भाषा

ENहिગુ
ग्रंथ पाठ

महासाहस्रप्रमर्दनी · भाग 2121

एवम् उक्तास् ते भिक्षवो भगवन्तम् एतद् अवोचत् ।
यानीमानि भदन्त भगवन् पञ्चमहारक्षासूत्राणि भाषितानि । स्याद् यथेदम् । महासाहस्रप्रमर्दनी । महामायूरी महाशीतवती महाप्रतिसरा महामन्त्रानुसारणी चेति । तानि च भगवता पञ्चामिषपरिवर्जिनेनानुज्ञतानि वाचयितव्यानि । पिण्डपात्रं च भोजनं निश्राय प्रव्रज्या व्याकृता । अल्पं च भगवन् पिण्डपात्रं पञ्चामिषपरिवर्जितम् । इदम् एव बहुतरं यद् इदं पञ्चामिषसंसृष्टं तत्र वयं भगवन् कथं प्रतिपद्यामः ॥
एवम् उक्ते भगवान् तान् भिक्षून् एतद् अवोचत् ।
तेन हि भिक्षवो यो ह्य् एतत् महासाहस्रप्रमर्दनीसूत्रं धारयितव्यम् । तेनाक्षतेयं धारणी आत्मरक्षायै धारयितव्या । तेन हि पिण्डपात्रं परिगृहीता आहारे प्रतिकूलसंज्ञोत्पादयितव्या । पञ्चामिषसंसृष्टपिण्डपात्रे पञ्चामिषपरिवर्जितसंज्ञोत्पादयितव्या । सर्वसंस्कृते अनित्यसंज्ञा । अनित्ये दुःखसंज्ञा । दुःखे अनात्मसंज्ञा । अनात्मन्य् अशुभसंज्ञोत्पादयितव्या । कुतः पञ्चामिषाणि कस्य वा पञ्चामिषाणि । को वा पञ्चामिषाणि परिभोज्यन्ते । नास्ति सत्वः कुतः सत्वः । स सत्वो नोपलभ्यते । तत्र चाहार पञ्चामिषासंसृष्टसंज्ञकरणीया । आत्मरक्षा अष्टम्यां चतुर्दश्यां पञ्चदश्यां च राजगोत्राय कन्याय सुस्नाताय सुभूषिताय अहोरात्रो वपुष्टाय पञ्चशिक्षापदपरिगृहीतया लोहितं सूत्रं चतुर्गुणं कारयित्वा मन्त्रधारेण विद्या स्मरयितव्या । ग्रन्थिं कृत्वा तत् सूत्रं नवेन शस्त्रेण च्छित्वा दग्धा रत्नभण्डो वा उदकपरिपूर्णं कृत्वा पुष्पैर् आच्छादयित्वा नानागन्धेन धूपयित्वा इयं विद्या आवर्तयितव्या । यावत् तज् जातं सूत्रं भाजने प्रादुर्भवति । तच् च पाणौ बन्धयित्वा वाच्यम् ॥
ब्रह्मणैर् विप्रलब्धेन शाक्यसिंहेन तायिना ।
स विषं गिरिगुप्तेन भोजनम् उपनामितम् ॥
प्रतिगृह्य ततः शास्ता निर्विषीकृत्य भोजिनाम् ।
एतेन सत्यवाक्येन अमृतं भोन्तु भोजनम् ॥
विपश्यिनो देवतायाः शिखिनो विश्वभुवस् तथा ।
क्रकुच्छन्दप्रसन्नाच् च देवताया महाबलाः ॥
कनकाख्यदेवेन्द्राः श्रीमतः काश्यपस्य च ।
प्रसन्नाः शाक्यसिंहस्य ब्रह्मेन्द्रास् त्रिदेशेश्वराः ॥
चत्वारो लोकपालाश् च माणिभद्रो महेश्वरः ।
राक्षसी च महाकाली चण्डचण्डालिनी तथा ॥
इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिम् ।
प्रीणिता पूजिता भूत्वा एते शोधन्तु भोजनम् ॥
पञ्चामिषेण संसृष्टम् असंसृष्टं करोन्तु मे ।
अपञ्चामिषसंसृष्टं सर्वं भुजामि भोजनम् ॥
सर्वेषां बीजग्रामाणां प्रतिष्ठा पृथिवीरसाः ।
सर्वभोजनसंसृष्टम् असंसृष्टं भवन्तु मे ॥
छिन्नं दग्धं यथा सूत्रं तादृशं भवते पुनः ।
तथा भोजनसंसृष्टम् असंसृष्टं करोन्तु मे ॥
स्याद् यथेदम् ।
खखमे । खख खख । खुखुमे । सिमे सिमे । सिहुने । सिमि सिमे । स्वस्ति स्वस्ति स्वस्ति स्वस्ति । शान्ति शान्ति साराग्रि । पञ्चामिषेण संसृष्टं यथा हार निरामिषम् । येन दग्धं यथा सूत्रं सत्यं कुर्वन्तु तादृशम् ॥
स्याद् यथेदम् ॥
कलके । कलले । बलनिकरुणलाये । खलुमे । अग्निसंक्रामनि स्वाहा ॥
विपश्यिबुद्धं शरणम् उपैमि । शिखिनं च बुद्धं सुगतं च विश्वभुम् । क्रकुच्छन्दबुद्धं कनकमुनिं च काश्यपम् । विशारदं शक्यमुनिं च गौतमम् । एतेन सप्तान् नरोत्तमानां पुष्पैश् च गन्धैश् च शरीरपूजां कायेन वाचा ( म्स्प् 43 ) मनसा च कृत्वा प्रसन्नचित्तशरणं ह्य् उपैमि । एतेषु बुद्धेषु महर्द्धिकेषु या देवताः सन्ति अभिप्रसन्नाः । ता देवता आत्तमना उदग्राः कुर्वन्ति शान्तिं च नित्यम् । स्वस्त्य् अस्तु मम सर्वसत्वानां च स्वाहा ॥
इदम् अवोचद् भगवान् आत्तमनास् ते च भिक्षवो बोधिसत्वा सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति ॥
आर्यमहासाहस्रप्रमर्दनी नम महायानसूत्रं समाप्तम् ॥

मूल पाठ: Mahāsāhasrapramardanī · Edition: Yutaka Iwamoto: Mahāsāhasrapramardanī, Pañcarakṣā I, Kyoto 1937 (Beiträge zur Indologie, 1). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc