भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 19

19.1

ह्रीधृतिप्रभृतीनां गुणानां समासेन कर्म निर्दिष्टं ।
महायानसूत्रालंकारे बोधिपक्षाधिकारः अष्टादशः समाप्तः
छपित्रे xइx
एकोनविंशत्यधिकारः
आश्चर्य विभागे त्रयः श्लोकाः ।
स्वदेहस्य परित्यागः संपत्तेश् चैव संवृत्तौ ।
दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः

19.2

वीर्यारम्भो ह्य् अनास्वादो ध्यानेषु सुख एव च ।
निष्कल्पना च प्रज्ञायाम् आश्चर्यं धीमतां गतं

19.3

तथागतकुले जन्म लाभो व्याकरणस्य च ।
अभिषेकस्य च प्राप्तिर् बोधेश् चाश्चर्यम् इष्यते

19.4

अत्र द्वाभां श्लोकाभ्यां प्रतिपत्त्य् आश्चर्यम् उक्तं षड्पारमिता आरभ्य । दानेन हि स्वदेहपरित्याग आश्चर्यं शीलसंवरनिमित्तम् उदार संपत्ति त्यागः । शेषं गतार्थं । तृतीयेन श्लोकेन फला श्चर्यम् उक्तं चत्वारि बोधिसत्वफलान्य् आरभ्य प्रथमायाम् अष्टभ्यां दशभ्यां त्रीणि शैक्षाणि फलानि बुद्धभूमौ चतुर्थम् अशैक्षम् अत्र फलं । अनाश्चर्यविभागे श्लोकः ।
वैराग्यं करुणां चैत्य भावनां परमाम् अपि ।
तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता

19.5

तास्व् इति पारमितासु । वैराग्यम् आगम्य दाने प्रयोगे नाश्चर्यं । करुणाम् आगम्य शीले क्षान्तौ च । परमां भावनाम् आगम्याष्टभां भूमौ निरभिसंस्कारनिर्विकल्पो वीर्यादिप्रयोगो नाश्चर्यं । आत्मपर समचित्तताम् आगम्य सर्वास्व् एव पारमितासु प्रयोगो नाश्चर्यम् अर्थ इव परार्थे खेदाभावात् । समचित्ततायां त्रयः श्लोकः ।
न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु ।
सत्वानां प्रगतः स्नेहो यथा सत्वेषु धीमतां

19.6

अर्थिष्व् अपक्षपातश् च शीलस्याखण्डना ध्रुवं ।
क्षान्तिः सर्वत्र सत्वार्थं सर्वार्थं वीर्यारम्भो महान् अपि

19.7

ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका ।
विज्ञेया बोधिसत्वानां तास्व् एव समचित्तता

19.8

एकः श्लोकः सत्वेषु समचित्ततायां । द्वौ पारमितासु । न हि सत्वानाम् आत्मा दिषु स्नेहः समतया अनुगतो न चात्यन्तं । तथा हि आत्मनम् अपि कदाचिन् मारयन्ति । बोधिसतानां तु सर्व सत्वेषु समतया अत्यन्तं च पारमितासु पुनर् दाने समचित्तत्वम् अर्थिष्व् अपक्षपातात् । शीले ऽणुमात्रस्यापि नित्यम् अखण्डना । क्षान्तिः सर्वत्रे ति सत्वेष्च् अभेदना । वीर्ये सत्वार्थं वीर्यारम्भात् स्वपरार्थं समं प्रयोगात् सर्वकुशलार्थं च । शेषं गतार्थं । उपकारित्वविभागे षोडश श्लोकाः ।
स्थापना भाजनत्वे च शीलेष्व् एव च रोपणं ।
मर्षणा चापकारस्य अर्थे व्यापारगामिता

19.9

आवर्जना शासने ऽस्मिंश् छेदना संशयस्य च ।
सत्वेषु उपकारित्वं धीमताम् एतद् इष्यते

19.10

आभ्यां श्लोकाभ्यां षड्भिः पारमिताभिर् यथोपकारित्वं बोधिसत्वानां तत्परिदीपितं । दानेन हि सत्वानां भाजनत्वे स्थापयन्ति कुशलक्रियायाः । ( म्स 162 ) ध्यानेना वर्जयन्ति प्रभावविशेषयोगात् । शेषं गतार्थं । शेषैः श्लोकैः मात्रादिसाधर्म्येणो पकारित्वं दर्शितं ।
समाशयेन सत्वानां धारयन्ति सदैव ये ।
जनयन्त्य् आर्यभूमौ च कुशलैर् वर्धयन्ति च

19.11

दुष्कृतात् परिरक्षन्ति श्रुतं व्युत्पादयन्ति च ।
पञ्चभिः कर्मभिः सत्वमातृकल्पा जिनात्मजाः

19.12

सत्वानां मातृभूताः सत्व मातृकल्पा । माता हि पुत्रस्य पञ्चविधम् उपकारं करोति । गर्भेण धारयति । जनयत्य् । आपाययति पोषयति सं वर्धयति अपायाद् रक्षते अभिलापं च शिक्षयति । तत्साधर्म्येणैतानि पञ्च बोधिसत्व कर्माणि वेदितव्यानि । आरभूमिर् आर्यधर्मा वेदितव्याः ।
श्रद्धायाः सर्वसत्वेषु सर्वदा चावरोपणात् ।
अधिशीलादिशिक्षायां विमुक्तौ च नियोजनात्

19.13

बुद्धाध्येषणतश् चैषाम् आवृतेश् च विवर्जनात् ।
पञ्चभिः कर्मभिः सत्वपितृकल्पा जिनात्मजाः

19.14

पिता हि पुत्राणां पञ्चविधम् उपकारं करोति । बीजं तेषाम् अवरोपयति । शिल्पं शिक्षयति । प्रतिरूपैर् दारैर् नियोजयति । अनृणं करोति यथा न पैतृकम् ऋणं दाप्यते । तत्साधर्म्येण बोधिसत्वानाम् एतानि पञ्च कर्माणि वेदितव्यानि । श्रद्धा हि सत्वानाम् आर्या त्म भावप्रतिलम्भस्य बीजं । सैक्षाः शिल्पं । विमुक्तिर् भार्या विमुक्तिप्रीतिसुखसंवेदना । बुद्धाः कल्याणमित्राणि । आवरणस्थानं ।
अनर्हदेशनां ये च सत्वानां गूहयन्ति हि ।
शिक्षाविपत्तिं निन्दन्ति शंसन्त्य् एव च संपदम्

19.15

अववादं च यच्छन्ति मारान् आवेदयन्ति हि ।
पञ्चभिः कर्मभिः सत्वबन्धुकल्पा जिनात्मजाः

19.16

बन्धवो हि बन्धूनां पञ्चविधम् उपकारं कुर्वन्ति । गुह्यं गूहयन्ति । कुचेष्टितं विगर्हन्ति । कुचेष्टितं प्र शंसन्ति करणीयेषु साहाय्यं गच्छन्ति व्यसनस्थानेभ्यश् च निवारयन्ति । तत्साधर्म्येणैतनि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि । ( म्स 163 ) अनर्थेभ्यो गम्भीरधर्मदेशनाविनिगूहनात् शिक्षाविपत्तिसंपत्त्योर् यथाक्रमं निन्दनात् प्रशंसनाच् च । अधिगमायाववादनात् मारकर्मवेदनाच् च ।
संक्लेशे व्यवदाने च स्वयम् अश्रान्तबुद्धयः ।
यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम्

19.17

सुखे हिते चाभिन्ना अखेदित्वाद् अभिन्ना ये सदा सुखहितैषिणः ।
पञ्चभिः कर्मभिः सत्वमित्रकल्पा जिनात्मजाः

19.18

तद् धि मित्रं यन् मित्रस्य हिते च सुखे चापर्यस्तं । सुखं चोपसंहरति हितं चाभिद्यं च भवति । हितसुखैषि च नित्यं । तथा बोधिसत्वाः सत्वानां पञ्चभिः कर्मभिः सत्वमित्रकल्पा वेदितव्याः । लौकिकी हि संपत् सिखं । तया सुखानुभवात् । लोकोत्तरा हितं क्लेशव्याधिप्रतिपक्षत्वात् ।
सर्वदोद्यमवन्तो ये सत्वानां परिपाचने ।
सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु

19.19

द्वयसंपत्तिदातारस् तदुपाये च कोविदाः ।
पञ्चभिः कर्मभिः सत्वदासकल्पा जिनात्मजाः

19.20

दासो हि पञ्चभिः करभिः सम्यग् वर्तते । उत्थानसंपन्नो भवति कृत्येषु । अविसंवादको भवति । क्षमो भवति । परिभाषणताडनादीनां । निपुणे भवति सर्वकार्यकरणात् । विचक्षणश् च भवति उपायज्ञः । तत्साधर्म्येणैतानि पञ्च कर्माणि बोधिसत्वानां वेदितव्यानि । द्वयसंपत्तिर् लौकिकी लोकोत्तरा च वेदितव्या ।
अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश् च ये मताः ।
सर्वयानोपदेष्टारः सिद्धयोगनियोजकाः

19.21

सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः ।
पञ्चभिः कर्मभिः सत्वाचार्यकल्पा जिनात्मजाः

19.22

पञ्चविधेन कर्मणा शिष्याणाम् उपकारी भवति । स्वयं सुशिक्षितो भवति । सर्वं शिक्षयति । क्षिप्रं शिक्षयति । सुमुखो भवति सुरतजातीयः । निरामिषचित्तश् च भवति । तत्साधर्म्येणैतानि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि ।
सत्वकृत्यार्थम् उद्युक्ताः संभारान् पूरयन्ति ये ।
संभृतान् मोचयन्त्य् आशु विपक्षं हापयन्ति च

19.23

लोकसंपत्तिभिश् चित्रैर् अलोकैर् योजयन्ति च ।
पञ्चभिः कर्मभिः सत्वोपाध्यायकल्पा जिनात्मजाः

19.24

उपाध्यायः पञ्चविधेन कर्मणा सार्धं विहारिणाम् उपकारी भवति । प्रव्राजयति उपसंपादयति ।
अनुशास्ति दोषपरिवर्जने । आमिषेण संगृह्णाति धर्मेण च तत्साधर्म्येणैतानि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि । प्रतिकारविभागे द्वौ श्लोकौ ।
असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः ।
कृतज्ञतानुयोगाच् च प्रतिपत्तौ च योगतः

19.25

षट्सु पारमितास्व् एव वर्तमाना हि देहिनः ।
भवन्ति बोधिसत्वानां तथा प्रत्युपकारिणः

19.26

तथे ति यथा तेषां बोधिसत्वा उपकारिणः । तत्र भोगेष्व् अनासक्त्या दाने वर्तन्ते । शीलस्य-अखण्डनेन शीले । कृतज्ञतानुयोगात् क्षान्तौ । उपकारिबोधिसत्वस्य कृतज्ञतया ते हि क्षान्तिप्रिया इति । प्रतिपत्तियोगतो वीर्यज्ञासु येन च प्रतिपद्यन्ते यत्र चे ति कृत्वा । आशास्तिविभागे श्लोकः ।
वृद्धिं हानिं च काङ्क्षन्ति सत्वानां च प्रपाचनं ।
विशेषगमनं भूमौ बोधिं चानुत्तरां सदा

19.27

पञ्च स्थानानि बोधिसत्वाः सदैवाशंसन्ते । पारमिता ऋद्धिं तद्विपक्ष हानिं । सत्वप्रपाचनं । भूमिविशेषगमनं । अनुत्तरां च सम्यक्संबोधिं । अबन्ध्यप्रयोगविभागे श्लोकः ।
त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च ।
प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः

19.28

चतुर्विधे सत्वार्थे बोधिसत्वानाम् अबन्ध्यः प्रयोगो वेदितव्यः । गम्भीरोदारधर्म त्रास योगे ( म्स 165 )। बोधिचित्त समुत्पादे उत्पादितबोधिचित्तानां संशयच्छेदने । पारमिता प्रतिपत्त्यववादे च । सम्यग्प्रयोगविभागे द्वौ श्लोकः ।
दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे ।
शीलं क्षान्तिश् च सर्वत्र वीर्यं सर्वशुभोदये

19.29

विना रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता ।
सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि

19.30

यथोक्तं रत्नकूटे । विपाको ऽप्रतिकङ्क्षिणो दानेनेति विस्तरः । परिहाणिविशेषभागीयधर्मविभागे द्वौ श्लोकौ ।
भोगसक्तिः सच्छिद्रत्वं मानश् चैव सुखल्लिका ।
आस्वादनं विकल्पश् च धीराणां हानिहेतवः

19.31

स्थितानां बोधिसत्वानां प्रतिपक्षेषु तेषु च ।
ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात्

19.32

षण्णां पारमितानां विपक्षा हानिभागीयाः । तत्प्रतिपक्षा विशेषभागीया वेदितव्याः । प्रतिरूपकभूतगौणविभागे द्वौ श्लोकौ । एकः षड्पादः ।
प्रवारणापि कुहना सौमुख्यस्य च दर्शना ।
लोभत्वेन तथा वृत्तिः शान्तवाक्कायता तथा

19.33

सुवाक्करणसंपच् च प्रतिपत्तिविवर्जिता ।
एते हि बोधिसत्वानाम् अभूतत्वाय देशिताः ।
विपर्ययात् प्रयुक्तानां तद्भूतत्वाय देशिताः

19.34

षण्णां पारमितानां प्रतिरूपकाः षड् बोधिसत्वगुणाः प्रवारणादयो वेदितव्याः । शेषं गतार्थं । विनयविभागे श्लोकः ।
ते दानाद्युपंसहारैः सत्वानां विनयन्ति हि ।
षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु

19.35

षड्प्रकारो विपक्षः । षण्णां पारमितानां मात्सर्यदौःशील्यक्रोधकौसीद्यविक्षेपदौष्प्रज्ञ्यानि यथाक्रमाः ।
धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः ।
बोधौ व्याकरणे चैव महाच् चान्यद् उदाहृतं

19.36

नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः ।
एकीभावगमत्वाच् च सर्वबुद्धजिनात्मजैः

19.37

क्षेत्रेण नाम्ना कालेन कल्पनाम्ना च तत्पुनः ।
परिवारानुवृत्या च सद्धर्मस्य तद् इष्यते

19.38

तत्र पुद्गलभेदेन द्व्याकरणं गोत्रस्थोत्पादितचित्तसंमुखसमक्षपुद्गलव्याकरणात् । कालभेदेन परिमितापरिमितकालव्याकरणात् । पुनर् बोधौ व्याकरणं भवति । व्याकरणं वा एवंनामा तथागत एवम् अमुष्मिन् काले व्याकरिष्यतीति । अन्यत् पुनर् महा व्याकरणं यद् यद् अष्टम्यां भूमौ अनुत्पत्तिकधर्मक्षान्तिलाभतः । अहं बुद्धो भविष्यामीति मानप्रहाणतः । सर्वनिमित्तभोगप्रहाणतः । सर्वबुद्धबोधिसत्वैश् च सार्धम् एकीभावोपगमनतः । तद् आत्मसंतानभेदादर्शनात् । पुनः क्षेत्रा दिभिर् व्याकरणम् ईदृशए बुद्धक्षेत्रे एवं नामा इयता कालेन बुद्धो भविष्यति । एवंनामके कल्पे ईदृशश् चास्य परिवारो भविष्यति । नियतिपातविभागे श्लोकः षड्पादः ।
संपत्त्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां ।
भावनायाश् च सातत्ये समाधानाच्युताव् अपि ।
कृत्यसिद्धाव् अनाभोगे क्षान्तिलाभे च सर्वथा

19.39

षड्पारमिताधिकारेण षड्विधो नियतिपात एष निर्दिष्टः । संपत्ति नियतिपातो नित्यम् उदारभोगसंपत्तिलाभात् । उपपत्ति नियतिपातो नित्यं यथेष्टोपपत्तिपरिग्रहात् । अखेद नियतिपातो नित्यं संसारदुःखैर् अखेदात् । भावनासातत्य नियतिपातो नित्यं भावनासातत्यात् । समाधानाच्युतौ कृतसिद्धौ च नियतिपातो नित्यं समाध्यपरिहाणितः सत्कृत्यसाधनतश् च । अनाभोगा नुत्पत्तिकधर्म क्षान्तिलाभे ( म्स 167 ) नियतिपातश् च नित्यम् अनाभोगनिर्विकल्पज्ञानविहारात् । अवश्यकरणीयविभागे श्लोकः षड्पादः ।
पूजा शिक्षासमादानं करुणा शुभभावना ।
अप्रमादस् तथारण्ये श्रुतार्थातृप्तिर् एव च ।
सर्वभूमिषु धीराणाम् अवश्यकरणीयता

19.40

षड्परमिता अधिकृत्येयं षड्विधा वश्यकरणीयता । गतार्थः श्लोकः । सात्यकरणीयविभागे द्वौ श्लोकौ ।
कामेष्व् आदीनवज्ञानं स्खलितेषु निरीक्षणा ।
दुःखाधिवासना चैव कुशलस्य च भावना

19.41

अनास्वादः सुखे चैव निमित्तानामकल्पना ।
सातत्यकरणीयं हि धीमतां सर्वभूमिषु

19.42

षड्परमितापरिनिष्पादनार्थं षड् सातत्यकरणीयानि । गतार्थौ श्लोकौ । प्रधानवस्तुविभागे श्लोकः षड्पादः ।
धर्मदानं शीलशुद्धिर् नोत्पत्तिक्षान्तिर् एव च ।
वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः ।
प्रज्ञा पारमितानां च प्रधानं धीमतां मतम्

19.43

षट्सु पारमितास्व् एतत् षड्विधं प्रधानं । तत्र शीलविशुद्धिर् आर्यकान्तं शीलं । अन्त्या सकरुणा स्थितिश् चतुर्थं करुणा ऽप्रमाणयुक्तं । शेषं गतार्थं । प्रज्ञप्तिव्यवस्थानविभागे चत्वारः श्लोकः ।
विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः ।
ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु

19.44

चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः

19.45

योनिशश् च मनस्कारः सम्यग्दृष्टिः फलान्विता ।
प्रमाणैर् विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम्

19.46

आशयाद् देशनाच् चैव प्रयोगात् संभृतेर् अपि ।
समुदागमभेदाच् च त्रिविधं यानम् इष्यते

19.47

चतुर्विधं प्रज्ञप्तिव्यवस्थानं । धर्मसत्ययुक्तियानप्रज्ञप्तिव्यवस्थानभेदात् । तत्र ( म्स 168 ) पञ्च विद्यास्थानव्यवस्थानं धर्मव्यवस्थानं वेदितव्यं सूत्र गेया दिभिर् आकारभेदैः । तदन्तर्भूतान्य् एव तदन्यानि विद्यास्थानानि महायाने बोधिसत्वेभ्यो देश्यन्ते । सत्वव्यवस्थानं तु सप्त वि धां तथताम् आश्रित्य प्रवृत्तितथतां लक्षणतथतां विज्ञप्तितथतां संनिवेशतथतां मिथ्याप्रतिपत्तितथतां सम्यक्प्रतिपत्तितथतां च । युक्ति प्रज्ञप्ति व्यवस्थानं चतुर्विधं । अपेक्षायुक्तिः । कार्यकारणयुक्तिः । उपपत्तिसाधनयुक्तिः । धर्मतायुक्तिश् च । यान प्रज्ञप्ति व्यवस्थानं त्रिविधं । श्रावकयानं । प्रत्येकबुद्धयानं । महायानं । तत्रापेक्षायुक्तिस् त्रिष्व् अपि यानेषु योनिशोमनस्कारः । तम् अपेक्ष्य तेन प्रत्ययेन लोकोत्तरायाः सम्यग्दृष्टेर् उत्पादात् । कारकारणायुक्तिः सम्यग्दृष्टिः स फला । उपपत्तिसाधनयुक्तिः । प्रत्यक्षाधिभिः प्रमाणैः परिक्षा । धर्मतायुक्तिर् अचिन्त्यं स्थानं । सिद्धा हि धर्मता न पुनश् चिन्त्या कस्मात् । योनिशोमनस्कारात् सम्यग्दृष्टिर् भवति । । ततो वा क्लेशप्रहाणं फलम् इत्य् एवम् आदि । यानत्रयव्यवस्थानं पञ्चभिर् आकारैर् वेदितव्यं । आशयतो देशनातः प्रयोगतः संभारतः समुदागमतश् च । तत्र हीनं आशयदेशनाप्रयोगसंभारसमुदागमाः श्रावकयानं मध्याः प्रत्येकबुद्धयानं उत्तमा महायानं । यथा शयं हि यथाभिप्रायं धर्म देशना भिभवति । यथा देशनं तथा प्रयोगं । यथाप्रयोगं संभारः । यथासंभारं च बोधि समुदागम इति । पर्येषणाविभागे श्लोकः ।
आगन्तुकत्वपर्येषा अन्योन्यं नाम वस्तुनोः ।
प्रज्ञप्तेर् द्विविधस्यात्र तन्मात्रत्वस्य वैषणा

19.48

चतुर्विधा पर्येषणा धर्माणां । नामपर्य्षणा वस्तुपर्येषणा । स्वभावप्रज्ञप्तिपर्येषणा । विशेषप्रज्ञप्तिपर्येषणा च । तत्र नाम्नो वस्तुन्य् आगन्तुकत्वपर्येषणा नामपर्येषणा वेदितव्या । वस्तुनो नाम्न्य् आगन्तुकत्वपर्येषणा वस्तुपर्येषणा वेदितव्या । तदुभयाभिसंबन्धे स्वभावविशेषप्रज्ञप्त्योः प्रज्ञप्ति मात्र त्वपर्य् एषणा स्वभावविशेष प्रज्ञप्ति पर्येषणा वेदितव्या । यथाभूतपरिहारविभागे दश श्लोकः ।
सर्वस्यानुपलम्भाच् च भूतज्ञानं चतुर्विधं ।
सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते

19.49

चतुर्विधं यथाभूतपरिज्ञानं धर्माणां नामपर्येषणागतम् । वस्तुपर्येषणागतं । स्वभावप्रज्ञप्तिपर्येषणागतं । विशेषपर्ज्ञप्तिपर्येषणागतं च । तच् च सर्वस्या स्य ( म्स 169 ) नामादिकस्या नुपलम्भाद् वेदितव्यं । उत्तरार्धेन यथा भूत परि ज्ञानस्य कर्मणां माहात्म्यं दर्शयति ।
प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि ।
साश्रयाश् चित्तचैत्तास् तु बध्यन्ते ऽत्र सबीजकाः

19.50

तत्र प्रतिष्ठानिमित्तं भाजनलोकः । भोगनिमित्तं पञ्च रूपादयो विषयाः । बीजनिमित्तं यत् तेषां बीजम् आलयविज्ञानं । यत्र तिर्विधे निमित्ते साश्रयाश् चित्तचैत्ता बध्यन्ते । यच् च तेषां बीजम् आलयविज्ञानं । आश्रयाः पुनश् चक्षुरादयो वेदितव्याः ।
पुरतः स्थापितं यच् च निमित्तं यत् स्थितं स्वयं ।
सर्वं विभावयन् धीमान् लभते बोधिम् उत्तमाम्

19.51

तत्र पुरतः स्थापितं निमित्तं यच् छ्रुतचिन्ताभावनाप्रयोगेनालम्बनीकृतं परिकल्पितं । स्थितं स्वयम् एव यत् प्रकृतियालम्बनीभूतम् अयत्नपरिकल्पितं । तस्य विभावना धिगमो नालम्बनीभावः । अकल्पना तदुपायो निमित्तप्रतिपक्षः । तच् चोभयं क्रमाद् भवति । पूर्वं हि स्थापितस्य पश्चात् स्वयंस्थितस्य । तत्र चतुर्विपर्यासानुगतं पुदग्लनिमित्तं विभावयन् योगी श्रावकबोधिं प्रत्येकबोधिं वा लभते । सर्वधर्मनिमित्तं विभावयन् महा बोधिं । एतेन यथातत्वं परिज्ञाय मोक्षाय संवर्तते यथाभूतं परिज्ञानं । तत् परिदीपितं ।
तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं ।
दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम्

19.52

एतेन यथास्वभावत्रयपरिज्ञानात् परतन्त्रस्वभावक्षयाय संवर्तते । तत् परिदीपितं । तथतालम्बनत्वेन परिनिष्पन्नं स्वभावं परिज्ञाय । द्वयग्राहविवर्जितत्वेन कल्पितं । दौष्ठुल्यकायप्रत्यक्षत्वेन परतन्त्रं । तस्यैव क्षयाय संवर्तते दौष्ठुल्यकायस्यालयविज्ञानस्य तत्क्षयार्थं तत्क्षये ।
तथतालम्बनं ज्ञानम् अनानाकारभावितं ।
सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते

19.53

अनानाकारभावितं नित्मित्ततथतयोर् अनानात्वदर्शनात् । एतेन श्रावकानिमित्तत्वाद् बोधिसत्वानिमित्तत्वस्य विशेषः परिदीपितः । ते हि नित्मित्तानिमित्तयोर् नानात्वं पश्यन्तु । सर्वनिमित्तानाम् अमनसिकाराद् अनिमित्तस्य च ( म्स 170 ) धातोर् मनसिकाराद् अनिमित्तं समापद्यन्ते । बोधिसत्वास् तु तथताव्यतिरेकेण निमित्तम् अपशन्तो निमित्तम् एवानिमित्तं पश्यन्त्य् अतस् तेषां तज्ज्ञानमनसिकारभावितं । सत्तार्थे च निमित्ते प्रत्यक्षं विकल्पविभु चोच्यते । विकल्पविभुत्वलाभाद् यथाविकल्पं सर्वार्थसमृद्धितः ।
तत्वं संच्छाद्य बालानाम् अतत्वं ख्याति सर्वतः ।
तत्वं तु बोधिसत्वानां सर्वतः ख्यात्य् अपास्य तत्

19.54

एतेन यथा बालानां स्वरसेना तत्वम् एव ख्याति निमित्तं न तत्वं तथता । एवं बोधिसत्वानां स्वरसेन तत्वं एव ख्यात्य् नातत्वम् इत्य् उपदर्शितं ।
अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः ।
आश्रयस्य परावृत्तिर् मोक्षो ऽसौ कामचारतः

19.55

असदर्थस्य निमित्तस्या ख्यानता सदर्थस्य तथतायाः ख्यानता आश्रयस्य परावृत्तेर् वेदितव्या तया हि तदख्यानं च । सैव मोक्षो वेदितव्यः । किं कारणं । कामचारतः । तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्यैव निमित्तासमुदाचारात् ।
अन्योन्यं तुल्यजातीयः ख्यात्य् अर्थः सर्वतो महान् ।
अन्तरायकरस् तस्मात् परिज्ञायैनम् उत्सृजेत्

19.56

इदं क्षेत्रपरिशोधनोपाये यथाभूतपरिज्ञानं । भाजनलोका र्थो महान् अन्योन्यं वर्तमानस् तुल्यजातीयः ख्यात्य् स एवायम् इति । स चैवं ख्यानाद् अन्तरायकरो भवति बुद्धक्षेत्रपरिशुद्धये । तस्माद् अन्तरायकरं परिज्ञायैनम् उत्सृजेद् एवं ख्यातं । अप्रमेयविभागे श्लोकः ।
परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने ।
सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम्

19.57

पञ्चविधं हि वस्तु बोधिसत्वानाम् अप्रमेयं । परिपाच्यं वस्तु सत्वधातुर्विशेषेण विशोध्यं लोकधातुर् भाजनलोकसंगृहीतः । प्राप्यं धर्मधातुः । परिपाचनयोग्यं विनेयधातुः । सम्यग्देशनावस्तु विनयोपायधातुः । देशनाबलविभागे द्वौ श्लोकौ ।
बोधिसत्वचित्तस्य चोत्पादो नोत्पादक्षान्तिर् एव च ।
चक्षुश् च निर्मलं हीनम् आश्रवक्षय एव च

19.58

सद्धर्मस्य स्थितिर् दीर्घा व्युत्पत्तिच्छित्तिभोगता ।
देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः

19.59

देशनायां प्रयुक्तस्य बोधिसत्वस्या ष्टविधं देशनायाः फलं वेदितव्यं । श्रोतृषु केचिद् बोधिचित्तम् उत्पादयन्ति । केचिद् अनुत्पत्तिक धर्म क्षान्तिं प्रतिलभन्ते । केचिद् विरजो विगत मलं धर्मेषु धर्मेषु धर्म चक्षुर् उत्पादयन्ति हीन यानसंगृहीतं । केचिद् आश्रवक्षयं प्राप्नुवन्ति । सद्धर्मश् च चिर स्थिति को भवति परंपराधारणतया । अव्युत्पन्नानाम् अर्थ व्युत्पत्तिर् भवति । संशयितानां संशय छेदो भवति । विनिश्चितानां सद्धर्मसं भोगो भवति अनवद्यो प्रीतिरसः । महायानमहत्वविभागे द्वौ श्लोकः ।
आलम्बनमहत्वं च प्रतिपत्तेर् द्वयोस् तथा ।
ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च

19.60

उदागममहत्वं च महत्वं बुद्धकर्मणः ।
एतन् महत्वयोगाद् धि महायानं निरुच्यते

19.61

सप्तविध महत्व योगान् महायानम् इत्य् उच्यते । आलम्बनमहत्वेना प्रमाणविस्तीर्णसूत्रादिधर्मयोगात् । प्रतिपत्तिमहत्वेन द्वयोः प्रतिपत्तेः स्वार्थे परार्थे च । ज्ञान महत्वेन द्वयोर् ज्ञानात्मपुद्गलनैरात्म्यस्य धर्मनैरात्म्यस्य च प्रतिवेधकाले । वीर्यारम्भ महत्वेन त्रीणि कल्पासंख्येयानि सातत्यसत्कृत्यप्रयोगात् । उपायकौशल्य मह्त्वेन संसारापरित्यागासंक्लेशतः । सम् उदागममहत्वेन बलवैशारद्यावेणिकबुद्धधर्मसमुदागमात् । बुद्धकर्म मह्त्वेन च पुनः पुनर् अभिसंबोधिमहापरिनिर्वाणसंदर्शनतः ।
गोत्रं धर्माधिमुक्तिश् च चित्तस्योत्पादना तथा ।
दानादिप्रतिपत्तिश् च न्यायाम् आवक्रान्तिर् एव च

19.62

सत्वानां परिपाकश् च क्षेत्रस्य च विशोधना ।
अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात् दर्शना

19.63

एतेन दशविधेन वस्तुना कृत्स्नं महायानं संगृहीतं । सत्वानां परिपाचनं भूमिपर्तिष्ठितस्य यावत् सप्तम्यां भूमौ वेदितव्यं । क्षेत्र परि शोधनम् अप्रतिष्ठितनिर्वाणं चाविनिवर्तनीयायां भूमौ त्रिविधायां । श्रेष्ठा बोधिर् बुद्धभूमौ । तत्रैव चाभिसंबोधिमहापरिनिर्वाणसं दर्शना । ( म्स 172 ) शेषं गतार्थं । बोस्हिसत्वविभागे दश श्लोकाः ।
आधिमोक्षिक एकश् च शुद्धाध्याशयिको ऽपरः ।
निमित्ते चानिमित्ते च चार्य् अप्य् अनभिसंस्कृते ।
बोधिसत्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु

19.64

तत्र निमित्तचारी द्वितीयां भूमिम् उपादाय यावत् षष्ठ्यां । अनिमित्तचारी सप्तम्यां । अनभिसंस्कारचारी परेण । शेषं गतार्थं ।
कामेष्व् असक्तस् त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश् च ।
धर्मे ऽचलस् तत्वगभीरदृष्टिर् बोधौ स्पृहावान् खलु बोधिसत्वः

19.65

एतेन षड्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश् च बोधिसत्वलक्षणं परिदीपितं ।
अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्व् अधिवासकश् च ।
धीरो ऽप्रमत्तश् च बहुश्रुतश् च परार्थयुक्तः खलु बोधिसत्वः

19.66

19.65 चोम्म्. तत्र धीर आरब्धवीर्यो दुःखैर् अविषादात् । अप्रमत्तो ध्यानसुखेष्व् असक्तः । शेषं गतार्थं ।
आदीनवज्ञः स्वपरिग्रहेषु भोगेष्व् असक्तो ह्य् अनिगूढवैरः ।
योगी निमित्ते कुशलो ऽकुदृष्टिर् अध्यात्मसंस्थः खलु बोधिसत्वः

19.67

तत्र भोगेष्व् असक्तो यस् तान् विआय प्रव्रजति । निमित्तकुशलः शमथादिनिमित्तत्रयकौशल्यात् । अध्यात्मसंस्थो महायानाविकम्पनात् । महायानं हि बोधिसत्वानाम् अध्यात्मं । शेषं गतार्थं ।
दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात् स्वसुखेष्व् असक्तः ।
स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्वः

19.68

तत्र स्मृतिप्रधानो ध्यानवान् स्मृतिबलेन चित्तसमाधानात् । सुसमाहितात्मा निर्विकल्पज्ञानः । शेषं गतार्थं ।
दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः ।
दुःखाद् विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्वः

19.69

तत्र दुःखाद् विमुक्तो ध्यानवान् कामधातुवैराग्याद् दुःखदुःखतामोक्षतः । दुःखाभ्युपेतः संसाराभ्युपगमात् । शेषं गतार्थं ।
धर्मे रतो ऽधर्मरतः धर्मे ऽरतो ऽधर्मरतः प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः ।
धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्वः

19.70

तत्र धर्मे जुगुप्सी अक्षान्तिजुगुप्सनात् । धर्मे वशी समापत्तौ । धर्मप्रधानो महाबोधिपरमः । धर्म एवात्र धरम उक्तो वृत्तानुवृत्त्या । शेषं गतार्थं ।
भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः ।
सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्वः

19.71

तत्र रक्षाप्रमत्तः क्षान्तिमान् स्वपरचित्तानुरक्षणात् । धर्माप्रमत्तो यथाभूतधर्मज्ञानात् । शेषं गतार्थं ।
विमानलज्जस् तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः ।
विशालविसारलज्जस् तनुदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्वः

19.72

तत्र विमानलज्जो यो ऽर्थिनो न विमानयति । तनुदोषलज्जो ऽणुमात्रेष्व् अवद्येषु भ्यदर्शी । तनुदृष्टिलज्जो धर्मनैरात्म्यप्रतिवेधी । शेषं गतार्थं । सर्वैर् एभिः श्लोकैः पर्यायान्तरेण षड्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश् च बोधिसत्वलक्षणं परिदीपितं ।
इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः ।
शमोपसमौपदेशेन महाफलेन अनुग्रहे वर्तति बोधिसत्वः

19.73

इह एव सत्वानाम् अनुग्रहे वर्तते दानेन । अमुत्र शीलेनोपपत्तिविशेषं प्राप्य । संस्कारयोगेने ति वीर्ययोगेन । महाफलेन -इति बुद्धत्वेन । शेषं गतार्थं । एतेन ( म्स 174 ) षड्भिः पारमिताभिर् महाबोधिप्रणिधानेन च यथा सत्वानुग्रहे बोधिसत्वो वर्तते तत् परिदीपितं । बोधिसत्वसामान्यनामविभागे अष्टौ श्लोकाः ।
बोधिसत्वो महासत्वो धीमांश् चैवोत्तमद्युतिः ।
जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः

19.74

विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः ।
कृपालुश् च महापुण्य ईश्वरो धार्मिकस् तथा

19.75

एतानि षोडश सर्वबोधिसत्वानाम् अन्वर्थनामानि सामन्येन ।
सुतत्वबोधैः सुमहार्थबोधैः सर्वावर्थबोधैर् अपि नित्यबोधैः ।
उपायबोधैश् च विशेषणेन तेनोच्यते हेतुन बोधिसत्वः

19.76

पञ्चविधेन बोधविशेषेण बोधिसत्व इत्य् उच्यते । पुद्गलनैरात्म्यबोधेन । सर्वाकारसर्वार्थबोधेन अक्षयावब्धेन परिनिर्वाणसंदर्शने ऽपि । यथाविधेनायं च विनयोपायबोधेन ।
आत्मानुबोधात् तनुदृष्टिबोधाद् विचित्रविज्ञप्तिविबोधतश् च ।
सर्वस्य चाभूतविकल्पबोधात् तेनोच्यते हेतुन बोधिसत्वः

19.77

अत्र पुनश् चतुर्विधबोधिविशेषं दर्शयति चित्तमनोविज्ञानबोधतः । तेषां चाभूतपरिकल्पत्वावबोधतः । तत्र चित्तम् आलयविज्ञानं । मनस् तदालम्बनम् आत्मदृष्ट्यादिसंयुक्तं । विज्ञानं षड्विज्ञानकायाः
अबोधबोधाद् अनुबोधबोधाद् अभावबोधात् प्रभवानुबोधात् ।
अबोधबोधप्रतिबोधतश् च तेनोच्यते हेतुन बोधिसत्वः

19.78

अत्र पुनः पञ्चविधं बोधविशेषं दर्शयति । अविद्याबोधात् । विद्याबोधात् । परिकल्पितादिस्वभावत्रयबोधाच् च । तत्रावबोधत्वेन बोधिप्रतिबोधात् परिनिष्पन्नस्वभावबोधो वेदितव्यः ।
अनर्थबोधात् परमार्थबोधात् सर्वावबोधात् सकलार्थबोधात् ।
बोद्धव्यबोधाश्रयबोधबोधात् तेनोच्यते हेतुन बोधिसत्वः

19.79

अत्र पञ्चविधं बोधिविशेषं दर्शयति । परतन्त्रलक्षणबोधात् । परिनिष्पन्नबोधात् । सर्वज्ञेयसर्वाकारबोधात् । बोध्यवबोधत्रिमण्डलपरिशुद्धिबोधाच् च ।
निष्पन्नबोधात् पदबोधतश् च गर्भानुबोधात् क्रमदर्शनस्य ।
बोधाद् भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्वः

19.80

तत्र निष्पन्नबोधो बुद्धत्वं । पदबोधो येन तुषितभवने वसति । गर्भानुबोधो येन मातुः कुक्षिम् अवक्रामति । क्रमदर्शने बोधो येन गर्भान् निष्क्रमणं कामपरिभोगं प्रव्र्ज्यां दुष्करचर्याम् अभिसंबोधिं च दर्शयति । भृशं संशयहानिबोधो येन सर्वसंशयछेदाय सत्वानां धर्मचक्रं प्रवर्तयति ।
लाभी ह्य् अलाभी धीसंस्थितश् च बोद्धानुबोद्धा प्रतिदेशकश् च ।
निर्जल्पबुद्धिर् हतमानमानी ह्य् अपक्कसंपक्कमतिश् च धीमान्

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc