशिनीम् ॥ ३२-
पुरस्क्रियां विधोपेतां मन्त्रराजस्य शङ्कर ।
यस्य श्रवणमात्रेण मन्त्रसिद्धिः प्रजायते ॥ ३२-
शिव उवाच
धन्यासि देवि गिरिन्द्रजे साधु पृष्टमिदं रहः ।
यस्य कस्यापि नो वाच्यं वाच्यं सर्वस्वदायिने ॥ ३२-
लब्ध्वा मन्त्रं गुरोः सम्यक् सेवया च प्रसादतः ।
जपतर्पणहोमाद्यैर्बोधयेन्मन्त्रमुत्तमम् ॥ ३२-
शून्यागारे गिरौ रम्ये तीर्थे चोपाधिवर्जिते ।
उद्याने सिद्धपीठे वा प्रयोगे पुष्करेऽथवा ॥ ३२-
नर्मदायास्तटे वापि विन्ध्याद्रौ वा शुभस्थले ।
जपतो मन्त्रराजानं सिद्धिः शीघ्रं प्रजायते ॥ ३२-
जितेन्द्रियो जितक्रोधो जितचित्तो दृढव्रतः ।
दृढवैराग्यसम्पन्नो देहाहङ्कारवर्जितः ॥ ३२-
दयालुः सर्वभूतेषु भूतबाधापराङ्मुखः ।
शङ्कातङ्कादिरहितो रागद्वेषविवर्जितः ॥ ३२-
देहगेहादिकां चिन्तां परित्यज्य प्रशान्तधीः ।
मन्त्रध्यानपरो नित्यं लीलाध्यानरतः सदा ॥ ३२-
त्रिधास्त्रीसंङ्गतित्यागात् ध्यानमुद्राधरोऽनिशम् ।
मौनी त्रिषवणास्नायी शुचिदेहः सिताम्बरः ॥ ३२-
वर्णाश्रमक्रियायुक्तो विश्वासी ह्यनसूयकः ।
देवब्राह्मणगोनिन्दारहितो लोभवर्जितः ॥ ३२-
एवंविधगुणैर्युक्तः कुर्यान्मन्त्रपुरस्क्रियाम् ।
मनसा कल्पयेत्क्षेत्रं गमनागमनाय च ॥ ३२-
विकिरेत्सर्षपान् दिक्षु शतधा मन्त्रशोधितान् ।
ज्वलदग्निनिभान् दृष्ट्वा पलायन्ते विनायकाः ॥ ३२-
ततः खादिरकीलांश्च दशदिक्षु खनेत्प्रिये ।
नायान्ति कीलिता विघ्ना दृष्ट्वा क्षेत्रं च कीलितम् ॥ ३२-
न बहिर्गमनं कुर्यात् क्षेत्रमुल्लङ्घ्य मोहतः ।
तमोमात्रात्मकाः केचित् श्रेयसां परिपन्थिनः ॥ ३२-
औदासिन्यं भयं क्रोधं निद्रातन्द्राविवर्जयेत् ।
दुग्धपानं फलाहारं भिक्षान्नं चापि सेवयेत् ॥ ३२-
कन्दमूलफलैः पत्रैस्तथैवायाचितेन च ।
कल्पयेद्दैहिकीं वृत्तिं यथा नेन्द्रियविक्रिया ॥ ३२-
इन्द्रियाणां विकारे तु मन्त्री शीघ्रं विनश्यति ।
सर्वेषु धर्ममार्गेषु चरतां सिद्धिकाम्यया ॥ ३२-
परिपन्थी न चान्योऽस्ति यथेन्द्रियविकारिता ।
तस्मादिन्द्रियरक्षार्थं सावधानतया चरेत् ॥ ३२-
इन्द्रियाणि मनो देवि नोपेक्ष्याणीति मे मतिः ।
उपेक्षया हता लोका विभ्रमन्ते विचित्रधा ॥ ३२-
विषयेभ्यो निवृत्तोऽपि जितकाममदोऽपि सन् ।
न करोमीन्द्रियोपेक्षां मायासृष्टिर्विमोहिनी ॥ ३२-
के के वा न हता देवि बलिष्ठैरिन्द्रियारिभिः ।
अहल्यायां कृतो जार इन्द्रस्त्रैलोक्यरक्षकः ॥ ३२-
चन्द्रमा गुरुभार्यायां तारायां विनियोजितः ।
बन्धुक्षेत्रे गुरुश्चापि वेदवेदान्तवित्कविः ॥ ३२-
सीतायां रामभार्यायां मद्भक्तोपि दशाननः ।
एतेऽन्येपीन्द्रियहतास्तस्मात्तानि न विश्वसेत् ॥ ३२-
तस्मादाहारमाकुंच्य जेतव्यानीति मे मतिः ।
धारयेन्नखकेशांश्च वासः प्रक्षालितं वसेत् ॥ ३२-
शयीत भूमौ शययायां कुशमययां निशासु च ।
वासः प्रक्षालयेद् देवि कटिमुक्तं यदा भवेत् ॥ ३२-
पतितैः कर्मचाण्डालैः जातिचाण्डालकैरपि ।
म्लेच्छान्त्यजसङ्करैश्च न भाषेत जपे स्थितः ॥ ३२-
सन्ध्याकाले व्यतिक्रान्ते देहवृत्तिं तु कल्पयेत् ।
न्यूनाधिक न कुर्वीत जपं देवि दिने दिने ॥ ३२-
नीचसम्भाषणे [न नीचो यवनात्परः ।] देवि म्लेच्छसम्भाषणे तथा ।
प्रायश्चित्तं प्रकुर्वीतं सहस्रजपसंख्यया ॥ ३२-
यामार्द्धेनावशिष्टायां निशि शययां परित्यजेत् ।
उदिते च सहस्रांशौ यः शेते निद्रितोऽलसः ॥ ३२-
जपः छिद्रमवाप्नोति सिद्धिर्भवति दूरगा ।
सावधानतया भाव्यं तस्माद्देवि दिने दिने ॥ ३२-
ध्यायेल्लीलां जपश्रान्तो ध्यानश्रान्तः पुनर्जपेत् ।
जपध्यानसमायुक्तः शीघ्रं सिध्यति मन्त्रवित् ॥ ३२-
नैकवासा जपेन्मन्त्रं बहुवस्त्राकुलोऽपि वा ।
तैलताम्बूलपूगादिसर्वभोगान् विवर्जयेत् ॥ ३२-
वाङ्मनः कायकौटिल्यं सर्वथैव परित्यजेत् ।
न वाचोद्वेजयेत्किञ्चिन्नाशुभं कस्य वा स्मरेत् ॥ ३२-
न चक्षुषा निरीक्षेत् पशुक्रीडां कदाचन ।
न चेक्षेत स्त्रियं नग्नां न स्पृशेद्यदमङ्गलम् ॥ ३२-
मध्यन्दिनावधि जपेन्मन्त्रराजमनन्यधीः ।
ततः परं तु मनसा ध्यायेल्लीलां समाहितः ॥ ३२-
जपस्यैवं दशांशेन होमं कुर्याद् दिने दिने ।
अथवा लक्षपर्यन्तं जप्त्वा होमं समाचरेत् ॥ ३२-
समाप्तौ वापि जुहुयात् यथासम्भवमम्बिके ।
प्रत्यक्षरं जपेल्लक्षं श्रद्धावान्नातिचञ्चलः ॥ ३२-
आरब्धे तु जपेद्देवि मन उद्विजतेतराम् ।
चिन्ताशोकभयोद्वेगदुःस्वप्नादि प्रजायते ॥ ३२-
तदा धैर्यं समालम्ब्य स्थिरीकुर्यान्मनो धिया ।
एवं लक्षत्रये जप्ते लीलाध्यानैकचेतसः ॥ ३२-
विघ्नाः सर्वे पलायन्ते पातकानि ज्वलन्ति च ।
निर्विघ्नस्य विपापस्य मनः सम्यक् प्रसीदति ।
मनःप्रसन्ने देवेशि स्वप्ने देवादिदर्शनम् ॥ ३२-
वरार्थं प्रार्थ्यमानोऽपि नैव लुभ्यान्मनः प्रिये ।
पञ्चलक्षजपेद्देवि देवदानवरक्षसाम् ॥ ३२-
अवधृष्यो भवेत्साक्षाज्ज्वलन्निव हुताशनः ।
दशलक्षजपे सिद्धे प्रार्थयन्त्यमराङ्गनाः ॥ ३२-
त्वं स्वामी च वयं दास्योऽनुग्रहाण दयापरः ।
यावद्यास्यसि धाम स्वं भित्वा ब्रह्माण्डमण्डलम् ॥ ३२-
तावत्त्वं स्वर्गमातिष्ठ ह्यस्माभिः कृतसेवनः ।
तत्रास्ति नन्दनवनं सर्वर्तुगुणमण्डितम् ॥ ३२-
स्वर्धुनी स्वर्णसोपाना रत्नमण्डपमण्डिता ।
हंसकारण्डवाकीर्णा स्वर्णपद्मालिसङ्कुला ॥ ३२-
आहारो यत्र पीयूषं रक्षिता यत्र देवराट् ।
प्रार्थयन्ति देवलोकं क्रतुभिः कर्मकोविदाः ॥ ३२-
तस्मादलङ्कुरु स्वयं स्वर्गं त्रिदशमण्डितम् ।
एवं विलोभ्यमानोऽपि मन्त्री निश्चलमानसः ॥ ३२-
श्रावयेदुत्तरं तासामक्षुब्धो निःकुतूहलः ।
न स्वर्गो नापि नरको न मोक्षो बन्धनं नहि ॥ ३२-
स्वप्ने यथा तथा भाति रोचते न मनाङ् मम ।
तस्माद्यूयं मया प्रोक्ताः प्रयान्तु त्रिदशालयम् ॥ ३२-
श्रुत्वैवं वचनं तस्य निराशाः यान्ति ताः स्त्रियः ।
दशपञ्च च लक्षाणि यदा जप्तो महामनुः ॥ ३२-
तदा सिद्धाः समायान्ति सिद्धिभिः सह सुन्दरि ।
पातालेषु प्रवेशं च दूरश्रवणदर्शनम् ॥ ३२-
परकायाप्रवेशं च मनः पवनवद्गतिम् ।
पादुकाञ्जनसिद्धिं च रसधातुक्रियां तथा ।
इत्यादिविविधां सिद्धिं दर्शयन्ति न संशयः ॥ ३२-
पूर्वोक्तवचने चोक्ते यान्ति ते नातिपूर्वकम् ।
यदा विंशति लक्षाणि जप्ते चिन्तामणिमनौ ॥ ३२-
स्फुरन्ति सकला विद्याः शास्त्राणि विविधानि च ।
पञ्चविंशति लक्षाणि जप्ते चिन्तामणौ प्रिये ॥ ३२-
साक्षात्पश्यति देवेशि ब्रह्माण्डमक्षरात्मकम् ।
ब्रह्माण्डान्तः प्रविष्टं च विराजं पश्यति प्रिये ॥ ३२-
त्रिंशल्लक्षजपे सिद्धे नारायणमनामयम् ।
ध्याने पश्यति देवेशि व्यापकं सर्वतोमुखम् ॥ ३२-
सर्वतः पाणिपादान्तं सर्वतः श्रवणाक्षिमत् ।
अनेकमूर्द्धमुकुटमनेकाभरणाकुलम् ॥ ३२-
पञ्चत्रिंशत्तु लक्षाणि मन्त्रावर्त्तनगौरवात् ।
ध्यानं विनापि चक्षुर्भ्यां पश्येन्नारायणं विभुम् ॥ ३२-
चत्वारिंशत्तु लक्षाणि मन्त्रावर्त्तयेद्यदा ।
पश्येन्मञ्चे ब्रह्ममये शयानं पुरुषं तदा ॥ ३२-
चत्त्वारिंशत्तथा चाष्टौ लक्षाणि जपगौरवात् ।
मोहनिद्रावशेषोऽपि पश्येत् ब्रह्मपुरश्रियम् ॥ ३२-
मोटियोजनविस्तीर्णे सुधासिन्धौ सुरेश्वरि ।
रत्नद्वीपे ब्रह्मपुरे नित्यवृन्दावनस्थितिम् [स्थिते इति पाठः ।] ॥ ३२-
मणिमन्दिरमध्यस्थरत्नसिंहासनस्थितम् ।
स्वामिन्याश्लिष्टवामाङ्गं सखीमण्डलवेष्टितम् ॥ ३२-
उत्तमं पुरुषं पश्येत् ध्याने साक्षादिव स्वयम् ।
ततस्तापो भवेत्तीव्रविरहेण फलात्मकः ॥ ३२-
तदा च नियमाः सर्वे कृता वाप्यकृता अपि ।
समाप्यन्ते महेशानि स्वास्थ्याभावस्वभावतः ॥ ३२-
इत्येवं कथितं देवि यथा तापोदयो भवेत् ॥
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ ३२-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे द्वात्रिंशं पटलम् ॥ ३२-
अथ त्रयस्त्रिंशं पटलम्
देव्युवाच
साधूक्तं मन्त्रराजस्य पुरश्चरणमद्भुतम् ।
अतः परं वदैशान तापावस्था सुदुर्लभा ॥ ३३-
ययानुभूतया सम्यक् रसः पूर्णोनुऽभूयते ।
तस्मादहं श्रोतुकामा भवामि भक्तवत्सल ॥ ३३-
शिव उवाच
शृणु देवि परं गुह्यं त्वया पृष्टं वदामि ते ।
रसात्मकं रसभोक्तृं ब्रह्मेति श्रुतयो जगुः ॥ ३३-
रसः शृङ्गार एवादौ प्रोक्तस्ते गिरिनन्दिनि ।
संयोगविप्रलम्भात्मा द्विविधः स च कीर्त्तितः ॥ ३३-
अधुनाविप्रलम्भात्मा वर्त्तते केवलं रसः ।
कर्त्तव्योनुभवस्तस्य स एव परमं फलम् ॥ ३३-
यावत्तापोदयो न स्याद्विप्रलम्भो न सिध्यति ।
अनुभूतिः कथं तस्य जायते वद सुव्रते ॥ ३३-
संयोगरसमध्यस्था विप्रयुक्ता तु या प्रिये ।
तस्या एव भवेत्तापो नान्यस्य तु कदाचन ॥ ३३-
दशावस्था भवन्त्येताः तापे विरहसम्भवे ।
तास्ते वक्ष्यामि देवेशि शृणुष्वैकाग्रमानसा ॥ ३३-
अभिलाषस्तथा चिन्ता स्मरणं च ततः प्रिये ।
उद्वेगाधिप्रलापश्च जडतोन्माद एव च ॥ ३३-
गुणानां कीर्तनं चैव सज्वरं मरणं स्मृतम् ।
अत्युग्रविरहे देवि अवस्था दशमी भवेत् ॥ ३३-
राजपुत्रो यथा दैवाद्वनं वनचरैर्वसन् ।
आत्मानं वेत्ति विवशं परं वनचरं प्रिये ॥ ३३-
प्रभुत्वशौर्यधैर्याद्याः धर्माः सर्वे तिरोहिताः ।
दीनः कृपणधीर्मन्दः पशुमांसोपजीवनः ॥ ३३-
आत्मापह्नवमापन्नं दृष्ट्वा कश्चित्प्रबोधयेत् ।
न वनेचरपुत्रोऽसि राजपुत्रोऽसि सर्वथा ॥ ३३-
किमर्थं हिंसि भो जीवान् दीनः कृपणधीः स्वयम् ।
क्व गुणाः शौर्यधैर्याद्याः प्रभुता क्वगता तव ॥ ३३-
त्यज प्रकृतिदौर्बल्यं श्रय भावं निजं पुनः ।
इत्याप्तवचनं श्रुत्वा जालपाशादिकं त्यजन् ॥ ३३-
राज्यप्राप्तिं च मनसा सङ्कल्प्याकुलचेतनः ।
उच्छून [उच्छिन्न इति मूलपाठः ।] हृदयो भूयादभिलाष कुलान्तरः ॥ ३३-
तथा कृष्णप्रिया देवि प्रपञ्चे मोहकल्पिते ।
वासनादेहमासाद्य तद्देहममताकुला ॥ ३३-
तिरोहितानन्दधर्मा दीना कृपणमन्दधीः ।
जीववत् वर्त्तमाना सा भूतद्रोहेण जीवति ॥ ३३-
पुरुषोत्तमानुग्रहतः सद्गुरुस्तां प्रबोधयेत् ।
न त्वं स्त्री लौकिकी चासि न पुमानसि सर्वथा ॥ ३३-
न च विप्रादिको वर्णः स्वात्मानं चेष्टसे मुधा ।
देहगेहममताहङ्कारमायां परित्यज ॥ ३३-
प्रपञ्चबीजभूतायाः प्रकृतेः परतः प्रभोः ।
अक्षरादप्यतीतस्य पूर्णस्य परमात्मनः ॥ ३३-
प्रियासि त्वं परानन्दा परानन्दपदस्थिता ।
देहानुसन्धानपरां [प्रकारैः इ० पा० ।] मायां जहि वराङ्गने ॥ ३३-
सुधासिन्धौ मणिद्वीपमध्यखण्डे सुशोभने ।
कोटिसूर्यप्रतीकाशं कोटिचन्द्रसुशीतलम् ॥ ३३-
वेष्टितं मणिमुक्तादि [स्वस्वरूपानुसन्धानपरा मायां जहीहि हि इ० पा० ।] प्राकारैः परमाद्भुतम् ।
सखीमन्दिरसाहस्रैः परिवीत समन्ततः ॥ ३३-
मणिमन्दिरमत्युच्चैः पञ्चयोजनमानतः ।
आस्ते ब्रह्माण्डतो बाह्ये तत्र ते रमणं शुभम् ॥ ३३-
यमुनासप्ततीर्थेषु भर्त्राक्रीडां निजां स्मर ।
प्रफुल्लशतपत्रालि झङ्कारमुखरान्तरे ॥ ३३-
मणिमुक्तान्वितानावमारुह्य सखिभिर्वृता ।
महासरसि विद्योतन्मणिसोपानमण्डिते ॥ ३३-
यथा क्रीडन्तमात्मानं कथं विस्मरसे भ्रमात् ।
सहस्राश्वयुजं रम्यं शतचक्रस्फुरत्प्रभम् ॥ ३३-
सर्वतः किंकिणीजालैर्मणिमुक्ताञ्चितान्तरैः ।
कुर्वद्भिः मुखरान् सर्वदिगन्तान् कूजितैर्निजैः ॥ ३३-
दाडिमीपुष्पसङ्काशं वरूथोपरि कल्प्यते ।
सुवर्णकलशै रम्यैर्दीप्यमानमनेकशः ॥ ३३-
नृत्यद्भिः स्त्रीगणैः सम्यक् गायद्भिः स्वकुतूहलैः ।
हासयद्भिर्हसद्भिश्च समन्तात्परिशोभितम् ॥ ३३-
मुक्तावितानकौमुद्या समुद्भासितदिङ्मुखम् ।
प्रियेण रथमारुह्य वनक्रीडां स्मर स्वकाम् ॥ ३३-
कदाचित्पुष्परागाद्रावुद्याने सुमनोहरे ।
नानापक्षिगणाकीर्णे स्थलपङ्कजमालिनि ॥ ३३-
अनेककुट्टिमोत्तुङ्गमण्डपैः परितो वृते ।
दिव्यपुष्पभरामोदसुवासितदिगन्तरे ॥ ३३-
चन्द्रप्रभह्रदे रम्ये रम्यराजीवसङ्कुले ।
मुक्ताजटितसौवर्णायुतसोपानपङ्क्तिभिः ॥ ३३-
क्वचित् क्वचिच्छोभिताभिर्मण्डपैः कुट्टिमोपरि ।
चतुस्तम्भैर्महारत्नैर्मण्डितास्तोरणोज्ज्वलैः ॥ ३३-
पतत्पतत्रिपक्षोत्थवायुप्रचलपादपे ।
पतन्नेत्राञ्जनैर्दिव्यैः सखीयूथस्य दिव्यतः ॥ ३३-
चन्दनैरङ्गगलितैः कुङ्कुमैः कुचविच्युतैः ।
परागैः पद्मगलितैः कुसुमैर्वायुनाहृतैः ॥ ३३-
विचित्रदिव्यसलिले मणिमौक्तिकबालुके ।
जलक्रीडारसानन्दः कथं विस्मारितोऽधुना ॥ ३३-
महापद्मवने दिव्ये समन्ताल्लक्षयोजने ।
गन्धमाधुर्यनिपतत्षड्ङ्घ्रिपटलाकुले ॥ ३३-
योजनोत्सेधविस्ताररत्नमण्डपमध्यगे ।
वायुहृतपरागोघैर्वितानित नभोऽन्तरे ।
अनेकपक्षिसङ्घातकोलाहलसुखास्पदे ॥ ३३-
स्वप्रियेण कृता या याः क्रीडाः सर्वारसाश्रयाः ।
कथं विस्मृत्य सहसा जीववत्परितप्यसे ।
कथं मायामुखे लग्ना मिथ्याभूते भ्रमात्मके ॥ ३३-
पङ्के कस्तूरिकाबुद्धिर्लवणे शशिविभ्रमम् ।
काचखण्डे मणिभ्रान्तिर्जलबुद्धिर्यथा मरौ ॥ ३३-
तथैव शर्कराबुद्धिः कर्कराश्मादिषु भ्रमात् ।
कुर्वते मन्दमतयस्तथैव हि तवेदृशी ॥ ३३-
शुक्तिकारजतेनैव न कश्चिद्विभवं गतः ।
न स्वप्नलब्धराज्येन राजा [विवुश्रुतः इ० पा० ।] कश्चित्सुविश्रुतः ॥ ३३-
मरीचिकाजल पीत्वा न कश्चित्तृप्तिमागतः ।
यदीच्छसि सुखं नित्यं जहि सर्वमिमं भ्रमम् ॥ ३३-
विना भ्रमनिरासेन विना च स्वात्मधारणाम् ।
विना विषयवैतृष्ण्यं विना सन्तोषमार्जवम् ॥ ३३-
विना वैराग्यमत्युग्र विना सद्गुरुसेवनम् ।
विना विनयमास्तिक्यं शास्त्रशिक्षां विनापि च ॥ ३३-
देहाध्यासो मोहकृतो न निवर्त्तेत सर्वथा ।
देहाध्यासो निवर्त्तेत निवृत्ते मोहविभ्रमे ॥ ३३-
बिम्बभूतस्वरूपस्य विस्मृतिर्मोह उच्यते ।
मोहस्था वासना तस्य जीववच्च प्रतीयते ॥ ३३-
न जीवो वास्तवः कश्चित् वर्त्तते जलचन्द्रवत् ।
जलचन्द्रस्वरूप च गगनेन्दुर्यथा भवेत् ॥ ३३-
तथैव वासनारूप निजे धाम्नि स्थिताः प्रियाः ।
गुणः कम्पादिको यद्वत् प्रतिबिम्बे प्रतीयते ॥ ३३-
सुखदुःखादिमोहोत्थं वासनायां निरूपितम् ।
न ते सुख च दुःखं च मोहमात्रं विजृम्भिते ॥ ३३-
तस्मात्स्वरूपं विज्ञाय शास्त्राद्गुरोरपि ।
भ्रमं त्यक्त्वा निजानन्दमाप्नुहि प्रेममीलिता ॥ ३३-
एवं सद्गुरुणा वाक्यामृतैरासेचिता यदा ।
निर्वाप्य मोहभुजगविषज्वालां व्यथाकरीम् ॥ ३३-
अभिलाषवती भूयात्परानन्दपतिं प्रति ।
अभिलाषो मया प्रोक्तः शृण्ववस्या नवापराः ॥ ३३-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वती सम्वादे त्रयस्त्रिंशं पटलम् ॥ ३३-
अथ चतुस्त्रिंशं पटलम्
शिव उवाच
अभिलाषे समुत्पन्ने ततश्चिन्ता प्रवर्त्तते ।
प्रियो मे परमानन्दः परात्मा पुरुषोत्तमः ॥ ३४-
अहं तु तत्प्रिया साक्षाद्वासना मोहवेष्टिता ।
बाललीलावलोकार्थं सम्प्रार्थ्य पुरुषोत्तमम् ॥ ३४-
विमग्ना मोहजलधौ दुस्तरे तमसावृते ।
निरस्त सकलं ज्ञानं जाता मे स्वात्मविस्मृतिः ॥ ३४-
विभ्रमामि [ब्रभ्रामामि इति पाठः ।] भ्रमाविष्टा देहाघ्यासादितस्ततः ।
इय मे जननी चायं पिता भ्राता सहोदरः ॥ ३४-
पुत्राः पौत्राश्च सुहृदो ज्ञातयो गोत्रिणस्तथा ।
ममत्वान्मे [वृथौत्सुक्यात् इ० पा० ।] वृथा मौढ्यात् परिगृह्य [विमोहिता इ० पा० ।] विमोहितम् ॥ ३४-
स्वप्नदृष्टेषु लोकेषु न च द्वेष्यः प्रियोऽपि वा ।
परकीयः स्वकीयो वा मोह एव हि कारणम् ॥ ३४-
अतः परं न मे कार्यं प्रियैर्वा चाप्रियैरपि ।
एक एव प्रियः स्वामी स तु विस्मारितो मया ॥ ३४-
तदा किमपरैः कार्यं स्वाप्निके दुःखहेतुभिः ।
तस्मात्किं साधनं कुर्यां येनाहं प्रीतिमाप्नुयाम् ॥ ३४-
तन्न पश्यामि लोकेस्मिन् वेदवेदान्तयोरपि ।
यत्कृत्वा सुलभो भूयात्पतिः प्रियतमो मम ॥ ३४-
न वेदैरुपदिष्टेन कर्मणा प्राप्यते पतिः ।
कर्मणां फलमुद्दिष्ट स्वर्गमात्रं विनश्वरम् ॥ ३४-
न दानैर्वा तपस्तीर्थै कायक्लेशैः महत्तरैः ।
उपवासैर्व्रतैर्जाप्यैश्चित्तशुद्धिविधायिभिः ॥ ३४-
कथं तैः केवलानन्दः पतिर्मे वशतामियात् ।
न ज्ञानेन भवेद्वश्यः केवलं मुक्तिकृद्धि तत् ॥ ३४-
वर्म तु पुरुषस्येह वैराग्यं ज्ञानगुप्तये ।
यदि ज्ञानोदयो न स्याद्वैराग्य यदि केवलम् ॥ ३४-
तथापि प्रकृतौ साक्षाल्लीयते च तथापि किम् ।
योगस्यापि पराकाष्ठा स्वात्मनो दर्शनावधि ॥ ३४-
पुराणेष्वितिहासेषु भक्तिरुद्धोषिता मृशम् ।
सापि ज्ञानाङ्गमुद्दिष्टा तया प्राप्यः कथं पतिः ॥ ३४-
प्रियप्राप्तेरुपायस्य कोऽपि वक्ता न विद्यते ।
किं करोमि क्व गच्छामि कस्याग्रे प्रवदाम्यहम् ॥ ३४-
वनभ्रान्तो यथा कश्चित् पिशाचपरिमोहितः ।
क्षुत्तृङ्भ्यां मर्दितो नक्तं दिवमस्तमिताशयः ॥ ३४-
दन्दशूकैर्मृगैव्याघ्रैर्वाराहैर्भीषितो भृशम् ।
तथा दंशैश्च मशकैः व्यथितः श्वापदादिभिः ॥ ३४-
काङ्क्षत्यप्याश्रमं गन्तु मार्गभृष्टः करोमि किम् ।
को मे प्रापयति स्थानं भ्रान्तस्यारण्यवीथिषु ॥ ३४-
किं करोमि क्व गच्छामि कस्याग्रे च वदाम्यहम् ।
बहुद्रुमलताकीर्णं काननं जनवर्जितम् ॥ ३४-
इत्यादिविविधां चेष्टां कुर्वाणो व्याकुलान्तरः ।
अवतिष्ठते तथा चिन्ता जायते वाक्षनास्वपि ॥ ३४-
चिन्तामग्नो यथा सर्वं पश्यन्नपि न पश्यति ।
प्रियचिन्तारसे मग्ना सखीनां वासना तथा ॥ ३४-
चिन्तैवोद्वेगभावेन ततः परिणता भवेत् ।
उद्विग्नमनसः किञ्चित् नैव हर्षाय जायते ॥ ३४-
प्राणादप्यधिवल्लभस्य विरहे किंनाम रम्यं भवेत्
येनात्मा क्षणमप्युपैति विरतिं स्वास्थ्यं समालम्बते ।
स्फुरन्मीतान्वारिष्विव करणवृत्तीः समुदिताः
समादाय क्षिप्य प्रियविरहचिन्ता विजयते ॥ ३४-
उद्विग्नभावाकुलितान्तराया
न रोचते भूषणमम्बरं वा ।
शययासनं वाप्यशनं श्रुतं वा
स्नानादिकं वा भुवनं वनं वा ॥ ३४-
इतः क्षणं वा च ततः क्षणं वा
गृहे क्षणं वा शयने क्षणं वा ।
बहिस्तथान्तः क्षणमात्रमेत्य
ह्युद्विग्नभावा न लभेत शर्मं ॥ ३४-
यथा विरक्तो न विधिष्वधिकृतः
कृताकृते कर्मणि नैव दोषभाक् ।
उद्विग्नताया अपि विप्रलम्भे
न नित्यनैमित्तिककर्मयोगः ॥ ३४-
यदुद्वेगो देवि प्रियविरहजन्मा समुदितस्
तदाकृष्णस्त्रीणां किमपि नहि कार्यं निगमतः ।
तपस्तीर्थं योगो व्रतनियमकर्माणि सकलं
समाप्तं यत्तासां न हि मतिरभूद्देहविषया ॥ ३४-
श्रीकृष्णविरहे देवि य उद्वेगः प्रियासु च ।
अस्माकमीश्वराणाञ्च दुर्लभः किं पुनर्नृणाम् ॥ ३४-
इति श्रीमाहेश्वरतन्त्रे शिवोमासम्वादे चतुस्त्रिंशं पटलम् ॥ ३४-
अथ पञ्चत्रिंशं पटलम्
देव्युवाच
वैराग्यस्योदये देव ज्ञाने स्यात्साधनावधिः ।
साधनावधिस्तत्रापि य उद्वेगस्त्वयोदितः ॥ ३५-
यथा विरक्तो देवेश न कर्मस्वधिकारवान् ।
उद्विग्नोऽपि तथा देव न कर्माधिकृतो भवेत् ॥ ३५-
मतिर्न देहविषया तत्र हेतुस्त्वयोदितः ।
अत्र मे खिद्यते चेतो न सम्यगवधारणम् ॥ ३५-
भौतिको विषमो देहो वासना ब्रह्मकेवलम् ।
कस्य युज्येत संसारः कोऽत्र कर्माधिकारवान् ॥ ३५-
कर्मणि क्रियमाणे हि कोऽत्र भोक्ता फलस्य तु ।
अनित्यस्य जडस्यापि कथं देहस्य तद्भवेत् ॥ ३५-
कर्मणामिह भोक्त्री चेद्वासना यदि शङ्कर ।
कृतनाशः प्रसज्येत ह्यकृताभ्यागमस्तथा ॥ ३५-
अन्येन क्रियमाणे हि कथमन्येन भुज्यते ।
वासनायाश्च देहादेस्तारतम्यं वद प्रभो ॥ ३५-
शिव उवाच
शृणु वक्ष्यामि देवेशि तव प्रश्नमनुत्तमम् ।
देहात्मधीर्विनश्यते यस्य श्रवणमात्रतः ॥ ३५-
ज्ञानमार्गे तु देवेशि वैराग्यं साधनावधिः ।
नानाजन्मान्तराभ्यासरागरञ्जितचेतसाम् ॥ ३५-
जीवानां विषयेष्वैव बहिर्धावति वै मनः ।
सुखं स्यादिष्टविषये ह्यनिष्टे दुःखवद्भवेत् ॥ ३५-
सुखदुःखादिकं सर्वमहङ्कारोभिमन्यते ।
अहङ्कारगतं सर्वं चिदाभ्यासे प्रतीयते ॥ ३५-
जलचन्द्रे यथा तस्य कम्पादिर्दृश्यते गुणः ।
प्रतीतिमात्रमेवैतत् तथापि न निवर्त्तते ॥ ३५-
तत्प्रतीति निराकर्त्तुं प्रकारं वच्मि ते शिवे ।
अनेकजन्मसंसिद्धसाधनानां बलेन च ॥ ३५-
शुद्धचित्तस्य देवेशि वैराग्यमुपसर्पति ।
रागाद्यभावाद्विषयेष्वहङ्कारो निवर्त्तते ॥ ३५-
न मनो धावनं कुर्याद्विषयेषु इतस्ततः ।
न गृह्णाति सुख दुःख रागद्वेषाद्यभावतः ॥ ३५-
कर्त्तृत्वं चैव भोक्तृत्वमहङ्कारे हि दृश्यते ।
स्थूलं वपुरधिष्ठानमहं लिङ्गस्य सुन्दरि ॥ ३५-
अहङ्कारगृहीतेन स्थूलदेहेन पार्वति ।
योऽन्यकर्माणि कुरुते निबध्येतापि तैरयम् ॥ ३५-
भोगायतनमात्रं हि स्थलो देहः प्रकीर्त्तितः ।
अहङ्कारे सचाध्यस्ते ह्यहङ्कारश्चिदात्मनि ॥ ३५-
स्फाटिके हि यथाऽध्यस्तो जपारागः प्रकाशते ।
चिदाभासे तथा शुद्धेध्यस्ताहन्ता तथा प्रिये ॥ ३५-
स चावृत्य चिदाभासं स्वयमेव प्रकाशते ।
घटाकाशमिवावृत्य जलाकाशः प्रकाशते ॥ ३५-
सुखं दुःखं भयं क्रोधो मोहो मात्सर्यमेव च ।
धर्माधर्मौ पुण्यपापे ज्ञानमज्ञानमेव च ॥ ३५-
अहङ्कारगतं सर्वं चिदाभासस्य न क्वचित् ।
तथाप्येक्याध्यासवशादात्मन्येव प्रतीयते ॥ ३५-
विशुद्धे निर्मले देवि शोणिमेव मणौ यथा ।
तस्मादनात्मधर्माश्च जडा नित्यमशेषतः ॥ ३५-
विज्ञायाप्नोति वैराग्यमाविरञ्चिपदादपि ।
रागाद्यभावान्न मनो विषयानुपधावति ॥ ३५-
विषयानुरागरहिते निर्मले मनसि प्रिये ।
स्वात्मा प्रकाशते ध्यानाद्दर्पणे स्वमुखं यथा ॥ ३५-
मनस्यपि लयं याते विकारशतवेश्मनि ।
समाधिस्थो भवेद्योगी यत्र शोको न विद्यते ॥ ३५-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे पञ्चत्रिंशं पटलम् ॥ ३५-
अथ षट्त्रिंशं पटलम्
शिव उवाच
स्वस्वमोहेन सख्यस्ता नीताः स्वप्नं परात्मनः ।
तस्मात् [तासा इ० पा० ।] स्थूलशरीराणि भौतिकानि महेश्वरि ॥ ३६-
सामान्यतो विदुस्तासां सूक्ष्मदेहस्तथाविधाः ।
कारणात्मा भवेन्मोहो वासनासु पृथक् पृथक् ॥ ३६-
वासना तदवच्छना जीवभावमिवागता ।
इच्छाशक्तिप्रयुक्तत्त्वात्स मोहोऽपि रसात्मकः ॥ ३६-
न वासनायाः संसारो न मोहस्य तथात्मनः ।
अहं लिङ्गस्य देवेशि संसारं उपयुज्यते ॥ ३६-
यतो नारायणोद्भूतो मायिकः परिकीर्त्तितः ।
इच्छानन्दांशसम्भूतः सखीमोहस्तु केवलम् ॥ ३६-
तस्मादहङ्कृतेरेषः संसारोऽन्यस्य न क्वचित् ।
कर्तृत्वं चैव भोक्तृत्वमहङ्कारस्य विद्यते ॥ ३६-
प्रतीयते वासनायां मोहस्तत्र प्रयोजकः ।
स्थूलदेहाभिमानेन अहङ्कारो विजृम्भते ॥ ३६-
सर्वेन्द्रियचरो भूत्वा सर्वकर्मप्रसाधकः ।
बध्यते तत्फलैश्चैवं प्रति जन्म विचित्रधा ॥ ३६-
स अध्यस्तौ वासनासु वासना तद्गता भवेत् ।
तादात्म्यभावमापन्ने वासनाहङ्कृतिस्तथा ॥ ३६-
शृङ्गाररसरूपाणां सखीनां वासनास्तु याः ।
तासामानन्दरूपं च अहङ्कारेण मिश्रितम् ॥ ३६-
प्राप्य नारायणं द्वारमक्षरे प्रतिबिम्बिते ।
अन्तरङ्गा बहिरङ्गा स्वप्ने वृत्तिद्वयं भवेत् ॥ ३६-
प्रत्यक्वृत्तिरन्तरङ्गा बहिरङ्गा बहिर्गता ।
प्रत्यग्वृत्या तु देवेशि अहङ्काराश्रितं सुखम् ॥ ३६-
नारायणमुखेनैव कूटस्थे व्यक्तिमागतम् [व्यक्तिमागत इ० पा० ।] ।
यथा सहस्रकुल्याभिः पूर्यमाणं महासरः ॥ ३६-
प्रोत्फुल्लकमलामोदं रोचते रचिराकृति ।
वासनानां सहस्रैश्च ह्यहङ्कारविमिश्रितैः ।
पूर्णानन्दो भवेद्देवि गणितानन्द इत्यपि ॥ ३६-
बहिरङ्गा तु या वृत्तिरहङ्कारस्य सुन्दरि ।
बहिर्वत्पश्यति विश्वं तयेदन्तात्मकं शिवे ॥ ३६-
अहङ्कारो विश्वबीजं वासनासु च बिम्बितः ।
दर्शयत्यखिलं विश्वं सखीभ्यो मुकुरो यथा ॥ ३६-
एवं रहस्य कूटस्थो बाललीलाः सखीगणः ।
अनुभूतवन्तावन्योऽन्यं सुदुर्घटमिदं प्रिये ॥ ३६-
यथा कल्लोलजालेषु चन्द्रज्योत्स्ना प्रसर्पति ।
अहङ्कारविभेदेषु प्रियाणां वासना तथा ॥ ३६-
यथा कल्लोलजालेषु प्रशान्तेषु महेश्वरि ।
लक्ष्यते कौमुदी तस्मिन् प्रशान्ते वासना तथा ॥ ३६-
सद्गुरोः शरणं यायात्तदर्थमिह सुन्दरि ।
त्वं प्रियासीति कृष्णस्य पूर्णस्य परमात्मनः ॥ ३६-
बाललीलाविलोकार्थमिह प्राप्ता न संशयः ।
प्रपञ्चसागरे मग्ना कथं तिष्ठसि निर्भया ॥ ३६-
पुत्राः पौत्रा धनं धान्यं देहगेहाम्बरादिकम् ।
स्वप्नलब्धमिदं सर्वं हित्वा बिम्बं निजं श्रय ॥ ३६-
कथं खेदयसे बिम्बं मोहमग्ना निरन्तरम् ।
प्रियाणां वासनासि त्वं न प्रियाभ्यः पृथङ्मता ॥ ३६-
अहङ्काराश्रितायास्ते खेदो बिम्बाश्रितो भवेत् ।
तस्मात्प्रबुध्य झटिति निज बिम्बं प्रबोधय ॥ ३६-
अहमध्यस्त एवायं देहस्ते पाञ्चभौतिकः ।
अहं स्त्री पुरुषः कृष्णो गौरस्तेनाभिमन्यसे ॥ ३६-
इदन्ताहविरादाय अहन्ता सृष्टिकल्पिता ।
स्वस्वरूपमये वह्नौ हुत्वानन्दमवाप्नुहि ॥ ३६-
इदन्तावैरिमत्युग्रं मूलाहन्तारणाङ्गणे ।
स्मृतिखड्गेन तीव्रेण घातयित्वा सुखी भव ॥ ३६-
एवं प्रबोधिता सम्यक् वासना गुरुणा यदा ।
क्रमेणोद्वेगमासाद्य वैराग्यमिव योगतः ॥ ३६-
त्यजत्यहङ्कृतिं सद्यो गेहे देहेन्द्रियेष्वपि ।
देहाभिमाने गलिते विज्ञाते स्वात्मनि ध्रुवम् ॥ ३६-
आसाद्य विरहावस्थामुद्वेगाख्यां रसात्मिकाम् ।
विप्रलम्भरसानन्दानुभवो जायते ततः ॥ ३६-
इति माहेश्वरतन्त्रे शिवोमासम्वादे षट्त्रिंशं पटलम् ॥ ३६-
अथ सप्तत्रिंशं पटलम्
शिव उवाच
योगिनो हि विरक्तस्य मनो ध्यानरतं भवेत् ।
सम्यक् प्रजातया स्मृत्या मनो लीलारतं तथा ॥ ३७-
तदैवमानसी सेवा प्रसिध्यति न चान्यथा ।
तस्मादन्तर्बहिः कार्या सेवा यावत्स्मृतिर्भवेत् ॥ ३७-
स्मृतिं विना तु देवेशि बहिः सेवां परित्यजेत् [परित्यजन् इ० पा० ।] ।
प्रत्यवायमवाप्नोति मार्गभ्रष्टो भवेदपि ॥ ३७-
स्मृत्यवस्थैव देवेशि मानसीमूलमुच्यते ।
मानस्यां जायमानायां बाह्यसेवा निवर्त्तते ॥ ३७-
प्रियसेवा प्रियाधर्मो यावत्सर्वेन्द्रियक्रिया ।
सर्वेन्द्रियक्रियाभावान्मानसी सा प्रवर्त्तते ॥ ३७-
प्रेमपीयूषपाथोघौ यदा लग्नं मनो भवेत् ।
बाह्येन्द्रियाणां वृत्यभावाद्बाह्यसेवा न जायते ॥ ३७-
प्रवर्तते मानसी सा स्मृत्यवस्थोदये सति ।
तस्मात्स्मृति प्रवक्ष्यामि शृणुष्वेकाग्रमानसा ॥ ३७-
स्मृत्यां वै जायमानायामनुसन्धानवर्जितम् ।
मनो लीलावगाहेत घर्मतप्तो यथा गजः ॥ ३७-
अवगाहे च मनसि ब्रह्मलीलामहानदीम् ।
लीयन्ते वृत्तयः सर्वा गेहात्मविषया अपि ॥ ३७-
विगाढमाने मनसि प्रविष्टे
लीलामहानन्दसुधासमुद्रम् ।
नेदं न चादो न सुखं न दुःखं
जानाति तत्रैव विलग्नचित्ता ॥ ३७-
स्मरेत् तदानन्दसुधासमुद्रमनर्गलाप्रोच्छ्वलदूर्मिमालम् ।
समन्ततोन्तःस्फुरमाणरत्नप्रभाङ्कुरोद्भासितवीचिरम्यम् ॥ ३७-
हिरण्मयोद्भिन्नपतत्पतत्रिनकादिचक्रोत्पतनाभिरामम् ।
इतस्ततो धावदनेकपोतकुलाकुलं योजनकोटिमानम् ॥ ३७-
जले शयानेकसुवर्णरत्नगिरिप्रभालङ्कृतकुक्षिभागम् ।
वैदूर्यतालीवनशोभिकूलं कूजद्विहङ्गस्वनितै रसालम् ॥ ३७-
उद्भिन्नतालीवनजान्धकारमुन्मूलयन्तं मणिमिस्तटस्थैः ।
स्फुरद्भिरुद्योतितदिग्विभागैर्दिवाकरेन्दुद्युतितस्करैरिव ॥ ३७-
अलङ्कलङ्कोज्जितपूर्णचन्द्र-
विडम्बिनीभिस्तटगाभिरुच्चैः ।
अनेकचन्द्राकुलितस्य शोभां
विलज्जयन्तं नभसोऽपि शुक्तिभिः ॥ ३७-
द्वीपं मणीनां च तदन्तरुद्यन्मयूख-
किञ्जल्कितमादधानम् ।
अनेककोटीन्दुदिवाकरप्रधं स्मरे-
च्चिदानन्दघनं [धां ई० पा० ।] महेश्वरि ॥ ३७-
उपेतं नवखण्डैश्च नवरत्नमयैः शुभैः ।
नवभूम्यात्मकैश्चित्रैरुद्यानपरिमण्डितम् ॥ ३७-
कोट्यर्धयोजनायामविस्तार सुमनोहरम् ।
तिर्यगूर्ध्वायिता रेखाश्चतस्रो नवकोष्ठवत् ॥ ३७-
मध्यः खण्डः पद्मरागमयश्चानन्दभूमिकः ।
पुष्परागमयस्तस्य पूर्वभागे प्रतिष्ठितः ॥ ३७-
चिदानन्दमयीं भूमिं तत्र सञ्चिन्तयेद्धिया ।
आग्नेयां वज्रघटितास्तत्र वैराग्यभूमिका ॥ ३७-
महामारकतं दक्षे चिन्तयेत्खण्डमुत्तमम् ।
राजते यत्र देवेशि महासन्तोषभूमिका ॥ ३७-
नैर्-ऋते चिन्तयेत्खण्ड यत्रास्ते प्रेमभूमिका ।
प्रवालमणिसन्नद्धं प्रकाशपरमोज्ज्वलम् ॥ ३७-
प्रतीच्यां नीलमणिभिर्मण्डितं भुक्तिभूमिकं ।
इन्द्रनीलमयं देवि प्रभालिप्तनभोन्तरम् ॥ ३७-
वायव्ये संस्मरेत्खण्डं ज्ञानभूमिसमाश्रयम् ।
उत्तरे चिन्तयेत्खण्डं गोमेदरचितान्तरम् ॥ ३७-
प्रकाशभूमिका यत्र राजते सुमनोहरा ।
महामौक्तिकखण्डश्च य ईशान्येगतः प्रिये ।
तं स्मरेत्सततं यत्र राजते रतिभूमिका ॥ ३७-
भूमयः सप्तदेवेशि योजनानां चतुर्दश ।
लक्षाणि ते मया प्रोक्ता निबोध [लक्षाणि मितयोक्तानि इ० पा० ।] गिरिनन्दिनि ॥ ३७-
चिदानन्दमयी भूमिस्तावत्येव प्रकीर्तिता ।
द्वाविंशतिर्योजनानां लक्ष्याण्यानन्दभूमिका ॥ ३७-
नित्यं वृन्दावनं यत्र राजते कर्णिकाकृति ।
स्मरेद् ब्रह्मपुरं तत्र प्रकाशपरमोज्ज्वलम् ॥ ३७-
तन्मध्ये देव देवेशि मणिनैकेन निर्मितम् ।
समकालोदितानेककोटिचन्द्रार्कभास्वता ॥ ३७-
क्वचिन्नीलं क्वचिद्रक्तं क्वचित्कृष्णं क्वचित्सितम् ।
दशभूम्यात्मकं श्रीमत्संस्मरेन्निजमन्दिरम् ॥ ३७-
मन्दिरं परितः पङ्क्तिः सौधानां कृष्णयोषिताम् ।
एकैकं मन्दिरं देवि ! योजनार्द्धप्रमाणतः ॥ ३७-
सार्द्धद्वियोजनोत्सेधं निजमन्दिरमद्भुतम् ।
प्राकारैर्दशभिर्गुप्तं महोद्यानविराजितैः ॥ ३७-
परिवृत्तीः स्मरेत्तस्य षट्सहस्राणि योजनाः ।
द्विसहस्रमिदं सूत्रं दक्षिणोत्तरगं भवेत् ॥ ३७-
पूर्वपश्चिमगं सूत्रं तथैव परिमाणतः ।
महापद्मवनं ध्यायेत् परितो निजमन्दिरम् ॥ ३७-
प्रकाशानन्दभूम्योस्तु सन्धौ नीलाद्रिरुत्तमः ।
योजनायुतमानेन तस्योच्छ्रायं स्मरेत्प्रिये ॥ ३७-
शृङ्गाणि तस्य देवेशि त्रीणि सन्त्यद्भुतानि च ।
चन्द्रगौरं चन्द्रचूडं महाचन्द्रं ततः परम् ॥ ३७-
चन्द्रगौरे महाशृङ्गे चन्द्रनाम्ना महासरः ।
शतयोजनविस्तारं चन्द्रसोपानमण्डितम् ॥ ३७-
गुञ्जद् भ्रमरझङ्कारमुखरीकृतदिङ्मुखम् ।
प्रफुल्लपङ्कजवनामोदमोहितषट्पदम् ॥ ३७-
मरालीयूथमध्यस्थमरालगणमण्डितम् ।
कूजितैश्चित्रपक्षाणां पक्षिणां सुमनोहरम् ॥ ३७-
तटस्थोद्यानशोभाभिर्नयनानन्दमन्दिरम् ।
आनन्दसुधयापूर्णं संस्मरेत्स्मृतिधारया ॥ ३७-
कदाचित् क्रीडनं तत्र भगवान् पुरुषोत्तमः ।
सखीसहस्रसेव्याभिः स्वामिन्या सह केवलम् ॥ ३७-
चन्द्रचूडं पञ्चह्रदाः परमानन्दसुधामृताः ।
रत्नसोपानसाहस्रैः काञ्चनैः कृतकौतुकाः ॥ ३७-
सुवर्णपङ्कजवनैर्वायुनान्दोलितैर्मुहुः ।
सुवासयद्भिः सततं दिगन्तात्परिशोभिताः ॥ ३७-
क्रीडते तत्र भगवान् कदाचिद्योषितां गणैः ।
उद्यानराजं देवेशि महाचन्द्रेऽपि संस्मरेत् ॥ ३७-
पादपाः पत्रविस्तीर्णाः स्वर्णशाखासुपेशलाः ।
नीलवैदूर्यपत्राढ्यामुक्तास्तबकमालिनः ॥ ३७-
कदम्बाशोकपुन्नागमालतीबकुलाज्जुनैः ।
बिल्वपालैस्तमालैश्च हितालैः पारिजाजकैः ॥ ३७-
केतकैश्चम्पकैश्चतैः कल्पवृक्षैः सुशोभितम् ।
तन्मध्ये संस्मरेद्देवि मणिमण्डपमायतम् ।
शतस्तम्भैः स्वर्णमयैः मुक्तारत्नचितान्तरैः ॥ ३७-
शोभमानं चतुर्द्वारं साप्तभौमं निरामयम् ।
प्रतिद्वारं कुट्टिमाभ्यां प्रतिकुट्टिमदीर्घिकम् ॥ ३७-
दीर्घिकासु लसत्स्वर्णपद्मव्यग्रषडाङ्घ्रिकम् ।
कुट्टिमोपरि विस्फूर्जद्रत्नस्तम्भमनोहरम् ॥ ३७-
प्रवालनीलमाणिक्यमुक्तावैदूर्यगारुडैः ।
कृतस्वस्तिकविस्फूर्यन्मध्यदेशश्रियोज्ज्वलम् ॥ ३७-
शुकैः पारावत्तैर्हंसैह् क्रूजद्भिः परिशोभितम् ।
स्वर्णवैदूर्यमुक्ताभिर्विलसत्तोरणोज्ज्वलम् ॥ ३७-
चतुर्दिक्षु महासौधराजिराजितमद्भुतम् ।
कदाचिदत्र भगवान् रथमास्थाय सुप्रभम् ॥ ३७-
सखीसहस्रैरायाति क्रीडनार्थं महेश्वरि ।
कृत्वा नादाविधां क्रीडामुद्याने सुमनोहरे ॥ ३७-
मण्डपं प्रविशेत्सद्यः सखीभिः सह संवतः ।
आराधन्ते ततः सर्वास्तासां याः परिचारिकाः ॥ ३७-
दिव्यसौधानि मणिभिर्दीप्यमानानि सर्वतः ।
वीणामृदङ्गतन्त्रीभिर्गायन्ति यश उत्सुकाः ॥ ३७-
तद्गीतानन्दसन्दोहनिमग्नेन्द्रियवृत्तयः ।
उद्यानराजहरिणाः हरिण्यः शुकसारसाः ॥ ३७-
पिकाः पारावताश्चैव मयूरा मधुभाषिणः ।
स्ववाचं मुद्रयन्त्येव यथा चित्रगताः शिवे ॥ ३७-
सुधारसादप्यधिकैर्वाक्यैर्हास्यरसान्वितैः ।
हासयन्ति हसन्त्यश्च प्रियं च स्वामिनीमपि ॥ ३७-
कदाचित्प्रार्थयामासुः स्वामिनीपक्षमाश्रिताः ।
नेत्रबन्धमयीं लीलां रन्तु कृष्णं सहस्रशः ॥ ३७-
पणबन्ध ततश्चक्रुर्नेत्रबन्धे कृते सति ।
यदि नाम न जानासि तदा प्रिय पराजितः ॥ ३७-
स्ववस्त्राभरणान्यस्यै देहि चित्तमखेदयन् ।
सा प्रिया प्रिय ते रूपं करिष्यति मनोहरम् ॥ ३७-
त्वत्सिंहासनमारूढा कृष्णोऽहमिति वादिनी ।
भवन्तमाज्ञापयतु नृत्यतां सखि मत्पुरः ॥ ३७-
त्वया नृत्यं तदा कार्यमवश्यमिव चाङ्गना ।
त्वयि नृत्यति निःशङ्के गास्यामो वयमेव हि ॥ ३७-
यदि वा नाम जानासि प्रियापि कुरुतां तथा ।
इति ताः पणमाश्राव्य परिवव्रुः प्रियं प्रियाः ॥ ३७-
तदेन्दिरा सखी काचित् पश्चादागत्य सत्वरम् ।
बबन्ध नेत्रयुगलं करपद्मयुगेन च ॥ ३७-
नेवे गृहीतः कृष्णः प्राह त्वमसि सुन्दरी ।
तदोन्मुच्याक्षियुगलं स्मिता प्राहेन्दिरा सखी ॥ ३७-
किं जल्पसि मुधा नाम प्राणनाथ पराजितः ।
न चाहं सुन्दरी नाम्ना प्रिया तेऽस्मीन्दिराभिधा ॥ ३७-
तस्माल्लज्जां परित्यज्य पणबन्धं विचारय ।
श्रीकृष्ण उवाच
नाहं पराजितः साक्षादज्ञातेति न मुह्यताम् ॥ ३७-
त्वयीन्दिरे सुन्दरीति भ्रमः सार्वदिको मम ।
सुन्दर्यां मत्प्रियायां च स्फुरत्येवेन्दिराभ्रमः ॥ ३७-
नाण्वप्यन्तरं वापि नामतो रूपतोऽपि च ।
ज्ञात्वापि त्वामिन्दिरेति क्षणादेव भ्रमद्धिया ।
जल्पितं सुन्दरीत्येतन्मयोक्तमवधार्यतां ॥ ३७-
प्रियस्य वचनं श्रुत्वा पुनः प्राहेन्दिरा वचः ।
इन्दिरोवाच
अहो नाथ महत्येषा वञ्चना चातुरी तव ॥ ३७-
ज्ञात्वापि मामिन्दिरेति सुन्दरीति मुखोद्गतम् ।
कथ श्रद्दधां हे नाथ वेदार्थमिव नास्तिकाः ॥ ३७-
स्त्रीषु हास्येषु धूर्त्तेषु प्राणबाधाभयेषु च ।
संवदत्यनृता वाणीत्येतज्जानाति भो भवान् ॥ ३७-
मुखोद्गते हि विश्वासो नास्माकं हृदयस्थिते ।
नास्तिकस्येव प्रत्यक्षे प्रमाणे न तु शाब्दिके ॥ ३७-
तस्मात्त्वं स्वीयवचनं यदि सत्येन युञ्जसि ।
देहि लज्जां विहायाशु वासांस्याभरणानि च ॥ ३७-
नो चेत्स्वतन्त्रः किं कुर्मः प्रभुस्त्वमस्वतन्त्रकाः ।
पणलोपभयाद् भूयः का प्रतीतिस्तवेति हि ॥ ३७-
तस्मादर्थमनर्थं च स्वकीयहृदये पुनः ।
विनिश्चित्य यथा न्यायं यदिच्छसि तथा कुरु ॥ ३७-
श्रुत्वेन्दिरावाक्यमतिप्रगल्भं चातुर्ययुक्त च सखीसमाजे ।
स्मित्वा स्वभूषावसनानि सद्यः स्वयं समुत्तार्य ददावथास्यै ॥ ३७-
महानीलं ददौ वासः कटिवस्त्रं सुवर्णभम् ।
उष्णीषं चैव कौसुम्भ मुक्ताभूषितकुण्डले ॥ ३७-
स्फुरत्कोटीन्दुविलसदुष्णीषमणिमुत्तमम् ।
दिव्यमुक्ताफलानद्धग्रीवाभरणमुज्ज्वलम् ॥ ३७-
नवरत्नमयीमालां विचित्रकिरणोज्ज्वलाम् ।
किर्मीरितमिवात्युच्चैः प्रकुर्वन्तीं हृदाम्बुजम् ॥ ३७-
माणिक्यमुक्तामणिभिर्जटितं वलयद्वयं ।
नखसुक्तिं महारम्यां स्वर्णपद्मविभूषिताम् ॥ ३७-
केयूरयुगलं चारु चिन्तारत्नचितान्तरम् ।
मध्योल्लसत्पद्मरागं चतुष्कं चातिसुन्दरम् ॥ ३७-
उन्मत्तानङ्गमातङ्गगलघण्टाविडम्बिनीम् ।
नीलहीरादिमणिभिः स्फुरद्भिः परितो वृत्ताम् ।
क्षुद्रघण्टाक्वणत्कारैः स्वर्णकाञ्चीमनूपमाम् ॥ ३७-
ऊर्मिकाः प्रस्फुरद्रत्नप्रभापटलमध्यगाः ।
अङ्गुलीछद्मलावण्यधाराशङ्कां वितन्वतीः ॥ ३७-
पादयोः कटके दिव्ये सुवृत्तेः मणिभूषिते ।
ददौ महामनाः कृष्णो यदन्यद्भूषणादिकम् ॥ ३७-
ततश्च रचयामास वेषं तस्या मनोहरम् ।
उष्णीवं मूर्ध्नि रचितं कर्णयौः कुण्डलद्वयम् ॥ ३७-
कण्ठे मालां दधौ रम्यां नवरत्नविराजिताम् [विभूषिताम् इत्यपि पाठः ।] ।
वलये कल्पयायास मणिबन्धद्वये तथा ॥ ३७-
केयूरयुगल बाहोश्चतुष्कं हृदयाम्बुजे ।
कट्यां प्रकल्पयामास स्वर्णकाञ्ची मनोहराम् ॥ ३७-
अङ्गुलीयान्यङ्गुलिषु तदङ्गे कल्पयद्धरिः ।
ददौ वेत्रं महादिव्यं खचितं मणिमौक्तिकैः ॥ ३७-
रत्नसिंहासने स्थाप्य तां सखीमिन्दिराभिधाम् ।
ननर्त कृष्णो रुचिरान् भावानाविश्चकार ह ॥ ३७-
वनितारूपमास्थाय मोहयन्निव मायया ।
प्रिये नृत्यति सोत्साहं जगुः काश्चन योषितः ॥ ३७-
मृदङ्गमहनत् माध्वी यौवनोद्वेलगर्विता ।
वीणामासावती विद्युल्लता तन्त्रीमवादयत् ॥ ३७-
लावण्यलहरी साक्षाद्वंशीवादनतत्परा ।
सुप्रभा निस्तुला चोभे अभृतां तालधारिके ॥ ३७-
काश्चिन्मुखध्वनिं चक्रुस्तालीवादनतत्पराः ।
काश्चिज्जयजजयेत्युच्चैरूचर्हास्यरसाकुलाः ॥ ३७-
सुमुखीललिताद्यास्तु साधु साध्विति चाब्रुवन् ।
अन्याः कुतूहलामग्नाः कृष्णस्य मुखपङ्कजम् ॥ ३७-
पपुर्लावण्यमधुरं भ्रमन्ननषट्दम् ।
ततो लीलावसाने तु कृष्णरूपधरा सखी ।
सिंहासनात्समुत्थाय रचिताञ्जलिराययौ ॥ ३७-
पपात पादयोर्भर्त्तुः प्रिय उत्थाप्य तां सखीम् ।
आलिलिङ्ग चिरं प्रेम्णा चुचुम्बाननपङ्कजम् ॥ ३७-
कृष्णं विभूषयामास पुनस्तैर्भूषणाम्बरैः ।
रथारूढा ययुः सर्वाः प्रियेण निजमन्दिरम् ॥ ३७-
चतुःषष्टिमहास्तम्भराजराजितभूमिकाम् ।
प्राप्यसिंहासनगतं परिवव्रुः प्रियं प्रियाः ॥ ३७-
इति श्रीमाहेश्वरतन्त्रे शिवोमासम्वादे सप्तत्रिंशं पटलम् ॥ ३७-
अथ अष्टत्रिंशं पटलम्
पार्वत्युवाच
देवेश परमेशान सुरासुरनमस्कृत ।
कथेयं सुमहत्पुण्या सुधास्वादीयसंस्तुता ॥ ३८-
तथापि देवदेवेश त्वद्वाक् पीयूषपानजा ।
तृप्तिर्न जायते सम्यक् शुश्रूषाकुलचेतसः ॥ ३८-
कथाश्रवणजानन्दो न मुक्तावपि दृश्यते ।
कस्तं विहाय मोहेन निजायुः प्रविलापयेत् ॥ ३८-
ते मन्दभाग्याः कुधियो दुराचारपरा हि ते ।
यैर्न लब्धा क्षणमपि कथा कर्णसुधा सती ॥ ३८-
सार्द्धत्रिकोटितीर्थानि ऋषयो मन्त्रदेवताः ।
यत्र कृष्णकथावादस्त्रैवायान्तिनिऽस्चितम् ॥ ३८-
तस्मादनुग्रहीतास्मि भवता करुणात्मना ।
कथां कथयता रम्यां कृष्णस्यानन्दरूपिणः ॥ ३८-
पुनः कथय देवेश कथामानन्दकारिणीम् ।
चतुःषष्टिमहास्तंभराजिराजितभूमिकाम् ॥ ३८-
अधिष्ठाय प्रियेणैताः सङ्गताश्च किमाचरन् ।
तद्वदस्वमहेशान यदि तेनुग्रहो मयि ॥ ३८-
शिव उवाच
शृणु पार्वति वक्ष्यामि यत्पृष्टोहं सुलोचने ।
यस्य श्रवणमात्रेण जायते रतिरुत्तमा ॥ ३८-
नीलाद्रिशिखरादेत्य निजं धाम परात्परः ।
रत्नसिंहासने तस्थौ नवरत्नविभूषिते ॥ ३८-
सिंहासनस्य परितो मण्डलाकारसंस्थितः ।
प्रफुल्लनयनाम्भोजाः पश्यन्ति स्म प्रियं मुदा ॥ ३८-
पूर्णानन्दं पूर्णकामं तत्र काञ्चन योषितः ।
राजोपचारविधिना ह्युपतस्थुर्मुदान्विताः ॥ ३८-
शरच्चन्द्रप्रभागौरं मुक्तामणिविभूषितम् ।
रत्नदण्डमनोहारि मिहिला छत्रमादधौ ॥ ३८-
माणिक्यखचितस्वर्णदण्डचामरचालनैः ।
उपतस्थौ महाभागा चन्द्रलेखा मनस्विनी ॥ ३८-
सुवर्णसूत्रविद्योतच्चन्द्रकार्पितमौक्तिकम् ।
मयूरव्यजनं धृत्वा करे चित्रा परामृशत् ॥ ३८-
हिमांशुमण्डलप्रख्यं दर्पणं स्वर्णभूषितम् ।
रत्नचित्रं करे धृत्वा तस्थावानन्दमञ्जरी ॥ ३८-
सुगन्धद्रव्यसम्भिन्नास्ताम्बूलदलवीटिकाः ।
रत्नपात्रे समादाय तस्थौ मदनमेखला ॥ ३८-
शतयोजनसंसर्पि दिव्यचन्दनपूरितम् ।
रत्नपात्रं करे धृत्वा तस्थौ भुवनमालिनी ॥ ३८-
मुक्ताजटितसौवर्णभृङ्गारजलपूरितम् ।
माणिक्यनालमादाय रत्नरेखा पुरःस्थिता ॥ ३८-
शरच्चन्द्रांशुधवलं दशावलितमौक्तिकम् ।
हस्तवासः करेधृत्वा पुरस्तथौ विहारिणी ॥ ३८-
स्वर्णपात्रे स्थितं दिव्यं नानास्वादुरसान्वितम् ।
आनन्दभोगमादाय माधुरी दक्षिणे स्थिता ॥ ३८-
लीलावचांसि यानीह प्रवक्ति पुरुषोत्तमः ।
तानि श्लाघयितुं तस्थौ सुन्दरीशानकोणगा ॥ ३८-
माध्वी मृदङ्गघोषेण वीणयाशावती सती ।
विद्युल्लता तथा तन्त्रीरवेणातिरसच्युता ॥ ३८-
वंशीवाद्येन लावण्यलहरी ललिताकृतिः ।
रागरङ्गा विनोदार्थं प्रयुक्तपरिभाषया ॥ ३८-
रागविद्यासु कुशला रागिणी रागविद्यया ।
उपतस्थुर्महाभागाः कृष्णं परमपूरुषम् ॥ ३८-
ततो नाना विधां चक्रुर्लीलां हास्यरसाधिकाम् ।
तदन्ते प्रियमाभाष्य वप्रच्छुस्ताः समुत्सुकाः ॥ ३८-
सख्य ऊचुः
भो नाथ पुरुषश्रेष्ठ प्रियस्त्वं च वयं प्रियाः ।
प्रियत्त्वभाजां या प्रीतिर्न चोपाधिकृता भवेत् ॥ ३८-
यद्युपाधिकृता प्रीतिस्तदा रूपं न सिद्ध्यति ।
तस्मात्प्रेमवतीनां नो यथावद्वक्तुमर्हसि ॥ ३८-
अवाग्विषयमत्युग्रहैतुकमनामयम् ।
त्वययेवास्माकमतुलं प्रेम विद्योतते प्रिय ॥ ३८-
शब्दोपाधौ कथं तच्च धर्तुं शक्ता वयं स्त्रियः ।
तस्मात्तत्प्रकटीकर्तुं न समर्थाः कदाचन ॥ ३८-
स्वयंवेद्यमिदं भाति कथं वाचां प्रचक्ष्महे ।
अस्मासु यद्भवेत्प्रेम त्वदीयं पुरुषोत्तम् ॥ ३८-
अधिकं वा समं न्यूनं कथं विद्मः प्रिया वयम् ।
त्वमेव वाचा तद्ब्रूहि तारतम्यविदो वयम् ॥ ३८-
सखीनामपि सर्वासां स्वस्वप्रेमनिरूपणे ।
विवादः शान्तिमाप्नोति त्वत्प्रेमश्रवणेन च ॥ ३८-
इति श्रुत्वा वचस्तासां परात्मा पुरुषोत्तमः ।
न वाग्वृत्तिव्यक्तियोग्य ज्ञात्वा प्रेमाब्रवीद्वचः ॥ ३८-
श्रीकृष्ण उवाच
भवतीभिर्यदुक्तं भो तत्तथैव न संशयः ।
स्वसंवेद्यमिदं [स्वयंवेद्यमिदं इ० पा० ।] प्रेम न वाचा वक्तुर्महति ॥ ३८-
रम्यैर्मनोहरैर्भावैर्लक्षणीयं भवेदपि ।
प्रेम रत्यात्मकं सख्यो रतिरेव रसोस्म्यहम् ॥ ३८-
तस्मान्मदात्मकं प्रेम ज्ञातव्यमिह सर्वथा ।
मत्स्वरूपं तु को वेत्ति को वा वक्तुं समीहते ॥ ३८-
निषेधमुखतो वेदा वर्णयन्ति विशारदाः ।
कथमन्ये वराकास्तु कालावच्छेदमूर्त्तयः ॥ ३८-
मत्स्वरूपमिदं प्रेम न शब्दविषयं भवेत् ।
तस्मान्मयापि नो वक्तुं शक्यतेऽन्यस्य का कथा ॥ ३८-
एवं ताः प्रत्युदीर्याय दर्पणं स्वपुरःस्थितम् ।
आदाय ताभ्यः प्रायच्छत्सन्मुखं पुरुषोत्तमः ॥ ३८-
प्रेमदत्ते प्रियेणास्मिन् दर्पणे योषितां तदा ।
पश्यन्तीनां मुखाब्जानि वितर्कः सुमहानभूत् ॥ ३८-
प्रेमप्रश्नोत्तरं वक्तुमात्मदर्शः प्रदर्शितः ।
किं सूचितमनेनेति कथं विज्ञायते हि तत् ॥ ३८-
स्वच्छ दर्पणवत् प्रेम स्वकीयं वक्ति किं प्रभुः ।
प्रतिबिम्बवदस्माकं बिम्बवत्स्वीयमित्युत ॥ ३८-
अथवा दर्पणे यद्वत् यथारूपं च दृश्यते ।
तथा भवेत्प्रेमनिभ मदीयमिति सूचितम् ॥ ३८-
प्रेमभेदनिरासार्थमैक्यसंसूचनाय किम् ।
रूपस्य प्रतिरूपस्य यथा तद्वद्भवेन्न किम् ॥ ३८-
इति संशयमग्नं स्वं सखीवर्गं परात्परः ।
भवतीनामयं तर्को मदाशयनिरूपकः ॥ ३८-
न मया विद्यते भेदो युष्माकं च मनागपि ।
अहं यूयं यूयमहमित्येषा मे मतिः प्रियाः ॥ ३८-
अभेदसूचनार्थाय दर्पणो वः पुरोधृतः ।
इति प्रहर्षजनकैर्वचोभिः समनन्दयत् ॥ ३८-
शिव उवाच
एवमानन्दिताः सर्वाः श्रुत्वा वाचः सुशोभनाः ।
प्रहर्षवेगविवशाः कृष्णस्य मुखपङ्कजम् ॥ ३८-
अङ्गुष्ठतर्जनीभ्यां गृहीत्वा चिबुकस्थलम् [गृहीतचिबुकस्थलाः इ० पा० ।] ।
चुचुम्बुः परया प्रीत्या ससीत्कारं गतत्रपाः ॥ ३८-
आलिलिङ्गुस्तथा चान्याः प्रशसंसुस्तथापराः ।
त्वययेतदुचितं नाथ यत्प्रियाणां प्रियङ्कराः [पियकरः इ० पा० ।] ॥ ३८-
इत्याहुरपराः सख्यः प्रेमनिर्भिन्नमानसाः ।
एतस्मिन्नन्तरे नाम्ना सुन्दरीति वराङ्गना ॥ ३८-
स्मितपूर्वमुवाचेदं वचनं प्रेमगर्विता ।
सुन्दर्युवाच
भवतीनामयं तर्को यद्यपि प्रियसम्मतः ॥ ३८-
तर्कशेषस्तथाप्यस्ति न प्रियेण प्रकाशितः ।
भवतीभिः स्वमत्यापि [स पत्यापि इ० पा०] स च नावगतः परम् ॥ ३८-
स्वीयोपरि प्रेम कीदृगिति पृष्टे प्रियेण हि ।
आत्मदर्शो दर्शितो वस्तत्र वक्ष्ये प्रियाशयम् ॥ ३८-
आत्मादर्शे यथा सम्यक् स्वस्वरूपं निरीक्षते ।
तदभावे स्वस्वरूपानुभवो नैव जायते ॥ ३८-
श्रुतिगीतमिदं तद्वत्स्वरूपं मे रसात्मकम् ।
मयानुभूयते सम्यक् प्रियापात्रसमाश्रयम् ॥ ३८-
अन्यथा मत्स्वरूपस्य न ममानुभवः क्वचित् ।
यथा धरागतं सूर्यो रसं पीत्वाभिवर्षति ॥ ३८-
तथा प्रियारसं मां च पीत्वा तद्भावपूरिताः ।
आनन्दयन्ति मामेव घनीभूतरसात्मकम् ॥ ३८-
दर्पणछद्मना सख्यः अयमर्थोऽपि सूचितः ।
इत्येतत्सुन्दरीवाक्यं श्रुत्वा सख्योतिविस्मिताः ॥ ३८-
भगवानपि पूर्णात्मा तदुक्तार्थममन्यत ।
श्रीकृष्ण उवाच
अन्वर्थं साधु ते नाम सुन्दरीति मम प्रियम् ॥ ३८-
त्वं मे प्राणाधिका चासि सर्वस्वं मे त्वमेव हि ।
त्वदधीनोऽस्म्यहं साध्वि प्रेमपाशनियन्त्रितः ॥ ३८-
त्वदुक्तं यन्मयोक्तं तत् त्वद्दृष्टं तन्मयेक्षितम् ।
यत्त्वयाङ्गीकृतं साध्वि मयाप्यङ्गीकृतं हि तत् ॥ ३८-
आवयोरन्तरं नास्ति यः करोति स पातकी ।
इत्येवं वचनं श्रुत्वा प्रियास्ताः प्रियभाषितम् ॥ ३८-
प्रहर्षं परमं जग्मुर्विषण्णां स्वामिनीं विना ॥ ३८-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे अष्टत्रिंशं पटलम् ॥ ३८-
अथ एकोनचत्वारिंशं पटलम्
पार्वत्त्युवाच
भगवन् देवदेवेश दिव्यज्ञानविशारद ।
अत्याश्चर्यकरी प्रोक्ता कथा ते जीवदुर्लभा ॥ ३९-
प्रादुर्भवन्ति देवेश सर्गेस्मिन् देवदानवाः ।
मनुष्यलौकेपि च ते सम्भवन्ति यदृच्छया ॥ ३९-
देवाः क्षमार्जवोपेताः दयादाक्षिण्यसंयुताः ।
जितेन्द्रिया जितक्रोधा दम्भमात्सर्यवर्ज्जिताः ॥ ३९-
अलोलुपाः सुशीलाश्च श्रद्धाभक्तिसमन्विताः ।
जिज्ञासवो [जितासवो इ० पा०] दृढाभ्यासा वेदशास्त्रार्थचिन्तकाः ॥ ३९-
तेषापि महादेव तत्त्वमेतत्सुदुर्लभम् ।
किं पुनर्दानवांशानां परद्रोहरतात्मनाम् ॥ ३९-
नास्तिकानां च धूर्तानां कृघ्नानां दुरात्मनाम् ।
वेदार्थदूषकानां च देहादिष्वर्थमानिनाम् ॥ ३९-
वैडालिकानामक्षपादशापविभ्रष्टचेतसाम् ।
सौगतानाञ्च बौद्धानां दिगम्बरमतस्पृशाम् ॥ ३९-
जैनमाघ्यमिकानां [जैन्यमाध्यमिकानामित्यपि पाठः] च चार्वाकाणां दुरात्मनाम् ।
वेदशास्त्रोज्झितानां च न मुक्ति क्वापि विश्रुता ॥ ३९-
यस्त्वया वासनासर्गस्तृतीयः परिकीर्त्तितः ।
यदर्थमुपदेशोऽयं तत्वज्ञानस्य धूर्जटे ॥ ३९-
अह तु श्रवणादेव कृतार्थास्मीति मे मतिः ।
प्राप्तिः सम्बन्धविषया नान्यथा तु कदाचन ॥ ३९-
तस्मान्मे श्रवणानन्दो रोचतेतितरां प्रभो ।
अप्राप्यः श्रवणानन्दः पापग्रस्तैर्दुरात्मभिः ॥ ३९-
तस्मात् संश्रोतुमिच्छामि प्रवक्तुं यदि मन्यसे ।
न त्वया सदृशः कश्चित्करुणामृतवारिधिः ॥ ३९-
यत्त्वयोक्तं महादेव सर्वास्ताः कृष्णयोषितः ।
प्रहर्षं परमं जग्मुर्विषण्णां स्वामिनीं विना ॥ ३९-
तत्र मे संशयो जातो देवदेव जगत्पते ।
स्वामिनीखेदमूलं मे कथयस्व यथातथम् ॥ ३९-
शिव उवाच
शृणु देवि प्रवक्ष्यामि स्वामिनीखेदकारणम् ।
नेत्रबन्धात्मिका लीला नीलाद्रिशिखरे कृता ॥ ३९-
तत्रेन्दिरानाम हित्वा सुन्दरीत्यवदत्प्रियः ।
तदेन्दिरावदद्वाक्यं सुन्दरी न भवाम्यहम् ॥ ३९-
नाम्नाहमिन्दिरा साक्षात्प्रियास्मि प्राणनायक ।
तदा कृष्णोवदद्वाक्यं शृण्वतीनां च योषिताम् ॥ ३९-
त्वयीन्दिरे सुन्दरीति भ्रमः सार्वदिको मम ।
ज्ञात्वापि त्वामिन्दिरेति क्षणादेव भ्रमद्धिया ।
जल्पितं सुन्दरीत्येतन्मयोक्तमवधार्यताम् ॥ ३९-
इत्येतद्वचनं श्रुत्वा सुन्दरीगौरवात्मकम् ।
किञ्चित्कलुषचित्ताभूत् सखीमण्डलमध्यतः ॥ ३९-
सर्वास्वेतासु घटते समः स्नेहः प्रियस्य हि ।
सुन्दर्यामधिकं प्रेम हेतुना केन युज्यते ॥ ३९-
सखीनां चापि सर्वासामहमेका वराङ्गना ।
मत्तः किमधिका जाता सौन्दर्यादिगुणादिभिः ॥ ३९-
स्वामिनीत्थं विमृष्य स्वे हृदये प्रेमपूरिते ।
तस्थौ समाहितमतिर्गूहयामास हृद्गतम् ॥ ३९-
ततो नीलाद्रिशिखरादागत्य मणिसद्मनि ।
प्रियाभिर्वेष्टितस्तत्र संस्थितः पुरुषोत्तमः ॥ ३९-
तत्र प्रियाभिः सम्प्रश्ने कृते दर्पणमादिशत् ।
आदाय दर्पणं सख्यस्तर्कयन्त्यो मुदं ययुः ॥ ३९-
स्वबुध्या सुन्दरी चापि सखीचित्तं समादधे ।
तत्समाहितमाकर्ण्य प्रसन्नः पुरुषोत्तमः ॥ ३९-
व्यक्तीकुर्वन्निजं प्रेम प्रोवाच वचनं तदा ।
अन्वर्थं साध्वी ते नाम सुन्दरीति मम प्रियम् ॥ ३९-
त्वं मे प्राणाधिका चासि सर्वस्वं मे त्वमेव हि ।
त्वधीनोस्म्यहं साध्वि प्रेमपाशनियन्त्रितः ॥ ३९-
त्वयोक्तं यन्मयोक्तं तत्त्वदृष्टं तन्मयेक्षितम् ।
यत्त्वयाङ्गीकृतं साध्वि मयाप्यङ्गीकृतं हि तत् ॥ ३९-
आवयोरन्तरं नास्ति यः करोति स पातकी ।
इत्यादिवचनं श्रुत्वा सुन्दरीप्रेमसूचकम् ॥ ३९-
उत्तम्भयन्ती भ्रूवल्लीमीषत्कलुषितेक्षणा ।
वक्रितग्रीवमवदत्स्वामिनी स्फुरिताधरा ॥ ३९-
एषा सखीसहस्राणां सुन्दरी सुन्दरप्रिया ।
किं कार्यं विद्यतेऽस्माभिर्गुणरूपविपर्ययात् ॥ ३९-
सुन्दर्येव प्रियैका चेदसुन्दर्यः कथं प्रियाः ।
भवन्ति सुन्दरास्यास्य मादृश्यौ वामलोचनाः ॥ ३९-
एवं वक्रोक्तिमाश्राव्य सखीनां पुरतः प्रियम् ।
अगमत्सहसोत्थाय निजकेलिगृहान्तरम् ॥ ३९-
सम्प्रेषयामास तदा कृष्णः कमललोचनः ।
प्रियामाननिरासार्थं दूतीं नाम्ना कलावतीम् ॥ ३९-
सन्धिकार्येककुशलां स्मितपूर्वाभिभाषिणीम् ।
सदुक्तिचतुरां धीरां युक्तिवादविचक्षणाम् ॥ ३९-
कलावतीं ततो गत्त्वा दृष्ट्वा मानवतीं च ताम् ।
निजकेलिगहे रम्ये स्थितामेकाकिनीं रहः ॥ ३९-
नानामन्त्रप्रयोगैश्च विषवेगं यथा भिषक् ।
वाक्प्रयोगैरभिनवैर्मानवेगं न्यवारयत् ॥ ३९-
प्राणादप्यधिके साध्वि किमेतदुचितं प्रिये ।
त्वं पत्युः प्राणसदृशी पतिः प्राणसमस्तवः ॥ ३९-
सखीवर्गसमस्तोऽपि इन्द्रियाणीव देहिनः ।
त्वमात्मेव प्रियस्यासि क्व मानावसरस्तव ॥ ३९-
पूर्णानन्दे पूर्णकामे गिरः प्रियतमे सति ।
न वक्तुं पुरुषो योग्यो यथा दूर्त्ते शठे खले ॥ ३९-
बिम्बाधरस्फुरणतो भ्रुवोरुत्तम्भनादपि ।
लौहित्याद्गल्लभित्तेश्च मानस्ते लक्ष्यते गुरुः ॥ ३९-
अन्तस्तापोष्णनिश्वासो दहत्यधरपल्लवम् ।
मिथ्या ग्लापयसे चाङ्गलतिकां मानवह्निना ॥ ३९-
दुःसहः क्षणविश्लेषः प्रियस्याननपङ्कजम् ।
अदृष्ट्वा यत्तु जीवेत तस्माच्च मरण वरम् ॥ ३९-
सखीनां च सहस्राणि सन्ति यद्यप्यनेकशः ।
त्वययेव रमते चित्तं कौमुद्यामिव शीतगोः ॥ ३९-
मान्यो मानिनि नायकः प्रमदया वाक्यैः सुधासन्निभै-
र्वांच्यः कोमलपाणिपङ्कजपुटं बध्वाभिवन्द्यः सदा ।
तद्वाक्यं प्रियमप्रियं न हृदये धार्यं सतीनामयं
स्वाचारः कथितो मथा तमनु किं त्यक्त्वा वृथा तप्यसे ॥ ३९-
किं मानिनि बहूक्तेन कुरु मद्वचनं यथा ।
गाढमानपरिक्लिष्टं औदासिन्यं व्रजेत्प्रियः ॥ ३९-
तस्मान्मद्वचने श्रद्धां कृत्वा तन्निकटं व्रज ।
विलम्बेन तु मानोऽयं परां कोटिं गमिष्यति ॥ ३९-
प्रियस्त्वयि प्रयातायामकस्माज्जातकश्मलः ।
हास्यक्रीडारसावेशरहितो वर्त्ततेधुना ॥ ३९-
त्वामाह्वायितुमेवाहं प्रेषितास्मि प्रियेण हि ।
आज्ञापयसि चेत्कान्ते तमेवेहानयाम्यहम् ॥ ३९-
शिव उवाच
श्रुत्वा कलावतीवाक्यं स्वामिनी मानमन्थरा ।
मानाद्रिशिखरात् किंचिदुत्तीर्णा वाक्यमब्रवीत् ॥ ३९-
स्वामिन्युवाच
कलावति प्रिये मानो न कदापि मया कृतः ।
सुन्दरीगुणमाहात्म्यश्रवणं मे विषादकृत ॥ ३९-
मनुते चेत्प्रियस्त्वेकां सुन्दरीं गुणगुम्फिताम् ।
कलावति तदा कार्यं किमस्माभिः प्रियस्य हि ॥ ३९-
इति मत्वाहमुत्थाय प्राप्तास्मि भवनं रहः ।
सुखी भवतु सुन्दर्या गुणवत्त्या गुणी प्रियः ॥ ३९-
कलावत्युवाच
नाग्रहः सति कर्त्तव्यस्त्वया सरलनायके ।
नायकाः सन्ति चत्वारः स्वलक्षणविलक्षिताः ॥ ३९-
अनुकूलो दक्षिणश्च धृष्टश्च शठ एव च ।
एकपत्नीव्रतधरः अनुकूल उदीरितः ॥ ३९-
अन्यस्यां बद्धचित्तोऽपि पूर्वस्यां स्नेहगौरवम् ।
न त्यजत्येव सततं स च दक्षिणनायकः ॥ ३९-
त्वमेका मम सर्वस्वं नान्या मे कामिनी प्रिया ।
समक्षमेवं वदति परोक्षं योऽपराधकृत [सः शठः इति शेषः] ॥ ३९-
ज्ञातापराधः शपथान् कुरुते गूढचेष्टितः ।
कुटिलं तं विजानीयान्नायकं शठसंज्ञकम् ॥ ३९-
कृतदोषोऽपि निःशङ्कस्ताड्यमानो न लज्जते ।
प्रत्यक्षेष्वपि दोषेषु मिथ्यावाक् धृष्ट उच्यते ॥ ३९-
एवं चतुर्विधेष्वेषु नायकेषु मनस्विनि ।
अनुकूलो दक्षिणश्च कीर्त्यतेऽसौ तव प्रियः ॥ ३९-
न शठोऽयं धृष्टोऽयं किं मुधा खिद्यसे हृदि ।
इत्युक्ते विस्मयं प्राप्ता पुनः प्राह कलावतीम् ॥ ३९-
इति माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे एकोनचत्वारिंशं पटलम् ॥ ३९-
अथ चत्वारिंशं पटलम्
स्वामिन्युवाच
कलावति महाप्राज्ञे यत्त्वयोक्तं प्रियाश्रयम् ।
विरुद्धमिव मे भाति विरुद्धैलक्षणैः किल ॥ ४०-
एकपत्नीव्रतधरोऽनुकूल इति कीर्त्तितः ।
दक्षिणो बहुपत्नीकः सर्वास्वविषमः स्मृतः ॥ ४०-
एकस्मिन्नायके साध्वि कथमेतद्द्वयं भवेत् ।
अश्रद्धेयमिवाभाति यदि जानासि तद्वद ॥ ४०-
कलावत्युवाच
शृणु स्वामिनि प्रवक्ष्यामि तव प्रश्नोत्तर शुभम् ।
यस्य श्रवणमात्रेण स्वास्थ्यं तव भविष्यति ॥ ४०-
एकदा पुष्परागाद्रौ क्रीडनाय गतः प्रियः ।
आरुह्य शिविकां दिव्यां सुवर्णकलशोज्ज्वलाम् ॥ ४०-
उपर्युपरिविन्यस्तनानातोरणमण्डिताम् ।
हंसपारावतशुकपिकसारसनादिताम् ॥ ४०-
नवरत्नविचित्राभां कामगां च मनोजवाम् ।
शतयोजनविस्तीर्णां नानाक्रीडारसालयाम् ॥ ४०-
काञ्चने मध्यकलशे विन्यस्ते चोपरिस्थिते ।
कोटिचन्द्रप्रभागौररत्नेनोल्लासिताम्बराम् ॥ ४०-
तस्मिन्विमानप्रवरे संस्थितः पुरुषोत्तमः ।
द्विषट्सखीसहस्रेषु मध्ये चन्द्र इवोडुषु
मनोनुसारिगमनं विमानं कृष्णयोषिताम् ।
तीर्यगूर्ध्वमधश्चापि पुष्पाद्रिशिखरेऽपतत् ॥ ४०-
तत्र [तत्र यश्च नदो नाम्ना नदः पीयूषपूरितः इ० पा० ।] चन्द्रप्रभो नाम्ना हृदः पीयूषपूरितः ।
रचितस्वर्णसोपानः स्वर्णपङ्कजभूषितः ॥ ४०-
अस्ति दक्षिणतस्तस्य सरः परमसुन्दरम् ।
नाम्ना पञ्चनदं ख्यातं शतयोजनविस्तरम् ॥ ४०-
अधोधः कल्पितैः सप्तशतैर्मणिचितान्तरैः ।
जातरूपमयैर्दिव्यसोपानैर्बद्धमायतैः ॥ ४०-
वैदूर्यपद्मिनीखण्डैः पद्मरागसरोरुहैः ।
मराललीलापतनैर्मण्डितं तत्र तत्र ह ॥ ४०-
तत्र या याः कृताः क्रिडा जलस्थलविभेदतः ।
त्वया स्वपतिना साकं तास्ताः स्मर भामिनि ॥ ४०-
प्रियः सरसि सर्वाभिः सखीभिः परिवेष्टितः ।
समन्तान्निपतद्वर्षैराहतो यत्र विद्रुतः ॥ ४०-
आरुरोह ततस्तूर्णं सरोविश्रान्तिमण्डपम् ।
प्रतिजग्मुः प्रियाः सर्वास्तत्रोत्तीर्णसरोवराः ॥ ४०-
तावत्पपात सहसा पुनरेव सरोजले ।
उत्तीर्णगम्भीरजलः कुत्रचिद्विजनस्थले ॥ ४०-
अनेककुञ्जगहने प्रच्छन्नोऽभवदेकलः ।
मृगयन्त्यः प्रियाः सर्वा विचेरुस्तत्र तत्र च ॥ ४०-
अहं विचिन्वती तत्र गता गहनधामनि ।
विलीय संस्थितं कृष्णमद्राक्षमतिसुन्दरम् ॥ ४०-
तत्र मामागतां सुभ्रु विलोक्य प्रहसन् प्रियः ।
नासाग्राहिततर्जन्या कौतुकी सन्न्यवारयत् ॥ ४०-
प्रिय उवाच
कलावति कलाभिज्ञे मां विचिन्वन्ति योषितः ।
न पश्यन्ति परं चात्र विभ्रमन्ते यतस्ततः ॥ ४०-
त्वमप्यत्रैव सन्तिष्ठ मया सह कलावति ।
त्वया सह करिष्यामि लीलाखेल रहः स्थितः ॥ ४०-
इत्युक्ताहं स्थिता तत्र बहुमानेन मानिता ।
तत्र नानाविधाः क्रिडाः प्रियश्चक्रे मया सह ॥ ४०-
तदा मया कृतः प्रश्नः प्रियमुद्दिश्य भामिनि ।
नायकाः सन्ति चत्वारस्तेषु वा को भवानिति ॥ ४०-
ततः प्रश्नोत्तरं प्राह कृष्णः कमललोचनः ।
तदहं ते प्रवक्ष्यामि यथाश्रुतमनिन्दिते ॥ ४०-
श्रीकृष्ण उवाच
अनुकूलो दक्षिणश्च द्वैविध्यं मयि वर्त्तते ।
तदन्यत्र विरुद्धं स्यादविरुद्धं मयि स्फुटम् ॥ ४०-
रसोऽहं मूर्त्तिमान् साक्षात् घनीभूतः कलावति ।
तस्याद्यभागं मां विद्धि द्वितीयं स्वामिनीं प्रियाम् [पराम् इ० पा० ।] ॥ ४०-
नावयोर्विद्यते भेदो भोक्तृभोग्यस्वरूपयोः ।
मदात्मा स्वामिनी प्रोक्ता स्वामिन्यात्माहमेव च ॥ ४०-
मदन्यः पुरुषो नास्ति न च स्त्री स्वामिनीपरा ।
नैकाकी रमते यस्मात् द्विधाभूतो रसस्ततः ॥ ४०-
पुंस्त्रीरूपविभागाभ्यां रसोऽहं विलसाम्यहम् ।
ब्रह्मानन्दमयीं साक्षान्न लक्ष्मीमपि संस्पृशेत् ॥ ४०-
तेनाहमनुकूलोऽस्मि नायकः कमलेक्षणे ।
यथाहं दक्षिणश्चास्मि तत्प्रकारं वदामि ते ॥ ४०-
यथानर्घस्य रत्नस्य परितः किरणावलिः ।
प्रसर्पति न सा भिन्ना मणितस्तु विचारतः ॥ ४०-
स्वामिन्या एव ताः सख्यः कलारूपाः कलावति ।
न स्नामिन्या विभेदोस्ति सखीनामणुमात्रतः ॥ ४०-
अत एवासु सर्वासु द्रवीभूतो वसाम्यहम् ।
बहिश्चापि घनीभूतस्ताभिः क्रीडारतोस्म्यहम् ॥ ४०-
क्रीडमानोऽपि सर्वाभिः स्वामिनीप्रेमविह्वलः ।
अतोऽहं दक्षिणश्चास्मि नायको हि कलावति ॥ ४०-
अत्रापि नैव विहतमानुकूल्यं विचारतः ।
भेदद्वयोपचारो हि कदाचिन्मयि वर्तते ॥ ४०-
इति मानिनि यत्पृष्टं त्वयैतत्कथितं मया ।
प्रियेण कथितं साक्षात्स्वमुखेन यथा तथा ॥ ४०-
प्रश्नोत्तरावसाने च विचिन्वन्त्यश्च ताः प्रियाः ।
घनकुञ्जान्तरे लीनं दृष्ट्वाजग्मुस्त्वरान्विताः ॥ ४०-
ततः प्रियेण सहिता आगतास्तव सन्निधिम् ।
एतत्सर्वं तु जानासि विशेषस्तु मयोदितः ॥ ४०-
तस्मान्मानिनि मानस्ते प्रियेण सह नोचितः ।
आनन्दोऽपि निरानन्दः प्रतिभाति विना त्वया ॥ ४०-
तस्मादुत्तिष्ठ तत्पार्श्वमलंकुरु मनस्विनि ।
त्वया विरहितं चण्डि प्रियं नो वीक्षितुं क्षमाः ॥ ४०-
इति पाण्डित्यचातुर्यं कलावत्या प्रयोजितम् ।
निशम्य हृष्टवदना वाक्यं चेदमुवाच ह ॥ ४०-
स्वामिन्युवाच
कलावति महाप्राज्ञे मानस्ते वचसा गतः ।
तथापि [भामिनीनां चेत्यपि पाठः ।] मानिनीनां च समयान् वेत्सि हृद्गतान् ॥ ४०-
आगच्छामि यदि स्वैरं गौरवं मेऽपगच्छति ।
तस्मात्प्रियः करे धृत्वा सुखं नयतु मामिति ॥ ४०-
इत्थं तया निगदिता सखी प्राप्ता प्रियान्तिकम् ।
प्रहृष्टवदनां दृष्ट्वा प्रियोऽपि मुमुदे भृशम् ॥ ४०-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे चत्वारिंशं पटलम् ॥ ४०-
अथ एकचत्वारिंशं पटलम्
पार्वत्त्युवाच
कलावती यदा कान्तदूती प्राप्ता प्रियान्तिकम् ।
ततः किमभवत्तत्र तन्मे ब्रूहि महेश्वर ॥ ४१-
शिव उवाच
शृणु देवेशि वक्ष्यामि कथां दिव्यां रसाश्रयाम् ।
यस्याः श्रवणजानन्दो न मुक्तावपि विद्यते ॥ ४१-
प्रहृष्टवदनाम्भोजां दृष्ट्वा दूतीं कलावतीम् ।
स्मयन्निव प्रियः प्राह शृण्वतीनां च योषिताम् ॥ ४१-
कलावति कलाभिज्ञे किमुक्तं प्रियया तया ।
पिपासोरिव पीयूषं तद्वचस्तृप्तये मम ॥ ४१-
तत्सुधानिधिपीयूषप्रणाली त्वं कलावति ।
सखीलतासमाश्लिष्टकल्पद्रुमं निषिञ्च माम् ॥ ४१-
कलावत्युवाच
प्राणनाथ प्रिया तेऽद्य मानमास्थाय संस्थिता ।
गत्वा मया बहुविधैर्वाक्यैरुद्बोधिता मुहुः ॥ ४१-
मानाद्रिशिखरारूढा मां कथञ्चिदुवाच ह ।
कलावति प्रिये मानो न कदापि मया कृतः ॥ ४१-
सुन्दरीगुणमाहात्म्यश्रवणं मे विषादकृत् ।
मनुते चेत्प्रियस्त्वेकां सुन्दरीं गुणगह्वराम् ॥ ४१-
अस्माभिर्गुणहीनाभिः कार्यं तस्य न विद्यते ।
इत्यादिविविधैर्वाक्यैर्वदन्ती सा मनस्विनी ॥ ४१-
युक्तियुक्तैश्च वचनैस्तोषिता सा मयापि हि ।
त्यक्तरोषा प्रियं च त्वां हस्तग्राहमपेक्षते ॥ ४१-
स्त्रीणां जातिस्वभावोऽयं तस्मात्कुरु तथा प्रभो ।
कलावतीवचस्तथ्यं मन्यमानः परात्परः ।
आत्मारामोऽपि तत्प्रीत्यै आजगाम तदन्तिकम् ॥ ४१-
श्रीकृष्ण उवाच
नोचितस्ते प्रिये साध्वि मानो मयि निरागसि ।
त्वदात्मकत्वात्सख्यो मे सर्वाः प्रियतमा अपि ॥ ४१-
लहर्ययः सलिलस्येव यथाग्नेर्विस्फुलिङ्गकाः ।
पृथक् न सन्ति ते तद्वत्सख्यो भिन्ना न ते क्वचित् ॥ ४१-
तासु सर्वासु यत्प्रेम मदीयं परिवर्त्तते ।
अनेकधापि विलसत् त्वययेव पर्यवस्यति ॥ ४१-
इति सत्येन वचसा प्रार्थयामि मुहुर्मुहुः ।
स्वसङ्केतं समायाहीत्युक्त्त्वा जग्राह तत्करम् ॥ ४१-
गृहीते स्वकरे पत्या मावपूरितमानसा ।
तीर्यक्कटाक्षविशिखं सन्दधाना स्मिताधरा ॥ ४१-
चुम्बितालिङ्गिता प्रेम्णा प्रियेणोत्थाप्य सत्वरम् ।
प्रियांसारोपितभुजा स्वीयांसारूढतद्भुजा ॥ ४१-
स्वसङ्केतं समागत्य यथापूर्वं निषेदतुः ।
मुद्रमापुः परां सख्यो दृष्ट्वा तं प्रियया युतम् ॥ ४१-
हासक्रीडावसाने तां प्रियः प्राह हसन्निव ।
प्रिये विज्ञाप्तुमिच्छामि यदि ते श्रवणे स्पृहा ॥ ४१-
अवाच्यं तत्तु जानीहि तथापि कथयामि ते ।
कदाचिन्मोहजलधौ यदा मग्ना भविष्यथ ॥ ४१-
तदेयं सुन्दरी साक्षाद्भवतीरुद्धरिष्यति ।
यदा यदा महामोहजलधौ परिमज्जथ ।
तदा तदोद्धरित्रीयं भवतीर्नात्र संशयः ॥ ४१-
यदेनामवलम्ब्यैव सख्यः सर्वा भ्रमार्णवम् ।
तरिष्यन्तीति विज्ञातवतो मे सुन्दरी प्रिया ॥ ४१-
सुन्दर्ययामधिकः [अधिकं प्रेम इ० पा० ।] प्रेम हेतुस्ते विनिरूपितः ।
इति प्रियवचः श्लक्ष्णं श्रुत्वा सर्वा विसिस्मिरे ॥ ४१-
तां सर्वाः पूजयामासुः स्वामिन्याद्याश्च सुन्दरी ।
मनोज्ञभाषणपरैर्वचोभिः कुसुमैरिव ॥ ४१-
स्वभावशीतलै रम्यैः स्वभावैश्चन्दनैरिव ।
प्रसन्नाग्निविनिर्दग्धहृत्कालर्ष्यश्च धपकः ॥ ४१-
मानांधतमसध्वंसप्रसादैरिव दीपकैः ।
ततो बहुतरे काले यदा जाता सुमङ्गला ॥ ४१-
[अक्षरान्तःस्थिताक्षरातीतप्रतिबिम्बभूतकेवलधामविहारिणी-नामन्तरावृणोत्येषा सुमङ्गला अक्षरहृदाकाशे तत्सत्त्वात् । ब्रह्मानन्दविहारिणीदर्शनलालसमानसस्याक्षरब्रह्मणोऽपि निजधामान्तर्दुष्प्रवेशत्वात् कुत एतस्यास्तत्र प्रवृत्तिरिति ब्रह्मानन्दरसज्ञचरणाः किलाज्ञापयन्ति ।] तदाविष्टः सखीवर्गो ययाचे प्रियमीप्सितम् ।
दुःखाति दुःखमिति वः प्रार्थितं चेति बोधिताः ।
न शिक्षावचनं चक्रुरिच्छाशक्तिविमोहिताः ॥ ४१-
वियोगदलमाश्रित्य यदा क्रीडति वै रसः ।
तद्रसानुकूलगतिर्विमोहयति सुमङ्गला [तत्कालानुकूलगतिर्विमोहयति सुमङ्गला इ० पा० ।] ॥ ४१-
तदा प्रियः सखीः प्राह शृणुध्वं मम भाषितम् ।
निवार्यमाणा हि मया दुरन्ताच्च मनोरथात् ॥ ४१-
न निवृताश्च भो सख्यो यूयमाग्रहतत्पराः [आग्रहमेदुराः इ० पा० ।] ।
नानादुःखमयीं बाललीलां द्रक्ष्यथ मा चिरम् ॥ ४१-
विस्मरिष्यथ मां तत्र किमन्यदधिकं ब्रुवे ।
तथापि सुन्दरी ह्येषा तारयिष्यति तत्तमः ॥ ४१-
मता प्रबोधिता सम्यक् कथयित्वा विनिर्णयम् ।
इति प्रियवचः श्रुत्वा सर्वाः सख्यो मुदान्विताः ॥ ४१-
प्रसन्नानन्दजलधौ निमग्नाः शक्तिमोहिताः ।
फले विलम्बमाज्ञाय पुनस्ताः प्रार्थनोत्सुकाः ।
[यदास्माकम्प्रियं चेच्छ तदा पूरय चेप्सितम् इत्यपि पा० ।] यदा तदा प्रियश्चक्रे तन्मनोरथपूरणम् ॥ ४१-
इति माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे एकचत्वारिंशं पटलम् ॥ ४१-
अथ द्विचत्वारिंशं पटलम्
अतः परं प्रवक्ष्यामि प्रस्तुतं शृणु सुन्दरि ।
यच्छ्रुत्वा विविधा लीला हृद्यारूढा भवेत्प्रिये ॥ ४२-
सन्तोषानन्दभूम्योस्तु सन्धौ पुष्पाद्रिरुत्तमः ।
योजनायुतमानेन नानाश्चर्यमयो महान् ॥ ४२-
नानाधातुमयः श्रीमान् नानामणिविभूषितः ।
त्रीण्यस्याद्रिप्रधानस्य शिखराणि द्युमन्ति च ॥ ४२-
पावमानं महारम्यं विभ्राजमिति तद्भिदा ।
पावमाने तु शिखरे नित्यं सङ्क्रीडते हरिः ॥ ४२-
नित्यं सङ्क्रीडतोरेव स्वामिनीकृष्णयोरपि ।
श्रमघर्मजलस्रावो महानासीच्च देहतः ॥ ४२-
तद्वारिपूर्णं यत्रास्ते सरः परमसुन्दरम् ।
शतयोजनमानेन रत्नसोपानभास्वरम् ॥ ४२-
भ्रमद्भ्रमरसंशोभि सरोजवनसङ्कुलम् ।
पक्षिणां स्वर्णपक्षाणां कुलैर्मण्डितसैकतम् ॥ ४२-
तस्मात्प्रवृत्ता सरसो नाम्ना सा यमुना नदी ।
अगाधतोया गम्भीरा बहुलावर्तभीषणा ॥ ४२-
पावमानात्पतन्ती सा नदी विरजमस्तके ।
शतैकयोजनोत्तुङ्गे धाराध्वनितगह्वरे ॥ ४२-
सन्तोषभूमिकां प्लाव्य किञ्चिद्वैराग्यभूमिकाम् ।
चिदानन्दमयीं भूमिं किञ्चिदानन्दभूमिकाम् ॥ ४२-
रतिभूमिं प्लावयन्ती याति भूमिं प्रकाशिकाम् ।
प्रकाशानन्दभूम्योऽस्तु ह्यन्तराले महासरः ॥ ४२-
सपादलक्षयोजनमांनेन परिविस्तृतम् ।
समुद्र इव गम्भीरं रत्नसोपानसुन्दरम् ॥ ४२-
पूरयन्ती पुनस्तस्मान्निर्याति ज्ञानभूमिकाम् ।
भुक्तिभूमिं समाप्लाव्य याति प्रेमात्मिकां भुवम् ॥ ४२-
प्रेमात्मिकां भुवं प्लाव्य सुधाब्धौ विलयङ्गता ।
रसस्य रममाणस्य दलाभ्यां गिरिनन्दिनि ॥ ४२-
तत्स्यन्दमात्रां यमुनां चिन्तयेत्तदभेदतः ।
यमुनानिलसंसर्गसमुत्थानन्दसागरः ।
कूटस्थं गणितानन्दं पूरयत्येव सन्ततम् ॥ ४२-
परब्रह्म रसः कृष्णः तस्यापि द्रवरूपिणीम् ।
यमुनां केन तुलयेद्रसानन्दजलात्मिकाम् ॥ ४२-
गोमेदखण्डे यमुनाप्रवाहो योजनात्मकः ।
तत्र पीतमिव स्वच्छं जलं पीयूषसन्निभम् ॥ ४२-
उभयोः कूलयोस्तस्याः कुट्टिमानि बृहन्ति च ।
नानारत्नमयस्तम्भमण्डपानि द्युमन्ति च ॥ ४२-
गुञ्जद्भ्रमरपुष्पालिलताकुञ्जावृतानि च ।
चतुर्लक्षाणि देवेशि [महान्त्युज्ज्वलानि च इ० पा० ।] महस्तोमोज्वलानि च ॥ ४२-
उपर्यधः स्थितास्तेषां पक्षिणश्चित्रपक्षकाः ।
कुञ्जसञ्चारिणः केचित् केचिन्मण्डपसंस्थिताः ॥ ४२-
कुट्टिमान्तःस्थिताः केचिद्गायन्तो मधुरस्वराः ।
वज्रखण्डप्रवेशोऽस्यादशयोजनमानतः ॥ ४२-
पयः फेननिभं तत्र दृश्यते सलिलं शिवम् ।
तावानेव प्रवाहोस्यास्तटयोः कुट्टिमानि च ॥ ४२-
स्वर्णभक्तिविचित्राणि रत्नस्वस्तिकवन्ति च ।
चतुर्द्वाराणि सर्वाणि मुक्तातोरणवन्ति [चतुर्द्वाराणि मुक्तानां नानातोरणवन्ति व इ० पा० ।] च ॥ ४२-
मणिमण्डपयुक्तानि स्वर्णस्तम्भोज्वलानि च ।
वज्रमुक्ताप्रवालाढ्यविष्टरास्तरितानि च ॥ ४२-
रसानन्दात्मनां यत्र पक्षिणां कलकूजितैः ।
श्रवणानन्दसन्दोहं वर्षद्भिः सुखमीयते ॥ ४२-
पुष्परागमये खण्डे चिदानन्दात्मभूमिके ।
श्यामश्वेतजला भाति प्रविष्टा यमुना नदी ॥ ४२-
शतयोजनमानेन विंशालास्तत्प्रवहकाः ।
स्वर्णमाणिक्यसोपाना फुल्लस्वर्णाम्बुजाकुला ॥ ४२-
पतत्पद्मरजःपुञ्जपिञ्जरीकृतसज्जला ।
हंसकारण्डवानेककोलाहलतटोत्सवा ॥ ४२-
अन्तःस्थारत्नसिकताचाकचक्यलसज्ज्ला ।
एकेनोनं च [एकेन न्यूनं शतकं इ० पा० ।] शतकं योजनानां प्रमाणतः ॥ ४२-
चिदानन्दमहीव्याप्ता पादेनानन्दभूमिका ।
आनन्दभूमिसञ्चारियमुनातटसीमनि ॥ ४२-
तीर्थसप्तकमीशानि स्मरेल्लीलारसाश्रयम् ।
जलावतारमार्गाणां तटसीमवनानि [तटसीम्नि इ० पा० ।] तु ॥ ४२-
वनं चान्द्रमसं नाम द्वितीयं नीलकाननम् ।
तृतीयं पुष्पदन्ताख्यं तूर्यमानन्दकाननम् ॥ ४२-
पञ्चमं हेमकूटाख्यं षष्ठं तत्तारकूटकम् ।
गारुडं नाम विख्यातं सप्तमं वनमुच्यते ॥ ४२-
वने चान्द्रमसे देवि नाम्ना चान्द्रमसो महान् ।
न्यग्रोधराज आभाति वैदूर्यविलसच्छदः ॥ ४२-
चक्षुष्मत्पद्मरागोऽथ फलस्फारप्रभाचितः ।
स्वर्णाङ्कुरजटाप्रान्तलम्बिनमौक्तिकगुच्छकः ॥ ४२-
दिव्यपक्षिकृतावासशाखान्दोलनविभ्रमैः ।
दर्शनादन्तरात्मानं चमत्कुर्वन्नटो यथा ॥ ४२-
फलापह्नुतचञ्चुश्रीपत्रापह्नुतपत्रकाः ।
महाराजेति कृष्णेति वाचा च दृष्टव्यक्तिकाः ॥ ४२-
माध्वीकश्रवणां दिव्यां नानाकलपदांचिताम् ।
गिरं च कीरनिवहाः संसृजन्ति कुतूहलम् ॥ ४२-
यस्याधस्तात् समाभाति शशिकान्तमणिस्थली ।
अखण्डचन्द्रकान्तोद्यत्प्रभापुञ्जसुपेशला ॥ ४२-
यद्दीर्घविटपालम्बमानान्दोलनविभ्रमाः ।
सख्यः परस्परं यस्यां प्रतिबिम्बभुजो भुवि ॥ ४२-
यदालवालवद्भाति माणिक्यवरकुट्टिमः ।
चतुर्भिः काञ्चनस्तम्भैर्मुक्तावैदूर्यभूषितैः ॥ ४२-
उपर्यर्कमणिकॢप्तमण्डपच्छाययाविलः [छाययान्वितः इ० पा० ।] ।
विष्वग्विततविटपाक्रान्तप्रान्तमहीतलः ॥ ४२-
न्यग्रोधमूलसंसूतकल्पद्रुमलतामधः [संसृत इ० पा० ।] ।
दिव्यपल्लवपुष्पाढ्यो रत्नसिंहासनोत्तमे [पुष्पाढ्यां इ० पा० ।] ॥ ४२-
क्रीडार्थमागतस्तत्र तिष्ठते पुरुषोत्तमः ।
योजनायुतमाणिक्यकुट्टिमस्थाः सखीगणाः ॥ ४२-
हसन्तो हासयन्तश्च दिव्यक्रीडाकुतूहलैः ।
मञ्जुस्वरेण गायन्ति प्रियस्यैव यशोऽमलम् ॥ ४२-
तिष्ठन्त्यत्र महोद्याने तत्स्थानपरिचारिकाः ।
चतुर्विंशतिर्देवेशि सहस्राणीति संख्यया ॥ ४२-
तासां सौधानि शुभ्राणि मणिद्वाराणि पार्वति ।
प्रवालदेहलीकानि विष्वक् न्यग्रोधमण्डलम् ॥ ४२-
द्विपङ्क्तिभाञ्जि रम्याणि साप्तभौमानि सुन्दरि ।
तावन्त्येव विराजन्ते वीथीयुक्तानि मध्यतः ॥ ४२-
अन्योन्यपङ्क्तिस्थितहर्म्यलम्बद्दोलासमारूढसखीसमूहः [सहसः ।] ।
अन्योन्यसङ्घट्टन [काकतालीकरः इ० पा० ।] पाणिपालीकरः पुनः श्लेषमुपैति गायन् ॥ ४२-
हेमप्राकारकलितमिदं चान्द्रमसं वनम् ।
यमुनाभिमुखे यस्य द्वारमाभाति काञ्चनम् ॥ ४२-
द्वारापसव्यसव्यस्थौ कुट्टिमौ रत्नकाञ्चनौ ।
महाचतुःस्तम्भलसन्मण्डपाडम्बरस्पृशौ ॥ ४२-
ततः सोपानमार्गेण गन्तव्या यमुना नदी ।
सोपानानि सहस्रे द्वे द्वे शते च दशोत्तरे ॥ ४२-
पद्मरागार्कवैदूर्यप्रवालशशिगारुडैः ।
मुक्तेन्द्रनीलगोमेदपुष्पवज्रहिरण्मयैः ॥ ४२-
पुनः पुनः क्रमादेतैः सोपानैः प्रान्तमण्डपैः ।
अधोघः कल्पितैः सम्यक् गम्यते यमुना नदी ॥ ४२-
मणिकाञ्चनसन्नद्धा यत्र नौकाः सुपेशलाः ।
वायूद्धूतध्वजपटाः विभ्रमन्ते यतस्ततः ॥ ४२-
अनेकपोतसंस्थासु सखीषु पुरुषोत्तमः ।
मध्यपोतस्थितः सम्यक् राजते तिसृभिर्युतः ॥ ४२-
स्वामिनी वामभागस्था दाडिमीपुष्पभांशुकाः ।
इन्दिरा सुन्दरी चोभे पुरः सव्यापसव्ययोः ॥ ४२-
इन्दिरा कृष्णपक्षीया सुन्दरी स्वामिनी परा ।
हास्य केलिविहारेषु विवादेषु रसात्मसु ॥ ४२-
तेनेयमिन्दिरा साक्षात्स्वामिनीप्राणवल्लभा ।
सुन्दरी चापि कृष्णस्य प्राणाधिवल्लभा हि सा ॥ ४२-
एवं क्रीडारसानन्दसखीभिः पुरुषोत्तमः ।
वने चान्द्रमसे कृष्णः सेवते च यदृच्छया ॥ ४२-
इति माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे द्विचत्वारिंशं पटलम् ॥ ४२-
अथ त्रिचत्वारिंशं पटलम्
शिव उवाच
नीलोद्यानेऽपि देवेशि कदाचित्पुरुषोत्तमः ।
सखीसहस्रैरागत्य क्रीडते स्वामिनीमुखैः ॥ ४३-
अखण्डमाणिक्यशिलाकल्पिता नीलभूमिका ।
अन्तरान्तरितामुक्तावज्रवैदूर्यविद्रुमैः ॥ ४३-
यत्र वाप्यः सुधापूर्णाः काञ्चनोत्पलमालिनः [मालिनी इ० पा० ।] ।
प्रवालपुष्पाभरणा लतोल्लासितमण्डपाः ॥ ४३-
उपर्युपरिविन्यस्तभूमिस्थपरिचारिकाः ।
वीणामृदङ्गघोषेण घोषयन्त्यो वनस्थलीम् ॥ ४३-
रुचिरांशुतडिद्दीप्तरत्नभूषणभूषिताः [चीरांशुतडिदुहीप्त इ० पा० ।] ।
नानारसकलाभिज्ञा यशो गायन्ति संहताः ॥ ४३-
चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः ।
द्विपङ्क्तया परितस्तासां मन्दिराण्युज्वलन्ति च ॥ ४३-
तन्मध्यभूमौ देवेशि क्रीडासौधमनुत्तमम् ।
कोटिचन्द्रप्रभापुञ्जधिक्कारिमणिकल्पितम् ॥ ४३-
चतुर्दिक्षु लसत्स्वर्णस्तम्भराजिर्विराजितम् ।
प्रतिस्तम्भं प्रविन्यस्तपुत्रिकाभिरलङ्कृतम् ॥ ४३-
मुक्ताप्रवालरचितं कपाटद्वारतोरणम् ।
हंसपारावतशुकैर्भित्तिशङ्कुकृतास्पदैः ॥ ४३-
अन्योऽन्यं वादिभिरिव क्षिप्ता वाचो जिगीषया ।
मनः श्रोत्रहरा यत्रानन्दयन्ति सखीगणान् ॥ ४३-
सौधाङ्गणचतुर्दिक्षु कुट्टिमानि बृहन्ति च ।
मण्डपाट्टालयुक्तानि मणिस्तम्भशतानि च ॥ ४३-
दीर्घिकास्तेषु दिव्यन्ति सृजन्त्यः सलिलोन्नतिम् ।
कल्पद्रुकुसुमामोदसुवासितजलाः शिवाः ॥ ४३-
नर्त्तक्यो यत्र नृत्यन्तिं नाट्यविद्याविशारदाः ।
यन्नूपुररणत्काराः श्रूयन्ते कुञ्जभूमिषु ॥ ४३-
कुट्टिमनिकटारूढाश्चत्वारो जम्बुपादपाः [चतुर्दशश्लोकोऽयं कुट्टिमनिकटनिरूढाश्चत्वारो जम्बपादपप्रवराः । शाखाशतविचिन्तयन्तः कितव इवेह काननस्योच्चैः ॥ ४३-१४ ॥ ४३-इत्थमार्याछन्दसोपनिबद्ध प्राचीन पुस्तकेषूपलभ्यते । ] ।
शाखायां शतविस्ताराः काननस्येव केतवः ॥ ४३-
शाखाबद्धसुवर्णशृङ्खललसद्दोलाधिरूढाङ्गना ।
हस्ताहस्तमृदङ्गधीरनिनदैरानन्दयन्त्यः शिखीन् ।
विद्युत्पुञ्जनिभांशुकांशुपरिघानापादयन्त्यश्चलान्
यातायातविहारविभ्रमलसत्स्मेराननाक्षिभृतः ॥ ४३-
इन्द्रनीलमणिभ्राजत्प्राकारपरिवेष्टिते ।
नीलोद्याने महारम्ये क्रीडते पुरुषोत्तमः ॥ ४३-
यमुनाभिमुखे यस्य महाद्वारं विराजते ।
चन्द्रकान्तशिलाकॢप्तकपाटं रत्नतोरणम् ॥ ४३-
द्वारस्य दक्षिणे वामे काञ्चनौ कुटिमौ समौ ।
चतुर्द्वारमणिस्तम्भवज्रीकल्पितमण्डपौ ॥ ४३-
ततः सोपानमार्गेण गन्तव्या यमुना नदी ।
सोपानानि सहस्रे द्वे शते च दशोत्तरे ॥ ४३-
अस्मिन् सोपानमार्गेऽपि वामदक्षिणयोः स्थिताः ।
रत्नमण्डपशोभाढ्याः कुट्टिमाः सन्त्यनेकशः ॥ ४३-
कदाचिज्जलखेलान्ते तिष्ठन्त्यत्र सखीगणाः ।
चतुरस्रा विशालास्ति तत्रोचेर्मणिवेदिका ॥ ४३-
वेदिकायां विशालायां कुट्टिमो मणिभूषितः ।
स्वर्णस्तम्भचतुर्द्वारो मुक्तामण्डितमण्डपः ॥ ४३-
वेदिकायां समुद्भूते द्वे दले स्वर्णपत्रके ।
पार्श्वयोः पद्मरागीयपुष्पप्रचयभूषिते ॥ ४३-
मण्डपोपरि तच्छाखाः प्रसृताः कुसुमाकुलाः ।
काश्चन प्रसृतास्तस्य मध्यदेशे सुशोभने ॥ ४३-
तत्र सिंहासन देवि कोटिचन्द्रांशुनिर्मलम् ।
इन्दिरासुन्दरीभ्यां तु पार्श्वयोः समधिष्ठितम् ॥ ४३-
कदाचित्तत्र भगवान् कृष्णः कमललोचनः ।
तिष्ठते क्रीडते ताभिः सखीभिः कृतकौतुकः ॥ ४३-
स्मरेदथो वनं दिव्यं पुष्पदन्ताख्यमद्भुतम् ।
वैदूर्यवीरुधां यत्र राजयो भान्ति पेशलाः ॥ ४३-
लतापरिमलोद्गारलोभमुग्धीकृताशयाः ।
इतस्ततोनुधावन्ति भृङ्गा मायार्दिता यथा ॥ ४३-
पुष्पदन्ताभिधो यत्र दाडिमीतरुरुल्लसन् ।
माणिक्यकुसुमश्रीको वैदूर्य [अत्र सर्वत्र वैडूर्य शब्द एवोपलभ्यते नतु वैदूर्य इति ।] रुचिरच्छदः ॥ ४३-
विशुद्धस्फाटिकमयी यत्र भूमिर्विराजते ।
अरजस्कामृतस्यन्दा प्रतिबिम्बतभूरुहा ॥ ४३-
वैदूर्यपत्रद्युतिपुञ्जपूरितं माणिक्यपुष्पप्रभयानुरञ्जितम् ।
वनं विशन्त्यो हि मयूरवल्लभा नृत्यन्ति विद्युद्धनशङ्किताशयाः ॥ ४३-
विदीर्णसद्दाडिमबीजसंहतीर्निरीक्षमाणाः प्रबलानुरागिणीः ।
स्वदन्तसादृश्यमुपेति वा न वाभ्युपेतुमादर्शधरा भवन्ति ॥ ४३-
योजनायुतमूर्द्धन्यः शाखाक्रान्तमहीतलः [योजनायतमूर्धन्यशाखा क्रान्तमहीतलः इ० पा० ।] ।
फलपल्लवपुष्पश्रीभारभुग्नमहाभुजः ॥ ४३-
अनेकपक्षिसङ्घातगीतश्रवणनन्दनः ।
यदधः कुट्टिमवरो राजते स्वर्णनिर्मितः ॥ ४३-
प्रवालस्तम्भशोभाढ्यरत्नमण्डपमण्डितः ।
पुष्पदन्तः सखीवृन्दावतंसीकृतपुष्पकः ॥ ४३-
आधिपत्ये वनस्यास्य नियुक्त इव राजते ।
स्वर्णकुट्टिममध्ये तु वैदूर्यमणिनिर्मितम् ॥ ४३-
महासिंहासनं देवि यच्च कृष्णोऽधितिष्ठति ।
नीलाम्बर इवाभाति शुभ्रवस्त्रधरोऽपि यत् ॥ ४३-
सर्वाः सख्योऽपि वैदूर्यसिंहासनपरम्पराम् ।
जुषाणाः परितो भान्ति नीलाम्बरधरा इव ॥ ४३-
अतीव भूषाम्बरवैपरीत्यं निरीक्ष्यमाणाः प्रहसन्ति सख्यः ।
स्वानां प्रियस्यापि परस्परं ताः प्रदत्ततालीकरपङ्कजेषु ॥ ४३-
चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः ।
परिचर्यापरास्तत्र वसन्ते कृष्णयोषिताम् ॥ ४३-
दिव्यपुष्पाम्बराकल्पैर्दिव्यगन्धानुलेपनैः ।
दिव्यानन्दरसैस्तत्र सेवन्ते परिचारिकाः ॥ ४३-
नानाक्रीडारसासक्ता यदा सख्यः प्रियेण हि ।
तदा काचिन्मृदङ्गेण काचित्तन्त्रीरवेण च ॥ ४३-
काश्चिन्मधुरवीणाभिर्नृत्यगीतादिभिश्च काः ।
परितः स्वगृहारूढा दूरतस्तोषयन्ति ताः ॥ ४३-
पूर्वोक्तेन प्रकारेण तासां सौधानि पार्वति ।
द्विपङ्क्त्यापरितो भान्ति वीथीयुक्तानि मध्यतः ॥ ४३-
वैदूर्यरत्नविलसत्प्राकारपरिवेष्टिते ।
पुष्पदन्तमहोद्याने क्रीडते पुरुषोत्तमः ॥ ४३-
यमुनाभिमुखे यस्य राजते गोपुरं महत् ।
पद्मरागमणिकॢप्तकपाटद्वारतोरणम् ॥ ४३-
ततः सोपानमार्गेण गन्तव्या यमुना नदी ।
सोपानानि च तावन्ति संख्यावर्णविभेदतः ॥ ४३-
द्वारस्य दक्षिणे वामे कुट्टिमौ सुमनोहरौ ।
स्तम्भमण्डपसंयुक्तौ मुक्तामाणिक्यतोरणौ ॥ ४३-
जलक्रीडावसाने तु कृष्णः स्वसखीवृतः ।
मुहूर्त्तं कुट्टिमे स्थित्वा ततो याति निजालयम् ॥ ४३-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे त्रिचत्वारिंशं पटलम् ॥ ४३-
अथ चतुश्चत्वारिंशं पटलम्
शिव उवाच
स्मरेदथो महानन्दवनं सर्वर्तुसेवितम् ।
नानापुष्पलताकुञ्जपुञ्जशोभाविराजितम् ॥ ४४-
यत्र भूः काञ्चनी दिव्या नवरत्नविचित्रिता ।
सार्द्धैकयोजनायामविस्तारा मध्यवेदिका ॥ ४४-
चतुरस्रा दिव्यरत्ना प्रभापुञ्जारुणान्तरा ।
तन्मध्ये कुट्टिमो देवि योजनार्द्धप्रमाणतः ॥ ४४-
रजतस्वर्णवज्रेन्दुमुक्ताविद्रुमगारुडैः ।
वैदूर्यैरिन्द्रनीलैश्च पद्मरागार्कगोमदैः ॥ ४४-
समन्तता परिकॢप्तस्तम्भराजिविराजितः ।
दक्षिणोत्तरमध्यस्थसूत्रमाकर्ष्य पार्वति ।
पूर्वगर्भगतं कुर्यादधः पश्चिमगर्भगम् ॥ ४४-
इन्द्रनीलप्रभालिप्तमेवं कोणचतुष्टयम् ।
कल्पद्रुमलताकोणे चतुष्कोपरिराजते ॥ ४४-
शतयोजनसंसर्पिदिव्यसौरभमेदुरा ।
दिव्यप्रवालकुसुमामोदमोहितषट्पदा ॥ ४४-
मन्दमारुतसंसर्गचलत्कुसुमपल्लवा ।
पद्मरागमयस्तम्भौ पूर्वद्वारे नियोजितौ ॥ ४४-
महानीलमणिस्तम्भौ दक्षिणे तु व्यवस्थितौ ।
महावज्रमणेः स्तम्भौ प्रतीच्यां दिशि कल्पितौ ॥ ४४-
वैदूर्यस्तम्भयुगलमुत्तरे ह्यनुकल्पितम् ।
तप्तचामीकरकॢप्तमण्डपस्तेषु कल्पितः ॥ ४४-
अन्तर्बहिस्तत्र मुक्ता भान्ति तारागणा इव ।
अनेककोटिचन्द्रार्कप्रभाधिक्कारिवर्चसः ॥ ४४-
वेदिमध्ये तु कलशा विभान्ति मणिमेदुराः ।
मण्डपाधो मध्यभागे रत्नसिंहासनोत्तमम् ॥ ४४-
परितस्तस्य देवेशि सिंहासनपरम्परा ।
कृष्णप्रियानिवेशार्हा कृष्णे मध्यासनं गते ॥ ४४-
वेदिकापरितो भान्ति नानामणिमया लताः ।
मालती मल्लिका यूथी जातिचन्दनपाटली [पाटला इ० पा० ।] ॥ ४४-
कदम्बपारिजाताम्रबकुलार्जुनकेसराः ।
केतकीचम्पकाशोकनीपाश्वत्थवटादिकाः ॥ ४४-
रत्नच्छदा घनीभूताः पुष्पपल्लवमण्डिताः ।
मरुल्लीलाचलशाखारूढस्यलविहङ्गमाः [चल इ० पाठः० ।] ॥ ४४-
रत्नकुल्याविनिर्गच्छत्सुधापूरसुतर्पिताः ।
आभान्ति पादपा दिव्या महानन्दवने प्रिये ॥ ४४-
चतुर्विंशतिसाह्स्रं तत्स्थानपरिचारिकाः ।
तासां गृहाणि दिव्यानि परितो भान्ति सुन्दरि ॥ ४४-
वज्रप्रकल्पितमहाप्रकारपरिवेष्टितम् ।
महानन्दवनं वन्दे रसानन्दैकपत्तनम् ॥ ४४-
यमुनाभिमुखे यस्य गोपुरं पद्मरागजम् ।
यौगपद्योदितानेकबालार्कद्युतिभासुरम् ॥ ४४-
कुट्टिमद्वयमीशानि यद्बहिर्भातिसुन्दरम् ।
चतुर्द्वारं चतुःस्तम्भं शोभाविर्भावभूमिकम् ॥ ४४-
ततः सोपानमार्गेण गन्तव्या यमुना नदी ।
स्मरेदथो महेशानि हेमकूटवनं महत् ॥ ४४-
यत्र हेममयी भूमिर्हेमपादपसङ्कुला ।
तन्मध्ये कुट्टिमौ हैमौ हैमस्तम्भचतुष्टयम् ॥ ४४-
गव्यूत्यर्द्धयुतः श्रीमान् हैममण्डपभूषितः ।
चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः ॥ ४४-
तासां गृहाणि दिव्यानि हैमोपस्करवन्ति च ।
मण्डपम्परितो भान्ति तडितामिव राशयः ॥ ४४-
सौधमण्डपयोर्देवि यावत्स्यादन्तरालकम् ।
तत्सर्वं परितो व्याप्तं नारङ्गीलतिकाशतैः ॥ ४४-
एलालविङ्गकाश्मीरसुरभ्यनिलसेवितम् ।
मृद्वीकामण्डपयुतं मातुलिङ्गलतोल्लसत् ॥ ४४-
बन्धूकैर्हयमारैश्च लवलीभिरलङ्कृतम् ।
कर्णिकारैश्च कुन्दैश्च चम्पकैश्चन्दनैर्वृतम् ॥ ४४-
नानापक्षिगणाध्वानमुखरीकृतदिङ्मुखम् ।
महानन्दमहोल्लासक्रान्तकोकिलकूजितम् ॥ ४४-
नृत्यत्कलापिनिकर गुञ्जन्मत्तमधुवृतम् ।
धावद्धरिणसञ्चारमुत्पतत्प्लवगद्रुमम् [उत्प्लवत्प्लवगद्रुमम् इ० पा० ।] ॥ ४४-
हेमप्राकारसंवीतं हेमकूटमिवास्थितम् ।
हेमकूटमहोद्यानं हेमगोपुरमण्डितम् ॥ ४४-
हेमकुट्टिमविभ्राजद् बहिःपार्श्वद्वयोज्ज्वलम् ।
ततः सोपानमार्गेण गतब्या यमुना नदी ॥ ४४-
ततश्च तारकूटाख्यं स्मरेद्विपिनमद्भुतम् ।
नीलरत्नमयी भूमिर्भ्राजते यत्र निस्तुला ॥ ४४-
कदम्बकल्पद्रुपमपारिजातैरमन्दगन्धाहृतभृङ्गसङ्घैः ।
मरुल्लसत्पल्लवराजिपुष्पैर्यथा सदः सद्भिरिवातिशोभते ॥ ४४-
जम्बीरैर्निम्बुकैश्चैव कोविदारार्जुनैरपि ।
श्रीपर्णैः सरसैराम्रैः पनसैर्दकुलैरपि ॥ ४४-
नागपुन्नागमन्दारैस्तथैवामलकीद्रुमैः ।
अम्लानपुष्पाभरणैः समन्तात् परिशोभितम् ॥ ४४-
तारकूटमहं वन्दे तारप्राकारवेष्टितम् ।
चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः ॥ ४४-
तासां गृहाणि दिव्यानि तारकुट्टिममुच्चकैः ।
परितो भान्ति देवेशि दलानीव कुशेशयम् ॥ ४४-
यमुनाभिमुखे यस्य भाति गोपुरमुन्नतम् ।
गोपुरस्य बहिर्भागे राजितं कुट्टिमद्वयम् ॥ ४४-
स्तम्भैश्चतुर्भिरुद्भान्तं राजतैः स्वर्णसूत्रितैः ।
ततः सोपानमार्गेण गन्तव्या यमुनानदी ॥ ४४-
स्मरेदथो महेशानि गारुडं वनमद्भुतम् ।
गारुडै रत्ननिचयैः परिकल्पितभूमिकम् ॥ ४४-
तत्र हस्तान्तरे देवि चतुष्कं मणिकल्पितम् ।
पूर्वपश्चिमभागेन चन्द्रकान्तमणिद्वयम् ॥ ४४-
दक्षिणोत्तरभागेन पद्मरागद्वयाङ्कितम् ।
अन्योन्यचुम्बितमुखं शुद्धस्वर्णगृहार्पितम् ॥ ४४-
एवं कोटिचतुष्काणि हस्तमात्रान्तरान्तरम् ।
भान्ति सर्वत्र देवेशि गरुत्ममणिभूमिषु ॥ ४४-
यस्याः प्रान्तचतुष्केषु स्थलपङ्केरुहाण्यपि ।
यत्परागरजः पुञ्जैररुणीक्रियतेऽम्बरम् ॥ ४४-
तन्मध्यदेशगः श्रीमान् भाति माणिक्यमण्डपः ।
सूर्यकान्तमणिस्थम्भनीलपत्रश्रियोल्लसत् ॥ ४४-
तन्मध्ये दीर्घिका दीर्घा स्वर्णपङ्कजमालिनी ।
यद्गन्धाघ्राणमत्तालिझङ्कारमुखरान्तरा ॥ ४४-
माणिक्यभूमिपतिता अपि मौक्तिकराजयः ।
न हर्षयन्ति कादम्बान् गुञ्जाशङ्काप्रतारितान् ॥ ४४-
माणिक्यकन्दलाक्रान्ता वैदूर्यविलसच्छदाः ।
मण्डपं परितो दूराद्विभान्ति कदलीलताः ॥ ४४-
कदलीकाण्डमारूढा हंसा गोफेनसन्निभाः ।
तत्पत्रद्युतिसम्भिन्ना न लक्ष्यन्ते मनागपि ॥ ४४-
वायवान्दोलितपत्रौघप्रकम्पत्कन्दलस्तनाः ।
कूजत्पक्षिगणक्रीडा मनोनयननन्दनाः ॥ ४४-
नृत्यमाना इवाभान्ति कदल्यो वारयोषितः ।
चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः ॥ ४४-
मध्यवीथीनि सौधानि द्विपंक्त्त्या भान्ति तद्बहिः ।
भ्राजन्मणिकपाटानि हसद् रत्नाजिराणि च ॥ ४४-
तद्बहिर्भान्तिदेवेशि महोद्यानलताद्रुमाः ।
गन्धालुभ्य भ्रमद्भृङ्गा मरुदाघातवेपिताः [गन्धलुभ्यद्भ्रमद्मृङ्गाः सप्त गायन्ति ते स्वराः इ० पा० ।] ॥ ४४-
मयूरमृगचक्राह्वहंसकारण्डवैः पिकैः ।
शुकपारावतक्रौञ्चसारसैर्हारिलैरपि ॥ ४४-
शाखामृगैः शशैः क्रोडैश्चातकैश्चटकैरपि ।
पतत्रिभिरनेकैश्च कुलङ्गैरुपसेवितम् ॥ ४४-
जाड्यं मम धियो भिद्यादुद्यानं गारुडाह्वयम् ।
मुक्ताप्राकारकल्पितमप्राकृतजनाश्रयम् ॥ ४४-
यमुनाभिमुखे यस्य महाद्वारं विराजते ।
माणिक्यदेहलीरम्यमिन्द्रनीलकपाटकम् ॥ ४४-
महाद्वारबहिर्भागे कुट्टिमद्वयमद्भुतम् ।
काञ्चनं विद्रुमस्तम्भं स्वर्णमण्डपमण्डितम् ॥ ४४-
यत्रस्थाः परिगायन्ति नृत्यन्ति च वराङ्गना ।
वीणामृदङ्गवाद्यादिविद्यानैपुण्यशालिनः [शालिनीः ।] ॥ ४४-
ततः सोपानमार्गेण गन्तव्या यमुना नदी ।
पूर्वसङ्ख्यैव सर्वत्र सोपानानां प्रियंवदे ॥ ४४-
एषु स्थानेषु देवेशि लीलार्थं पुरुषोत्तमः ।
आयाति चन्द्रिकोद्गारिविमानेन सखीवृतः ॥ ४४-
कदाचिद्रथमारुह्य सहस्राश्वयुजं हरिः ।
सखीसमाजमध्यस्थस्तल्लीलाप्रेमगर्वितः ॥ ४४-
रथाः सन्ति महादिव्याः सहस्राणि तु षोडश ।
प्रधानाः षोडशैवेषु तांस्ते वक्ष्यामि नामतः [सशृणु इ० पा० ।] ॥ ४४-
चन्द्रको भद्रकश्चैव मनोजवमहाजवौ ।
जवमाली मणिस्कन्दो रोचिष्मान् भद्रसेनकः ॥ ४४-
मेघनादो महानादश्चन्द्रगौरो विसर्पणः ।
नीलचक्रः कुरङ्गाह्वः स्वर्णनेमिर्विभावसुः ॥ ४४-
सर्व एते सहस्राश्वयुजः काञ्चनमालिनः ।
क्षुद्रघण्टानिनादेन परिपूरितदिङ्मुखाः ॥ ४४-
केचिन्नीलवरूथेषु व्युप्तमौक्तिकराजयः ।
विभान्ति विलसत्तारागणा इव बलाहकाः ॥ ४४-
केचिन्नीलवरूथेषु स्वर्णरेखाविचित्रिताः ।
तडिदुन्मेषरुचिरा हेपयन्ति घनश्रियम् ॥ ४४-
केचिद्रक्तवरूथेषु वज्रमण्डपमण्डिताः ।
विलज्जयन्ति सन्ध्याभ्रशतभानूदयं नभः ॥ ४४-
अन्येपि स्यन्दनवरा मेघगम्भीरनिःस्वनाः ।
मौक्तिकाख्ये वने दिव्ये राजन्ते राजिमण्डलैः ॥ ४४-
महासौधाङ्गणभ्राजन्मण्डपस्यापसव्यतः [मण्डपस्यास्य सव्यतः इ० पा० ।] ।
रथाः षोडश तिष्ठन्ति हयशालासु ते हयाः ॥ ४४-
विमानान्यपि दिव्यानि व्यायतानि निजेच्छया ।
विचित्रशयनस्थानसभावाटीवृतानि च ॥ ४४-
मुक्तावितानशोभानि मणिस्तम्भोज्ज्वलानि च ।
कोटिचन्द्रप्रभास्पर्द्धिरत्नचित्राङ्गणानि च ॥ ४४-
रत्नस्तम्भावलिभ्राजत्पुत्रिकाहस्तकल्पितैः ।
मणिभिर्भान्ति वेश्मानि प्रदीपावलिभिर्यथा ॥ ४४-
अष्टादशसहस्राणि विमानप्रवराणि हि ।
तेष्वप्यष्टादशैवेह वरीयांसि द्युमन्ति च ॥ ४४-
उन्मादनं सुधास्यन्दि चन्द्रकं शतचन्द्रकम् ।
तुङ्गभद्रं मनोयानं महानीलमुदञ्चनम् ॥ ४४-
वज्रकूटं कलासारं चारुचन्द्रं प्रभारुणम् ।
हेमकक्षं प्रभापूरं पुष्पगन्धमनाविलम् ॥ ४४-
चित्रध्वजं [चित्रकूट इ० पा० ।] वज्रकूटमेवमष्टादश स्मृताः ।
स्थाप्यन्ते शिविकाख्या या विमानश्रेष्ठभूमिषु ॥ ४४-
चिदानन्दानन्दभूम्योरेवमाप्लाव्य निम्नगा ।
प्रकाशानन्दसन्धिस्थसरस्यां विशते हि सा ॥ ४४-
सरसः पुनरुद्भूय प्रकाशाभिमुखं गता ।
शतयोजनमानेन ततः पश्चिमवाहिनी ॥ ४४-
ज्ञानभूमिमथाप्लाव्य प्रयाता भुक्तिभूमिकाम् ।
प्रेमभूमिं ततः प्लाव्य प्रविष्टा पश्चिमार्णवम् ॥ ४४-
आनन्दभुक्त्योरन्तराले महामाणिक्यपर्वतः ।
बलार्ककोटिरुचिर उच्छ्राये शतयोजनः ॥ ४४-
यन्नितम्बभवा नद्यश्चतस्रो यमुनां गताः ।
प्रविशन्ति सुधासिन्धुं सुषुम्णा सिरसा सिता ॥ ४४-
निम्लोचा नामतः ख्याताः सर्वाः पीयूषवाहिनीः ।
कदाचित् क्रीडते तत्र निर्झरध्वनिनादिते ॥ ४४-
सखीसहस्रसङ्कीर्णविमानवरमाश्रितः ।
गिरिद्रोणीषु रम्यासु भगवान्पुरुषोत्तमः ॥ ४४-
एवं चानेकलीलाभी रसरूपाभिरन्वहम् ।
क्रीडते हि रसः साक्षात् कृष्णः परमपूरुषः ॥ ४४-
एतत्ते सर्वमाख्यातमनापृष्टमपि प्रिये ।
स्मृत्यवस्थोदये कृष्णस्त्रीणामेतद्धितं यतः ॥ ४४-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे चतुश्चत्वारिंशं पटलम् ॥ ४४-
अथ पञ्चचत्वारिंशं पटलम्
शिव उवाच
स्मरेदथो महादेवि ब्रह्मनालश्रियं शुभाम् ।
ब्रह्मनालानन्दवनाद्दण्डाकारतया [ब्रह्मनालोनन्दवनात् इ० प० ।] स्थितः ॥ ४५-
मार्ग एव महेशानि निजालयनिवेशने ।
गोपुरद्वारमारम्य प्राकारदशकावधि ॥ ४५-
विंशतिर्योजनानां च ब्रह्मनाल उदाहृतः ।
पार्श्वयोरुभयोस्तस्य षष्ट्युत्तरशतं प्रिये ।
सौधानि सन्ति देवेशि बहिः कुट्टिमवन्ति च ॥ ४५-
तत्तत्प्राकारसंवीत तत्तदुद्यानमण्डलम् ।
तत्तद्द्वारप्रवेशेन गम्यते ब्रह्मनालतः ॥ ४५-
प्रतिप्राकारामीशानि प्रवेशे ब्रह्मनालतः ।
सव्यापसव्ययोर्द्वारद्वयमुद्यत्प्रभारुणम् ॥ ४५-
स्वर्णप्राकारसंवीता महाचम्पकवाटिकाः ।
अनेकपक्षीनिनदा बहुलामोदमेदुराः ॥ ४५-
तप्तकाञ्चनवर्णाभा भान्ति चम्पककोरकाः ।
दीपा इव निवातस्था भृङ्गैर्दूरतरोज्झिताः ॥ ४५-
पूर्णशारदराकेशानुकारिकुसुमोज्ज्वलाः ।
राजन्ते यत्र बहुशो दिव्याश्चम्पकवीरुधः ॥ ४५-
चम्पकोद्यानकुञ्जेषु दिव्यहर्म्यकृतास्पदाः ।
चतुर्दशसहस्राणि वसन्ति परिचारिकाः ॥ ४५-
कदाचित् क्रीडते तत्र श्रीकृष्णः स्वसखीवृतः ।
मध्ये तारागणस्येव पूर्णशारदचन्द्रमाः ॥ ४५-
तदन्तः संस्मरेद्देवि वनं कल्पद्रुमाकुलम् ।
महावैदूर्यशालेन समन्तात् परिवेष्टितम् ॥ ४५-
कल्पद्रुकुसुमामोदमोदमाना शिलीमुखाः ।
नान्यगन्धमपेक्षन्ते पूर्णकामा यथेतरत् ॥ ४५-
कल्पद्रुकुसुमास्वादुरसव्यासक्तबुद्धयः ।
स्वां वाचं मुद्रयन्तीह ज्ञाततत्वा इवालयः ॥ ४५-
महामरकतकॢप्तस्थलीपतितमौक्तिका ।
यथा तामसभक्तस्य बुद्धिः प्रेमाङ्कुरोज्ज्वला ॥ ४५-
मधुश्रीमाधवश्रीकः स्त्रीस्कन्धार्पितसद्भुजः ।
पुष्पकल्पितवासःश्रीर्भूषाशृङ्गारमण्डितः ॥ ४५-
वसन्तः सन्ततं यत्र चरतेऽसौ रसात्मकः ।
कल्पद्रुममहाकुञ्जवीथिषु प्रेमविह्वलः ॥ ४५-
कामकोदण्डकुटिलभ्रूलताचारुविभ्रमः ।
कुङ्कुमारक्तवसनः साचीक्षणविचक्षणः ॥ ४५-
दिव्यपुष्परजः पुञ्जधूसरः सस्मिताननः ।
कल्पकोद्यानकुञ्जेषु दिव्यहर्म्यकृतालयाः ॥ ४५-
त्रयोदश सहस्राणि वसन्ति परिचारिकाः ।
कदाचिदत्र भगवान्कृष्णः कमललोचनः ॥ ४५-
वसन्तलीलारसिको रसात्मोपवने चरन् ।
इन्दिरासुन्दरीमुख्यप्रियाविभ्रममोहितः ॥ ४५-
प्रियाकटाक्षचषकैरापीत इव सर्वतः ।
आवृष्ट इव पुष्पौघैः सखीमुक्तैः समन्ततः ॥ ४५-
अभिवर्षन् स्वयमपि सखीः कुसुमवृष्टिभिः ।
मुखामोदसुसक्तालिझङ्कारोद्विग्ननेत्रया ॥ ४५-
गाढमालिङ्गितः कण्ठे स्वामिन्या पद्महस्तया ।
प्रियाभिः प्रेमयुक्ताभिर्जलयन्त्रविनिर्गतैः ।
कुङ्कुमाम्भोभिरासिक्तो जातः पीताम्बरो यथा ॥ ४५-
गजीभिरिव मातङ्गो रमते रतिलम्पटः ।
अनेकरसयुक्तासु क्रीडासु कृतकौतुकः ॥ ४५-
तदन्तः संस्मरेद्दिव्यां मन्दारद्रुमवाटिकाम् ।
दिव्यप्रवालरत्नोद्यत्प्राकारपरिवेष्टिताम् ॥ ४५-
महानीलमणिभ्राजद्भूमिकाभासमाश्रिताम् [भासिनीकृताम् इ० पा० ।] ।
नृत्यन्ति यत्र शिखिनो नित्यमम्भोदशङ्कया ॥ ४५-
मन्दारमकरन्देषु विलीनमतयोऽलयः ।
विस्मरन्त्यन्यपुष्पाणि यथा ब्रह्मरसप्लुताः ॥ ४५-
यत्रास्ते सततं राका पूर्णचन्द्रसमन्विता ।
कुहूः कोकिलचञ्चुस्था केवलं यत्र लभ्यते ॥ ४५-
मन्दारमन्दसौरभ्यलुब्धा रोलम्बराजयः ।
न क्वापि गन्तुमिच्छन्ति दानलुब्धा इवार्थिनः ॥ ४५-
शुक्तिश्रीति शुचिश्रीति यस्य वामे मदालसे ।
मन्दारोद्यानसञ्चारी ग्रीष्मर्त्तुर्मदविह्वलः [ग्रीष्मर्तुस्तिग्मलोचनः इ० पा०] ॥ ४५-
मन्दारोद्यान कुञ्जेषु दिव्यहर्म्यकृतास्पदाः ।
द्वादशैव सहस्राणि वसन्ति परिचारिकाः ॥ ४५-
मन्दारकुञ्जक्रीडार्थं कदाचित्प्रमदागणैः ।
मूलभूमेः समुत्थाय पश्चिमद्वारमार्गतः ॥ ४५-
प्रविशत्यरबिन्दाक्षः क्रीडते रतिलालसः ।
महाकामकलाभिज्ञः कामात्मा पुरुषोत्तमः ॥ ४५-
ततस्तदन्तरुद्यानं पारिजातमयं स्मरेत् ।
महामाणिक्यशालेन समन्तात्परिवेष्टितम् ॥ ४५-
चन्द्रकान्तशिलाकॢप्तस्थलीकमतिसुन्दरम् ।
यत्रेन्दुरश्मयः स्पर्शात्सुधाकणमवापिताः ॥ ४५-
कुट्टिमा यत्र भूयांसो विस्फुरद्रत्नमण्डपाः ।
कुञ्जगुञ्जन्मधुकरव्रातझङ्कारनादिताः ॥ ४५-
सरस्यो [सरसीषु लसत् इ० पा० ।] विलसत्स्वर्णसहस्रदलपङ्कजैः ।
खेलन्मरालमिथुनैर्गन्धवासितपादपैः ॥ ४५-
निश्चलालिसमाक्रान्तपत्रजालैः समन्तत ।
विलोकयन्ति वात्यन्तं नेत्रैरुन्मेषवर्ज्जितैः ॥ ४५-
पारिजातवनीकुञ्जदिव्यसौधकृतालयाः ।
एकादशसहस्राणि वसन्ति परिचारिकाः ॥ ४५-
पारिजातवनक्रीडारसलुब्धेन चेतसा ।
कदाचिदत्र भगवान् समायाति सखीगणैः ॥ ४५-
कृष्णं सरोवराभ्यासमणिकुट्टिमसंस्थितम् ।
भूषाम्बरादिभिः सख्यः [कौसुमैः इ० पा० ।] कौसुम्भैर्भूषयन्ति हि ॥ ४५-
हारकुण्डलकेयूरवलयोत्तुङ्गमौलिभिः ।
उष्णीषकञ्चुककटिबन्धरम्योत्तरीयकैः ॥ ४५-
पौष्पैः कृतश्रीः भगवान् सखीवृन्दान्तरे चरन् ।
दिव्यपुष्पमयं वेत्रमादधानः कराम्बुजे ॥ ४५-
वमद्भिरिव सत्प्रेम विकुञ्चद्भृकुटीतटैः ।
अभिवर्षन्निव सखीवृन्दं लोचनपङ्कजैः [अभिवर्षन्तीव सखीवृन्दलोचनषट्पदः इ० पा० ।] ॥ ४५-
स्वकरालूनकुसुमाभृषाभिर्भूषयन् [कुसुमाक्रीडाभिः इ० पा० ।] सखीः ।
हसितो हासयन्सर्वा लोलागतिविचक्षणः ॥ ४५-
गीयमानयशा गायन् रमते कुञ्जभूमिषु ।
स्मरेदतस्तदन्तःस्थां हरिचन्दनवाटिकाम् ॥ ४५-
गोमेदकमहारत्नरचितस्वीयगोपुराम् ।
शुद्धस्फटिकविभ्राजद्भूमिकाकिरणोज्ज्वलाम् ॥ ४५-
मरुल्लसत्पल्लवराजिराजितद्रुमावलीनां प्रतिबिम्बभूमिषु ।
विहङ्गमाः पक्वफलाशया मुहुश्चञ्चूपुटाघातविधिं वितेनिरे ॥ ४५-
क्वचिद्विहङ्गाः स्फटिकावनीतले निरीक्षमाणः प्रतिबिम्बविभ्रमम् ।
स्वजातिपक्षिव्रजशङ्किताशयाः कूजन्ति स्वं स्वं स्वरमुच्चकैर्मुहुः ॥ ४५-
हरिचन्दनस्फुरदमन्दसुन्दरस्फटिकावनीतला वनविहारिणः ।
पवनोल्लसद्विटपविष्टराः खगा विवदन्ति पण्डितगणा इवोद्भटाः ॥ ४५-
मणिकुट्टिमास्फुरदमन्दरश्मयः परितो विभान्ति कृतरत्नमण्डपाः ।
शुककोकिलभ्रमरहंससारसैः समुपास्यमानरमणीयमध्यमाः ॥ ४५-
मुखराट्टहासपरिपूरिताम्बरः सुनभोनभस्थरमणीविराजितः ।
ऋतुराज एव किल प्रावृडित्ययं मदघूर्णमाननयनो विराजते ॥ ४५-
मृदुमन्दगर्ज्जितपयोदमण्डलीघटनान्धकारपरिलब्धवर्चसः ।
परितो भ्रमन्ति वनकुञ्जमण्डलेष्वतिनीलरत्ननिभकीटकोटयः ॥ ४५-
हरिचन्दनद्रुमनिकुञ्जमण्डलेष्वतिदिव्यरत्नपरिचारिकागृहाः ।
परितो विभान्त्ययुतसंख्यया शिवे ज्वलदग्निबीजरचिताङ्गणश्रियः ॥ ४५-
अत्रापि क्रीडते कृष्णः स्वामिन्यादिसखीवृतः ।
नानाक्रीडाविनोदैश्च परिहासरसादिभिः ॥ ४५-
तदन्तः संस्मरेद्दिव्यमुद्यानं सुमनोहरम् ।
वैडूर्यलतिकाखण्डमण्डितं नन्दनं दृशाम् ॥ ४५-
यत्र वैडूर्यवृक्षेषु प्रवालप्रतिबिम्बजा ।
काप्यभिख्या दृगम्भोजमोदहेतुः प्रवर्तते ॥ ४५-
सूर्यकान्तमणिकॢप्तदिव्यप्राकारमण्डितम् ।
सन्धिवर्ज्जितमाणिक्यशिलाकल्पितभूमिकम् ॥ ४५-
सूर्यकान्तमणिच्छायाविद्धमाणिक्यभूमिकम् ।
जातारुणोदयमिव भ्रममुत्पादयत्यहो ॥ ४५-
वैडूर्यद्रुमकुञ्जेषु दिव्यसौधकृतालयाः ।
सहस्राणि नव प्रोक्ताः तत्स्थानपरिचारिकाः ॥ ४५-
तदन्तः संस्मरेद्दिव्यां महामौक्तिकवाटिकाम् ।
विस्फुरत्पुष्परागीयप्राकारपरिवेष्टिताम् ॥ ४५-
माणिक्यपुष्पविद्योतन्महामुक्तालतावृताम् ।
लतासु विस्फुरद्दिव्यवैडूर्यवृन्तभासुराः ॥ ४५-
महावज्रमणिभ्राजद्भूमिकाकिरणप्लुताम् ।
कुञ्जेषु पक्षिनिनदप्रतिध्वनिमनोहराम् ॥ ४५-
इषोर्जलक्ष्मीलावण्यप्रवाहपतितान्तरः [बिस्फूर्जलक्ष्मी इ० पा० ।] ।
मल्लिकामालतीपुष्पभूषावासःपरिच्छदः ॥ ४५-
स्मितशोभिमुखाम्भोजश्चम्पकद्युतिपाण्डुरः ।
तत्र सञ्चरते साक्षाद्रसरूपी शरदृतुः ॥ ४५-
मुक्तानिकुञ्जभुवनक्रीडारसवशंवदाः ।
सहस्राण्यष्ट देवेशि वसन्ति परिचारिकाः ॥ ४५-
क्रीडतेऽत्रापि भगवान् कृष्णः कमललोचनः ।
स्वामिन्यादिसखीवृन्दसभाक्रीडाकुतूहलः ॥ ४५-
तदन्तः संस्मरेद्दिव्यां प्रवालद्रुमवाटिकाम् ।
गरुत्मन्मणिशालेन निगूढां परितः प्रिये ॥ ४५-
पुष्परागशिलाकॢप्तवसुधातलमण्डिताम् ।
मुक्तास्तबकसंशोभिप्रवालद्रुमशिभिताम् ॥ ४५-
सहसहस्यश्रीभ्यां [सहः इ० पा०] तु नारीभ्यामुपलालितः ।
हेमन्तस्तत्र चरते लीलाखेलकृतादरः ॥ ४५-
प्रवालोद्यानकुञ्जस्थरत्नसौधनिकेतनाः ।
सप्त चैव सहस्राणि वसन्ति परिचारिकाः ॥ ४५-
सूर्यकान्तमणिभ्राजल्लताकुसुमपल्लवम् ।
तदन्तः संस्मरेद्दिव्यमुद्यान् कोटिसूर्यभम् ॥ ४५-
कोटीन्दुविस्फुरच्चन्द्रकान्तशालेन व्यूहितम् ।
दिव्यप्रवालरत्नौघैर्निबद्धवसुधातलम् ॥ ४५-
तपस्तपस्यश्रीभ्यां च तरुणीभ्यामलङ्कृतम् ।
तद्भावानुभवानन्दमोदमानमहर्निशम् ॥ ४५-
शिशिरर्तुं भजेत्तत्र चरन्तं मदविह्वलम् ।
सूर्यकान्तनिकुञ्जेषु खेलन्त्यो मदविह्वलाः ॥ ४५-
षट्सहस्राणि देवेशि वसन्ति परिचारिकाः ।
कदाचिदत्र क्रीडार्थं सखीभिः पुरुषोत्तमः ॥ ४५-
स्वामिन्या च समासाद्य क्रीडन् विक्रीडयत्यपि ।
तदन्त संस्मरेद्दिव्यमुद्यानं तु मनोहरम् ।
पद्मरागलतापुञ्जकुञ्जगुञ्जन्मधुव्रतम् ॥ ४५-
चिन्तारत्नविचित्रान्तर्भूमिविद्योतितान्तरम् ।
अनेककुट्टिमैर्भ्राजन्मण्डपैः कुञ्जमध्यगैः ॥ ४५-
भ्राजत्कपाटरत्नालिप्रभोद्यैर्वियदन्तरम् ।
उदितेन्द्रधनुःकोटिकुर्वाणमिव सर्वतः ॥ ४५-
क्वचिदिन्दीवरवनप्रोच्छलन्तः प्रभाङ्कराः ।
सान्द्रमेघान्धकारेण लिम्पन्त इव दिक्तटान् ॥ ४५-
कलापिनो हृष्टचित्तास्तत्र नृत्यन्ति सन्ततम् ।
उद्धाट्य स्वकलापांश्च जलदाटोपशङ्कया ॥ ४५-
शुकपारापतक्रौंचपिककोलाहलाकुलम् ।
कोटीन्दुकौमुदीगवंनिर्वासनलताशतम् ॥ ४५-
उत्पतद्भिमृगीवृन्दैर्वराहैर्गवयैः शशैः ।
रुरुभिर्मृगनाभैश्च चमरीभिरलङ्कृतम् ॥ ४५-
अनेकसूर्यसङ्काशचिन्तारत्नावृतिव्रतम् ।
यत्र पञ्चसहस्राणि मणिहर्म्यकृतास्पदाः ॥ ४५-
दिव्यशृङ्गारवेषाढ्या रसभावविभावुकाः ।
सेवोपचारचतुरा वसन्ति परिचारिकाः ॥ ४५-
तदन्तः संस्मरेद्दिव्यं महापद्मवनं महत् ।
लक्षयोजनविस्तीर्णं गुञ्जन्मत्तमधुव्रतम् ॥ ४५-
वियद्वितानितमिव परागैः पवनेरितैः ।
कुर्वन् तद्गन्धसञ्चारिषट्पदव्याजचित्रितम् ॥ ४५-
महापद्माटवीमध्ये स्मरेदेकमणिगृहम् ।
चतुःषष्टिमहास्तम्भशोभाडम्बरमण्डितम् ॥ ४५-
मूलभूमिस्तु प्रथमा द्वितीया मतिविभ्रमा ।
तृतीया भोगभूमिश्च नृत्यभूमिश्चतुर्थिका ॥ ४५-
पञ्चमी शयनीयाख्या षष्ठी वैमानिकीति च ।
सप्तमी अष्टमी चोभे दोलाभूमी निरूपिते ॥ ४५-
नवमी दूरलक्षा च दशमी चन्द्रभूमिका ।
इत्येता दश आख्याता भूमयो निजवेश्मनः ॥ ४५-
प्रियाभिः सह वसेदस्मिन् घनीभूतो रसः पुमान् ॥ ४५-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे पञ्चचत्वारिंशं पटलम् ॥ ४५-
अथ षट्चत्वारिंशं पटलम्
शिव उवाच
इत्थं स्मरन्ती सततं निजधाममहोदयम् ।
क्रमेण वासना देवि गमयत्येव वासरान् ॥ ४६-
यद्येषा विरहावस्था स्मरणाख्या प्रवर्त्तते ।
तदा स्मृतिपथारूढं निजं धाम भवेत्प्रिये ॥ ४६-
अन्यथा ध्यायमानस्य रसलीलामहोदधिम् ।
मध्ये विच्छिद्य विच्छिद्य मनस्तस्मान्निवर्त्तते ॥ ४६-
यावन्न जायते ह्येषा दशा विरहसम्भवा ।
तावन्न शक्नुयात्कर्तुं विद्धि सेवां मनोमयीम् ॥ ४६-
स्मृत्यवस्थोदयो यावत्तावत्सेवाद्वयं भवेत् ।
आन्तरीया तथा बाह्या तयोर्नैकतरा क्वचित् ॥ ४६-
सेवया तद्गतं चेतः शनैर्लीलागतं भवेत् ।
स्मृत्यवस्थामवाप्नोति क्रमेण परमेश्वरि ॥ ४६-
स्मृत्यवस्थोदये देवि मनस्तत्तन्मनोरथैः ।
प्रलापाख्यामवाप्नोति दशां च व्याकुलीकृतम् ॥ ४६-
अबुद्धिपूर्वकालापः प्रलापः कथितः प्रिये ।
प्रियलीलाविलासादिविषयस्थिरचेतसः ॥ ४६-
रमयस्वाद्य रुचिरं प्रियप्रेम्णा वनान्तरे ।
प्रियं त्वं चिरकालेन मया प्राप्तोऽसि साम्प्रतम् ॥ ४६-
इत्यादिविविधालापाः प्रवर्त्तन्ते महेश्वरि ।
यदा देहानुसन्धानं मध्ये मध्ये प्रजायते ॥ ४६-
अत्युग्रतरसन्तापनिर्वापणपटीयसी ।
सुधाधारेव सततं वाक् त्वदीया रसस्रवा ॥ ४६-
अनङ्गकोटिसौन्दर्यमहाब्धिमथनोद्धृतः ।
सारांश इव ते रूपमानन्दोद्वेलनक्षमम् ॥ ४६-
महादुःखतमस्तोमविपाटनपटीयसी ।
चन्द्रज्योत्स्नेव रुचिरा हास्यशोभा तव प्रिय ॥ ४६-
मययेतत्तु कथं नाथ विपरीतं प्रवर्त्तते ।
एवमादीनि वाक्यानि प्रवर्त्तन्ते गुणस्तवे ॥ ४६-
ततः क्रमेण देवेशि मनोवैवश्यकारिणी ।
आध्यवस्था प्रवर्तेत विप्रलम्भदशात्मिका [विप्रलम्भरसात्मिका इ० पा० ।] ॥ ४६-
दीर्घतापाग्निसन्तप्तमाधिग्रस्तं मनोन्तरम् ।
बहिः सृजत्यश्रुधारां श्वासकम्पादिकं तथा ॥ ४६-
विरहे प्राणनाथस्य अप्राप्तौ सङ्गमस्य च ।
जायते देवदेवेशि दशा चोन्मादसंज्ञिका ॥ ४६-
श्वासाश्रुपातसन्तापकम्पभूलेखनादिभिः ।
अवस्था ज्ञायते देवि ह्युन्माद इति संज्ञया ॥ ४६-
जायमाने ततो देवि तापे विरहसम्भवे ।
हुङ्कारमात्रवचना तन्द्रामोहसमाकुला ॥ ४६-
अनुसन्धानरहिता श्वाससंशोषिताधरा ।
विवर्णवदनाकारा कृशीभूतकलेवरा ॥ ४६-
नकट्यजातमरणा जडावस्था भवेप्रिये ।
कदाचिद्देवदेवेशि धैर्यस्याप्यनवस्थितौ ॥ ४६-
निजनाथवियोगाग्निज्वालाज्वलितविग्रहा ।
जायते देवदेवेशि दशा मरणरूपिणी ॥ ४६-
इत्येता विरहावस्था दश प्रोक्ता तवानघे ।
विप्रलम्भाख्यशृङ्गाररसे प्रादुर्भवन्ति ताः ॥ ४६-
यद्यप्येका प्रजायते दशा विरहसम्भवा ।
तथापि च वरारोहे रसस्यानुभवो भवेत् ॥ ४६-
यावन्न जायतेऽप्येका दशा विरहसम्भवा ।
तावन्न जायते देवि रसस्यानुभवः क्वचित् ॥ ४६-
ज्ञात्वापि प्रियविश्लेषं यद्यवस्थोदयो नहि ।
तदा चूडामणिजपः कर्त्तव्यः शुद्धिहेतवे ॥ ४६-
मनोविकारे भावाख्ये जायमाने सुरेश्वरि ।
अप्राप्तौ विरहावस्थां धत्ते भावः स एव हि ॥ ४६-
परानन्दे प्रिये ज्ञाते तदप्राप्तिवशादिह ।
मनो विकृतिमभ्येति भावसंज्ञामलौकिकीम् ॥ ४६-
अनेकजन्मकलुषेर्यदा वीतं मनो भवेत् ।
नैवाप्नोति तदाभावं येन स्याद्विरहोदयः ॥ ४६-
तन्मालिन्यनिरासार्थं जपसेवार्चनादिकम् ।
अवश्यमेव कर्त्तव्य श्रीकृष्णप्रीतये चिरम् ॥ ४६-
अनुग्रहदृशा पश्येत् यदैव पुरुषोत्तमः ।
प्रसादसुमुखो भूत्त्वा तदा स्याद्विरहोदयः ॥ ४६-
इति ते सर्वमाख्यातं दशावस्थानिरूपणम् ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ ४६-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे षट्चत्वारिंशं पटलम् ॥ ४६-
अथ सप्तचत्वारिंशं पटलम्
पार्वत्युवाच
भगवन् श्रोतुमिच्छामि यथा कृष्णः प्रसीदति ।
विना जपं विना सेवां विना पूजामपि प्रभो ॥ ४७-
यथा कृष्णः प्रसन्नः स्यात्तमुपायं वदाधुना ।
अन्यथा देवदेवेश पुरुषार्थो न सिद्ध्यति ॥ ४७-
शिव उवाच
साधु पार्वति ते प्रश्नः सावधानतया शृणु ।
विना जपं विना सेवां विना पूजामपि प्रिये ॥ ४७-
यथा कृष्णः प्रसन्नः स्यात्तमुपायं वदामि ते ।
जपसेवादिकं चापि विना स्तोत्रं न सिद्ध्यति ॥ ४७-
कीर्तिप्रियो हि भगवान् वरात्मा पुरुषोत्तमः ।
जपस्तन्मयतासिद्ध्यै सेवा स्वाचाररूपिणी ॥ ४७-
स्तुतिः प्रसादनकरी तस्मात्स्तोत्रं वदामि ते ।
सुधाम्भोनिधिमध्यस्थे रत्नद्वीपे मनोहरे ॥ ४७-
नवखण्डात्मके तत्र नवरत्नविभूषिते ।
तन्मध्ये चिन्तयेद्रम्यं मणिगृहमनुत्तमम् ॥ ४७-
परितो वनमालाभिः ललिताभिः विराजिते ।
तत्र सञ्चिन्तयेच्चारु कुट्टिमं सुमनोहरम् ॥ ४७-
चतुःषष्ट्या मणिस्तम्भैश्चतुर्दिक्षु विराजितम् ।
तत्र सिंहासने ध्यायेत्कृष्णं कमललोचनम् ॥ ४७-
अनर्घ्यरत्नजटितमुकुटोज्वलकुण्डलम् ।
सुस्मितं सुमुखाम्भोजं सखीवृन्दनिषेवितम् ॥ ४७-
स्वामिन्याश्लिष्टवामाङ्गं परमानन्दविग्रहम् ।
एवं ध्यात्वा ततः स्तोत्रं पठेत्सुविजितेन्द्रियः ॥ ४७-
श्रीकृष्णस्तोत्रम्
कृष्णं कमलपत्राक्षं सच्चिदानन्दविग्रहम् ।
सखीयूथान्तरचरं प्रणमामि परात्परम् ॥ ४७-
शृङ्गाररसरूपाय परिपूर्णसुखात्मने ।
राजीवारुणनेत्राय कोटिकन्दर्परूपिणे ॥ ४७-
वेदाद्यगमरूपाय वेदवेद्यस्वरूपिणे ।
अवाङ्मनसविषयनिजलीलाप्रवर्त्तिने ॥ ४७-
नमः शुद्धाय पूर्णाय निरस्तगुणवृत्तये ।
अखण्डाय निरंशाय निरावरणरूपिणे ॥ ४७-
संयोगविप्रलम्भाख्यभेदभावमहाब्धये ।
सदंशविश्वरूपाय चिदंशाक्षररूपिणे ॥ ४७-
आनन्दांशस्वरूपाय सच्चिदानन्दरूपिणे ।
मर्यादातीतरूपाय निराधाराय साक्षिणे ॥ ४७-
मायाप्रपञ्चदूराय नीलाचलविहारिणे ।
माणिक्यपुष्परागाद्रिलीलाखेलप्रवर्त्तिने ॥ ४७-
चिदन्तर्यामिरूपाय ब्रह्मानन्दस्वरूपिणे ।
प्रमाणपथदूराय प्रमाणाग्राह्यरूपिणे ॥ ४७-
मायाकालुष्यहीनाय नमः कृष्णाय शम्भवे ।
क्षरायाक्षररूपाय क्षराक्षरविलक्षणे ॥ ४७-
तुरीयातीतरूपाय नमः पुरुषरूपिणे ।
महाकामस्वरूपाय कामतत्त्वार्थवेदिने ॥ ४७-
दशलीलाविहाराय सप्ततीर्थविहारिणे ।
विहाररसपूर्णाय नमस्तुभ्यं कृपानिधे ॥ ४७-
विरहानलसन्तप्तभक्तचित्तोदयाय च ।
आविष्कृतनिजानन्दविफलीकृतमुक्तये ॥ ४७-
द्वैताद्वैतमहामोहतमःपटलपाटिने ।
जगदुत्पत्तिविलयसाक्षिणेऽविकृताय च ॥ ४७-
ईश्वराय निरीशाय निरस्ताखिलकर्मणे ।
संसारध्वान्तसूर्याय पूतनाप्राणहारिणे ॥ ४७-
रासलीलाविलासोर्मिपूरिताक्षरचेतसे ।
स्वामिनीनयनाम्भोजभावभेदैकवेदिने ॥ ४७-
केवलानन्दरूपाय नमः कृष्णाय वेधसे ।
स्वामिनीहृदयानन्दकन्दलाय तदात्मने ॥ ४७-
संसारारण्यवीथीषु परिभ्रान्तात्मनेकधा ।
पाहि मां कृपया नाथ त्वद्वियोगाधिदुःखिताम् ॥ ४७-
त्वमेव मातृपित्रादिबन्धुवर्गादयश्च ये ।
विद्या वित्तं कुलं शील त्वत्तो मे नास्ति किञ्चन ॥ ४७-
यथा दारुमयी योषिच्चेष्टते शिल्पिशिक्षया ।
अस्वतन्त्रा त्वया नाथ तथाहं विचरामि भोः ॥ ४७-
सर्वसाधनहीनां मां धर्माचारपराङ्मुखाम् ।
पतितां भवपाथोधौ परित्रातुं त्वमर्हसि ॥ ४७-
मायाभ्रमणयंत्रस्थामूर्ध्वाधोभयविह्वलम् ।
अदृष्टनिजसंकेतां पाहि नाथ दयानिधे ॥ ४७-
अनर्थेऽर्थदृशं मूढां विश्वस्तां भयदस्थले ।
जागृतव्ये शयानां मामुद्धरस्व दयापरः ॥ ४७-
अतीतानागतभवसन्तानविवशान्तराम् ।
बिभेमि विमुखी भूय त्वत्तः कमललोचन ॥ ४७-
मायालवणपाथोधिपयःपानरतां हि माम् ।
त्वत्सान्निध्यसुधासिन्धुसामीप्यं नय माऽचिरम् ॥ ४७-
त्वद्वियोगार्तिमासाद्य यज्जीवामीति लज्जया ।
दर्शयिष्ये कथं नाथ मुखमेतद्विडम्बनम् ॥ ४७-
प्राणनाथ वियोगेऽपि करोमि प्राणधारम् ।
अनौचिती महत्येषा किं न लज्जयतीह माम् ॥ ४७-
किं करोमि क्व गच्छामि कस्याग्रे प्रवदाम्यहम् ।
उत्पद्यन्ते विलीयन्ते वृत्तयोब्धौ यथोर्मयः ॥ ४७-
अहं दुःखाकुली दीना दुःखहा न भवत्परः ।
विज्ञाय प्राणनाथेदं यथेच्छसि तथा कुरु ॥ ४७-
ततश्च प्रणमेत्कृष्णं भूयो भूयः कृताञ्जलिः ।
इत्येतद्गुह्यमाख्यातं न वक्तव्यं गिरीन्द्रजे ॥ ४७-
एवं यः स्तौति देवेशि त्रिकालं विजितेन्द्रियः ।
आविर्भवति तच्चित्ते प्रेमरूपी स्वयं प्रभुः ॥ ४७-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे सप्तचत्वारिंशं पटलम् ॥ ४७-
अथ अष्टचत्वारिंशं पटलम्
पार्वत्त्युवाच
भगवन् देवदेवेश जगन्नाथ दयानिधे ।
कथा साध्वी महापुण्या भवता विनिरूपिता ॥ ४८-
अनुगृहीता नाथेन त्वयाहं करुणात्मना ।
ब्रह्मगुह्यमिदं देव यदेतत्प्रकटीकृतम् ॥ ४८-
अतः परं तु देवेश वेदितव्यं न विद्यते ।
तथापि प्रष्टुमिच्छामि कोऽमृतं पीय तृप्तिभाक् ॥ ४८-
मन्त्रराजप्रसङ्गेन सेवा ते विनिरूपिता ।
यथा सिध्यन्ति देवेश वासनाः कृष्णयोषिताम् ॥ ४८-
धर्मः कृष्णप्रियाणां हि न सेवातोधिकः क्वचित् ।
तथापि भवता नाथ किञ्चित् पूजापि सूचिता ॥ ४८-
विधिना केन देवेश क्रियते सा कदा च कैः ।
एतन्मे ब्रूहि भो विद्वन् महांस्त्वं दीनवत्सलः ॥ ४८-
शिव उवाच
प्रिये धन्यासि धन्यासि धन्यासि मम मानसम् ।
प्रीणासि प्रश्नवादने सूर्योऽब्जमिव भानुना ॥ ४८-
अतस्त्वां कथयिष्यामि सुगोप्यमपि पूजनम् ।
सेवनं मुख्यमेवोक्तं पूजनं गौणमुच्यते ॥ ४८-
सेवां कर्तुमशक्तश्चेत् पूजयेत्पुरुषोत्तमम् ।
तदहं ते प्रवक्ष्यामि यन्मां त्वं पृच्छसि प्रिये ॥ ४८-
प्रातरुत्थाय देवेशि ब्रह्मरन्धे निजं गुरुम् ।
ध्यात्वा पञ्चोपचारैश्च मानसैः पूजयेत्परम् ॥ ४८-
ततो हृदम्बुजे ध्यायेच्छ्रीकृष्णं स्वामिनीयुतम् ।
प्रसन्नवदनाम्भोजप्रियावृन्दविहारिणम् ॥ ४८-
पूर्ववत्पूजयित्वाथ व्यवहारविधौ प्रिये ।
अनुज्ञां प्रार्थयेत्तस्य प्रबद्धकरसम्पुटा ॥ ४८-
जानामि धर्मं न हि मे प्रवृत्तिर्जानाम्यधर्मं न ततो निवृत्तिः ।
मायान्धकारे गहने प्रविष्टा गृहान्धकूपे पतिता प्रमादात् ॥ ४८-
यद्यत्करिष्यामि शुभाशुभं वा नाहं स्वतन्त्रः प्रकरोमि तत्तत् ।
तस्मात्क्षमस्व प्रियनाथ सर्वं संसारयात्रामनुवर्त्तमानम् ॥ ४८-
आदायाज्ञां ततो देवि भूमिं सम्प्रार्थ्य पूर्ववत् ।
मलोत्सर्गविधिं कृत्वा हस्तपादादिशोधनम् ॥ ४८-
पूर्ववद्देवदेवेशि दन्तशुद्धिं समाचरेत् ।
तीर्थे वा स्वगृहे वापि स्नानं कृत्वा च पूर्ववत् ॥ ४८-
पूजागृहसमीपं तु गत्वोक्तासनसंस्थितः ।
कुङ्कुमादिशुभैर्द्रव्यैस्तिलकं हरिमन्दिरम् ॥ ४८-
वामरेखास्थितो ब्रह्मा दक्षिणायामह प्रिये ।
हरिर्मध्यगतस्तस्मान्मध्यदेशं न लेपयेत् ॥ ४८-
न दर्पणे च जले तैले विलोक्य तिलकी भवेत् ।
कृतमप्यकृतं वीक्ष्य दर्पणादौ तु यत्कृतम् ॥ ४८-
मुद्रादिधारणं कुर्यात् यथा स्थानं महेश्वरि ।
आदौ ललाटदेशे तु गदां कौमोदिकीं न्यसेत् ॥ ४८-
एकैकां विन्यसेद्वामपार्श्वे वामस्तने तथा ।
बाहुयुग्मे तथैकैका द्वे द्वे वा भक्तिभावतः ॥ ४८-
उदरे पञ्च चक्राणि हृदि चक्रत्रयं न्यसेत् ।
चक्रद्वयं ततो देवि दक्षपार्श्वे नियोजयेत् ॥ ४८-
त्रीणि दक्षस्तने युज्यात् द्वयं दक्षभुजे वहेत् ।
दक्षकर्णस्य मूले तु चक्रयुग्मं प्रविन्यसेत् ॥ ४८-
कण्ठदेशे तथा वामबाहौ चक्रं सकृत्सकृत् ।
एक एव भवेद्देवि शङ्खो वामकपोलगः ॥ ४८-
वामपार्श्वे तथा चैकः स्तने वामे द्वयं न्यसेत् ।
वामबाहौ त्रयं विद्याद्वामकर्णे द्वयं तथा ॥ ४८-
अधरेऽपि द्वयं न्यस्य शुभया गोपिकामृदा ।
दक्षबाहौ तथा चैकमेवं शङ्खान् प्रविन्यसेत् ॥ ४८-
पद्ममुद्राद्वयं वामे दक्षिणेऽपि तथा न्यसेत् ।
नाममुद्रा तु सर्वाङ्गे विभृयाद्भक्तितत्परः ॥ ४८-
अधृत्वा तुलसीमालामकृत्वायुधलाञ्छनम् ।
न सिद्धिमाप्नुयात्कोऽपि सत्यमेव वचो मम ॥ ४८-
पार्वत्युवाच
अधृत्वायुधलिङ्गानि यः कुर्याद्भजनादिकम् ।
न सिद्धिमाप्नुयादत्र मनो मे मुह्यतेतराम् ॥ ४८-
रसरूपस्य कृष्णस्य न चास्त्यायुधधारणम् ।
कस्मात्कृष्णप्रिया साक्षात् बिभृयाद्वैष्णवायुधम् ॥ ४८-
यो यो यद्देवता भक्तः स बिभर्ति तदायुधम् ।
प्रयोजनं तु नास्त्येव तथाप्यादिश्यते त्वया ॥ ४८-
तस्मान्मे संशयो जातो व्यथते हृदि शल्यवत् ।
तमुद्धर दयासिन्धो येन मे निश्चयो भवेत् ॥ ४८-
शिव उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
यस्य श्रवणमात्रेण मनो निःसंशयं भवेत् ॥ ४८-
अद्वैतं भावयेन्नित्यं द्वैतभावं न भावयेत् ।
द्वैतभावनया नित्यं संसारो न निवर्त्तते ॥ ४८-
अद्वैतभावनिष्णातः संसारं नैव पश्यति ।
तस्मादद्वैतभावेन यः पश्यति स पश्यति ॥ ४८-
अयं ब्रह्मा हरिरयं रुद्रोयमिति व भिदा ।
यः पश्यति महेशानि तस्य कालकृतं भयम् ॥ ४८-
प्रपञ्चो ब्रह्मतन्मात्रं ब्रह्मादिस्थावरान्तकः ।
द्वे ब्रह्मणीति वेदोक्तिर्लीलाभेदकृता भवेत् ॥ ४८-
एकमेवाद्वितीयं चेत्यन्यथा तु विरुद्ध्यते ।
तस्माद्द्वैतं तु देवेशि भ्रममात्रं न संशयः ॥ ४८-
चन्द्रद्वैतं प्रतीयेत जलोपाधिप्रसङ्गतः ।
जलोपाधिनिरासेन चन्द्राद्वैतं प्रकाशते ॥ ४८-
ब्रह्मण्यपि तथा द्वैतमज्ञानेन विजृम्भितम् ।
अज्ञानस्य निरासे तु ब्रह्माद्वैतं यथा भवेत् ॥ ४८-
कः शिवः को हरिर्ब्रह्मा एकत्वमनुपश्यतः ।
तस्मादायुधलिङ्गानां धारणं न विरुध्यते ॥ ४८-
आत्मश्रेयः प्रवृत्तानां तामससर्गमाश्रिताः ।
दोषा विनायकाश्चान्ये भ्रंशयन्ति मनःश्रिताः ॥ ४८-
पलायन्ते च ते सर्वे वैष्णवायुधदर्शनात् ।
जाज्वल्यमानज्वलनज्वालयेवाकुलीकृताः ॥ ४८-
सत्त्वोपाधिगतं ब्रह्म विष्णुस्तस्यायुधान्यपि ।
दृष्ट्वा दोषाः पलायन्ते सिंहं दृष्ट्वा यथा गजाः ॥ ४८-
अन्यथाविश्य चित्तं ते भजनं वारयन्ति हि ।
तस्मादायुधलिङ्गानां धारणं सर्वथा प्रिये ॥ ४८-
दृष्ट्वा बिभ्यति पापानि चक्राङ्कितवपुर्धरम् ।
रजस्तमोमयाभावा न स्पृशन्ति कदाचन ॥ ४८-
ये लोकरञ्जनार्थाय चक्राद्यायुधलाञ्छनाः ।
पाखण्डिनः पतन्त्येते निरयेषु पुनः पुनः ॥ ४८-
तस्माद्भजनाङ्गतया बिभृयादायुधानि तु ।
भजन्सिद्धिमवाप्नोति पापदोषाद्यसंश्रितः ॥ ४८-
द्वारपूजां ततः कृत्वा प्रविशेद्यागमन्दिरम् ।
त्रिर्वामपार्ष्णिघातेन भौमांस्तालत्रयेण च ॥ ४८-
अन्तरिक्षस्थितान् दिव्यदृष्ट्या भूतान् दिवि स्थितान् ।
उत्सार्य भूमिं सम्प्रार्थ्य सम्प्रोक्ष्य विधिनासनम् ॥ ४८-
आचम्य च शिखां बध्वा मूलमन्त्रेण देशिकः ।
स्त्रीवेषधारी सुभगः ताम्बूलवदनोर्चयेत् ॥ ४८-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे अष्टचत्वारिंशं पटलम् ॥ ४८-
अथ एकोनपञ्चाशत्तमम् पटलम्
शिव उवाच
पृथिव्यादीनि भूतानि ब्रह्मणि प्रविलाप्य च ।
क्रमेणोत्पाद्य च पुनः पवित्राणि विभावयेत् ॥ ४९-
भूतशुद्धिं विधायेत्थं प्राणान् संस्थापयेत्पुनः ।
पञ्चाशन्मातृका न्यस्य न्यसेत् ऋष्यादिकं ततः ॥ ४९-
मूलमन्त्राक्षरन्यासं ततः कृत्वा समाहितः ।
ध्यायेत्स्वहृदयाम्भोजे कृष्णं कमललोचनम् ॥ ४९-
दिव्यरत्नकिरीटं तु मूर्ध्नि सञ्चिन्तयेत् प्रिये ।
अथवोष्णीषकं ध्यायेद्दाडिमीकुसुमप्रभम् ॥ ४९-
अनर्घ्यरत्नविलसन्मुक्ताकुण्डलमण्डितम् ।
उष्णीषबद्धरत्नेन वर्त्तुलेनातिभास्वता ॥ ४९-
धिक्कुर्वन्तमिव प्रोद्यत्पूर्णचन्द्रस्य मण्डलम् ।
दिव्यमुक्ताफलस्रजा वेष्टितोष्णीषसुन्दरम् ॥ ४९-
क्षीरसागरकल्लोलशोभातिशयसुन्दरम् ।
न्यस्तरत्नप्रभोद्भासि वसानममलाम्बरम् ॥ ४९-
प्रांतपल्लवविभ्राजंल्लम्बिमुक्तालिभास्वरम् ।
दधानमुत्तरं वासो नवीनजलदप्रभम् ॥ ४९-
वलयाङ्गदकेयूरभ्राजमानकरद्वयम् ।
वैडूर्यमुक्तामाणिक्यहारभारविराजितम् ॥ ४९-
दिव्याङ्गरागसौरभ्याघ्राणमत्तमधुव्रतान् ।
लीलारविन्दभ्रमणैर्वारयन्तं मुहुर्मुहुः ॥ ४९-
हीरालिदशनज्योत्स्नां विकिरन्तं स्मिताननात् ।
रसालभृकुटिलीला [भृकुटीभाव इ० पाठः ।] विह्वलीकृतवल्लभम् ॥ ४९-
नीलकुञ्चितसुस्निग्धालकशोभिमुखाम्बुजम् ।
पाटीरतिलकोद्भासिभालस्थलमनोहरम् ॥ ४९-
ताम्बूलपूर्णवदनं चाम्पेयद्युतिविग्रहम् ।
सदाषोडशवर्षीयं ध्यायेत्कृष्णं [वार्षिक्यं इ० पाठः ।] हृदाम्बुजे ॥ ४९-
वामभागगतां तस्य स्वामिनीं संस्मरेत् प्रिये ।
कुञ्चितानङ्गकोदण्डभ्रूलताबिभ्रमश्रियम् ॥ ४९-
रसानन्दाङ्कुरौभूतदशनावलिभासुराम् ।
मीनाब्जखञ्जरीटोग्रगर्वनिर्नाशिलोचनाम् ॥ ४९-
तिलसूनलसन्नासानटन्मौक्तिकभूषणाम् ।
प्रान्तमुक्तावलिभ्राजद्भालभूषणभूषित्ताम् ॥ ४९-
मुखेन्दुमण्डलप्रोद्यत्कस्तूरीतिलकाङ्किताम् ।
कपोलपालिविलुठन्मुक्तादाममनोहराम् [कपोलावलि इ० पाठः ।] ॥ ४९-
किंशुकाभांशुकद्युत्या प्रसर्पन्त्याध ऊर्ध्वतः ।
सिन्दूरपूरितमिव कुर्वाणां वियदन्तरम् ॥ ४९-
सुवर्णरचनाचञ्चन्मुक्तारत्नविचित्रिताम् ।
दधानां नीलजलदश्यामलां कुचपंट्टिकाम् ॥ ४९-
प्रान्तलम्बितमुक्तादिच्छटाविच्छुरितावनि ।
नीलचण्डातक चारु दधानां स्वर्णसूत्रवत् ॥ ४९-
सुवर्णमुक्तामणिहारशोभां ग्रैवेयविद्योतितकम्बुकण्ठीम् ।
माणिक्यमञ्जीररणत्पदाब्जां श्रीस्वामिनीं चेतसि चिन्तयामि ॥ ४९-
ततस्तौ मानसैर्दिव्यैरुपचारैः प्रपूजयेत् ॥ ४९-
दत्त्वा नैवेद्यमीशानिवै श्वदेवं समाचरेत् ।
मूलाधारे महाकुण्डे चतुरस्रं विचिन्त्य च ॥ ४९-
चतुर्भिरात्मभिः कॢप्तं संविदग्निसमुज्ज्वलम् ।
जुहुयादाहुतीस्तत्र कामक्रोधादिकाः प्रिये ॥ ४९-
कामः क्रोधश्च लोभश्च मोहश्च मदमत्सरौ ।
अधर्मानृतमज्ञानं जुहुयाज्ज्ञानपावके ॥ ४९-
दग्धकामादिकलुषमात्मानं वासनात्मकम् ।
ध्यात्वा कृतक्षणः किञ्चिद्दत्वाचमनमेतयोः ॥ ४९-
भुञ्जानौ मनसा ध्यात्वा दत्त्वा चैव पुनर्जलम् ।
ताम्बूलवीटिकां दत्त्वा यथाशक्ति जपेद्धिया ॥ ४९-
अन्तःपूजां समाप्यैवं बहिःपूजां समारभेत् ।
पूजायन्त्रं लिखेत् पट्टे सौवर्णे राजते च वा ॥ ४९-
ताम्रे चापि महेशानि श्रीपर्णीचन्दनोद्भवे ।
षट्कोणमादौ निर्माय शक्तिं निर्भिद्य वह्निना ॥ ४९-
अष्टकोणं ततः कुर्यात् तत्प्रकारं शृणुष्व मे ।
चतुरस्रं लिखेदादौ ऋजुरेखं मनोहरम् ॥ ४९-
पूर्वरेखामूर्ध्वभागाद् रेखामाकृष्य पार्वति ।
मध्यभागान्महादेवि सन्धिभेदक्रमेण च ॥ ४९-
पूर्वरेखामध्यभागात् रेखामाकृष्य पार्वति ।
मध्यभागान्महादेवि सन्धिभेदक्रमेण च ।
दक्षरेखां विनिर्भिद्य बहिः किञ्चित्प्रसारयेत् ।
दक्षरेखामूर्ध्वगतामाकृष्य परमेश्वरि ॥ ४९-
प्रतीचिमानयेदाशां पूर्ववद् बहिरानयेत् ।
तामाकृष्योत्तरगतरेखां मूर्द्धानमानयेत् ॥ ४९-
प्राग्वद्बहिः प्रसृमरां तामाकृष्य सुलोचने ।
पूर्वरेखोपरि स्थाप्य अग्रदेशेन मेलयेत् ॥ ४९-
अष्टकोणमिदं कृत्वा वेष्टयेद् वृत्तरेखया ।
तल्लग्नमूलपत्रञ्च लिखेद् द्वादशयन्त्रकम् ॥ ४९-
तस्योपरि लिखेद् देवि वृत्तं पूर्णेन्दुसन्निभम् ।
चतुरस्रत्रयं कुर्याच्चतुर्द्वार मनोहरम् ॥ ४९-
पूजापीठं समारोप्य पूजयेच्च ततः परम् ।
सामान्यविधिना देवि सामान्यार्घं प्रकल्पयेत् ॥ ४९-
स्ववामभागे देवेशि जलेन चतुरस्रकम् ।
कृत्वाभ्यर्च्याक्षतैरक्तैर्गन्धचन्दनलालितैः ॥ ४९-
तत्राधारं प्रतिष्ठाप्य पूजयेद्वह्निमण्डलम् ।
शङ्खं वान्यतरत्पात्रं तत्र संस्थाप्य सुन्दरि ॥ ४९-
कलाभिः सहितं तत्र पूजयेत्सूर्यमण्डलम् ।
तत्र शुद्धोदकं पूर्य चन्द्रगन्धादिमिश्रितम् ॥ ४९-
तत्र तीर्थान्यथावाह्य भित्वा सूर्यस्य मण्डलम् ।
अभिमन्त्र्याष्टधा मूलमन्त्रेण कुसुमादिभिः ॥ ४९-
सुरभ्या चामृतीकृत्य शङ्खमत्स्यौ प्रदर्शयेत् ।
अनेनैव विधानेन पाद्यमर्घं प्रकल्पयेत् ॥ ४९-
कांस्यजं मधुपर्कार्थं तथैवाचमनीयकम् ।
एवं पात्राणि संस्कृत्य पीठपूजां समारभेत् ॥ ४९-
मण्डूकाधारशक्ती च कूर्मोऽनन्तवराहकौ ।
पृथिवी च जलं तेजो वायुराकाश एव च ॥ ४९-
अहङ्कारो महत्तत्त्वं प्रकृतिः पुरुषस्तथा ।
रत्नद्वीपो ब्रह्मनालः कल्पद्रुमवनं ततः ॥ ४९-
मन्दारोद्यानमीशानि पारिजातवनं ततः ।
हरिचन्दनमुद्यानं वैडूर्यद्रुमवाटिका ॥ ४९-
दिव्यमुक्तावनं चैव प्रवालद्रुमवाटिका ।
सूर्यकान्तद्रुमोद्यानं पद्मरागवनं ततः ॥ ४९-
महापद्मवनं चैव मणिगृहमनुत्तमम् ।
चतुःषष्टिमणिस्तम्भमण्डपस्तु ततः परम् ॥ ४९-
रत्नसिंहासनं देवि तस्य पादचतुष्टये ।
धर्मो ज्ञानं च वैराग्यमैश्वर्यं वह्निदिक् क्रमात् ॥ ४९-
एवं पीठार्चनं कृत्वा बध्वावाहनमुद्रिकाम् ।
स्वामिनीसहितं कृष्णं ध्यात्वायाकुलचेतसा ॥ ४९-
हृद्यागतमिति ध्यायन् सामरस्यमयं महः ।
नेत्रद्वारेण कुसुमं जलाक्षतसमन्वितम् ॥ ४९-
यन्त्रराजोपरि क्षिप्त्वा प्राणन्यासं समाचरेत् ।
आवाहनादिकां मुद्रां दर्शयेदथ पार्वति ॥ ४९-
पाद्यपात्रोदकेनैव पाद्यं दद्याद्विचक्षणः ।
अर्ध्यपात्रोदकेनैव दद्यादर्ध्यं च मूर्द्धनि ॥ ४९-
मधुपर्कं ततः कृत्वा दद्यादाचमनीयकम् ।
पुष्पतैलं ततो दत्वा दर्शयेन्मणिपादुकाम् ॥ ४९-
स्नानं दिव्यजलैर्देवि वासः खचितरत्नकम् ।
भूषणादि समर्प्याथ दिव्यगन्धार्पर्णं ततः ॥ ४९-
चम्पकैः करवीरैश्च केतकैर्बकुलैरपि ।
पङ्कजैर्जातिकुसुमैर्मालतीमोगरैरपि ॥ ४९-
पूजयेद्यन्त्रराजस्थं धूपं दद्याद्यथाविधि ।
निवेदयेत्ततो दीपमज्ञानध्वान्तनाशनम् ॥ ४९-
दक्षिणे स्थापयेद्दीपं तैलदीपस्तु वामतः ।
तयोरेकतरेणापि दीपं दद्याद् यथारुचि ॥ ४९-
वामभागे तु देवेशि त्रिविधानर्चयेद् गुरून् ।
करुणानन्दनायश्च तरुणानन्द एव च ॥ ४९-
भुवनानन्दनाथश्च त्रीनेतानूर्ध्वतो यजेत् ।
द्वितीयायां तथा पङ्क्तौ तदधः परमेश्वरि ॥ ४९-
मदनं मोहनं चैव मन्द्रं चैव यजेत्ततः ।
मन्दरं शङ्करं ताम्रं स्वगुरुं तद्गुरुं तथा ॥ ४९-
षट्गुरूश्च [तद्गुरूंश्च इ० पाठः ।] महेशानि तदधः परिपूजयेत् ।
साध्यसाधकयोर्मध्यदेशः प्राचीति गद्यते ॥ ४९-
कॢप्तप्राचीं समारभ्य सर्वत्र परिपूजयेत् ।
षट्कोणेष्वर्चयेद्देवि सुन्दरीमिन्दिरां तथा ॥ ४९-
आह्लादिनीमथानन्दामरुणां करुणावतीम् ।
श्यामानङ्गानङ्गरेखा सुरङ्गा व्यञ्जुली रतिः ॥ ४९-
बलाकी केसराङ्गी च वसुकोणे प्रपूजयेत् ।
ततो द्वादशपत्रेषु पूजनं प्रवदामि ते ॥ ४९-
चत्त्वारिंशद् यूथमुख्यास्तिस्रस्तिस्र उदाहृताः ।
प्रतिपत्रं प्रपूज्ये द्वे स्वामिनीनित्यपार्श्वगे ॥ ४९-
मालती माधवी नन्दा सुभद्रा रुचिरानना ।
पुष्पावती रत्नरेखा पद्मवृन्दा विलासिनी ॥ ४९-
मन्दारमधुरा माध्वी मञ्जनादा कलावती ।
शृङ्गारलतिका वृन्दा प्रमोदा मधुमालती ॥ ४९-
किशोरी कुसुमानन्दा रसकुल्या प्रभावती ।
आशावती विशाला च निस्तुला नीलकुन्तला ॥ ४९-
विद्युद्वर्णा निम्ननाभिः विरजस्का विहारिणी ।
रागिणी रङ्गलतिका तथा रत्नावतीति च ।
पद्मावती पद्मगर्भा पद्मिनी च पिकस्वरा ॥ ४९-
बहिर्वृत्ते च कूटस्थ [अक्षरस्वरूपवर्णनमिदम् ।] व्यापकं नित्यमव्ययम् ।
अखण्डं सच्चिदानन्दं पूजयेत्परमेश्वरि ॥ ४९-
कालमेघालिरुचिरं स्फुरन्माणिक्यकुण्डलम् ।
दिव्यरत्नकिरीटेन ज्वालयेव हविर्भुजम् ॥ ४९-
मुक्ताहारं चतुर्बाहुमुद्यत्सूर्यारुणाम्बरम् ।
कोटिचन्द्रांशुसन्दोहप्रकाशपरमोज्ज्वलम् ॥ ४९-
यदुन्मेषनिमेषाभ्यां ब्रह्माण्डविलोदयौ ।
जगद्भ्रमस्याधिष्ठानं रजतस्येव शुक्तिका ॥ ४९-
अध्यारोपापवादाभ्यां विदुषां ज्ञानगोचरम् ।
यत्सत्तयाप्यसद्भाति नामरूपविकल्पितम् ॥ ४९-
उपेतं रमया पञ्चवार्षिक्या सप्तवार्षिकम् ।
नवरत्नविचित्रश्रीमालयालङ्कृतं परम् ॥ ४९-
तद्बहिश्चतुरस्रे च प्रतिद्वारं सुरेश्वरि ।
पुरुषं प्रकृतिं कालं यज्ञं पूर्वादिवामतः ॥ ४९-
तद्बहिश्चतुरस्रे च वासुदेवादिकान् यजेत् ।
किरीटकुण्डलधरान् जलदश्यामलाकृतीन् ॥ ४९-
शङ्खचक्रगदापद्मभ्राजद् भुजचतुष्टयान् ।
तद्बहिश्चतुरस्रेऽपि पूजयेच्च ततः परम् ॥ ४९-
अग्नेरीशानपर्यन्तं पञ्चभूतार्चनं क्रमात् ।
ईशानाद्वायुपर्यन्तं तन्मात्राः परिपूजयेत् ॥ ४९-
नै-ऋतेर्वायुपर्यन्तं पञ्चकर्मेन्द्रियाण्यपि ।
नै-ऋतादग्निपर्यन्तं पूजयेत् ज्ञानपञ्चकम् ॥ ४९-
तद्बहिर्द्वारदेशेषु पूर्वादिक्रमतोर्चयेत् ।
इन्द्रमग्निं यमं चैव नैर्-ऋति च जलेश्वरम् ॥ ४९-
पवनं धनदं रुद्रमूर्ध्वं ब्रह्माणमर्चयेत् ।
अधस्ताच्च तथानन्त तत्रैवास्त्राणि वाहनैः ॥ ४९-
पूजयित्वा ततो देवि ततो नैवेद्यमर्पयेत् ।
भक्ष्यभोज्यान्नभरितं साधारं पात्रमुत्तमम् ॥ ४९-
सामान्यसलिलैः प्रोक्ष्य दत्त्वा पुष्पाक्षतादिकम् ।
ततो धेन्वामृतीकृत्य मूलमन्त्रं ततोऽष्टधा ॥ ४९-
पञ्चप्राणाहुतीर्दद्यात् ग्रासमुद्रां च दर्शयन् ।
जलपात्रं निवेद्याथ बिभृयादन्तरे पटम् ॥ ४९-
पौराणैः प्राकृतैः स्तोत्रैः स्तुत्वा भुञ्जानमीश्वरम् ।
ध्यात्वा तृप्तमिति ज्ञात्वा दूरीकृत्य पटावृत्तिम् ॥ ४९-
दत्त्वाचमनमीशानि गन्धचूर्णैरनेकधा ।
स्नेहापनोदनं कृत्वा हस्तयोः परमेशितुः ॥ ४९-
गण्डूषान् कारयेत्पश्चात् कर्पूरैर्मुखशोधनम् ।
हस्तपादौ च प्रक्षाल्य हस्तवासस्ततोर्चयेत् ॥ ४९-
ततः प्रसन्नपूजान्ते लबिङ्गैलेन्दुमिश्रिताम् ।
पूगाश्मचूर्कनिर्भिन्नां ददेत्ताम्बूलबीटिकाम् ॥ ४९-
सम्प्रार्थ्य पादुकायुग्मं निधाय पुरतः शिवे ।
पुनः सिंहासनगतं दीपैर्नीराजयेत्ततः ॥ ४९-
ईषत्पक्वसुपिष्टेन कुर्याद्वेदाङ्गुलोन्नतान् ।
चतुरस्रान् शुभाकारान् नव सप्ताथ पञ्च वा ॥ ४९-
ततश्छत्रं चामरं च मायूरं व्यञ्जनं तथा ।
दर्पणं च ततो दत्वा प्रदक्षिणनमस्क्रियाम् ॥ ४९-
गीत नृत्यादिकं कृत्वा प्रीणयेत्परमेश्वरम् ।
इति ते कथितो देवि पूजाया विधिरुत्तमः [इति ते कथिता देवि पूजाया विधिरुत्तमा इ० पा० ।] ॥ ४९-
मनः प्रसादकाले तु कुर्यात्पूजां समाहितः ।
न कालनियमश्चात्र विद्यते परमेश्वरि ॥ ४९-
इत्येतत् कथितं देवि त्वया पृष्टं सुलोचने ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ ४९-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे एकोनपञ्चाशत्तमं पटलम् ॥ ४९-
अथ पञ्चाशत्तमं पटलम्
पार्वत्युवाच
देव नाथ महेशान त्रिलोचन जगत्पते ।
पूजनस्यापि परमो विधिर्मे संश्रुतो महान् ॥ ५०-
कूटस्थपूजने तत्र ध्यानमुक्तं त्वयाऽस्य हि ।
व्यापकं नित्यमव्यक्तमखण्डमिति शङ्कर ॥ ५०-
अखण्डं व्यापकं तच्चेत्तदानन्दगतं न किम् ।
केवलानन्दलीलायामङ्गीकारो विरुध्यते ॥ ५०-
अनङ्गीकारे देवेश व्यापकत्वं विरुध्यते ।
ज्ञानरूपं तु कूटस्थमानन्दः पुरुषोत्तमः ॥ ५०-
मिथौ विरुद्धौ देवेश ज्ञानानन्दौ सुरेश्वर ।
भेदशून्य यदा ज्ञानं जायते कृष्णयोषिताम् ॥ ५०-
रसस्तदा निवर्त्तेत निर्विशेषतया प्रभो ।
रसाभासकरं ज्ञानं कथं युज्येत तत्र हि ॥ ५०-
अखण्डव्यापकत्वादि धर्माणां तत्र का गतिः ।
एतज्जिज्ञासया देव मनो मे खिद्यतेतराम् ॥ ५०-
शिव उवाच
साधु पृष्टं त्वया भद्रे जिज्ञासूनामभीप्सितम् ।
यच्छ्रुत्वा तत्क्षणादेव जिज्ञासा विनिवर्त्तते ॥ ५०-
कूटस्थं व्यापकं देवि व्याप्यं कार्यमिति स्थितम् ।
न कार्यं व्यापकं क्वापि न व्याप्यं कारणं भवेत् ॥ ५०-
अल्पवृत्ति भवेद् व्याप्यं व्यापकं तु तदन्यथा ।
व्याप्यव्यापकता चापि कूटस्थानन्दयोरपि ॥ ५०-
विशेषं तत्र वक्ष्यामि शृणु त्वं कमलेक्षणे ।
कामांशकणिकाव्याप्तं कूटस्थं ज्ञानरूपकम् ॥ ५०-
अत एव श्रुतिशतैरानन्दमिति कीर्त्यते ।
कूटस्थमपरिच्छिन्नं विद्यते यद्यपि प्रिये ॥ ५०-
तिरोहितमिवानन्दे कुह्वां बिम्बमिवैन्दवम् ।
कामांशस्त्वपरिच्छिन्नमखण्डमचलं ध्रुवम् ॥ ५०-
सर्वतो व्याप्य देवेशि स्वरूपेण प्रकाश्यते ।
चिदानन्दमयीलीला प्रोक्ता कामांशभावजा ॥ ५०-
अनुभूता पुरा देवि निगमैः प्राकृते लये ।
तस्माद्गोलोकलीलेति प्रोच्यते वरवर्णिनि ॥ ५०-
पार्वत्युवाच
कीदृशी सा भवेल्लीलानुभूता निगमैः कथम् ।
शब्दात्मकः कथं वेदो रसानुभवमर्हति ॥ ५०-
एतदाख्याहि भगवन् यदि योग्यं भवेन्मम ।
शिव उवाच
शृणु पार्वति वक्ष्यामि तव प्रश्नमनुत्तमम् ॥ ५०-
सम्प्राप्ते प्रतिसञ्चरे न स विभुर्ब्रह्मा प्रजानां पति-
र्नोसूर्यादिगृहर्क्षसागरसरिद्विश्वन्धराः [विश्वंभराः इ० पा० ।] पर्वताः ।
वृक्षा औषधयस्तदा न विबुधा दैत्या मनुष्या दिशो
गन्धर्वा न च राक्षसा मुनिवरा यक्षा [साध्या इ० पा० ।] न सिद्धोरगाः ॥ ५०-
नष्टं स्थावरजङ्गमं विधिकृतं शिष्टं न किञ्चित्तदा
यः शिष्टः स विभुर्विनाशरहितः कूटस्थ एकः पुमान् ।
वेदा विस्मितचेतसोऽप्यथ विभुं तेऽन्तरश्चरा ब्रह्मवत्
सञ्चित्याथ हृदास्तुवन् रहसि ते यं वाङ्मनोगोचरम् ॥ ५०-
वेदा ऊचुः- [यथा - बृहद्वामनपुराणेऽपि भृग्वादीन् प्रति ब्रह्मणो वाक्यानि
षष्टिवर्षसहस्राणि मया तप्तं तपः पुरा ।
नन्दगोपव्रजस्त्रीणां पादरेणूपलब्धये ॥ ५०-
तथापि न मया प्राप्तास्तासां वै पादरेणवः ।
श्रुत्वैतद्ब्रह्मणो वाक्यं भृगुः प्राहाथ सादरम् ॥ ५०-
भृगुरुवाच
वैष्णवानां पादरजो गृह्यते त्वद्विघैरपि ।
सन्ति ते बहवो लोके वैष्णवा नारदादयः ॥ ५०-३ ॥]
एकस्त्वमात्मा पुरुषः पुराणो नित्योऽव्ययोऽनन्तगुणो निरीहः ।
क्वचित्स्थितः क्वापि गतो न विद्महे तं त्वां परं संशरणं गता वयम् ॥ ५०-
तेषां विहाय गोपीनां पादरेणुस्त्वयापि यत् ।
गृह्यते संशयो मेऽत्र को हेतुस्तद्वद प्रभो ॥ ५०-
ततो ब्रह्मा भृगुं प्राह चिन्तयित्वा पुरातनीम् ।
कथां सर्वश्रुतीनां च रहस्यं परमाद्भुतम् ॥ ५०-
ब्रह्मोवाच
न स्त्रियो व्रजसुन्दर्यः पुत्र ताः श्रुतयः किल ।
नाहं शिवश्च शेषश्च श्रीश्च ताभिः समा क्वचित् ॥ ५०-
प्राकृते प्रलये प्राप्ते व्यक्तेऽव्यक्तं गते पुरा ।
शिष्टे ब्रह्मणि चिन्मात्रे कालमायातिगेऽक्षरे ॥ ५०-
ब्रह्मानन्दमयो लोको व्यापिवैकुण्ठसंज्ञकः ।
निर्गुणोऽनाद्यनन्तश्च वर्तते केवलेऽक्षर ॥ ५०-
अक्षरं ब्रह्म परमं वेदानां स्थानमुत्तमम् ।
तल्लोकवासी तत्रस्थैः स्तुतो वेदैः परात्परः ॥ ५०-
चिरं स्तुत्या तु सन्तुष्टः परोक्षं प्राह तान् गिरः ।
तुष्टोऽस्मि ब्रूत भो प्राज्ञा वरं यन्मनसीप्सितम् ॥ ५०-
श्रुतय ऊचुः
नारायणादिरूपाणि ज्ञातान्यस्माभिरच्युत ।
सगुणं ब्रह्म सर्वेदं वस्तुबुद्धिर्न तेषु नः ॥ ५०-
ब्रह्मेति पठ्यतेऽस्माभिर्यद्रूपं निर्गुणं परम् ।
वाङ्गनोगोचरातीतं ततो न ज्ञायते तु तत् ॥ ५०-
आनन्दमात्रमिति यद्वदन्तीह पुराविदः ।
तद्रूपं दर्शयास्माकं यदि देयो वरो हि नः ॥ ५०-
श्रुत्वैतद्दर्शयामास स्वं लोकं प्रकृतेः परम् ।
केवलानुभवानन्दमात्रमक्षरमव्ययम् ॥ ५०-
यत्र वृन्दावनं नाम वनं कामदुघैर्द्रुमैः ।
मनोरमणीयकुञ्जाढ्यं सर्वर्तुसुखसंयुतम् ॥ ५०-
यत्र गोवर्द्धनो नाम सुनिर्झरदरीयुतः ।
रत्नधातुमयः श्रीमान् सुपक्षिगणसंकुलः ॥ ५०-
यत्र निर्मलपानीया कालिन्दी सरितां वरा ।
रत्नबद्धाभयतटी हंसपद्मालिसङ्कुला ॥ ५०-
नानारासरसोन्मत्तं यत्र गोपीकदम्बकम् ।
तत्कदम्बकमध्यस्थ किशोराकृतिरच्युतः ॥ ५०-
दर्शयित्वेति च प्राह व्रत किं करवाणि वः ।
दृष्टो मदीयो लोकोऽयं यतो नास्ति परं वरम् ॥ ५०-
श्रुतय ऊचुः
कन्दर्पकोटिलावण्ये त्वयि दृष्टे मनांसि नः ।
कामिनीभावमासाद्य स्मरक्षुब्धान्यसंशयः ॥ ५०-
यथा त्वल्लोकवासिन्यः कामतत्वेन गोपिकाः ।
भजन्ति रमणं मत्वा चिकीर्षाऽज्जनि नस्तथा ॥ ५०-
श्रीभगवानुवाच
दुर्लभो दुर्घटश्चैव युष्माकं सुमनोरथः ।
मयानुमोदिताः सम्यक् सत्यो भवितुमर्हति ॥ ५०-
आगामिनि विरञ्चौ तु जाते सृष्ट्यर्थमुद्यमे ।
कल्पं सारस्वतं प्राप्य व्रजे गोप्यो भविष्यथ ॥ ५०-
पृथिव्यां भारते क्षेत्रे माथुरे मम मण्डले ।
वृन्दावने भविष्यामि प्रेयान् वो रासमण्डले ॥ ५०-
जारधर्मेण सुस्नेहं सुदृढं सर्वतोधिकम् ।
मयि सम्प्राप्य सर्वा हि कृतकृत्या भविष्यथ ॥ ५०-
श्रुत्वैतच्चिन्तयन्तस्ते रूपं भगवतश्चिरम् ।
उक्तं कालं समासाद्य गोप्यो भूत्वा हरिं गताः ॥ ५०-
स्त्रियो वा पुरुषो वापि भर्तृभावेन केशवम् ।
हृदि कृत्वा गतिं यान्ति श्रुतीनां नात्र संशयः ॥ ५०-
तासां पादरजांस्येव नित्ये वृन्दावने भुवि ।
तत्प्राप्य तत्कामनया यान्त्यहो गोपिकागतिम् ॥ ५०-
नन्दगोपव्रजस्त्रीणामतः पादरजो मया ।
वाञ्छितं पुत्रकाः सम्यक् यतस्ताः श्रुतयः किल ॥ ५०-
श्रुत्त्वैतदृषयो वाक्यं ब्रह्मणः परमेष्ठिनः ।
सर्वात्मना प्रसन्नाः स्युः श्रीगोपीजनवल्लभे ॥ ५०-
उक्तं च सनत्कुमारसंहितायां एकत्रिंशे पटले
श्रीमहादेव उवाच
कश्चिद्वः कुशलं विप्रा ब्रह्मणो विष्णुदेवयोः ।
ध्यानयोगौ तपो वेदाः कुशलाः सन्ति शाश्वताः ॥ ५०-
यदर्थमागता यूयं तद्वदामि परिस्फुटम् ।
एवं तु ऋषयो गुह्यं न विख्यातं मया क्वचित् ॥ ५०-
इदं च कथ्यते गोप्यं गुह्याद् गुह्यतरं महत् ।
श्रूयतां मुनिशार्दूलाः कृष्णधामसमुत्सुकाः ॥ ५०-
वृन्दावनं महापुण्यं सर्वपावनपावनम् ।
सर्वलोकबहिर्भूतं निराधारं परिस्फुरत् ॥ ५०-
शुद्धं वस्त्रैश्च सवीतं प्रियं तं सुपरिस्थितम् ।
तत्र संक्रीडते युग्मं ललितादिसखीवृतम् ॥ ५०-
पुनश्चोक्तं सनत्कुमारसंहितायां द्वाविंशत्तमे पटले
सदाशिव उवाच
वृन्दावनस्याद्वयाद्यं वृन्दानन्दनमुच्यते ।
द्वितीये करणैर्जातं मथुरामण्डलं परम् ॥ ५०-
तत्समो नास्ति तीर्थोऽन्यो न चेद्वैकुण्ठ एव च ।
किमन्यत्तीर्थगणना अन्धकूपसमा मुने ॥ ५०-
मथुरामण्डलं रम्यं सर्वतीर्थोत्तमोत्तमम् ।
तत्र वृन्दावनं रम्यं पञ्चयोजनविस्तृतम् ॥ ५०-
प्राणत्यागं च मर्त्यास्तत्वज्ञास्तत्वदर्शिनः ।
कुर्वन्ति ये वने पुण्यं प्राप्नुवन्ति पदं शुभम् ॥ ५०-
उत्तरे दक्षिणे भागे योजनद्वयमुच्यते ।
यत्र स्मरणमात्रेण सिद्धिर्नून भवेद्ध्रुवम् ॥ ५०-
भूमौ च जीवसिद्ध्यर्थं रचितं वृन्दावनस्थलम् ।
अन्यभूमौ न सहसा यथा वृन्दावने वरे ॥ ५०-
जायते तत्पदप्राप्तिरचिरेण सुखेन च ।
सर्वं संत्यज्य गार्हस्थं सर्वतीर्थगणं तथा ॥ ५०-
गुह्याद्गुह्यतरं [वाराहसंहिताया ।] गुह्यं परमानन्दकारणम् ।
अत्यद्भुतरहस्यानां रहस्यं परमं शिवम् ॥ ५०-
दुर्लभानां च परमं दुर्लभं सर्वमोहनम् ।
सर्वशक्तिमयं देवि सर्वशास्त्रेषु गोपितम् ॥ ५०-
सात्वतं स्थानमूर्द्धन्यं विष्णोरेकान्तवल्लभम् ।
नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि संस्थितम् ॥ ५०-
पूर्णब्रह्मसुखैश्वर्यं नित्यमानन्दमव्ययम् ।
वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ॥ ५०-
गोलोकैश्वर्यंयत्किंचिद्गोकुले तत्प्रतिष्ठितम् ।
वैकुण्ठवैभवं यच्च द्वारकायां प्रकाशितम् ॥ ५०-
यद्ब्रह्मपरमैश्वर्यं नित्यवृन्दावनाश्रयम् ।
तद्देवि माथुरं मध्ये वृन्दावनविशेषतः ॥ ५०-
स्त्री लक्ष्मीः पुरुषो विष्णुस्तदंशांशौ बभूवतुः ।
तत्र किशोरवयसा नित्यमानन्द विग्रहः ॥ ५०-
अनन्तकोटिब्रह्माण्डे अनन्तत्रिगुणाश्रये ।
तत्कलाकोटिकोट्यंशाः ब्रह्मविष्णुमहेश्वराः ॥ ५०-
उक्तं च गोतमीतन्त्रे
तत्सर्वोपरि गोलोकस्तद्गोलोकोपरि स्वयम् ।
विहरेत्परमानन्दो गोविन्दोतुलनायकः ॥ ५०-
उक्तं च वाराहसंहितायाम्
दिव्यवनेषु यद्रूपं नित्यं वृन्दावनेश्वरम् ॥ ५०-
व्रजेन्द्रं सात्वतैश्वर्यं व्रजप्राणैकवल्लभम् ॥ ५०-
परं धामपरं रूपं द्विभुजं गोकुलेश्वरम् ।
वृन्दावनेश्वरं ध्यायेन्निर्गुणस्यैककारणम् ॥ ५०-
नखेन्दुकिरणश्रेणीपूर्णब्रह्मैककारणम् ।
केचिद्वदन्ति तद्रश्मिं ब्रह्म चिद्रूपमव्ययम् ॥ ५०-
योगीन्द्रैरपि दुष्प्राप्यं सत्यं पुंसामगोचरम् ।
यदंशांशं महाविष्णुं प्रवदन्ति मनीषिणः ॥ ५०-
उक्तं च सनत्कुमारसंहितायां पञ्चत्रिंशत्तमे पटले
सदाशिव उवाच
नन्दस्य गेहे सञ्जातं कृणांशं च तुरीयकम् ।
वसुदेवेन यद्दृष्टमाराधितोऽन्यसंज्ञया ॥ ५०-
यथा चतुर्भुजो विष्णुस्तथा कोऽप्यपरः पुमान् ।
सोऽपि चतुर्भुजध्येयः इति मोहेन मोहितः ॥ ५०-
द्रोणो नन्दो महाकीर्तिर्यशोदा सा यशस्विनी ।
तयोर्योगे च सञ्जातः कृष्णांशः कृष्णरूपधृक् [अत एव कृष्णः पशुपांगजः गोपीसुतश्चेति कथ्यते ।] ॥ ५०-
चक्रतुस्तन्महारासं मुनिविस्मयकारकम् ।
ब्रह्मविष्णुमहेशाद्यैर्दुर्विज्ञं देवतागणैः ॥ ५०-३० ॥ ५०-इति ॥ ५०-]
कर्माणि तानीह गुणाश्च ते प्रभो
नष्टानि [प्रभोऽनन्तानि इ० पा० ।] सर्वाण्यधुना न सन्ति ।
क्वचिद्धतानि [क्वचिद्गतानि इ० पा० ।] क्व गता हि जन्तवो
ये यज्ञभुग्ब्रह्मपुरोगमास्ते ॥ ५०-
न सन्ति ते क्वापि पुरन्दरादयो
येऽस्मत्प्रदत्तानि हवींष्यदन् क्रतौ ।
कामान् मनोज्ञान् हि ददत्यनारतं
नाशं गतास्तेऽपि न विद्महे क्वचित् ॥ ५०-
ब्रह्मेशनारायणनामधेयः
करोषि सृष्टिं हरणं च पालनम् ।
स्वयं गुणातीतगुणैस्त्रिभिस्त्वं
मनुष्यदैत्यान् विबुधान् विधासि ॥ ५०-
नमः कूटस्थरूपाय नमोऽनन्ताय वेधसे ।
व्याप्यव्यापकरूपाय वाच्यवाचकरूपिणे ॥ ५०-
नमः शिवाय शान्ताय निर्गुणाय गुणात्मने ।
सदसद्व्यतिरिक्ताय [सदसद्व्यक्तिरूपाय इ० पा० ।] सदसद्वयक्तिहेतवे ।
इच्छाप्रवर्त्तितजगद्व्यापाराय [इक्षा इ० पा० ।] रते नमः ॥ ५०-
त्वययुदितं त्वयि लीनं जगदेतद्धेम्नि कुण्डलं यद्वत् ।
आदावन्ते यत्सत्तत्सन्मध्येऽप्यसत्तया सद्वत् ॥ ५०-
तस्मिंस्त्वयि वचनानामेषा रचना विभाति नो नाथ ।
दीपविधिर्दिवसेश्वरबिम्बालोकाय निष्फलो यद्वत् ॥ ५०-
तस्मात्प्रसीद भगवन् नोऽनुग्रहमुररीकुरु ।
त्वदुद्भवा वयं वेदास्त्वन्निष्ठास्त्वां कथं स्तुमः ॥ ५०-
स्तुवन्त एवं भगवन्तमव्ययं
स्थिता हि वेदाः [वेदश्चकितार्द्रमानसाः इ० पा० ।] स्थगितार्द्रमानसाः ।
महालये प्राकृतसंज्ञके हि ते
बभूव गोर्व्योम्नि तदा मनोहरा ॥ ५०-
शृणुध्वं विभोर्वाक्यमेतन्मनोज्ञं
वृणुध्वं वरं मत्तु वेदाः प्रसन्नात् ।
प्रसन्ने परे मययलभ्यं किमस्ति
न चापीह लोके परत्रापि शश्वत् ॥ ५०-
वेदा ऊचुः
वरः कः [कोऽपरो इ० पा० ।] परो योऽस्माभिरीड्यो
न चैतत्परं किञ्चिदस्तीह लोके ।
यदस्तीह किञ्चित्परं तत्त्वमेव
प्रसन्नोऽसि चेद्दर्शनं नो विधेहि ॥ ५०-
अस्माभिर्वर्ण्यते नित्यं तव रूपाण्यनेकशः ।
ज्ञातान्यपि विशेषेण दृष्टानि बहुशोऽपि हि ॥ ५०-
आविर्भवन्ति लीयन्ते निर्गुणे त्वयि केवले ।
निर्गुणातीतमात्मानं त्वदीयं दर्शयाद्यतः ॥ ५०-
एवं प्रार्थयमानेषु वेदेषु बहुधा तदा ।
आविर्बभूव सहसा लीला गोलोकविश्रुता ॥ ५०-
प्रादुर्बभूवातिमनोहरा सरित्
स्फुरन्महारत्नतटाच्छवालुका [अम्बुबालुका इ० पा० ।] ।
सुवर्णपङ्केरुहशोभमाना
गभीरपीयूषजलोर्मिमालिनी [जवोमिं इ० पा० ।] ॥ ५०-
वृन्दावनं तद्वरवृक्षवृन्दै-
र्युत सचिन्तामणिकल्पपादपैः ।
शालैस्तमालैस्तरलैः कदम्बै-
र्जम्ब्वाम्रप्लक्षैर्वटपिप्लाद्यैः ॥ ५०-
कपित्थबिल्वामलनालिकेरैरश्वत्थपूगैः कदलैर्वनैश्च ।
युतं मनोहारिभिरन्यवृक्षैरशोकपाटीरसुपारिजातैः ॥ ५०-
मनोज्ञकुञ्जैर्बहुभिः परीतं गोगोपगोपीनिलयैरुपेतम् ।
आनन्दसन्दोहमिवोद्गिरद्भिर्मरुद्भिरानर्त्तितपल्लवद्रुमम् ॥ ५०-
प्रादुर्भूतं वनं तत्र नानापक्षिगणाकुलम् ।
नातिदूरे वर्तमानो गोवर्धननगोत्तमः ॥ ५०-
सर्वर्तुगुणसम्पन्नो नानाधातुविचित्रितः ।
स्फुरत्सुवर्णशिखरः सुधानिर्झरशीतलः ।
वीक्ष्य तं विस्मयं प्राप्ताः स्वप्नोऽयं वा मनोभ्रमः ॥ ५०-
पारावताः कलरवाः कलराजहंसाः
कारण्डवा रथवदाह्वयकोकिलाद्याः ।
सारङ्गबर्हणमनोहरपक्षिपूगास्-
तस्थर्वने हरिगणा इव तं स्तुवन्तः ॥ ५०-
घनश्यामरूपं प्रफुल्लाब्जनेत्रं किरीटाङ्गदैरुल्लसद्भ्रूकपोलम् [किरीटाङ्गदाढ्यं लस० इति पाठः । ] ।
सुनासं सुवक्त्रं रणद्वेणुहस्तं सुवर्हावतंसं तमापीतवस्त्रम् ॥ ५०-
तमानन्दरूपे वने नन्दसूनुं तदानन्दरूपं प्रभुं तेऽभ्यपश्यन् ।
महावल्लवीयूथमध्ये चरन्तं त्रिभङ्गाकृतिर्भ्राजमानस्वरूपम् ॥ ५०-
कोट्यर्कप्रभया विराजिततनुं कोटीन्दुदर्पापहं कोटिस्फूर्जदनङ्गरङ्गवपुषं कोट्यब्धिगाम्भीर्यकम् ।
तं लावण्यनिधिं विलोक्य सहसा पार्श्वस्थया राधया
जुष्टं गोपिकया निरन्तरमतिप्रेम्णाथ ते विस्मितः ॥ ५०-
काचिद्गोपी सचमरकरा बीजयन्ती स्वकान्तं
काचिच्चाग्रे करयुगपुटं कृत्य तस्थौ निरीह ।
काचित् स्थाल्यां मणिगणमयीं कृत्य दीपावलिं त्तां राधाकृष्णप्रतिमुखगता कुर्वती दीपकृत्यम् ॥ ५०-
काचित्कृष्णमुखं निरीक्ष्य सुतरां चित्रार्पितेवाभवत्
काचित्कृष्णकरं निगृह्य हृदये संस्थाप्य तस्थौ मुदा ।
काच्चिच्चांघ्रियुगं निगृह्य सदयं स्वेमूर्ध्न्यधास्यन्मुदा
काचिन्नृत्यति कृष्णकीर्तनपरा धृत्वा करे तालिकाम् ॥ ५०-
एवं रासरसोन्मत्तं गोपिकायूथमध्यगम् ।
वीक्ष्य वृन्दावने कृष्णं प्रणेमुः श्रुतयः समम् ॥ ५०-
ततः प्रसन्नस्ता आह ब्रूत मत्तो वरं शुभम् ।
भवद्भिर्दृष्टमित्येव धाम गोलोकशब्दितम् ॥ ५०-
श्रुतय ऊचुः
न वृणीमो वरं किञ्चित्कालग्रस्तं विनश्वरम् ।
यदि दास्यति चेन्नाथ तदा नोऽनुग्रहं कुरु ॥ ५०-
विलसन्ति यथा गोप्यस्त्वत्प्रिया भवता सह ।
जायते च तथास्माकं रिरंसाकुलितं मनः ॥ ५०-
सम्पादय तथा काममस्माकं हृदयस्थितम् ।
कोटिकन्दर्पसुभगं वीक्ष्य स्थातुं न शक्नुमः ॥ ५०-
निशम्य वेदगदितं किशोराकृतिरच्युतः ।
शृण्वन्तीनां च गोपीनां प्राह प्रहसिताननः ॥ ५०-
कामोऽयं निगमाः सत्यं खपुष्पमिव दुर्लभः ।
न प्राप्तुं शक्नुयात् कोऽपि स्वयं पुरुषबुद्धिभाक् ॥ ५०-
प्रियारूपं स्वमात्मानं जानन्मां प्रियमित्यथ ।
अत्युग्रविरहज्वालाज्वलिताकृतिरेति माम् ॥ ५०-
नाद्यावधि ममैवायं गोलोकसंज्ञितः ।
प्राप्तः केनापि निगमा मदुक्तेनापि वर्त्मना ॥ ५०-
तथापि वरदानार्थं प्रोक्ताः स्थ वरदेन मे ।
तदपि स्यान्न मे वाक्यं व्यलीकं कर्हिचित्क्वचित् ॥ ५०-
यदा चतुर्मुखो ब्रह्मा पद्मकल्पे भविष्यति ।
तत्सृष्टलोकमध्ये तु माथुरं मण्डलं शुभम् ॥ ५०-
तत्र वृन्दावनं दिव्यं भविष्यति रसाश्रयम् ।
तत्र गोलोकलीलेयं सर्वथावतरिष्यति ॥ ५०-
मूलरूपं च मे तत्र स्वप्रियाभिरुदेष्यति ।
भवन्तोऽपि विशेषेण पुरुषत्वं विहाय च ॥ ५०-
कामिनीभावमापन्ना भविष्यथ [वरांगनाः इ० पा० ।] व्रजाङ्गनाः ।
तत्रापि मुरलीनादश्रवणानन्दमोहिताः ॥ ५०-
अतिक्रम्य स्वमर्यादां रासमण्डलमागताः ।
भविष्यथ तदा यूयं पूर्णकामा न संशयः ॥ ५०-
इत्युक्त्वान्तर्दधे साक्षात्किशोराकृतिरच्युतः ।
ततः कतिपये काले पद्मकल्पे चतुर्मुखे ॥ ५०-
जाते तस्य व्यतिक्रान्ते परार्द्ध प्रथमे ततः ।
द्वितीयस्यापि तस्यैव मध्ये लीलेयेमागता ॥ ५०-
द्विषट्सहस्रभेदेन स्वात्मानं च विभज्य ते ।
कामियीभावमापन्ना रासमण्डलमध्यगाः ॥ ५०-
कृष्णप्रियाप्रसङ्गेन कृतकृत्या बभूविरे ।
इति ते सर्वमाख्यातं यत्पृष्टोहं सुलोचने ॥ ५०-
कूटस्थहृदयं साक्षात् गोलोक इति विश्रुतः ।
तत्र क्रीडति गोपीभिः कामांशः पुरुषोत्तमः ॥ ५०-
आविर्भूतः सदैवायं कूटस्थे परमात्मनि ।
तिरोहितं तु चैतन्यं वर्त्तसे पुरुषोत्तमे [पुरुषोत्तमः इ० पा० ।] ॥ ५०-
रसलीलारसाम्भोधेः पारं गन्तुंक ईश्वरः ।
दिङ्मात्रदर्शनं विद्धि यन्मया वर्णितं शिवे ॥ ५०-
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे पञ्चाशत्तमं पटलम् ॥ ५०-
अथ एकपञ्चाशत्तमं पटलम्
शिव उवाच
अथान्यत्ते प्रवक्ष्यामि प्रकारं शृणु पार्वति ।
यस्य श्रवणमात्रेण जायते भावना शुभा ॥ ५१-
भूमयो दश ते प्रोक्ता मया च वरवर्णिनि ।
पञ्चमी शयनीयाख्या तस्यां शेते निशास्वपि ॥ ५१-
स्फूर्जद्रत्नमयूखचित्रविलसत्स्वर्णाच्छदण्डोद्घृत-
भ्राजन्मण्डपमण्डिते परिलसद्दिव्योपधानैः सुखे ।
प्रान्तस्फूर्जदनेकमौक्तिकमणिभ्राजत्पटीप्रावृते दिव्यामोदमनःप्रमोदसुमनःसौरभ्यसम्भाविते ॥ ५१-
तल्पे तल्पसुखास्पदे परिलसन्मुक्तावितानोत्तमे
हंसीतूलचिते स्फुरन्मणिगणप्रोच्चैः प्रदीपोज्ज्वले ।
स्वामिन्या परया विलासविविधक्रीडारसव्यग्रया
रात्रौ निर्भरमन्मथोत्सवसुखं शेते रसात्मा प्रभुः ॥ ५१-
वीणामृदङ्गमधुरध्वनिगीतनादैः
क्रीडागृहं च परितः परिवृत्तमानाः ।
सख्यः प्रियं परिचरन्ति निशावसाने ।
प्राणप्रियेशपरिबोधनकर्मदक्षाः ॥ ५१-
कनकाङ्गी मञ्जुमुखी कलकण्ठी स्मितानना ।
आनन्दवल्लरी वृन्दा मित्रवृन्दा विशोकिनी ॥ ५१-
चित्रवस्त्रा विचित्राङ्गी चन्द्रघण्टा विभावरी ।
मञ्जुमोदा विधुमुखी रत्नदन्ती मदालसा ॥ ५१-
लावण्यलहरी लीलावती लावण्यमन्थरा ।
ललिताङ्गी कामवती पुष्पिणी पुष्पदन्तिका ॥ ५१-
हसन्तिका हंसगतिः पुष्पवेणी मरुल्लता ।
मुदिता मोदिनी श्यामा तथा मुक्तावती रतिः ॥ ५१-
हारिणी हरिणी हंसी विहंसी हंसकुण्डला ।
अरुणाङ्गी रङ्गरङ्गा रसरङ्गा कुमुद्वती ॥ ५१-
कुङ्कुमाङ्गी कुन्दहासा चन्द्रहासा चरित्रिणी ।
आनन्दमञ्जरी मन्द्रा पद्मवृन्दा ज्वलन्तिका ॥ ५१-
कुन्ददन्ती रत्नकला जयिनी स्वर्णमेखला ।
पुलिंदिनी हेमवर्णा हरिणाक्षी रतिप्रिया ॥ ५१-
पद्मकोशा भृङ्गरावा गायनी मदमन्थरा ।
एकषष्टिमिताः सख्यो नियुक्ता [ख्याताः इ० पा० ।] बोधकर्मणि ॥ ५१-
प्रातः प्रोत्थितमायतादिकमलप्रोत्तम्भितभ्रूलतं जृम्भामञ्जुमुखारविन्दविलसद्विम्बाधरोद्यस्मितम् ।
निद्रान्ताघूर्णमानं समधिगतसखीवृन्दमालोकयन्तं
दृष्ट्या वातेरिताम्भोरुहमुकुललसच्छोभया निस्तुलाङ्गम् ॥ ५१-
स्फूर्जत्काञ्चनमण्डितामलमणिप्रोद्भासिते पात्रके
श्रीमन्मङ्गलवस्तुनि प्रविलसच्छ्रीरत्नदीपैः शुभैः ।
सख्यस्ता मृदुमञ्जुकङ्कणरणत्कारान् [समातन्वती इ० पा० ।] समातन्विताः कान्ताः कान्तमनङ्गकोटिरुचिरं नीराजयन्ति प्रियम् ॥ ५१-
तदनु झटिति रागादागतानन्दमञ्ज-
र्ययनघकरसरोजे व्यादधत् [व्यादधानात्मदर्श इ० पा० ।] दर्पण च ।
प्रियसुभगमुखाब्जं दर्शनीयं तवेदं
असितकणकृतश्री [सुकृतिजनकृतश्चि इ० पा० ।] रम्यमालोकयेति ॥ ५१-
ह्रादिनीनिहितरत्नपादुके पादपङ्कजयुगे निधाय च ।
रत्नपीठमुपसाद्यसुन्दर दन्तधावनविधिं करोति सः ॥ ५१-
दन्तधावनविधानयोजिते मन्द्रिणीति सुरसेति विश्रुते ।
मन्द्रिणी धृतवती शुभं जलं हस्तवस्त्रममलं तथेतरा ॥ ५१-
ततो लविङ्गकर्पूरचूर्णैलापूगमिश्रितम् ।
उपतिष्ठति सत्पात्रे धृत्वा मदनमेखला ॥ ५१-
ताम्बूलमास्वाद्य ततः प्रसन्नः
सखीजनप्रार्थनयातिकामम् ।
आरुह्य रत्नोज्ज्वलपादुके द्वे
स्नानगृहस्याभिमुखः प्रयाति ॥ ५१-
रत्नमौक्तिकवितानमण्डितं
धूपितं स्वगरुधूमराजिभिः ।
कल्पवृक्षकुसुमालिसौरभोद्-
भ्रान्तभृङ्गमुखरीकृताम्बरम् ॥ ५१-
सज्जसर्वपरिचारिकागणं नृत्यमानबहुनर्त्तकीगणम् ।
उल्लसद्विविधवाद्यगायनोज्जृम्भितप्रतिनिनादमञ्जुलम् ॥ ५१-
स्तम्भलग्नमणिपुत्रिकागणं स्नानमण्डपमुपेत्य भास्वरम् ।
रत्नपीठमुपनीय दर्शितं भामया समधितिष्ठति प्रभुः ॥ ५१-
उत्तार्य भूषणकलापमथो मनोज्ञं
तत्तत्प्रियाकरयुगान्युपलम्भयित्वा ।
नीराजितः स्वप्रमदोत्तमभूषणोद्यत्
कान्तिच्छटाभिरिव दीपशतैर्विभाति ॥ ५१-
यक्षकर्द्दम [कर्पूरागरुकस्तूरी कुंकुमं चन्दनं तथा ।
महासुगन्धिरित्युक्तो नामतो यक्षकर्दमः । इति धन्वन्तरिः ।] काश्मीररजनीचूर्णमिश्रितैः ।
उद्वर्त्तनं चकारेलागन्धद्रव्यैर्मनोहरैः ॥ ५१-
आनीय मणिपात्रस्थं गन्धतैलं मनोजवा ।
करोत्यभ्यङ्गमङ्गेषु स्वभावसुरभिष्वपि ॥ ५१-
मुक्तारत्नविचित्रहेमकलशैरापीड्यमानैः शरत् पूर्णेन्दूज्वलहस्तिकुम्भशिखरारूढैः सुधास्पर्द्धिभिः ।
कस्तूरीद्रवयक्षकर्दममहासौरभ्यसम्भावितैः
सख्यः पुष्पगणाधिवासितजलैः संस्नापयन्ति प्रियम् ॥ ५१-
स्मेरानना विधुकला बल्गुनादा विहङ्गमा ।
सङ्गमाला [मंगलामाला इओ पा० ।] स्मरानन्दा विश्वानन्द सुकुण्डला ॥ ५१-
तेजोवती हेमगर्भा तरुणी तपनावती ।
एताः प्राधान्यतः प्रोक्ता द्वादश स्नानकर्मणि ॥ ५१-
गोफेनस्वच्छशुचिन वाससाङ्गं सुकुण्डला ।
प्रियस्याह्लादजननी प्रोच्छयत्यतिकोमलम् [प्रीत्थयति इ० पा० ।] ॥ ५१-
स्नानवासः परित्यज्य तेजोवत्या निवेदितम् ।
काश्मीररागरुचिरं कटिवस्त्रं विभर्त्यसौ ॥ ५१-
पादुकायुगमारुह्य मन्दं मन्दं परः प्रभुः ।
भूषामण्डपमायाति प्रियाभिः परिवेष्टितः ॥ ५१-
रत्नराजितसुवर्णकुट्टिमे स्फुर्जदंशुनिवहैस्तथोर्ध्वगैः ।
शक्रचापरचनाचितान्तरे मण्डपे [चिताम्बरे ।] स्फटिकपीठमाश्रितः ॥ ५१-
केशावलिं कङ्कतिकामुखेन
संशोध्यमाना ललिता प्रियस्य ।
निर्दग्धकालागरुधूपधूपैः
सुवासयत्यत्र सरोजगन्धा ॥ ५१-
सिन्दूरपूरारुणिमानमुच्चैर्वहन् महोष्णीषमनङ्गरेखा ।
प्रान्तेषु मुक्तागुणगुम्फितं तदा व्यापारयामास तदुत्तमाङ्गे ॥ ५१-
सुवर्णरचितं प्रान्तं मुक्ताजालपरिस्कृतम् ।
पद्मरागं मध्यनीलमुष्णीषाग्रे बबन्ध सा ॥ ५१-
अनेकमुक्तामणिराजमाने निजेच्छया स्वीकृतहंसकुण्डले ।
तडित्प्रभापुञ्जविमोद्वमन्ती [उद्वहन्ती इ० पा० ।] श्रुतिद्वयस्याभरणीवकार ॥ ५१-
नवरत्नमयीं मालां ग्रैवेयाभरणं तथा ।
हृदम्बुजे लम्बमाननं चतुष्काभरणं तथा ॥ ५१-
बाह्वोः केयूरयुगलं कटकाङ्गदमुद्रिकाः ।
उन्मिषद्रत्नरचितं काञ्चीसूत्रं महद्धनम् ॥ ५१-
निर्यद्भूषांशुनिचयैः किर्मीरितमिवोत्तमम् ।
निःश्वासहारिवसनं श्वेतं स्निग्ध मनोहरम् ॥ ५१-
नवीनजलदस्निंग्धमुत्तरीयं सुशोभनम् ।
अनर्घ्यमौक्तिकमणिभ्राजत्प्रान्तचतुष्टयम् ॥ ५१-
अनेकदिव्याभरणान्यङ्गे प्रियतमस्य हि ।
रचयामास शृङ्गारचमत्कृतिमुपेयुषः ॥ ५१-
इति सज्जितशृङ्गारो गायद्भिः परितो वृतः ।
सखीवृन्दैः वाद्यहस्तैर्भोगभूमिं प्रयाति सः ॥ ५१-
पाकशालास्वधिकृता ललिताङ्गादिकाः प्रियाः ।
तिष्ठन्ति यत्र सुभगाः किशोराकृतयः शतम् ॥ ५१-
स्वर्णपीठं समास्थाय तिष्ठति पुरुषोत्तमः ।
सौवर्णविमलं पात्र साधारमति विस्पृतम् ॥ ५१-
परितस्तस्य सौवर्णपात्राणां च सहस्रकम् ।
स्थाप्यन्ते तेषु ते भोगाः स्निग्धा हृद्याः पृथग्विधाः ॥ ५१-
जातीकोरकपुञ्जविभ्रमकरं स्वन्नं च मव्यस्थितं
वामे ऽस्याढकमुद्गमोदनमथो प्राज्यं घृतं माहिषम् ।
सूपापूपहयङ्गवीनविलसत्पक्कान्नरम्भाफलै-
र्मुक्तालड्डुकपूलिकाशिखरिणीदध्यक्तमाषान्नकैः ॥ ५१-
वह्न्युष्णशर्करयुतं मणिपात्रसंस्थं
दुग्धं च पायसमथो घृतशर्करःक्तम् ।
पूर्णेन्दुचन्द्रकचित मधुराम्लतिक्त
नानारसाम्ररसमाक्षिकगोस्तनीकम् ॥ ५१-
कूष्माण्डवृन्ताकपटोलबिम्बी-
शिम्बीसुकौशातकिसूरणाद्यैः ।
मृद्वग्नितापेन सुपाचितैर्युतं
हिङ्ग्वामरीचादिसुवासितैर्भृशम् ॥ ५१-
चतुर्विधान्नं परिवेश्यमाण-
मानन्दमानन्दमयौऽपि भुङ्क्ते ।
प्रियाः समस्ता अपि त समन्तात्
प्रहासयन्त्यो बुभुजुः स्वपात्रैः ॥ ५१-
भोजनान्ते ततः कृष्णं मणिपीठे तु दक्षिणे ।
शुद्धाङ्गी स्वर्णभृङ्गारजलेनाचमनं ददौ ॥ ५१-
स्नेहापनोदनार्थाय गन्धचूर्णं शुभं ददौ ।
दन्तकाष्ठं च कर्पूरशशाङ्कशकलास्तथा ॥ ५१-
गण्डूषाचमनीयान्ते केसराङ्गी तु बीटिकाम् ।
पादुकायुगमारुह्य पञ्चवाद्यपुरःसरम् ॥ ५१-
पीठान्तरगतं कृष्णं परमानन्दविग्रहम् ।
स्वामिनीप्रमुखाः सर्वाः मुक्ताभिः समवाकिरन् ॥ ५१-
मुक्ताविचित्रचतुरस्रसुवर्णपात्रे
दूर्वादधिप्रभृतिमाङ्गलिकोपचारैः ।
आरोपितैः स्थिरशिखैः शुभरत्नदीपै-
र्नीराजयन्ति निजनाथमकामकामम् ॥ ५१-
शृङ्गारहास्योद्भुतमोदमानः प्रियानुरोधेन ततः परेशः ।
विश्रम्य तत्रैव मुहूर्तमात्रं प्रयाति भूर्मिं शयनीयसंज्ञाम् ॥ ५१-
मृदुवाद्यादिगीतेन गीयमानः प्रियाजनैः ।
चित्रया वीजितः शेते मृदुव्यजनहस्तया ॥ ५१-
सुप्तोत्थितः परिजनैः सह नृत्यभूमौ
सिंहासने विमलरत्नमयूखचित्रे ।
स्थित्वा प्रियाविलसनादिकनृत्यगीतं
पश्यंस्तुतोष यदपि स्वयमेव तोषः ॥ ५१-
अखण्डितशरच्चन्द्रस्मयापहारमण्डलम् [अपस्मार इ० पा० ।] ।
मिहिला छत्रमाधत्त रत्नदण्डरुचोज्ज्वलम् ॥ ५१-५९ ॥अयुतं मणिपात्रसंस्थं दुग्ध च पायसमथो घृतशर्करःक्तम् ।
अक्तमाषान्नकैः
व्यजनं पादुके चारु चामरे दर्पणादिकम् ।
दधानाः परिसेवन्ते पूर्वोद्दिष्टाः परात्परम् ॥ ५१-
ततो विमानप्रवरं नाम्ना चित्रध्वजं महत् ।
सखीसहस्रैरास्थाय गतश्चान्द्रमसं वनम् ॥ ५१-
कदाचिन्नीलविपिने कदाचित्पुष्पदन्तके ।
कदाचिदानन्दवने हेमकूटेऽपि कर्हिचित् ॥ ५१-
कदाचित्तारकूटाख्ये गारुडे नीलपर्वते ।
कदाचित्पुष्परागाद्रौ माणिक्याद्रावपि क्वचित् ॥ ५१-
मन्दारविपिने क्वापि पारिजातवनान्तरे ।
हरिचन्दनकोद्याने वैदूर्यविपिने [वैडूर्यमणिकानने इ० पा० ।] क्वचित् ॥ ५१-
महामुक्तावने क्वापि प्रवालोद्यान् एव च ।
पद्मरागवनोद्याने महापद्मवने तथा ॥ ५१-
कदाचिच्चम्पकवने क्वचित्कल्पद्रुकानने ।
अनेकविधलीलाभिः क्रीडते पुरुषोत्तमः ।
ततश्चान्द्रमसादेत्य विमानेन महौजसा ॥ ५१-
महाद्वारपुरोवर्त्तिं मण्डपेऽपि स्थितः क्षणः [कृतक्षणः इ० पा० ।] ।
चतुःषष्टिमहास्तम्भां मूलभूमिं समाश्रितः ॥ ५१-
रत्नसिंहासनगतं तदैवेच्छाविमोहिताः ।
स्वामिनीप्रमुखाः कृष्णं प्रार्थयामासुरुत्सुकाः ॥ ५१-
तत्तु सर्वं मया प्रोक्तं पुरा ते वरवर्णिनि ।
अतः परं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा ॥ ५१-
यथानेन प्रकारेण प्रियाः परिचरन्ति तम् ।
तथैव काश्चन व्यग्राः स्वामिनीसेवनादिषु ॥ ५१-
नीराजनस्नानवस्त्रगन्धमाल्यविभूषणैः ।
शयनासनताम्बूलैः सख्यः परिचरन्ति ताम् ॥ ५१-
द्विषटसहस्रसंख्याताः याः परिचरन्ति ताम् ।
षट्सहस्राणि कृष्णस्य परिचर्यापराणि हि ॥ ५१-
स्वामिन्याः षट्सहस्राणि वर्त्तन्ते परिकर्मणि ।
तासां यूथानि देवेशि चत्वारिंशन्मितानि हि ॥ ५१-
तासां सोधानि दिव्यानि सहस्राणीति द्वादश ।
एकैकं योजनार्द्धेनायामविस्तारसंयुतम् ॥ ५१-
एकैकस्याः प्रियायास्तु मन्दिरे मन्दिरे प्रिये ।
शतं शतं प्रवर्त्तन्ते सेवार्थं परिचारिकाः ॥ ५१-
प्रियासौधबहिर्भागे तत्क्रमेणैव भामिनि ।
परिचारिकावर्गसमं मन्दिराणि पृथक्-पृथक् ॥ ५१-
योजनार्द्धप्रमाणेन किञ्चिदप्यधिकेन च ।
विस्तारयामयुक्तानि त्रिभौमानि द्युमन्ति च ॥ ५१-
प्रियासौधानि दिव्यानि नानावर्णाकृतीनि च ।
चन्द्रामृतोद्गारवन्ति चन्द्रकान्तोद्भवानि तु ॥ ५१-
कानिकृष्णानि रक्तानि कृष्णरक्तानि कान्यपि ।
कानिचिद्रक्तकृष्णानि श्वेतरक्तानि काचिचित् ॥ ५१-
श्वेतानि चैव रक्तानि रक्तश्वेतानि कान्यपि ।
एवं धूम्राणि कृष्णानि धूम्रकृष्णानि कानिचित् ॥ ५१-
कृष्णधूम्राणि देवेशि सर्वसौधेष्वयं क्रमः ।
एकैकमन्दिरे देवि मज्जनागारमायतम् ॥ ५१-
नानोपकरणैर्युक्तं दिव्यरत्नवितानकम् ।
भूषागृह कथैकत्र महाकुट्टिममण्डपम् ॥ ५१-
भूषागृहस्य पूर्वे तु गन्धालेपस्य मन्दिरम् ।
नानागन्धविभेदादिसमृद्धं बहुयुक्तिकम् ॥ ५१-
महानसं तु देवेशि वर्त्तते वह्निकोणगम् ।
ईशान्ये तु सभासद्म दिव्यासनविराजितम् ॥ ५१-
एवं कृष्णप्रियासौधस्थितिरुक्ता तवानघे ।
द्रवीभूतरसः कृष्णः प्रियाभावात्मकस्तु यः ॥ ५१-
आविर्भूय प्रियावृन्दैः क्रीडते प्रतिमन्दिरम् ।
स्वामिनीमन्दिरेपि च घनीभूतस्तु केवलम् ॥ ५१-
न स्वामिनीं विना कृष्णः न स्वामिनी कृष्णं विना ।
न तिष्ठति क्षण देवि ह्यन्यथा लुप्यते रसः ॥ ५१-
अत्र ये मणयो मुक्ताः कुसुमानि लतांघ्रिपाः ।
विद्रुमस्वर्णरजतनानाभेदाश्च धातवः ॥ ५१-
सूर्याचन्द्रमसौ देवि पशुपक्षिसमीरणाः ।
भक्ष्यभोज्यलेह्यचोष्यपेयभेदा ह्यनेकशः ॥ ५१-
भोक्तृभोग्यविभागश्च ज्ञातृज्ञेयादिकं तथा ।
रस एवेति विज्ञाय न मुह्यति कदाचन ॥ ५१-
न कालगणना तत्र वर्त्तते परमेश्वरि ।
न सूर्यचन्द्रताराणामुदयास्तादिकं भवेत् ॥ ५१-
उदयास्तादिभावाश्च प्रतीयन्ते तथापि हि ।
लीलासमयभेदार्थमेवं जानीहि पार्वति ॥ ५१-
एतन्मयोदितं साध्वि त्वया सम्यक् श्रुतं किल ।
न वाच्यं कस्यचिद्देवि सर्वोपनिषदां रहः ॥ ५१-
एतन्माहेश्वरं तन्त्रं सर्वतन्त्रोत्तमोत्तमम् ।
रसनिर्णयसम्पन्नं समाधौ यच्छ्रुतं मया ॥ ५१-
मया [अनेन ज्ञायतेऽस्य तंत्रस्यातिगोप्यत्वान्नाममात्रमपि न क्वापि ९४ तंत्रेषु प्राकट्यं हसमाहेश्वरतंत्रं तु भिन्नविषयकमिति मे मतम् ।] प्रकटितं तेऽद्य पुत्रयोरपि गोपितम् ।
वासना एव तुष्यन्ति श्रुत्वा साध्वीं कथामिमाम् ॥ ५१-
अल्पाः कूपा विवर्द्धन्ते ज्योत्स्नया किं समुद्रवत् ।
हरिणा एव तुष्यन्ति गानं श्रुत्वा न गर्दभाः ॥ ५१-
तस्मात्परीक्ष्य वक्तव्यं सहसा न प्रकाशयेत् ।
श्रद्धधानाय शान्ताय कुलीनाय महेश्वरि ॥ ५१-
विनीताय कृतज्ञाय क्रियाशुद्धाय दीयताम् ।
श्रद्धाभक्तिविहीनाय कृतघ्नाय दुरात्मने ॥ ५१-
गुरुभक्तिविहीनाय हेतुवादरताय च ।
असम्भावितचित्ताय विपरीतार्थवादिने ॥ ५१-
वृथार्थैकप्रवृत्ताय वेदशास्त्रार्थमानिने ।
दाम्भिकायातिदुष्टाय विषयाक्रान्तचेतसे ॥ ५१-
न देयः सर्वथा देवि तन्त्रार्थः पराद्भुतः ।
तन्नास्ति त्रिषु लोकेषु यद्दत्त्वाप्यनृणी भवेत् ॥ ५१-
प्रभोर्देवस्य सर्वस्वं मयेदं ते प्रकाशितम् ।
अतः परं तु देवेशि ज्ञातव्यं नावशिष्यते ॥ ५१-
तस्मादिदं सुविज्ञाय रहस्यं कृष्णयोषिताम् ।
स्वयमेव परानन्दनिमग्ना भव सुन्दरि ॥ ५१-
अतः परं तु देवेशि पष्टव्यं नैव किञ्चन ।
नित्यं ध्यायामि यच्चित्ते तदेतत्ते निवेदितम् ॥ ५१-
इत्युक्त्वा च तदा शम्भुस्तूष्णींभूत्वा च संस्थितः ।
वर्णमानमहालीलासमुद्रे मन आदधे ॥ ५१-
स्मितोर्मिरिवाम्भोधिः पुलकाङ्गः सुलोचनः ।
बभूव देवदेवेशः कृपासिन्धुरुमापतिः ॥ ५१-
एवमानन्दसन्दोहनिमग्नं वीक्ष्य शङ्करम् ।
सर्वोपचारविधिना पूजयामास पार्वती ॥ ५१-
दण्डवत्प्रणनामैषा [दण्डवत्प्रणतामैषा० इति पा० ।] कृतार्थास्मीति वादिनी ।
तुष्टाव शङ्कर भूयः कृपानिधिमनुत्तमम् ॥ ५१-
त्व देव सर्वविद्यानामुपदेष्टा गुरुः स्वयम् ।
त्वयि भक्तिवतामेव मन्त्रयन्त्रादि सिध्यतु ॥ ५१-
इत्युक्त्वा पार्वती चित्ते लीलामाधाय वर्णिताम् ।
अवाप परमानन्दं हर्षाश्रुपुलकाङ्किता ॥ ५१-
इति श्रीमन्माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकपञ्चाशतमं पटलम् ॥ ५१-
आदितः श्लोकानां समष्ट्यंकाः
॥ समाप्तमिदं श्रीमाहेश्वरं तन्त्रम् ॥
स्रोतः
मूल पाठ: māheśvaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0