भाषा

ENहिગુ
ग्रंथ पाठ

महायानविंशिका · अध्याय 1

1.1

न ज्ञानाच्छून्यता नाम काचिदन्या हि विद्यते ।
विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम्

1.2

द्वयशून्यम् हि विज्ञानम् अन्यथा न प्रसज्यते ।
द्वयासत्त्वान् निवृत्तस्य द्वयात्मत्वप्रसन्गतः

1.3

तच्छुरुततथतारूपो भगवान् एव भण्यते ।
वेद्यवेदकसद्भावविकल्पाद्यसमाश्रयः

1.4

चित्तमात्रं निराभासं विहारो बुद्धभूस्तथा ।
एतद्धि भाषितं बुद्धैर्भासन्ते भाषयन्ति च

1.5

चित्तं हि भूमयः सप्त निराभासा त्विहाष्टमी ।
द्वे भूमयो विहारो ऽत्र ऽशेषा भूमिर्ममात्मिका

1.6

देश्यन्ते भूमयः सप्त बुद्धैश्चित्तवशं गताः ।
कायवाक्चित्तदौष्ठुल्यं सप्तम्यां न प्रवर्तते

1.8

अष्टम्यां आश्रयस्तस्य स्वप्नो ऽप्यसुखसंभवः ।
- - - - - - - - - - - - - - - - ॥ 7
1. अवाच्यो वाचकैर्धर्मः कृपया येन देशितः ।
नमो ऽचिन्त्यप्रभवाय बुद्धायासङ्गबुद्धये

1.9

2. स्वभावेन न चोत्पन्ना निर्वृताश्च न तत्त्वतः ।
यथाकाशं तथा बुद्धाः सत्त्वाश्चैवैकलक्षणाः

1.10

3. पारावारं न चोत्पन्नाः स्वभावेन प्रतित्यजाः ।
ते ऽपि शून्या हि संस्काराः सर्वज्ञज्ञानगोचराः

1.11

4. सर्वभावाः स्वभावेन प्रतिबिम्बसमा मताः ।
शुद्धाः शिवस्वभावाश्च अद्वयास्तथतासमाः

1.12

5. असत्यात्मनि चात्मत्वं कल्पयित्वा पृथग्जनाः ।
सुखदुःखम् अभिज्ञाश्च सर्वम् एषां च तत्त्वतः

1.13

6. षड्गतिर्यश्च संसारः स्वर्गश्च परमं सुखम् ।
नरके च महद्दुःखं जराव्याधिरपी यताम्

1.14

7. अभूतां कल्पनां कृत्वा पच्यन्ते नरकादिषु ।
स्वदोषेनैव दह्यन्ते वेणवो वह्निना यथा

1.15

8. यथा माया तथा सत्त्वा विषयान् परिभुञ्जते ॥
मायामयीं गतिं यान्ति प्रतीत्योत्पादरूपिणीम्

1.16

9. यथा चित्रकरो रूपं यक्षस्यातिभयङ्करं ।
बिभेति स्वयम् आलिख्य संसारे ऽप्य् अबुधस्तथा

1.17

10. यथा पङ्कं स्वयं कृत्वा कश्चित् पतति बालिशः ।
तथासत्कल्पनापङ्के मग्नाः सत्त्वा दुरुत्तरे

1.18

11. अभावं भवतो दृष्ट्वा दुःखां विन्दति वेदनाम् ।
शङ्काविषेण बाधन्ते विषया वितथास्तथा

1.19

12. तांस्चैवाशरणान् दृष्ट्वा करुणाधीरमानसाः ।
नियोजयन्ति संबोधौ सत्त्वान् बुद्धा हितंकराः

1.20

13. ते ऽपि संभृतसंभाराः प्राप्य ज्ञानम् अनुत्तरम् ।
कल्पनाजालनिर्मुक्ता बुद्धा स्युर्लोकबन्धवः

1.21

14. यतो ऽजातम् अनुत्पन्नं सम्यक् सत्त्वार्थदर्शिनः ।
ततः शून्यं जगद् दृष्ट्वा आदिमध्यान्तवर्जितम्

1.22

15. तेन पश्यन्ति संसारं निर्वाणं च न चात्मनः ।
निर्लेपं निर्विकारं च आदिमध्यान्तभास्वरम्

1.23

16. स्वप्नानुभूतविषयं प्रतिबुद्धो न पश्यति ।
मोहनिद्राविबुद्धश्च संसारं नैव पश्यति

1.24

17. मायां विधाय मायवी उपसंहरते यदा ।
तदा न विद्यते किंचिद् धर्माणां सा हि धर्मता

1.25

18. चित्तमात्रम् इदं सर्वं मायाकारवद् उत्थितम् ।
ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम्

1.26

19. कल्पयन्ति यथा लोकं नोत्पन्नाश्च स्वयं जनाः ।
उत्पादो हि विकल्पो ऽयं अर्थो बाह्यो न विद्यते

1.27

20. अस्वभावेषु भावेषु नित्यात्मसुखसंज्ञिनः ।
भवार्णवे भ्रमन्त्यस्मिन् बाला मोहतमोवृताः

1.28

कल्पनाजलपूर्णस्य संसारसुमहोदधेः ।
अनाक्रम्य महायानं को वा पारं तरिष्यति

मूल पाठ: Mahāyānaviṃśikā · Edition: G. Tucci: Minor Buddhist Texts, part I. Roma 1956 (Serie Orientale Roma, 9), pp. 201-203. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc