भाषा

ENहिગુ
ग्रंथ पाठ

महासाहस्रप्रमर्दनी · भाग 120

महासाहस्रप्रमर्दनी
नमो भगवत्यै आर्यमहासाहस्रप्रमर्दन्यै ॥
एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म । गृध्रकूटे पर्वते दक्षिणे पार्श्वे बुद्धगोचरे रत्नवृक्षे प्रभासे वनषण्डे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः ॥
तद्यथा । आयुष्मता च शारिपुत्रेण । आयुष्मता च महामौद्गल्यायनेन । आयुष्मता च महाकाश्यपेन । अयुष्मता च गयाकाश्यपेन । आयुष्मता च नदीकाश्यपेन । आयुष्मता चोरुविल्वाकाश्यपेन । आयुष्मता चाज्ञातकौण्डिन्येन । आयुष्मता च महाकात्यायनेन । आयुष्मता च वकुलेन । आयुष्मता च वाष्पेण । आयुष्मता च कोष्ठिलेन । आयुष्मता च वागीशेन । आयुष्मता चाश्वजिता । आयुष्मता च सुभूतिना । आयुष्मता च सुवाहुना । आयुष्मता चानिरुद्धेन । आयुष्मता च रेवतेन । आयुष्मता च नन्दिकेन । आयुष्मता चानन्देन । एवं प्रमुखैर् अर्धत्रयोदशभिर् भिक्षुशतैस् तस्मिंश् च समये भगवान् सभिक्षुसंघो मागधेन राज्ञाजातशत्रुणा वैदेहीपुत्रेण सत्कृतो गुरुकृतो मानितः पूजितो ऽर्चितो याचयितश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ॥
तेन खलु समयेन वैशाल्यां महानगर्यां महान् भूमिचालो ऽभूद् अभ्रकूटं च प्रादुर्भूतम् । महति चाकालवाताशनिर् महामेघश् च समुत्थितो देवो गर्जति गुडगुडायति विद्युतश् च निश्चरन्ति । दशदिशश् चाकुलीभूताश् तमो ऽन्धकारं च प्रादुर्भूतम् । नक्षत्राणि च न भाषन्ते । चन्द्रसूर्यौ न प्रभवतो न तपतो न विरोचतो न च प्रभास्वरौ भवतः ॥
अथ भगवान् अद्राक्षीद् दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन वैशाल्यां महानगर्यां तानि भयानि प्रादुर्भूतनि । ( म्प्स्_2 ) अप्य् एकत्यानां वैशालकानां लिच्छवीनां या ग्रामान्तः पुरीषाभूतैर् अधिष्ठिता अभिसंसृष्टा । अप्य् एकत्यानां च ग्रामकुमारकानां गणकमहामात्यामात्यापार्षद्यादासीदासकर्मकरप्रेष्यपरिचारकाः भूतैर् अभिभूताः समन्ततश् च वैशालीजनपदे या भिक्षुभिक्षुण्युपासकोपासिका भीतास् त्रस्ताः संविग्नाः संदृष्टरोमकूपजाता ऊर्ध्वमुखाः प्रक्रन्दन्तो बुद्धधर्मसंघान् नमस्यन्ति ॥
ये च ब्राह्मणगृहपतयो बुद्धशासने नाभिपन्नास् ते चाप्य् एकत्या ब्राह्मणगृहपतयो ब्राह्मणं नमस्यन्ति । केचित् पुनः शक्रं केचिल् लोकपालान् नमस्यन्ति । केचित् पुनर् महेश्वरमाणिभद्रपूर्णभद्रहारीतीचन्द्रसूर्यग्रहनक्षत्रपर्वतवनषण्डौषधिवृक्षनद्युत्ससरोह्रदकूपतडागचैत्यस्थानान्य् अपि नमस्यन्ति ।
कथं नामैतद् स्याद् वयम् एवंरूपाद् उपद्रवतो भयस्थानात् परिमुच्येम इति ॥
अथ भगवांस् तथा रूपम् ऋद्ध्यभिसंस्कारम् अकाशीद् यथा रूपेण ऋद्ध्यभिसंस्कारेणाभिसंस्कृतेन त्रिसाहस्रमहासाहस्रं लोकधातुं स्वरेण विज्ञाप्य सदेवमानुषासुरं लोकं प्रसाद्य स सन्निपातयाम् आस । अथ ब्रह्मा सहापतिर् ब्रह्मकायिकाश् च देवाः शक्रश् च देवानाम् इन्द्रो देवाश् च त्रयस्त्रिंशाश् चत्वारश् च महाराजानश् चतुर्महाराजकायिकाश् च देवा अष्टाविंशतिश् च महायक्षसेनापतयो द्वात्रिंशच् च महायक्षनग्ना हारीती च सपुत्रिका सपरिवारा अतिक्रान्तवर्णा अतिक्रान्तायां रात्रौ केवलं कल्यं गृध्रकूटं पर्वतं स्वकेन वर्णानुभावेनोदारेणावभासेनावभास्य येन भगवांस् तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते स्थिता एकवागेकस्वरैकपदेन भगवन्तं गाथाभिर् अभितुष्टुवुः ॥
दीप्तकाञ्चननिर्भासः पूर्णचन्द्रप्रभास्वरः ।
श्रीवैश्रमणवद् वीररत्नानाम् आकारो दृशि ॥
सिंहवारणविक्रान्तमत्तनागपराक्रमः ।
पर्वतो वा सुवर्णस्य निष्कं जम्बूनदस्य वा ॥
चन्द्रो वा विमले व्योम्नि नक्षत्रेभिः पुरस्कृतः ॥
मध्ये श्रावकसंघस्य लक्षणैः समलंकृतः ॥
लोकः सदेवको ह्य् एष मुनिं शरणम् आगतः ।
मनुष्याणां हितार्थाय रक्षाकाल उपस्थितः ॥
साहस्रप्रमर्दनं सूत्रं सर्वबुद्धैः प्रकाशितम् ।
आचक्रवाटपर्यन्तं सीमाबन्धनम् उत्तमम् ॥
नमस् ते पुरुषवीर नमस् ते पुरुषोत्तमम् ।
कृताञ्जलिर् नमस्यामो धर्मराजं महामुनिम् ॥
अथ भगवान् मुहूर्तं तूष्णीभवेनाधिवास्य चतुरो महाराजान् आमन्त्रयामास ॥
नैतं ते महाराजानः प्रतिरूपं भवेद् यद् युष्मत् परिषदो ऽस्मत् परिषदं विहेठयितव्यं मन्यते । तत् कस्य हेतोः । इतो हि मानुषे लोके बुद्धोत्पादो धर्मस्वाख्यातता च संघसुप्रतिपन्नता च । इदम् अस्मिन् बीजम् अवरोप्य बुद्धा भगवन्तो लोक उत्पद्यन्ते । प्रत्येकबुद्धाश् चार्हन्तः श्रावकाश् चास्मिन्न् इमे लोकाः कुशलमूलान्य् अवरोप्य स दशतो द्वात्रिंशतां देवनिकायानाम् अन्यतरान्यतरे देवनिकाये उत्पद्यन्ते । राजानो ऽपि भवन्ति चतुरङ्गिनश् चतुर्द्वीपेश्वराश् चक्रवर्तिनः । समुद्रपर्यन्ते महापृथिवीमण्डले धर्मेण राजं कारयन्ति । तेषां च पुत्रसहस्रं भवति शूराणां वीराणां वराङ्गरूपिणां महानग्नबलवेगधारिनां परसैन्यप्रमर्दकानां सप्तरत्नसमन्वागतानाम् । तद् युष्माकम् अल्पोत्सुकविहारेण विहरताम् एवंरूपाणाम् अस्मिन् लोके नोत्पत्तिर् भविष्यति ॥
अथ वैश्रमणो महाराजो ऽभ्युद्गम्यासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं कृत्वा भगवन्तम् एव नमस्यमानो भगवन्तम् एतद् अवोचत् ॥ सन्ति भदन्त भगवन्न् अस्माकम् उदाराणि गृहस्थानभवनानि नगरोद्यानविमानकूटागारहर्म्यनिर्यूहतोरणगवाक्षशुभरुचितविविधविचित्रपट्टदामघण्टाचामरमुक्ताजालपरिक्षिप्तानि ( म्प्स्_4 ) धूपघटिकानि धूपितानि पुष्पावकीर्णानि येषु वयं नारीशतसहस्रपरिवृताः संपूर्णैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूता विहरामः । तेषाम् अस्माकं भदन्त भगवन् प्रमत्तानां प्रमादविहारविहारिणां विहरतां परिषदः समन्ताद् दशदिशो ऽन्नपानभोजनानि मार्गयन्ति । प्रपलायमानाः स्त्रीपुरुषदारकदारिकाणां तिर्यग्जातगर्भानां तिर्यग्योनिगतानाम् अपि च प्राणिनाम् ओजो हरन्ति विहेठयन्ति विघ्नयन्ति मारयन्ति । जीविताद् व्यपरोपयन्ति । ते वयं भदन्त भगवतो ऽन्तिके चतुर्वर्णां परिषदां पुरतः स्वकस्वकानां परिषदां रूपलक्षणं दर्शयिष्यामः । यस्य परिषदो यो ग्रहो भविष्यति । ततस् तस्य महाराजस्योदारचैत्यप्रतिमा कर्तव्या । आतुरस्य च हस्तेन तस्य महाराजस्य नाम्ना नानागन्धधूपा धूपयितव्याः । पुष्पावकीर्णां धारणीं कृत्वा दीपांश् चादीप्य तत्र चैत्ये पूजा कर्तव्या । मदीयायाः परिषदो भदन्त भगवन् यक्षग्रहगृहीतस्य ईदृशं रूपलक्षणम् ।
हसति त्रसते ऽभीक्ष्णं प्रलपंश् च विकूप्यति ।
निद्रा चाविशते तस्य शूलो वाप्य् उपजायते ॥
ऊर्ध्वं संप्रेक्षते नित्यं नक्षत्राण्य् अनुधावति ।
रात्रौ प्रहर्षम् आयाति वेपते स्तनते सदा ॥
तत्र मन्त्रपदान्य् अस्ति लोकनाथ शृणोहि मे ॥
स्याद् यथेदम् ॥

सिद्धे । सुसिद्धे । सत्वे अरे । अरणे । बले । महाबले । जम्भे स्तम्भे जटिले । अखने । मखमे । खखने । खरट्टे । खरङ्गे । हरिपिङ्गले तिमिङ्गिले स्वाहा ॥
सिध्यन्तु मे मन्त्रपदाः स्वस्त्य् अस्तु मम सर्वसत्वानां च वैश्रमणस्य महाराजस्य नाम्ना बलेनैश्वर्याधिपत्येन च स्वाहा ॥
अथ धृतराष्ट्रो महाराजो ऽभ्युद्गम्यासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं कृत्वा भगवन्तम् एव नमस्यमानो भगवन्तम् ( म्प्स्_5 ) एतद् अवोचत् । अस्मत् परिषदो भदन्त भगवन् गन्धर्वग्रहगृहीतस्य ईदृशं रूपलक्षणम् ।
नृत्यते गायते चापि भूषणानि प्रियायते ।
अलुब्धः सत्यवादि च हसते कुप्यते पुनः ॥
तृष्णायते रक्तनेत्रो ज्वरो ऽस्याविशते सदा ।
उन्मिषति न चक्षुश् च शयते च पराङ्मुखः ॥
तत्र मन्त्रपदान्य् अस्ति लोकनाथ शृणोहि मे ॥
स्याद् यथेदम् ।
अखे । नखे । विनखे । बन्धे । वराणे । चपले । वखे । वखने । वखिणे । अखिने । नखिने । वहले । भगे । भगन्दरे । वशे वशवर्तिनि । स्वाहा ॥

मुच्यन्तु सर्वसत्वाः सर्वग्रहेभ्यो धृतराष्ट्रस्य महाराजस्य नाम्ना बलेनैश्वर्याधिपत्येन च स्वाहा ॥
अथ विरूढको महाराजो ऽभ्युद्गम्यासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं कृत्वा भगवन्तम् एव नमस्यमानो भगवन्तम् एतद् अवोचत् । अस्मत् परिषदो भदन्त भगवन् कुम्भाण्डग्रहगृहीतस्य ईदृशं रूपलक्षणम् ।
बलवती तृषा भोन्ति विभ्रान्तश् चापि प्रेक्षते ।
मुखं लोहितम् आभाति भूमौ स्वपिति कुञ्चितः ॥
दुर्वर्णः कृशगात्रश् च दीर्घकेशनखस् तथा ।
दुर्गन्धो मलिनश् चापि मृशा सम्भिन्ना भाषन्ते ॥
तत्र मन्त्रपदान्य् अस्ति लोकनाथ शृणोहि मे ॥
स्याद् यथेदम् ।
खखखमे । खलने । खलने । खलोमे । खरलिखे । खरखे । खटिने । खरलि । करखि । कशने । करटे । काले कामिनि । विधलि । विधिये । विधेये । शयने । समवते । शमि शमिनि स्वाहा ॥
शाम्यन्तु मम सर्वसत्वानां च सर्वग्रहाः सर्वभयोपद्रवा विरूढकस्य महाराजस्य नाम्ना बलेनैश्वर्याधिपत्येन च स्वाहा ॥
अथ विरूपाक्षो महाराजो ऽभ्युद्गम्यासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं कृत्वा भगवन्तम् एव नमस्यमानो भगवन्तम् एतद् अवोचत् । अस्मत् परिषदो भदन्त भगवन् नागसुपर्णीग्रहगृहीतस्य ईदृशं रूपलक्षणम् ।
हिक्कते श्वसते चापि शीतलं गात्रम् एव च ।
स्विद्यते फेनलालास्य स्वपते च पुनः पुनः ॥
वर्णवान् भवते शूरो वेपते धावते तथा ।
पुनर् नखान् विदर्शयति महीं विशति रोदिति ॥
तत्र मन्त्रपदान्य् अस्ति लोकनाथ शृणोहि मे ॥
स्याद् यथेदम् ।
क्रगमे । क्रकमणि । क्रकसे । क्रकशसे । क्रुशुमे । क्रुकेके । क्रुखुमे क्रुमे । अगले । नगले । समङ्गले । कुहुमे । हुमे । अलुके । कलमके । कलले । इरे मिरे । धिरे धिरे अगरुवति स्वाहा ॥
स्वस्त्य् अस्तु मम सर्वसत्वानां च विरूपाक्षस्य महाराजस्य नाम्ना बलेनैश्वर्याधिपत्येन च स्वाहा ॥
अथ भगवांस् तावद् एव सर्वावत्याः परिषदः पुरतः सिंहनादं नदति । दशबलसमन्वागतो ऽहं चतुर्वैशारद्यविशारदः परिषद्य् उदारम् आर्षभं सम्यक्सिंहनादं नदामि । ब्रह्मचक्रं प्रवर्तयामि । मारो निर्जित एकेन ससैन्यबलवाहनः । रक्षायै सर्वसत्वानां सर्वे विद्यां शृणाथ मे ॥
स्याद् यथेदम् ।
असङ्गे । खङ्गवते । बलवते । बलनिर्घोषे । शूरे शूरवते । वज्रंगमे । वज्रधरे । स्तम्भे जम्भे । दृढसारे । विरजे । विघसे । वराग्रप्राप्ते । अरणे धर्मयुक्ते दिशि विघुष्टे स्वाहा ॥
स्वस्त्य् अस्तु मम सर्वसत्वानां च तथागतस्य नाम्ना बलेनैश्वर्याधिपत्येन च स्वाहा ॥
बुद्धस्य वचनं श्रुत्वा लोकपालाश् चतुर्दिशम् ।
उत्त्रस्ता भीतसंविघ्ना अस्थासुः प्राञ्जलीकृताः ॥
शिष्टा भूतगणास् त्रस्ता विक्षिप्ता विरलीकृताः ।
पलायन्ते दशदिशो महानादम् उदीरयन् ॥
तद् विदित्वा महाराजास् त्रिगुप्तिं समुदाहरत् ।
अहो विद्या महाविद्या महासाहस्रप्रमर्दनी ॥
यस्यां त्रसन्ति भूतानि श्रुत्वा बुद्धस्य भाषितम् ।
यथा प्रज्वलितो वह्निरश्मिर् वातैर् अपायितः ॥
क्षुरधारासमा विद्या गौतमेन प्रकाशिता ।
यो ह्य् एतन् नाभिमन्येत ऋषिवाक्यं सुभाषितम् ॥
तस्यात्र ब्रह्मशापेन ज्येष्ठपुत्रो न भेष्यति ।
अग्निं प्रज्वालयित्वा तु गृहीत्वासितसर्षपान् ॥
घृतमण्डेन संयुक्ताः प्रक्षेप्तव्याहुताशने ।
हेष्ठम् ऊर्ध्वं चतुर्दिक्षु क्षिप्त्वा च वरुणोदकम् ॥
यदि क्षिप्रं न मुञ्चेयुः श्रुत्वा बुद्धस्य भाषितम् ।
भवन्तु ज्वलिताः सर्वे यथाग्नौ घृतसर्षपाः ॥
क्षेमं च तेन लप्स्यन्ति यक्षदण्डेन तर्जिताः ।

तेषां दक्षिणपार्श्वेषु महागण्डो भविष्यति ॥
चित्रभूता भविष्यन्ति यक्षरोगेन पीडिताः ।
अडकवतीं राजधानीं न गच्छन्ति कदा चन ॥
निवेशनं न पश्यन्ति कुबेरस्य यशस्विनः ।
आसनं च न लप्स्यन्ति भूतसंघाः समागमे ॥
अन्नपानेन रहिता जायन्ते यक्षमण्डले ।
महासाहस्रप्रमर्दनं सूत्रं यो यक्षो नानुवर्तते ॥
तस्य वज्रधरः क्रुद्धो मूर्धानं स्फोटयिष्यति ।
कर्कशक्षुरधारेण जिह्वान् तस्येह च्छेत्स्यति ॥
तीक्ष्णेण चास्य शस्त्रेण कर्णौ नासां च च्छेत्स्यति ।
प्रपातयति चक्रेण क्षुरधारेण मस्तकम् ॥
लोहमुद्गरकीलेन हृदयं चास्य पीडयेत् ।
मुखतः स्रवते चास्य पूयम् उष्णं च शोणितम् ॥
विद्यापाशेन दण्डेन सदा संसारगामिनः ।
तत्रैव संसरिष्यन्ति संसारे चक्रमण्डले ॥
श्रियाविष्टा महाराजाः समागम्य चतुर्दिशम् ।
धर्मसंनाहसंनद्धा निषण्णा भद्रपीठके ॥
धृतराष्ट्रश् च पूर्वायां दक्षिणेन विरूढकः ।
पश्चिमेन विरूपाक्षः कुबेरश् चोत्तरां दिशम् ॥
राज्ञां समागतानां हि ज्वलतां तेजसा श्रिया ।
अन्तरीक्षं तदा शाश्ता सर्वज्ञो हि समुद्गतः ॥
वज्रासने निषद्येह विमाने ब्रह्मनिर्मिते ।
ततो ब्रह्मा महाब्रह्मा प्राञ्जलिस्थो नमस्यति ॥
सुवर्णपर्वतः श्रीमांश् तप्तकाञ्चनसंनिभः ।
पद्मपुष्पवद् उत्फुल्लः शालराजेव पुष्पितः ॥
पूर्णचन्द्रो रविर् वापि नक्षत्रैः परिवारितः ।
सुवर्णवर्णकायेन लक्षणैर् मुनिर् आवृतः ॥
संस्तुत्वा लोकप्रद्योतं ब्रह्मा लोकपितामहः ।
पुरतो लोकनाथस्य लोकपालान् अथाब्रवीत् ॥
न प्राप्तं लोकपालानां पर्षदो नानुशासनम् ।
इतो बुद्धा हि जायन्ते बुद्धाः प्रत्येकजा अपि ॥
इतश् च श्रावकोत्पत्तिर् देवाश् चापि समुत्स्थिताः ।
जायन्ते ब्राह्मणाश् चेतः षडङ्गावेदपारगाः ॥
ऋषयश् च महाभागा इतः श्रमणब्राह्मणाः ।
अल्पोत्सुकानां युष्माकं बध्यते मानुषीप्रजा ॥
ब्रह्मणो वचनं श्रुत्वा लोकपाला वचो ऽब्रुवन् ।
एवम् एतन् महाब्रह्मन्न् एवम् एतत् महामुने ॥
एते विशोधयिष्यामः समन्तात् सागरं वयम् ।
सुमेरुं कंपयित्वा तु धारणीं परिवर्त्य च ॥
बन्धयिष्यामः पाशेन चन्द्रसूर्यौ तथानिलम् ।

नक्षत्राणि च सर्वाणि गाढेनाभ्याहतेन ॥
दिशश् चादर्शना भागास् तेषां नेष्याम सर्वदा ।
ये प्रदुष्टा भविष्यन्ति न च लोकहितोद्यतः ॥
लोकः सदेवको ह्य् एष गर्हते भूतकारणात् ।
पराभवन्ति भूतानि हिंसन्ते मानुषीं प्रजाम् ॥
अत्र मन्त्रधराः कामं दर्शयन्ति पराक्रमम् ।
अतिक्रामन्ति ये विद्यां मन्त्रान् औषधम् एव वा ॥
विद्यातिक्रान्ताः परिषदः समन्ताद् दण्डतर्जिताः ।
कृत्वा समानयिष्यामो लोकनाथस्य चाग्रतः ॥
तेषां दण्डं प्रणेष्यामः सूत्रं ब्रह्मणा निर्मितम् ।
यस्येदं भाषतो विश्वं तर्जते भूतमण्डलम् ॥
बुद्धस्य पादौ वन्दित्वा आलोक्य च परस्परम् ।
सुवर्णरूप्यवैडूर्यमुक्तायाः स्फटिकस्य च ॥
समुसाराश्मगर्भस्य सप्तरत्नसमाकुलान् ।
सहस्रारान् सुवर्णांश् चतुरः संस्कृतान् रथान् ॥
विश्वकर्मसु संयुक्तान् ऋद्ध्य वैहायसंगमान् ।
तत्राभिरुह्य राजानः प्रक्रान्ता भूतमण्डलम् ॥
पुष्पपूर्णां महीं कृत्वा चूर्णैश् चापि हिरण्मयैः ।
यष्टीर् आबध्य हि गले सूत्रपाशांस् तथापि च ॥
यक्षसेनापतीन् सर्वान् प्रेषयित्वा चतुर्दिशम् ।
आनेथ सर्वभूतानि यावन्तो ऽस्मद्गता दिशि ॥
साहस्रप्रमर्दनं ह्य् एतेत् संश्रौतुं सूत्रम् उत्तमम् ।
ब्रह्मलोकान् समुदितं सर्वलोकैर् विचिन्तितम् ॥
महासाहस्रकायेन मर्दिता यक्षराक्षसाः ।
श्रुत्वा वाक्यं कुबेरस्य यक्षसेनापतिर् गतः ॥
विक्रमन्तश् चतुर्दिक्षु घोषं घोषन्ति गुह्यकाः ।
अष्टाविंशच् च भूतानि ग्रहा गन्धर्वजा मुने ॥
पूर्वे ऽस्मिन् दिशोभागे भूतसंघाः शृणोन्तु मे ।
सर्वे ते सूत्रपाशेन पञ्चबन्धनपीडिताः ॥
अष्टाविंशच् च भूतानि ग्रहाः कुम्भाण्डजा मुने ।
दक्षिणे ऽस्मिन् दिशोभागे भूतसंघाः शृणोन्तु मे ॥
सर्वे ते सूत्रपाशेन पञ्चबन्धनपीडिताः ।
अष्टाविंशच् च भूतानि भोन्ति नागग्रहा मुने ।
पश्चिमे ऽस्मिन् दिशोभागे भूतसंघाः शृणोन्तु मे ॥
सर्वे ते सूत्रपाशेन पञ्चबन्धनपीडिताः ।
अष्टाविंशच् च भूतानि भोन्ति यक्षग्रहा मुने ।
दिग्भागे उत्तरे चापि भूतसंघाः शृणोन्तु मे ॥
सर्वे ते सूत्रपाशेन पञ्चबन्धनपीडिताः ।
ज्येष्ठपुत्रः कुबेरस्य सञ्जयो नरवाहनः ॥
पादमूले तु तस्यैव यक्षाणां षष्ठिकोटयः ।

आकृष्टाः सूत्रपाशेन पञ्चबन्धनपीडिताः ॥
पुत्रो द्वितीयस् तस्यैव जनको नाम विश्रुतः ।
पादमूले तु तस्यैव यक्षाणां षष्ठिकोटयः ॥
आकृष्टाः सूत्रपाशेन पञ्चबन्धनपीडिताः ।
पुत्रस् त्रितीयस् तस्यैव नाम्ना चासौ महाग्रहः ॥
पादमूले तु तस्यैव यक्षाणां षष्ठिकोटयः ।
आकृष्टाः सूत्रपाशेन पञ्चबन्धनपीडिताः ॥
पुत्रश् चतुर्थस् तस्यैव नाम्नासौ कलशोदरः ।
पादमूले तु तस्यैव यक्षाणां षष्ठिकोटयः ॥
आकृष्टाः सूत्रपाशेन पञ्चबन्धनपीडिताः ।
महेश्वरो महादेवश् चतुर्बाहुर् महाबलः ॥
पादमूले तु तस्यैव यक्षाणां षष्ठिकोटयः ।
आकृष्टाः सूत्रपाशेन पञ्चबन्धनपीडिताः ॥
आगत्य सर्वभूतानि पर्वते भूतमर्दने ।
एषा उद्भाविता विद्या सर्वविद्या शर्मकरा ॥
निष्ठुरं पुरुषं दण्डं सर्वबुद्धैर् हि भाषितम् ।
एष गच्छामः शरणं सर्वे गौतमम् आदरात् ॥
अशाठ्येनानुवर्तेथ मा च सर्वेण भेष्येथ ।
ततो मुहूर्तमात्रेण भूतसंघाः समागताः ॥
पर्वतेषु प्रपातेषु समुद्रेषु सरःसु च ।
नदीप्रस्रवणोत्सेषु आवर्तेषु च ये स्थिताः ॥
उद्यानेषु विमानेषु आरामेषु वनेषु च ।
चैत्यस्थानेषु ग्रामेषु वृक्षमूलेषु ये स्थिताः ॥
नगरस्य प्रवेशेषु निगमजनपदेषु च ।
राजकुलेषु द्वारेषु विमानेषु च ये स्थिताः ॥
मण्डपेषु श्मशानेषु तथा देवकुलेषु च ।
सीमासु शुल्कशालायां शून्यागारे ऽथ जाङ्गले ॥
ऊर्ध्वं हेष्ठं च ये यक्षाश् चतुर्दिक्षु विदिक्षु च ।
यक्षकोटीसहस्राणि विद्यापाशेन कर्षिताः ॥
मृदङ्गवादितं कृत्वा केचिद् गर्गरवादितम् ।
वीणापणववेणूश् च वादयन्तो महाबलाः ॥
कृत्वा च वादितं चित्रं गान्धर्वं नाट्यम् एव च ।
इन्द्रः सोमश् च वरुणो भरद्वाजः प्रजापतिः ॥
मातलिर् लोहिताक्षश् च हिमवन्तः सुपूर्णकः ।
चन्दनः कामश्रेष्ठी च मणिकण्ठो निकण्ठकः ॥
प्रजागुरुर् यतीशश् च देवसूतश् च मातलिः ।
चित्रसेनश् च गन्धर्वो नरराजो जिनर्षभः ॥
तथा पञ्चशिखो नाम तुम्बुरुः सूर्यवर्चसः ।
शैलश् चैवासिपुत्रश् च विश्वामित्रो यशोधरः ॥
आडवकः सुमनश् च शूचीकर्णो दरीमुखः ।

पञ्चालगण्डः सुमुखः ससैन्यबलवाहनः ॥
देवा नागाश् च गन्धर्वा असुरा यक्षराक्षसाः ।
त्रैतीयकश् च उन्मादास् तथा चातुर्थको ज्वराः ॥
ये च लोकं विहेठन्ति प्रदुष्टा यक्षराक्षसाः ।
चतुर्दिक्षु समानीय पञ्चबन्धनपीडिताः ॥
प्राञ्जलीकाः पुरः स्थित्वा लोकनाथम् अथाब्रुवन् ।
नमस् ते पुरुषवीर नमस् ते पुरुषोत्तम ॥
प्राञ्जलीका नमस्यामो धर्मराज नमो ऽस्तु ते ।
धावन्ति पुरतस् तेषां भूता यक्षा महाभयाः ॥
चतुर्भुजा महाघोरा बहुपादेकपादः ।
चतुष्पादा द्विपादाश् च ऊर्ध्वपादा अधोमुखः ॥
बहुकायैकशीर्षाश् च एककायाश् चतुःशिराः ।
बहुनेत्रा महाकायाश् च एकाक्षा द्वादशोदराः ॥
खरोष्ठहस्तिशीर्षाश् च ऊर्ध्वहस्ता अधःशिराः ।
शस्त्रदन्ताः शस्त्रबाहू शस्त्रपादाश् च राक्षसाः ॥
ताम्रकेशास् ताम्रहस्तास् ताम्राक्षास् ताम्रपाणयः ।
ताम्रमुद्गरपादाश् च ताम्रनासा अयोमुखाः ॥
आदीप्तहस्तपादाश् च मनुष्यतनुना स्थिताः ।
काणाः कुब्जास् तु गरुडा विकृताक्षा विजृम्भकाः ॥
मकरव्याडरूपाश् च विरूपाश् सकलोन्मुखाः ।
लम्वोष्ठा वक्रदन्ताश् च प्रदुष्टा भृकुटीमुखाः ॥
स्थूलोदराः कुम्भकर्णा लंवकर्णा अकर्णकाः ।
दीर्घकर्णा दीर्घबाहू दीर्घकेशाग्रपाणयः ॥
शुष्ककाया दीर्घकाया दीर्घकेशाः स्वलंकृताः ।
पादभाराः कृषग्रीवा दुर्गन्धाः करशोदराः ॥
मकरस्य यथा अंशो मुषलमुद्गरोदराः ।
ऊर्ध्वनेत्रा महाकर्णा ऊर्ध्वकेशाः सुलोहिताः ॥
स्थूलशीर्षा धनुग्रीवाः कुब्जकुंभोदराः कृषाः ।
ववृषुर् वह्निवर्षाणि मेरुमूर्धं विचार्य वै ॥
वृक्षपर्वतपाषाणाम् अग्रकूटं समद्युतिम् ।
शंखभेरीमृदङ्गानां कुंभाण्डा दुन्दुभिस्वराः ॥
प्रमुञ्चन्ति रवं भीमं महाकण्ठाः खरस्वराः ।
कालनीलकपीताश् च हरित्पिङ्गलपिङ्गलाः ॥
गुह्यकाः सर्वदुष्टानाम् आलये पुरः स्थिताः ।
ग्रसन्ते मानुषं लोकं नरनार्यस् तथेतरान् ॥
हतकृत्यमांशरुधिरं मेदमज्जान् तथापरे ।
सूचीलोमासिकेशाश् च रक्तलोहितम्रक्षिताः ॥
भक्षमाणा विधावन्ति कुणपं संप्रगृह्य वै ।
तीक्षुदन्ता रक्तहस्ता ओष्ठम्रक्षितलोहिताः ॥
अर्धखादितगात्रैश् च कृत्वा हस्तौ प्रपूरितौ ।

वृक्काहृदयजत्रुनिजघणं भक्षमाणकाः ॥
कराला हस्तपादेभ्यो हरन्ते प्राणिनां बलम् ।
अस्थिसंकरकायेन त्रासयन्ति जनान् बहून् ॥
गृहीत्वा मानुषं चर्म लोहितेन प्रपूरितम् ।
विषेणोग्रेण संसृष्टं विक्षिपन्ति दिशोदशम् ॥
नगराणां प्रवेशेषु विक्षिपन्ति कुलाकुलम् ।
वातं पित्तं च श्लेष्माणं क्षोभयन्ति चतुर्दिशम् ॥
इति संतिष्ठन्ते तत्र राजपीडा महाभयाः ।
सर्वे समागतास् ते ऽपि विद्यापाशेन कर्षिताः ॥
नमस् ते पुरुषवीर नमो ऽस्तु पुरुषोत्तम ।
नमस्यामो ऽञ्जलिकरा धर्मराज नमो ऽस्तु ते ॥
चरन्ति नगरं ग्रामं राष्ट्रराजकुलेषु च ।
यक्षा ओजोहरा घोरा नृमांसरुधिरासिनः ॥
महाकाया महाभीमा महाबला महेश्वराः ।
दशग्रीवाः सहस्राक्षा महाग्रासा महामुखाः ॥
महता परिवारेण शस्त्रहस्ताः सुभैरवाः ।
अहिचर्मगृहीताश् च उल्काहस्ताश् चतुर्भुजाः ॥
दण्डहस्ताः शस्त्रहस्ताः शूलिनो वज्रपाणिनः ।
उत्त्रासेन्ति दिशः सर्वायुध्वं कृत्वा सुदारुणम् ॥
प्रसन्ना गुह्यकाः सर्वे दुष्टानाम् आलये स्थिताः ।
ग्रसन्ते मानुषे लोके नरनार्यस् तथेतरान् ॥
उष्णैर् मांसैश् च रुधिरैर् भान्ताङ्गाः कामरूपिणः ।
सिंहव्याघ्राश् च महिषीगोखरोष्ट्रेभरूपिणः ॥
ऋक्षद्वीपिवृकन्यङ्कुशृगालैडविडालकैः ।
रूपैर् आखुकपिप्रख्यैः खङ्गीशूकरनाकुलैः ॥
मत्सकच्छपरूपैश् च अपरैः काककोकिलैः ।
उलूकगृध्रसेन्यादि तथा तिमितिमिङ्गिलैः ॥
मायूरैर् हंसकापोतै रूपैः क्रौञ्चविहङ्गमैः ।
केचित् कुक्कुटरूपेण यक्षाः पश्यन्ति मानुषान् ॥
सुपर्णीपक्षिवेषेण संत्रासेन्ति जनान् बहून् ।
केषांचिद् मानुषं शीर्षं शरीरं खरकोत्कटम् ।
अन्यान्य् अभिद्रवन्तो ऽन्ये दृश्यन्ते विकलाशयाः ।
विनग्नाः कामपरमा अन्त्रमालावगुण्ठिताः ॥
प्रहरन्ति त्रिशूलेन पीडां कुर्वन्ति प्राणिनाम् ।
मुञ्चन्ति दारुणं श्वासं संतापेन्ति इमाः प्रजाः ॥
विचित्ररूपा दृश्यन्ते यावती प्राणसंततिः ।
गृहीतपर्वतश् चान्ये असिचक्रधरापरे ॥
संख्याशतसहस्राणि मुसलदण्डतर्जिताः ।
उत्पाटिताक्षा विमुखाः खण्डदन्ताश् च राक्षसाः ॥
छिन्ननासाश् छिन्नकर्णाश् छिन्नजिह्वा वलीमुखः ।

संछिन्नहस्तपादाश् च छिन्नशीर्षाश् च राक्षसाः ॥
प्रेक्षन्ति चावतारं हि ओजो हिंसन्ति किल्बिषाः ।
मानुषाणां शरीरेषु सुशूक्ष्मो दृश्यते ग्रहः ॥
रोमान्तरेषु मर्मेषु तथा व्रणमुखेषु च ।
सर्वे समागतास् ते ऽपि विद्यापाशेन कर्षिताः ॥
नमस् ते पुरुषवीर नमस् ते पुरुषोत्तम ।
नमस्यामो ऽञ्जलिकरा धर्मराज नमो ऽस्तु ते ॥
सुमेरौ गिरिराजे च चक्रवाडे तथैव च ।
गृध्रकूटे इशाधारे हिमवद्गन्धमादने ॥
पाण्डवे चित्रकूटे च नारदे पर्वतद्वये ।
श्रीपर्वतस्य मूर्धस्थाः शृङ्गा ये भृशम् उद्गताः ॥
यास् तत्र देवताधस्ता ऋषयश् च तथाधिकाः ।
बभूवुस् ते ऽपि चोद्विग्ना आयुश् चोत्त्रस्तमानसाः ॥
देवकोटीसहस्राणि देवकोटीशतानि च ।
देवकन्या महाभागा अञ्जलिं संप्रगृह्य वै ॥
वेमचित्री राहुलश् च प्रह्लादश् च समागताः ।
भृत्यकोटीसहस्रैश् च भृत्यकोटीशतैर् अपि ॥
कन्यास् तेषाम् ऋद्धिमत्यो बद्धा दशनखाञ्जलिम् ।
सागरः सुप्रतिष्ठश् च नागराजो मनस्व्य् अपि ॥
नगेन्द्रो ऽनवतप्तश् च उभौ नन्दोपनन्दकौ ।
वक्षुनन्दो वज्रमतिर् गङ्गा सिन्धुश् च सागरः ॥
सुपर्णी पक्षिराजानः सागरं क्षोभयन्ति ये ।
नागकोटीसहस्रभिर् नागकोटीशतैस् तथा ॥
कन्यास् तेषां महाभागा अञ्जलिं संप्रगृह्य वै ।
रविचन्द्राव् उभौ वापि नक्षत्रपरिवारितौ ॥
सुवर्णवर्णः पुष्पेषु मगधेषु रभेयकः ।
कापिलिर् भरुकच्छेषु कोशलेषु प्रपुण्डकः ॥
शूचीलोमा च मद्रेषु मल्लेषु च यशोधरः ।
विभीषणश् च पाञ्चाले लोहिताक्षश् च अश्वजे ॥
पिङ्गलश् च अवन्तेषु कपिलाक्षश् च वैदिशे ।
कुम्भोदरश् च मत्सेषु सूरतेषु च दीर्घिलः ॥
प्रमर्दनस् तु गान्धारे सूर्यमित्रश् च कम्बुषु ।
महाजनपदेष्व् एते उक्ता यक्षाश् चतुर्दश ॥
वज्रपाणिर् महायक्षो धर्मपालः प्रपुण्डरः ।
कपिलः सुदर्शनो विष्णुः पिण्डारः करशोदरः ॥
कुम्भीरः सात्यकिश् चापि पाञ्चिकश् च जिनर्षभः ।
महेश्वरो महायक्षश् चतुर्बाहुर् महाबलः ॥
प्रमर्दनः शूरसेनो महानग्नो महाबलः ।
यमश् च यमदूतश् च मारश् चापि ससैन्यकः ॥
हरिर् नाम्ना त्व् असौ यक्षो यक्षकोटीपरिग्रहः ।

हारीती च ससैन्या तु गिरिदारि च यक्षिणी ॥
भीमरूपा महातेजा हारीती नाम विश्रुता ।
चण्डा चण्डालिका चैव पञ्चपुत्रशतैर् वृता ॥
आकोटा कर्कटी काली पदुमा पदुमावती ।
पुष्पदन्ती विशाला च खरकर्णा च राक्षसी ॥
चन्दनो विष्णुलश् चापि हरिपिङ्गलपिङ्गलः ।
कुञ्जरो नागदन्तश् च गिरिमित्रो ऽग्रदंष्ट्रकः ॥
राक्षसी भद्रदन्ता च ब्रह्मिला विष्णुला तथा ।
यक्षो हालाहलश् चैव राक्षसश् च वितुण्डकः ॥
शूलेषु ते गृहीत्वाथ गवाश् च मृगमानुषान् ।
भक्षयन्तश् च जीवन्तो धावन्तश् च दिशोदिशः ॥
प्रकम्पमाना धारणीं शोषयन्तो वनस्पतीन् ।
संकोचयन्तः शिखरान् मर्दयन्त इमाः प्रजाः ॥
परस्परं संहर्षेन्तो विद्याकृष्टाः समागताः ।
तेषां समागतानां हि लोकनाथस्य चाग्रतः ॥
ततो वैश्रमणो राजा लोकनाथम् अथाब्रवीत् ।
ममास्त्य् उत्तरदिग्भागे राजधानि सुनिर्मिता ॥
मनोरमाडकवती तेनाहम् अडकाधिपः ।
चिन्तिता सर्वदेवे हि राजधान्य् अडकाह्वया ॥
समुच्छ्रिता तु प्राकारा सप्तरत्नसमाकुला ।
क्षोमकैर् योजने द्वेधैः संस्कृता काञ्चनामयैः ॥
क्षोमके चैकमेकस्मिन् समन्ताद् दिक्चतुष्टये ।
स्थिता वज्रधरा यक्षाः शस्त्रहस्ताः सुवर्मिताः ॥
राजधान्यास् तु तस्यैव कृतं द्वारचतुष्टयम् ।
एकं सुवर्णमयं द्वारं द्वितीयं रूप्यसंस्कृतम् ॥
तृतीयं स्फाटिकं द्वारं चतुर्थं मणिविचित्रितम् ।
अस्त्य् अन्तरे तु नगरे उद्याने वनपुष्पिते ॥
विमानानि विचित्राणि सप्तरत्नमयानि वै ।
नानारत्नमया वृक्षा नानापक्षिणिकूजिताः ॥
नानापुष्पसंछन्ना नानागन्धानुलेपनाः ।
पक्षिणीनां विलासैश् च गीतवाद्यैर् अलंकृताः ॥
अनुभोमि श्रियं त्व् अग्र्यां भूतानां तत्र मण्डले ।
सर्वाकारवरोपेतास् तत्र मे परिचारकाः ॥
धर्मचारी धर्मकामा न विहिंसन्ति प्राणिनाम् ।
अन्नपानैस् तु विकला दारुणास् त्व् इतराः प्रजाः ॥
अधर्मचार्य् अधर्मकामास् ते विहिंसन्ति प्राणिनाम् ।
उदारं परिमार्गन्तो विप्रेक्षन्ति चतुर्दिशं ॥
नगरद्वारसंस्था ये उद्यानेषु वनेषु च ।
यक्षराक्षसभूतानां कोटीसहस्रकान् गणान् ॥
सर्वांस् तान् आनयिष्यामि सूत्रपाशेन कर्षितान् ।

चन्दनानां वनैश् च्छन्नं शीतपुष्करिणीचितम् ॥
मध्ये तद्राजधान्यास् तु धर्मराजनिवेशनं ।
समन्ताद् योजनं यावत् कूटागारास् तु निर्मिताः ।
सुवर्नस्य भवेद् एको द्वितीयो रूप्यम् एव च ।
वैडूर्यस्य तृतीयस् तु चतुर्थः स्फाटिकः शुचिः ॥
पञ्चमो रक्तमुक्तायाः षष्ठश् चैवाश्मगर्भः ।
सप्तमस् तु मुसारस्य सप्तरत्नमयो ऽष्टमः ॥
नारिशतसहस्राणि एकैकस्मिन् समागताः ।
चित्रैर् आभरणैर् अग्रैश् चित्रैर् वेशैर् अलंकृताः ॥
विचित्रगीतवाद्येषु शिल्पस्थानेषु शिक्षिताः ।
ईदृशेन प्रमोदेन उदग्रस् तुष्टमानसः ॥
तत्राहं मधुपानेन कामैश् चात्यर्थम् उच्छ्रितः ।
पर्षत् मे प्रपलायन्ति संत्रासेन्ति दिशोदशः ॥
स्त्रियश् च पुरुषाश् चैव तथा दारकदारिकाः ।
गर्भस्था अपि नश्यन्ति तिर्यग्योनिगता अपि ॥
नक्षत्रचन्द्रसूर्याश् च ग्रहाः पीडन्ति दारुणाः ।
सस्यं बीजं फलं पुष्पम् ओषधं पानभोजनम् ॥
हरन्ते मानुषीं लक्ष्मीम् उच्चानीचीं करोन्ति च ।
ये केचिद् दुष्कृता लोके वैराः कलहविग्रहाः ॥
दग्धं नष्टं हतं भिन्नं तत् सर्वं भूतजं स्मृतम् ।
ओगुण्ठन्ति निगुण्ठन्ति पर्यस्यन्ति स्थितन्ति ॥
उत्त्रासेन्ति च सत्वानां विप्रेक्षन्ति द्विषन्ति च ।
दर्शेन्ति पापकान् स्वप्नान् प्रसुप्तान् पीडयन्ति च ॥
द्वारस्थाश् चाच्छटां कृत्वा प्रक्रोशन्ति ग्रसन्ति च ।
मित्रज्ञातिसरूपाश् च दृश्यन्ते आलपन्ति च ॥
विचित्रकन्यारूपेण दृश्यन्ते कामरूपिणः ।
चन्द्ररूपेण दृश्यन्ते सूर्यनक्षत्ररूपिणः ॥
वातोल्काशनिरूपेण दृश्यन्ते वायुपीडकाः ।
उल्काकलापसदृशाः शृगालस्वरभैरवाः ॥
विक्रमन्तश् च दृश्यन्ते वृक्षचैत्यालयेषु च ।
कुमाररूपेण ज्वलन्तः शकटस्वराः ॥
सदा चित्राणि दर्शेन्ति आलयेषु पथेषु च ।
गृहाणां नगराणां च द्वारे मुञ्चन्ति ते ग्रहाः ।
गृहीत्वा जीवितं कायं कुपथे ग्रामयन्ति च ।
विचित्राणि च रूपाणि विचित्राणि स्वराणि च ॥
रोगान् विचित्रान् दर्शेन्ति व्याधीन् वै कायसंस्थितान् ।
विपरीतं च दर्शेन्ति सर्वरोगेषु च लक्षणम् ॥
यावती प्रकृति लोके सर्वान् दर्शेन्ति ते ऽन्यथा ।
सर्वे समागतास् ते ऽपि विद्यापाशेन कर्षिताः ॥
नमस् ते पुरुषवीर नमस् ते पुरुषोत्तम ।

नमस्यामो ऽञ्जलिकरा धर्मराज नमो ऽस्तु ते ॥
ततो वैश्रमणो राजा उत्थितो ऽथ कृताञ्जलिः ।
चक्राङ्कचित्रचरणयष्टिकाञ्चनसन्निभः ॥
लोकप्रद्योतकिरण अग्निकल्पमहामुने ।
चतुःषष्ठिसहस्राणि यक्षाणाम् अत्र दारुणाः ॥
निश्रिता ह्य् उत्तरभागं पीडयन्ति तदुद्भवान् ।
तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखम् ॥
स्याद् यथेदम् ।
खङ्गे । खङ्गगर्भे । विचक्षणे । चक्रगगने । चन्द्रे चपले । भीमपर्वते । खराग्रे । कुटिलकराग्रे । एकाक्षिवर्गवति । सारङ्गवति विचित्रकान्ति स्वस्त्य् अस्तु मम सर्वसत्वानां च उत्तरस्यां दिशि स्वाहा ॥
ब्रह्मा चाप्य् अथ शक्रश् च लोकपाला महेश्वराः ।
यक्षसेनापतयः सर्वे हारीती च सपुत्रिका ॥
इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिं ।
वीर्येण तेजसा तेषाम् ऐश्वर्येण बलेन च ॥
निहताः सर्वरोगाश् च स्वस्त्य् अस्तु मम सर्वसत्वानां च सर्वभयोपद्रवेभ्यः स्वाहा ॥
नमस् ते पुरुषवीर नमस् ते पुरुषोत्तम ।
नमस्यामो ऽञ्जलिकरा धर्मराजा नमो ऽस्तु ते ॥
धृतराष्ट्रश् च राजो ऽपि स कृताञ्जलिर् उत्थितः ।
पूर्णराशिर् इवोत्फुल्लः कलविङ्करुतस्वरः ॥
मोरकोकिलनिर्घोषमेघदुन्दुभिगर्जितः ।
चतुःषष्ठिसहस्राणि गन्धर्वा राक्षसा मुने ॥
निश्रिता पूर्वदिग्भागं पीडयन्ति तदुद्भवान् ।
तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखम् ॥
स्याद् यथेदम् ।
धरणि धारणि । प्रध्वंसनि । भञ्जनि । प्रभञ्जनि । विधमणि । किंपुरुषे । सकले । सारथे । सारवति । शूरधरे । शूरधारिणि । शुद्धचरणे । घोषवति । सराग्रे । शान्ति स्वस्त्य् अस्तु मम सर्वसत्वानां च पूर्वस्यां दिशि स्वाहा ॥
ब्रह्मा चाप्य् अथ शक्रश् च लोकपाला महेश्वराः ।
यक्षसेनापतयः सर्वे हारीती च सपुत्रिका ॥
इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिं ।
वीर्येण तेजसा तेषाम् ऐश्वर्येण बलेन च ॥
निहताः सर्वरोगाश् च स्वस्त्य् अस्तु मम सर्वसत्वानां च सर्वभयोपद्रवेभ्यः स्वाहा ॥
नमस् ते पुरुषवीर नमस् ते पुरुषोत्तम ।
नमस्यामो ऽञ्जलिकरा धर्मराज नमो ऽस्तु ते ॥
राजा विरूढकश् चापि प्राञ्जलीकस् ततो उत्थितः ।
सर्वज्ञः सर्वदर्शी च सर्ववादी प्रमर्दनः ।
सर्वसंशयच्छेता च सर्वलोकविनायकः ।
चतुःषष्ठिसहस्राणि कुम्भाण्डाः प्रेतपूतनाः ॥
निश्राय दक्षिणं देशं पीडयन्ति तदुद्भवान् ।
तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखम् ॥
स्याद् यथेदम् ।
शान्ति शारवति । कान्ति कारवति । किंकरसि । किरण्डि । किंवडि । धरणि । वर्धनि । भूमिधारिणि । विभूमिधारिणि । हिमवति । ज्योतिश्चरणे । मालाग्रि । स्वस्त्य् अस्तु मम सर्वसत्वानां च दक्षिणायां दिशि स्वाहा ॥
ब्रह्मा चाप्य् अथ शक्रश् च लोकपाला महेश्वराः ।

यक्षाधिपतयः सर्वे हारीती च सपुत्रिका ॥
इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिं ।
वीर्येण तेजसा तेषाम् ऐश्वर्येण बलेन च ॥
निहताः सर्वरोगाश् च स्वस्त्य् अस्तु मम सर्वसत्वानां च ( म्स्प् 20 ) सर्वभयोपद्रवोपसर्गेभ्यः स्वाहा ॥
नमस् ते पुरुषवीर नमस् ते पुरुषोत्तम ।
नमस्यामो ऽञ्जलिकरा धर्मराज नमो ऽस्तु ते ॥
विरूपाक्षो महाराजा गृहीताञ्जलिर् उत्थितः ।
महामेघमहासिंहः महामहमहोदधिः ।
महावादी महाशूरो महासंग्राममर्दकः ।
चतुःषष्ठिसहस्राणि नागसौपर्णिगुह्यकाः ।
निश्राय पश्चिमं देशं पीडयन्ति तदुद्भवान् ।
तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखम् ॥
स्याद् यथेदम् ।
धर्मधराग्रे । बलवति । बलिनि विशाङ्गे । विवसि सागरे । खरि कपिले । चण्डालि । तिरिणि । विराजने । विधारिणि । वर्णवति । अचरे । स्वस्त्य् अस्तु मम सर्वसत्वानां च पश्चिमायां दिशि स्वाहा ॥
ब्रह्मा चाप्य् अथ शक्रश् च लोकपाला महेश्वराः ।
यक्षाधिपतयः सर्वे हारीती च सपुत्रिका ॥
इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिं ।
वीर्येण तेजसा तेषाम् ऐश्वर्येण बलेन च ॥
निहताः सर्वरोगाश् च स्वस्त्य् अस्तु मम सर्वसत्वानां च सर्वभयोपद्रवोपसर्गेभ्यः स्वाहा ॥
नमस् ते पुरुषवीर नमस् ते पुरुषोत्तम ।
नमस्यामो ऽञ्जलिकरा धर्मराज नमो ऽस्तु ते ॥
अथ ब्रह्मा महाब्रह्मा प्राञ्जलीकः समुत्थितः ।
ब्राह्मणः स्नातकः शुद्धः सर्ववेदेषु पारगः ।
वैद्यराजो जनानन्दः सर्वरोगचिकित्सकः ।
ये यक्षराक्षसाश् चैव दिग्विदिक्षु व्यवस्थिताः ।
पाताले हेष्ठम् ऊर्ध्वं च आकाशे निश्रिता ग्रहाः ।
तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखम् ॥
स्याद् यथेदम् ।
ब्रह्म ब्रह्मघोषे । ब्रह्मस्वरे । वज्रधरे । स्थिरे । सारे । अचले । अरणे । इषणे । अरणि देरणि । शूरे । वराग्रप्राप्ते । सारवते । ( म्स्प् 21 ) स्वस्त्य् अस्तु मम सर्वसत्वानां च सर्वदिग्विदिग्भ्यः स्वाहा ॥
ब्रह्मा चाप्य् अथ शक्रश् च लोकपाला महेश्वराः ।
यक्षसेनापतयः सर्वे हारीती च सपुत्रिका ॥
इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिं ।
वीर्येण तेजसा तेषाम् ऐश्वर्येण बलेन च ॥
निहताः सर्वरोगाश् च स्वस्त्य् अस्तु मम सर्वसत्वानां च सर्वभयोपद्रवोपसर्गेभ्यः स्वाहा ॥
नमस् ते पुरुषवीर नमस् ते पुरुषोत्तम ।
नमस्यामो ऽञ्जलिकरा धर्मराज नमो ऽस्तु ते ॥
वातजाः पित्तजा रोगाः श्लेष्मजाः सन्निपातजाः । निहताः सर्वरोगाश् च स्वस्त्य् अस्तु मम सर्वसत्वानां च सर्वभयोपद्रवोपसर्गोपायासेभ्यः स्वाहा ॥
अथ भगवान् एतद् अवोचत् ।
नैकराजस्यार्थाय बुद्धा भगवन्तो लोक उत्पद्यन्ते । नैकनगरनिगमजनपदग्रामकुलानां यावन् नैकसत्वस्यार्थाय बुद्धा भगवन्तो लोक उत्पद्यन्ते । अपि तु सदेवकस्य लोकस्यार्थाय समारकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुराया बुद्धा भगवन्तो लोक उत्पद्यन्ते । तद्यथा । स्याद् वैद्यश् चिकित्सकः परमाचार्यः कुशलो भिषज्ज्ञानेषु शिक्षितो नैकराजस्यार्थाय नैकसत्वस्यार्थाय लोक उत्पद्यन्ते । एवम् एव बुद्धा भगवन्तो लोक उत्पद्यन्ते । तत् कस्य हेतोः । यस्यां दिशि बुद्धा भगवन्तो विहरन्ति । न तत्र मनुष्यामनुष्यान् विहेठयितव्यान् मन्यते । पञ्चाहं येन वैशाली महानगरी तेनोपसंक्रामेयम् । एवं मया वैशाल्यां महानगर्यां महाजनकायस्यार्थाय कृतो भविष्यति बुद्धकार्यं च ॥
अथ खलु भगवान् पूर्वाह्णकालसमये निवास्य पात्रचीवरम् आदायार्धत्रयोदशभिर् भिक्षुशतैः सार्धं गृध्रकूटात् पर्वताद् अवतीर्णः ॥

अथ ब्रह्मा सहापतिः पञ्चमात्राणि दिव्यानि छत्रशतान्य् आदाय भगवतो दक्षिणेणोपनामितवान् । उपनाम्य भगवन्तम् ( म्स्प् 22 ) एव विजयमानः स्थितो ऽभूत् ॥
शक्रो ऽपि देवानाम् इन्द्रः पञ्चमात्राणि छत्रशतान्य् आदाय भगवतो वामेनोपनामितवान् । उपनाम्य भगवन्तम् एव विजयमानः स्थितः ॥
चत्वारो ऽपि महाराजानः एकैको ऽपि दिव्यानि पञ्चमात्राणि छत्रशतान्य् आदाय भगवतः पृष्ठत उपनामितवन्त उपनाम्य भगवन्तम् एव विजयमानः स्थितः ॥
महेश्वरो ऽपि देवपुत्रो ऽष्टाविंशतिश् च महायक्षसेनापतयो द्वात्रिंशच् च महायक्षनग्ना हारीती च सपुत्रिका सपरिवारा श्रावकानां प्रत्येकं दिव्यं छत्रम् उपनामितवती विजयन्ती च स्थिता ॥
एवंरूपयोशोलाभसत्काराग्रप्राप्तो भगवान् सभिक्षुसंघो गृध्रकूटात् पर्वताद् अवतीर्य येन वैशाली महानगरी तेनोपसंक्रान्तः । अद्रक्षुः खलु पुनर् वैशालिका लिच्छवयो भगवन्तं दूरत एवागच्छन्तं प्रासादिकं प्रासादनीयं शान्तेन्द्रियं शान्तमानसं दान्तेन्द्रियं दान्तमानसं परमोत्तमदमशमथप्राप्तं जितेन्द्रियं नागम् इव सुदान्तं ह्रदम् इवाच्छं विप्रसन्नम् अनाविलं द्वात्रिंशद्भिर् महापुरुषलक्षणैः समलंकृतगात्रम् अशीतिभिश् चानुव्यञ्जनैः संकुसुमितं विचित्रितं गात्रं तथागतस्य शरीरं शालराजेव सुपुष्पितः सूर्यो वा दिवा प्रमुक्तरश्मिजालः । रात्रौ चान्धकारतमिश्रायां गिरिशिखरगतः । प्रज्वालन् महान् अग्निस्कन्धः । महान् इव चामीकराचलधरः । एवम् एव भगवान् भाषते तपति विरोचते सहदर्शनाद् एव वैशालिका लिच्छवयो भगवतो ऽन्तिके चेतांसि प्रसादयामासुः ॥
ते प्रसन्नचित्ता येन मार्गेण भगवान् वैशालीं महानगरीं प्रविशति तं मार्गं शोधयन्ति स्म । संमार्जयन्ति स्म । पुष्पावकीर्णं च वरेण्यं कुर्वन्ति स्म । उच्छ्रितविचित्रपट्टदामघण्टाछत्रध्वजपताकानानागन्धानि धूपितं कृत्वा येन भगवांस् तेनोपसंक्रामन्ति स्म । उपसंक्रम्य भगवतः पादयोः शिरांसि निपातयन्ति ॥
अथ भगवान् सहस्रारचक्ररुचिरचरणविलिखिततलेन पद्मबिम्बगर्भसूकुमारेण पूर्वसुचरितलक्षणोपचितेन तरुणदिवाकरकिरणातिरेकप्रभेण । प्रसृतबहुरश्मिशतसहस्रनिर्मलेन करेण तेषां लिच्छवीनां शिरांशि परिमार्ज्योत्थाप्य समनुशासयति स्म ॥
मा भैष्ठ मा भैष्ठ आर्या एथाहम् अभ्यागतो युष्माकम् एवानुकंपाम् उपादाय अनुत्तरं ज्ञानम् अभिसंबुद्धो ऽस्मि । सर्वसत्वानां च हिताय सुखाय ॥
अथ भगवान् वैशालीम् महानगरीं प्रविश्य मध्यमे यामे इन्द्रकीलम् अवष्टभ्य चतुर्दिशम् अवलोक्य सुवर्णवर्णबाहुं प्रसार्योत्तरासङ्गं विचरित्वोवाच । ये केचित् पश्चिमे काले पश्चिमे समये सर्षपफलमात्रं तथागतस्य शरीरधातुं पूजयिष्यन्ति । इमां च महासाहस्रप्रमर्दनीं विद्याराज्ञीं सर्वग्रहपरिमोचनीयं धर्मपर्यायं गङ्गासिकताप्रख्यानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां बुद्धमुद्रां भिक्षुभिक्षुण्युपासकोपासिका उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति पर्यवाप्स्यन्ति । तेषां सर्वत्र इति भयोपद्रवोपसर्गोपायासावैरकलिकलहबन्धनविग्रहविवादा अन्तशः पैशून्यपापका अकुशला दुःखधर्मा न क्रमिष्यन्ति । अजयाश् च भविष्यन्ति सर्वविहेठकेभ्यः ॥
एवम् उक्ते ब्रह्मा सहापतिर् भगवन्तम् एतद् अवोचत् ।
कतमा च सा भदन्त भगवन् महासाहस्रप्रमर्दनी नाम विद्याराज्ञी सर्वग्रहपरिमोचनीयं धर्मपर्यायं गङ्गासिकताप्रख्यानां तथागतानां अर्हतां सम्यक्संबुद्धानां बुद्धमुद्रा ॥
एवम् उक्ते भगवान् ब्रह्माणं सहापतिम् एतद् अवोचत् ।
तेन हि त्वं ब्रह्मन् शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्य हन्त । एव भदन्तेति ब्रह्मा सहापतिर् भगवतः प्रत्यश्रौषीद् भगवांस् तस्यैतद् अवोचत् ।
स्याद् यथेदं ।
अचले मचले । सारमचले । प्रकृतिवर्ण । प्रकृतिनिर्घोषे । समन्तमुखे । स्थिरे स्थावरे । विघुष्टशब्दे । प्रगलने । पारङ्गमे । सारवर्णे । सारङ्गवते । बले । महाबले । महानिर्भासे स्वाहा ॥
तत्रेदम् उच्यते कायगतानुस्मृतिः शमथविपश्यने । त्रयः समाधयः । चत्वारो ऋद्धिपादाः । चत्वारि सम्यक्प्रहाणानि । चत्वारि स्मृत्युपस्थानानि । चत्वारि ध्यानानि । चत्वार्य् आर्यसत्यानि । पञ्चेन्द्रियाणि । पञ्चबलानि । षडनुस्मृतयः । सप्तबोध्यङ्गानि । आर्याष्टाङ्गा मार्गाः । नवानुपूर्वविहारसमापत्तयः । दशतथागतबलानि । एकादशविमुक्तायतनानि । द्वादशाङ्गप्रतीत्यसमुत्पादः । द्वादशकारधर्मचक्रम् । षोडशाकार अनायानानुस्मृतिः । अष्टादशावेणिकाबुद्धधर्माः । द्वाचत्वारिंशदक्षराणि । इयं सा ब्रह्मन् महासाहस्रप्रमर्दनी नाम महाविद्याराज्ञी सर्वग्रहपरिमोचनीयं सूत्रं गङ्गासिकताप्रख्यानां तथागतानां अर्हतां सम्यक्संबुद्धानां बुद्धमुद्रा । बुद्धनिर्हारः । धर्मनिर्हारः । संघनिर्हारः । ब्रह्मनिर्हारः । इन्द्रनिर्हारः । लोकपालनिर्हारः । ईश्वरनिर्हारः । सत्यनिर्हारः । मार्गनिर्हारः । प्रतीत्यसमुत्पादनिर्हारः । चन्द्रनिर्हारः । सूर्यनिर्हारः । ग्रहनक्षत्रनिर्हारः ॥
स्याद् यथेदम् ।
शाले कसिने । विधरणि । वराग्रसारे । अमर्षणि । अमोघवते । सेचने नकालि । कासिवरे । भरणे । करकसखे । समन्तप्राप्ते । सारप्राप्ते । स्तम्भप्राप्ते । वज्रधरे स्वाहा ॥
अथ भगवांस् तस्यां वेलायाम् इमां गाथाम् अभाषत ।
इमस्मिन् लोकेष्व् इमस्मिन् वा पुनः स्वर्गेषु वा रत्नवराणि सन्ति ।
समो ऽस्ति नैवेह तथागतेन देवातिदेवेन नरोत्तमेन ॥
तस्माद् इदं रत्नवरं प्रणीतम् एतेन सत्येन इहास्तु स्वस्ति ।
क्षयो विरागो ह्य् अमृतं त्व् असंस्कृतम् आज्ञाय सौशाक्यमुनिप्रभावितः ॥
धर्मेण तेन न समो ऽस्ति कश्चिद् अमृतेन शान्तेन असंश्कृतेन ।
तस्माद् इदं रत्नवरं प्रणीतम् एतेन सत्येन इहास्तु स्वस्ति ॥
यच् छ्रेष्ठम् इष्टं विधिवत्प्रकाशितं शास्ता सदानुत्तरयोगवाहकम् ।
समाधिना तेन समो न विद्यते वज्रोपमेनाद्वयमार्गदर्शिना ॥
तस्माद् इदं रत्नवरं प्रणीतम् एतेन सत्येन इहास्तु स्वस्ति ।
अष्टौ महापुद्गलये प्रशस्ताः ख्यातानि चत्वारि युगानि चैव ॥
ते दक्षिणीया सुगतेन गीता महर्षिणा ह्य् अप्रतिपुद्गलेन ।
एभ्यः प्रदानं भवते महाफलं बीजानि न्यस्तानि यथा सुक्षेत्रे ॥
इदं प्रणीतं वरसंघरत्नम् एतेन सत्येन इहास्तु स्वस्ति ।
ये सुप्रसन्नामनसा दृढेन उपसंक्रमी गौतमशासनं हि ॥
ते प्राप्तिप्राप्ता अमृतं विगाह्य तमोनुदा निर्वृतिम् आप्नुवन्ति ।
इदं प्रणीतं वरसंघरत्नम् एतेन सत्येन इहास्तु स्वस्ति ॥
सहस्रयोगाद् इह दर्शनस्य त्रयः प्रहीणा युगपत् किलेशाः ।
सत्कायदृष्टिर् विचिकित्सा च शीलं व्रतं दर्शनम् आर्यता च ॥
इदं प्रणीतं वरसंघरत्नम् एतेन सत्येन इहास्तु स्वस्ति ।
न जातु कुर्यात् त्रिविधं हि पादं कायेन वाचा मनसाथ वापि ॥

प्रछादनीयं सहसा न कृत्वा यथा न दृष्टिर् ग्रहणेन तेषाम् ।

इदं प्रणीतं वरसंघरत्नम् एतेन सत्येन इहास्तु स्वस्ति ॥
यथेन्द्रकीलपृथिवीप्रतिष्ठिता चतुर्दिशं वायुभिर् अप्य् अकम्प्य ।
तथोपमा पुद्गलाः सन्ति संघे या आर्यमार्गस्य दर्शिनः ॥
इदं प्रणीतं वरसंघरत्नम् एतेन सत्येन इहास्तु स्वस्ति ।
य आर्यसत्यानि विभावयन्ति गम्भीरप्रज्ञेन सुदेशितानि ॥
कायप्रदानं च मनस्य् अकृत्वा न ते भयं कष्टम् अवाप्नुवन्ति ।
इदं प्रणीतं वरसंघरत्नम् एतेन सत्येन इहास्तु स्वस्ति ॥
अर्चिर् यथा वायुवशाद् विनष्टा अस्तंगता नैव उपेति संक्षा ।
तथैव सम्योजनविप्रयुक्ता अदर्शनं यान्ति हि बुद्धपुत्रा ॥
इदं प्रणीतं वरसंघरत्नम् एतेन सत्येन इहास्तु स्वस्ति ।
ये जङ्गमाश् चात्र तथैव स्थावरास् ते सर्वसत्वाः सुखिनो भवन्तु ॥
शास्तारम् अग्र्यं नरदेवपूज्यं बुद्धं नमस्येथ इहास्तु स्वस्ति ।
ये जङ्गमाश् चात्र तथैव स्थावरास् ते सर्वसत्वाः सुखिनो भवन्तु ॥
शान्तं विरागं नरदेवपूज्यं धर्मं नमस्येथ इहास्तु स्वस्ति ।
ये जङ्गमाश् चात्र तथैव स्थावरास् ते सर्वसत्वाः सुखिनो भवन्तु ॥
गणानम् अग्र्यं नरदेवपूज्यं संघं नमस्येथ इहास्तु स्वस्ति ।
यानीह भूतानि समागतानि स्थितानि भूमाव् अथ वान्तरीक्षे ॥
कुर्वन्तु मैत्री सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मम् ।
येनैव सत्येन जिनो जितारिः स सत्यवादी रिपुस् तस्य नास्ति ॥
तेनैव सत्येन इहास्तु स्वस्ति मुच्यन्तु सर्वे ऽद्य महाभयेभ्यः स्वाहा ॥
स्याद् यथेदम् ॥
धिरे धिधिरे । बलनिर्घोषे । बलसारे । सारवते । स्तुते । प्रभूतप्राप्ते । आरधे । आरघोषे । सारवति । अच्युते । बलवते । शूरप्राप्ते । सारंगमे । सूर्यगमे । सूर्यनिर्घोषे स्वाहा ॥
इयं सा महाब्रह्मन् महासाहस्रप्रमर्दनी नाम विद्याराज्ञी सर्वग्रहपरिमोचनीयं सूत्रं गङ्गासिकताप्रख्यानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां बुद्धमुद्रा । बुद्धपदा । धर्मपदा । संघपदा । ब्रह्मपदा । इन्द्रपदा । लोकपालपदा । ( म्स्प् 27 ) ईश्वरपदा । महार्षिपदा । पर्यर्थिपदा । आयतिपदा । अक्षिपदा । हेतुपदा । प्रदेशपदा । निर्देशपदा । अभिसंबुद्धपदा । सम्यक्संबुद्धैश् च प्रत्येकबुद्धैश् च स्पर्शिता । श्रावकैर् अधिष्ठिता । ब्रह्मभिः प्रशंसिता । इन्द्रेण पूजिता । लोकपालैर् नमस्कृता । ईश्वरेण पूजिता । सर्वदेवैर् वर्णिता । योगाचारैर् अभिनन्दिता । ऋषिभिर् अलंकृता । ब्रह्मभिर् अबिस्तुता । देवताभिश् चिन्तिता । स्नातकैः प्रशंसिता । चातुर्वर्णेन लोकेन । गोचरः सर्वबुद्धानाम् । उद्यानं प्रत्येकबुद्धानाम् । निर्याणं श्रावकानाम् । आश्रयो योगाचाराणाम् । आकरो बोधिपक्षाणां धर्माणाम् । प्रवाहनं संक्लेशानाम् । उत्पाटनम् अनुशयशल्यानाम् । संदर्शनं मोक्षद्वाराणाम् । भेदनं सत्कायदृष्टीनाम् । प्रपातनं मानपर्वतस्य । विवरणम् आर्यमार्गस्य । पिथनं मोक्षद्वाराणाम् । संशोषणं संसारसमुद्रस्य । उच्चालनं सर्वसंसारपतितानाम् अस्थिपर्वतानाम् । च्छेदनी मारपाशस्य । उत्त्रासनी मारपर्षदः । उद्गिलनी मारबडिशस्य । उत्त्रासनी क्लेशसंग्रामात् । प्रवेशनी निर्वाणनगरे । निष्क्रामणी संसारगृहाद् इति ॥
स्याद् यथेदम् ।
खङ्गे । खङ्गघोषे । उषोधने । सारथिप्रभेदे । विपुलप्रभे । संकर्षणि । विकर्षणि । विषाग्रवति । शुद्धसाधने । वरुणवते । वाशने । विभूषणि । विषंगमे । पशुपति । पुष्पगर्भे । स्वस्त्य् अस्तु मम सर्वसत्वानां च सर्वभयोपद्रवोपसर्गोपायासेभ्यः स्वाहा ॥
इयं सा महाब्रह्मन् महासाहस्रप्रमर्दनी नाम विद्याराज्ञी सर्वग्रहप्रमोचनीयं सूत्रं गङ्गासिकताप्रख्यानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां बुद्धमुद्रा । यया मुद्रया मुद्रितः सदेवमानुषासुरो लोको ऽनुत्तरनिर्वाणपुरं प्रविष्टः । यस्य चार्थाय गङ्गासिकताप्रख्यैः सम्यक्संबुद्दैः प्रत्येकबुद्धैः श्रावकैश् च पूर्वाभिसंबुद्धैः सम्यक्संबुद्धाः प्रत्येकबुद्धाः श्रावकाश् च मातापितृदक्षिणीया गुरुस्थानीयाः पर्युपासिता ब्रह्मचर्यं चीर्णं शीलं रक्षितं ( म्स्प् 28 ) दानं दत्तं कृपा पारमिता परिपूरिः । साधिता बोधिसत्वचर्या साधिता बोधिप्राप्तिप्राप्ता सर्वज्ञता पराजितो मारः ॥
अथ ब्रह्मा सहापतिः शक्रश् च देवानाम् इन्द्रश् चत्वारश् च महाराजान एकवागेकमतैकस्वरा भगवन्तं नमस्यमाना ऊचुः ॥
अहो विद्या महाविद्या महासाहस्रप्रमर्दनी ॥
आरक्षा सर्वसत्वानां बुद्धमुद्राश् चतुर्दिशम् ।
मुद्रां वयं प्रदास्यामः सूत्रे साहस्रप्रमर्दने ॥
त्रासेन्ति सर्वभूतानि मुद्रया मुद्रितायया ।
ये मनुष्या प्रदुष्टाश् च त्रसन्नाश् चात्र शासने ॥
तेषां दण्डं प्रणेष्यामि विद्यां ब्रह्मेण निर्मिताम् ।
शक्रेण धारिता मुद्रा लोकपालैश् च मुद्रिताः ॥
स्याद् यथेदम् ।
कलिङ्गे । भारदे । जूदग्रे । जामले । सिंहमदे । साराग्रप्राप्ते । हंसगामिनि । मालिनि । हुले मिहुले । पिहुले 2 पिहुलमे हहम् हहम् हहम् हहम् । सूदनि वराग्रवति । हस्तिने । नेचरमति । चण्डालि । चरमे । चराचरे स्वाहा ॥
अस्यां खलु पुनर् महासाहस्रप्रमर्दन्यां विद्याराज्ञ्यां भाष्यमानायाम् अयं त्रिसाहस्रमहासहस्रो लोकधातुः षडधिकारम् अकम्पत् । दिक्षु विदिक्षु भूताशतैर् यक्षराक्षसैर् निर्नादः प्रक्रुष्टघोषं चोद्घोषयन्ति स्म ॥
अहो दुःखमहो कष्टं नष्टा भूतगणा वयम् ।
विनष्टा भूतसंघास् ता वशनीताश् च सर्वथा ॥
अवशाः प्राणिभूतानां सर्वेषाम् अद्य संवराः ।

ते च भूमौ निपीडन्ति संप्रपद्यन्ति दुःखिताः ॥
अथ भगवांस् तां भूमीं वज्रमयीम् अभिनिर्मिमीते ।
ते चतुर्दिशं प्रपलायन्ति अथ चत्वारो महाराजानः ॥
चतुर्दिशं महान् अग्निज्वालास्कन्धम् अभिनिर्मितवन्तः ।
ते चाकाशे परिधावन्ति ॥
अथ ब्रह्मा सहापतिर् अयोमयम् आकाशम् अभिनिर्मिमीते । ते ( म्स्प् 29 ) च सप्ततालमात्रं वैहायसं परिधावन्ति । अथ शक्रो देवानाम् इन्द्रो ऽसिशरशक्तिकुन्ततोमरवृक्षपर्वतवृष्टीर् अभिप्रवर्षति । तेन च समयेन समन्ततः सहायां लोकधातौ पञ्चयक्षशतसहस्राणि सन्निपतितानि विद्याशापहतानि ज्वरावेशोन्मत्तानि विपीडन्ति । भगवतः पादयोः शिरांसि निपत्याब्रुवन् ॥
सर्वसत्वहितानुकम्पी श्रमणो गौतम ।
त्रायतु नः श्रमणो गौतम ॥
अथ भगवांस् तान् गुह्यकान् मैत्र्या स्फरन्ति स्म । शिक्षाग्रहणं च कारयामास ।
या गतिर् मातृघाटीनां पितृघाटीनां च या गतिः ।
अर्हतां घाटकस्यापि संघभेदी च या गतिः ॥
संबुद्धदुष्टचित्तस्य लोहितोत्पादकस्य च ।
तां गतिं प्रतिपद्येम यदि मुद्रां क्षिपेमहि ॥
सप्तधास्य स्फुटो मूर्धा अर्जकस्येव मञ्जरी ।
संमृष्टा यक्षरोगेण चित्रगात्रा भवेमहि ॥
साहस्रप्रमर्दनीसूत्रं यद् इदं जिनभाषितम् ।
विद्याराज्ञीम् अभिक्रम्य वर्तेम स्वेच्छया वयम् ॥
तेन च समयेन वैशाल्यां महानगर्यां सर्वे इति भयोपद्रवोपसर्गोपायासाः प्रतिप्रस्रब्धाः । यक्षराक्षसमनुष्यामनुष्याः स्वकस्वकं गोचरम् अतिक्रान्ताः । वैशालका लिच्छवयश् च सर्वरोगव्याधिभ्यो विनिर्मुक्ताः सर्वसुखसमर्पिता बुद्धे ऽवेत्य प्रसादेन समन्वागता बभूवुः । धर्मे ऽवेत्य प्रसादेन समन्वागता बभूवुः । सततसमितं रत्नत्रयपूजाभिरता महोत्सवेन विहरन्तः । हंसशुकशारिकाकोकिलमयूरचक्रवाककुनारजीवञ्जीवकपक्षिगणा मधुरं निकूजन्ति स्म । विगतकायपीडाः सांसर इव किन्नराः । अघाटितानि रत्नभाजनानि रणन्ति स्म । भेरीशङ्खमृदङ्गपणववीणावेणवश् च यथा स्थाने स्थापिता एव प्रवाद्यन्ति स्म । दाडिमबिल्वामलन्यग्रोधाश्वत्थप्रक्षकपित्थोदुम्बरशालतालतमालतिलकचम्पकवृक्षा नानागन्धान् प्रमुञ्चन्ति स्म । देवतासहस्रैश् च हीहीकारप्रमुक्तः । अन्तरीक्षाच् च ( म्स्प् 30 ) पुष्पवर्षम् अभिप्रविष्टम् । अमानुषश् च गन्धो लोके प्रादुर्भूतः ॥
अथ चत्वारो महाराजानः प्राञ्जलयो भगवन्तम् एतद् अवोचत् ।
इदं भदन्त भगवन् महासाहस्रप्रमर्दनी सूत्रराजं सर्वग्रहप्रमोचनीयं बुद्धमुद्रा धर्मपर्यायम् । यः कश्चिच् छिक्षापदं परिगृहीत्वा काशायधारी उद्गृह्य धारयित्वा वाचयित्वा देशयित्वा पर्यवाप्य लिखित्वा ग्रन्थयित्वा धारयिष्यति । तस्य सर्वे इति भयोपद्रवोपसर्गोपायासावैरकलिकलहभण्डनविवादा यावत् पैशून्यका अकुशला धर्मा नाभिक्रमिष्यन्ति । अजयश् च भविष्यन्ति सर्वविहेठकेभ्यः । तेन राष्ट्रस्य सीमाबन्धयितुकामेन सुस्नातेन त्रिशुक्लभुक्तेन पञ्चामिषपरिवर्जितेन सर्वमानुषशिष्यापदपरिगृहीतेन सर्वसत्वसमाचित्तेन वस्त्राभरणयुक्तेन ग्रामनगरनिगमशृङ्गाटककुलान्य् अपगतसंकारकूटानि कृत्वा मध्यमायां राजधान्यां पुष्पावकीर्णां धरणीं कृत्वा नानागन्धा धूपयितव्या । चतुर्दिशं चतस्रः कन्यकाः सुस्नातविभूषिताः शस्त्रहस्ताः स्थापयितव्याः । चत्वारो घण्टाश् चत्वारि रत्नभाजनानि गन्धोदकपुष्पफलपरिपूर्णानि स्थापयितव्यानि । पूर्वाह्णकालसमये उद्गते सहस्रकिरणविद्या आवर्तयितव्या । पलषष्ठिकया सूत्रं कर्तयितव्यं लिखित्वा चीरिकायां मूर्ध्नि महाचैत्येषु महावृक्षेषु महाध्वजेषु चोच्छ्रापयितव्या । नानापुष्पैर् नानागन्धैश् च पक्षमात्रं पूजा कर्तव्या । दिवसे दिवसे चैकवारं विद्या आवर्तयितव्या । एवं राष्ट्रः परिमोचितो भविष्यति । एवं जनपदराजधानीस्थानविहारदेवकुलक्षत्रशालावृक्षफलहरितारामगोशालपशुशाला अपगतसंकाराः कृत्वा खदिरबदराग्निं प्रज्वाल्य पुष्पावकीर्णां धरणीं कृत्वा द्वारशालशोभनां नानागन्धप्रधूपितां कृत्वा सर्वबीजानि सर्पिषां म्रक्षयित्वा चतुर्दिशं प्रक्षेप्तव्यानि । अग्नौ च प्रक्षेप्तव्यानि नानारङ्गानि च सूत्राणि द्वारे बन्धनीयानि तिर्यग्योनिगतानि निष्कास्य पुनः प्रवेशयितव्यानि । विद्या चावर्तयितव्यानि । लिखित्वा ग्रन्थयित्वा चोर्ध्वम् उत्थाप्य पूजनीया । ग्लानस्य पुरतो बुद्धप्रतिबिम्बं वा ( म्स्प् 31 ) बुद्धशरीरं वा । समुद्गतेमं चेवापीठे वावरोप्य ब्रह्मप्रतिबिम्बं वा शक्रप्रतिबिम्बं वा चतुर्महाराजप्रतिबिम्बं वा चतस्रो मुद्राः कृत्वा स्थापयितव्याः । नानापुष्पैर् नानाधूपैर् नानागन्धैर् ब्रह्मशक्रचतुर्महाराजमहेश्वरयक्षसेनापतिर् यक्षमहानग्ना हारीती च नम्ना त्रयाणां रत्नानां पूजा कर्तव्या । तेषां बलेनैश्वर्याधिपतेन च स्वस्त्य् अस्तु मम सर्वसत्वानां च मुञ्चन्तु सर्वग्लानाः सर्वव्याधिभ्यः । ग्लानस्य चान्नपानभैषज्यम् ॥
उपनामयता इयं विद्या आवर्तयितव्या ।
विबुद्धबोधौ संबुद्धे लोकपालाश् चतुर्दिशम् ॥
भाजनानि समानीय चत्वारि सुगताय वै ।
दत्तानि निर्मितश् चैको मुनिना भाजनोत्तमम् ॥
गृहीतं पाणिना शास्ता भैषज्यम् अमृतोपमम् ।
एतेन सत्यवाक्येन अमृतं भवन्तु औषधम् ॥
हारीती च तथा देवी गृह्य पश्यां तथा शुभम् ।
शास्त्रे दत्तवती दिव्यं भैषज्यम् अमृतोपमम् ॥
एतेन सत्यवाक्येन आतुरस्य रूजापहम् ।
सर्वम् उपहारं चापि भवत्व् अमृतम् औषधम् ॥
विपश्यिबुद्धतेजेन शिखिनश् च बलेन च ।
विश्वभूसत्यवाक्येन क्रकुच्छन्दसमाधिना ॥
कनकाह्वस्य ज्ञानेन ऋद्ध्या वै काश्यपस्य च ।
शाक्यसिंहस्य वीर्येण भवत्व् अमृतम् औषधम् ॥
कृत्वा पूर्वामुखं ग्लानभैषज्यम् उपनामयेत् ।
इमां पाणितले विद्यां तस्मिन् काले उदाहरेत् ॥
स्याद् यथेदम् ॥
खटे । खटविखटे । विमले । विलम्बे । बले बलवते । चन्द्रे । चरणे । अमृतनिर्घोषे स्वाहा ॥
वातजाः पित्तजा रोगाः श्लेष्मजाः सन्निपातजाः । निहताः सर्वरोगाश् च स्वस्त्य् अस्तु मम सर्वसत्वानां च सर्वदा सर्वभयेभ्यः स्वाहा ॥
सर्वकाखोर्दवेताडसंप्रयुक्तेषु कर्मसु तेन पुरुषेण स्त्रिया वा ऽहोरात्रो वपुष्टेन सुस्नातेन सुभूषितेन पुष्पावकीर्णां नानागन्धप्रधूपितां च धरणीं कृत्वा खदिरवदराग्निं प्रज्वाल्य सर्वबीजानि चतुर्दिशं प्रक्षेप्तव्यानि । नानारङ्गानि च सूत्राणि शस्त्रेषु वा शूलेषु वा कुन्तेषु वा काण्डेषु वा ग्रन्थयित्वा बन्धनीयानि सर्वमूलानि सर्वपुष्पाणि नानागन्धोदकं कृत्वा महति कुण्डे प्रक्षेप्तव्यानि । यस्य काखोर्दकृतं भविष्यति । तस्य तं सूत्रकम् आबन्ध्य कुण्डे ऽधिष्ठापनीयः शस्त्रेण तं सूत्रकं च्छित्वा अग्नौ प्रक्षेप्तव्यम् । इदं च महासाहस्रप्रमर्दनीसूत्रम् उदाहर्तव्यम् ।

बुद्धाः प्रत्येकबुद्धाश् च बुद्धानां श्रावकाश् च ये ।
ब्रह्मेन्द्रो लोकपालाश् च यक्षसेनापतीश्वराः ॥
तथा यक्षनग्ना हारीती च सपुत्रिका ।
वीर्येण तेजसा तेषां वेताडंकर्म च्छिद्यतु ॥
भिन्नन्ति वज्ररत्नानि वह्निर् इन्धनदाहकः ।
वातेन शोषिता मेघा भास्करेण वनस्पती ॥
एतेन सत्यवाक्येन काखोर्दकर्म दहताम् ।
नानागन्धैस् तथा पुष्पैर् निर्धूताः सर्वपापकाः ॥
तद्यथा ।
हुमे 2 कखलि । खरलि । जुक्विनि । जवले । गरगे । हरिणि । शावरि शान्ति । प्रसान्ति स्वाहा ॥
धावनि स्वाहा । प्रधावनि स्वाहा । गान्धर्वे स्वाहा । पलङ्गनि स्वाहा । सर्वकाखोर्दकृतवेताडच्छेदनि स्वाहा ॥
इमैर् मन्त्रपदैर् मम सर्वसत्वानां च सर्वकाखोर्दवेताडौषधिमन्त्रविषयोगाः सर्वदेवैश् च्छेदिताः पराजिताः स्वाहा ॥
गलगण्डवैसर्पातिसारोन्मादगण्डपिटकभगन्दरविषपीतकात् परिमोचयितुकामेन सुस्नातेन सुभूषितेन भद्रपीठासननिषण्णेन इयं विद्या उदाहर्तव्या ।
तेजसा सर्वबुद्धानां प्रत्येकजिनतेजसा ।
अर्हतां चैव वीर्येण सर्वेषां मन्त्रधारिणाम् ॥
प्रज्ञया शारिपुत्रस्य मौद्गल्यस्य च ऋद्धिया ।
चक्षुषा चानिरुद्धस्य काश्यपस्य धूतैर् गुणैः ॥
कौण्डिन्यपूर्वप्राप्त्या च आनन्दस्य श्रुतेन च ।
मैत्र्या वै ब्रह्मणा चैव ऐश्वर्येण शतक्रतोः ॥
विषयैर् लोकपालानां महेश्वरबलेन च ।
सेनापतीनां सौर्येण हारीत्याश् च समृद्ध्या ॥
वीर्येण तेजसा तेषां विषम् अस्त्व् अविषं सदा ।
तत्र मन्त्रपदा भोन्ति निर्विषा विषदूषणाः ॥
स्याद् यथेदम् ।
हरिकेशि । नकिले । रेहिले । अमरे अण्डरे पण्डरे । कटके । केयूरे । हसे हसे हसे । खसे खसे खसे । खरङ्गे । मरुगहणे स्वाहा ॥ मुमुक्ष स्वाहा । हिले स्वाहा । मिले स्वाहा ॥
हता गण्डाः किलासाश् च वैसर्पाश् च विचर्चिकाः ।
पिट्टका लोहलिङ्गाश् च कच्छूर् भवति सप्तमी ॥
रागो द्वेषश् च मोहश् च एते लोके त्रयो विषाः ।
निर्विषो भगवान् बुद्धो बुद्धतेजोहतं विषम् ॥
रागो द्वेषश् च मोहश् च एते लोके त्रयो विषाः ।
निर्विषो भगवान् धर्मो धर्मतेजोहतं विषम् ॥
रागो द्वेषश् च मोहश् च एते लोके त्रयो विषाः ।
निर्विषो भगवान् संघं संघतेजोहतं विषम् ॥
विषस्य पृथिवी माता विषस्य पृथिवी पिता ।
एतेन सत्यवाक्येन विषाः सर्वे स्युर् निर्विषाः ॥
भूमिं संक्रामन्तु विषं पूर्णपात्रे वा संक्रामन्तु विषं स्वाहा ॥
अथातः कलिकलहविग्रहविवादपरचक्रशत्रूण्य् अपराजयितुकामेन पूर्वं महाचैत्ये पूजा कर्तव्या । इयं च महासाहस्रप्रमर्दनी विद्याराज्ञी प्रवर्तयितव्या ॥
बुद्धेन निर्जिता मारा धर्मेण च अधर्मता ।
संघेन निर्जिता तीर्थ्या इन्द्रेण असुरा जिताः ।
असुरैस् तु जितः सोमो वैनतेयेन सागरः ॥

अग्निना च जिताः काष्ठा उदकेनाग्निः पराजिताः ।
वातेन निर्जिता मेघा रत्नवज्रेण मथ्यते ॥
सत्येन देवास् तिष्ठन्ति सत्येन पृथिवी स्थिता ।
सत्यं बुद्धश् च धर्मश् च सत्यं जयतु मा मृषाः ॥
स्याद् यथेदम् ।
अमृते अग्रपुष्पे । बहुफले । निवारिणि सर्वार्थसाधनि । अपराजिते । धरधरणि । गुह्यावर्ते । गौतमे । गुप्तमति । जम्भनि स्वाहा ॥ बलप्रभञ्जनि स्वाहा ॥ जये स्वाहा ॥ विजये स्वाहा । जये विजये स्वाहा ॥
जिताः प्रत्यर्थिकाश् चैव सर्वपापाः पराजिताः ।
ततो ऽथ शास्ता सर्वज्ञ इमां गाथाम् अभाषत ॥
अक्षोभ्यराजो अवलोकितेश्वरो ऽमिताभनेमीरतनार्चिमेरुः ।
वज्रस्य चो नाम गृहीत्वा सर्वदा नैवं भयं भोन्ति न छम्बितत्वम् ॥
य एषान् अष्टान् महाद्युतीनां नामानि कीर्तेय अनुग्रहार्थम् ।
न तस्य अग्निर् न विषं न शस्त्रं क्रमेण काये कृत सपवित्रे ॥
सचेद् असौ आघातने उपस्थिते उत्कृष्टशस्त्रे वधके च संमुखम् ।
अनुस्मरन्तो अवलोकितेश्वरं ते खण्डखण्डं प्रपतेयुः शस्त्राः ॥
सचेद् उद्गृहीतं पि भवेत शस्त्रं भञ्जित्वा पाणिं धरणीं पतेयुः ।
न तस्य काये निपतेय किंचिद् अन्यत्र कर्म पूरिमेन यत् कृतम् ॥
समग्रदेवा इमं गाथां भाषिषुः ।
नमो ऽस्तु ते बुद्ध अनन्तगोचरा नमो ऽस्तु ते सत्यप्रकाशका मुने ।
सत्यं प्रतिष्ठाय प्रजाय मोचसे सर्वे च कामाः सफाला भवन्तु ॥
मम सर्वसत्वानां च स्वाहा ॥
ततो ब्रह्मा महाब्रह्मा उत्थितो ऽथ कृताञ्जलिः ।
सुभाषिता इयं विद्या महासाहस्रप्रमर्दिनी ॥
विद्याम् अहम् प्रवक्षामि दारकानां हितंकरी ।
बुद्धवीरं नमस्यामि धर्मराजं शुभाकरं ॥
येन प्रथमतो विद्या जंबुद्वीपे प्रकाशिता ।
धर्माय च विशिष्ठाय संघाय च गणोत्तमे ॥
बुद्धस्य पादौ वन्दित्वा ब्रह्मा वचनम् अब्रवीत् ।
बुद्धाः प्रत्येकबुद्धाश् च बुद्धानां श्रावकाश् च ये ॥
ऋषयो लोकपालाश् च यावन्तो देवतापि च ।
इतो मानुष्यलोकतः सर्व एते समुत्थिताः ॥
सन्तीह राक्षसा घोरा गर्भरक्षा महामुने ।
शक्यो न ते ऽपि च द्रष्टुं नापि शक्याश् चतुर्दिशम् ॥
यासां पुत्रो न जायन्ते यासां गर्भो न तिष्ठति ।
नरनारीसंप्रयोगेन संप्रमुह्यन्ति इन्द्रिया ॥
पुत्रबीजं विनाश्यन्ति कललं वा सबुद्बुदं ।
निष्पन्ना गर्भया च स्त्री जायते न विशल्यते ॥
नामानि तेषाम् आख्यासे लोकनाथ शृणोहि मे ।
मञ्जुको मृगराजश् च स्कन्दापस्मारमुष्टिका ॥
मातृका जामिकश् चैव कामिनी रेवती तथा ।
पूतना मातृनन्दा च शकुनिः कण्ठपाणिनी ॥

मुखमण्डितिकालम्बा चरन्ते सर्वमेदिनी ।
एते ग्रहाः पञ्चदशा दारकानां भयंकराः ॥
वक्षोलक्षणरूपाणि यथा गृह्णन्ति दारकान् ।
मञ्जुकेन गृहीतस्य चक्षुसी परिवर्तते ॥
मृगराजगृहीतस्य छर्दिर् भवति दारुणा ।
स्कन्देन प्रगृहीतस्य स्कन्दौ चालेति दारकः ॥
अपस्मारगृहीतस् तु फेणं लालां च मुञ्चति ।
मुष्टिकाप्रगृहीतस्य मुष्टिबद्धा न मुञ्चति ॥
मातृकासंगृहीतस्य स्तनते हसते तथा ।
जामिकासंगृहीतस् तु नाभिनन्दति स स्तनौ ॥
कामिनीप्रगृहीतस् तु प्रसुप्तः संप्ररोदति ।
रेवतीप्रगृहीतस् तु जिह्वा दन्तैः प्रखादति ॥
पूतनाप्रगृहीतस् तु कासते भनते तथा ।
मातृनन्दागृहीतस् तु विचित्ररूपम् आदिशेत् ॥
शकुनीप्रगृहीतस्य गन्धिपूतिं प्रवायते ।
कण्ठपाणिगृहीतस्य कण्ठः संपरिरुध्यते ॥
मुखमण्डीगृहीतस् तु ज्वर्यते च विरिच्यते ।
आलम्बाप्रगृहीतस्य हिक्काश्वासश् च जायते ॥
तत्र रूपं समाख्यास्ये यथा त्रास्यन्ति दारकान् ।
मञ्जुको गवरूपेण मृगराजो मृगो यथा ॥
स्कन्दः कुमाररूपेण अपस्मारः शृगालवत् ।
मुष्टिका काकरूपेण छागरूपेण मातृका ॥
जामिका अश्वरूपेण घोषरूपेण कामिनी ।
रेवती श्वानरूपेण शुकरूपेण पूतना ॥
मातृनन्दा विडालेन शकुनि पक्षिरूपिणी ।
कण्ठपाणी कौक्कुटेन औलूकेन मुखमण्डिका ॥
आलम्बा जत्रुरूपेण एतास् त्रास्यन्ति दारकाः ।
एताः शुक्रहरा घोरा दारकानां भयंकराः ॥
एताः समानयिष्यामि सूत्रपाशेन कर्षिताः ।
चन्दनो नाम गन्धर्वो यक्षसेनापतिर् महान् ॥
तस्य लेखं च मुद्रां च दत्वा दूत्येन प्रेषयेत् ।
उग्रान् ग्रन्थ समानेहि त्वं तान् पञ्चदशान् ग्रहान् ॥
तेन तत्क्षणम् आनीताः पञ्चबन्धनपीडिताः ।
ततो ऽब्रवीत् महाब्रह्मा लोकनाथं कृताञ्जलिः ॥
एतानि तानि भूतानि बीजं नाशेन्ति प्राणिनाम् ।
तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखं ॥
यस्या न जायते पुत्रो जातो वा यस्य गृह्यते ।
शिष्या सद्धर्मचरण अष्टमीं स चतुर्दशिम् ॥
चैत्यं संपूजयित्वा तु सुस्नाताः सुविभूषिताः ।
सर्षपालिप्तधरणीं पुष्पगन्धसमाकुलाः ॥

पञ्चरङ्गेन सूत्रेण ग्रन्थीनां कारयेच् छतम् ।
अर्धरात्रे स्थिते काले मूष्टिं स्थित्वा तु सर्षपान् ॥
ब्रह्मनिर्मितम् इत्य् आहुर् ब्रह्मणा च प्रकंपिताः ।
यावद् द्वादशवर्षाणां कुमाराणां हितंकरी ॥
यो इमाम् अतिक्रमेद् विद्यासूत्रं ब्रह्मणा निर्मिताम् ।
सप्तधास्य स्फुटेन् मूर्धा अर्जकस्येव मञ्जरी ॥
स्याद् यथेदम् ।
अङ्गे वङ्गे भङ्गे । भवने । इनन्दि विनन्दि । मुललि । गिरि । गररि । गरुणि । शरुणि । गिरिगवरे । लोचने । रोषणे । लसने । रोचने । अलभे । अङ्गने । अलफे तलफे । प्रकर्षणि स्वाहा ॥
क्षिप्रं संतिष्ठतां गर्भः सम्यग् वर्धन्तु इन्द्रिया ।
गर्भस्थाः सुखिनो भोन्तु मा च नश्यन्तु जातकाः ॥
स्वस्थः संतिष्ठतां गर्भः कालेन परिमुच्यते ।
नानारङ्गाणि सूत्राणि अक्षता गौरसर्षपाः ॥
एषा रक्षा समाख्याता चिरं जीवन्तु दारकाः ।
ततो ऽथ शास्ता सर्वज्ञ इमां गाथाम् उदाहरेत् ॥
रक्षितो भवन्तु गर्भः सुखं मोदन्तु दारकाः ।
स्याद् यथेदं ।
बोधि बोधि । महाबोधि । बोधानुमते । फलिनि । बहुफले । शिक्षे । शिक्षासारवते । सागले । दुरासदे । दूरागमे । शूरप्राप्ते । शूरवते । भगे । भगाभगे । भगिनि । निवारिणि स्वाहा ॥
ततो ग्रहाः पञ्चदशाः सर्वदा रुधिराशिनः ।
नमस्कृत्वाञ्जलिकरा लोकनाथं समब्रुवन् ॥
यत्रेदं नगरे सूत्रं ग्रामे वा यदि वा गृहे ।
नात्र बाला मरिष्यन्ति यत्र तिष्ठेत् सुभाषितं ॥
अनुवृष्ट्या भजिष्यामो यथा तव महामुनि ।
नमो भगवते बुद्धाय नमो ब्रह्मणे सिध्यन्तु ॥
मन्त्रपदास् तारयन्तु इमां विद्यां ब्रह्मा मन्यतु स्वाहा ॥
अथ वैश्रमणो महाराज एकांसम् उत्तरासंगं कृत्वा कृताञ्जलिर् ( म्स्प् 38 ) भगवन्तं नमस्यमानो ऽवोचत् ।
यः कश्चिद् भदन्त भगवन् श्रावक इदं महासाहस्रप्रमर्दनीसूत्रम् उद्गृह्णयाद् वारयेद् वाचयेद् देशयेत् पर्यवाप्नुयात् तेन वा बहुश्रुतेन योगः करणीयः । चैत्यपूजा परेण भवितव्यम् । अष्टम्यां चतुर्दश्यां पञ्चदश्यां च त्व् एते यक्षस्योदारचैत्यपूजां कृत्वा विद्या आवर्तयितव्या । तस्याष्टम्यां चत्वारो राजपुरुषा महाराजानां पुरतः समन्वाहरन्ति नाम चोद्घोषयन्ति । चतुर्दश्यां चतुर्णां महाराजानां पुरतः समन्वाहरन्ति नाम चोद्घोषयन्ति । पञ्चदश्यां स्वयम् एव चत्वारो महाराजानः समन्वाहरन्ति नाम चोद्घोषयन्ति ॥
सर्वसत्वहितानुकंपीवतायं भगवतः श्रावको य इदं महासाहस्रप्रमर्दनीसूत्रम् उद्गृह्णति धारयति वाचयति पर्यवाप्नोति । तस्य च भदन्त भगवन् वयं चत्वारो महाराजानश् चीवरपिण्डपातशयनग्लानप्रत्ययभैषज्यपरिष्कारैर् औत्सुक्यं करिष्यामः । सत्कृतश् च भविष्यति । सर्वसत्वैर् गुरुकृतश् च मानितश् च पूजितश् च राज्ञां राजमहामात्राणां च भविष्यति । अन्यतीर्थकश्रवणब्राह्मणपरिव्राजकानां पूज्यो भविष्यति मित्रामित्रमध्यगतो ऽपि सत्कृतो भविष्यति । ते च श्राद्धेन कुलपुत्रेण वा कुलदुहित्रा वा शुचिना भवितव्यम् । शुचिकायेन शुचिवस्त्राभरणशयनोपकरणविशेषेण । न कुदेशलाभेन न कुमित्रसंसर्गेण न कुदेशवाससंप्रयुक्तेन भवितव्यम् । यस्य च भूतग्रहगृहीतस्य पुरत इदं महासाहस्रप्रमर्दनी नाम सूत्रं श्रावयिष्यति । तस्य चत्वारो महाराजानः स्वयम् एव रक्षावरणगुप्तिं संविधास्यन्ति । एवं महर्द्धिकं भदन्त भगवन् महासाहस्रप्रमर्दनीसूत्रं यस्यापि गृहे एकम् अपि रात्रिं दिवं वासं कल्पयिष्यति । तस्य संवत्सरं यावद् अमनुष्या अवतारं न लप्स्यन्ति । नमस्यनीयश् च भविष्यति सर्वभूतगणस्य यः इदं महासाहस्रप्रमर्दनीसूत्रं धारयिष्यति । तस्य काङ्क्षतश् चत्वारो महाराजानो सुखम् उपदर्शयन्ति । किमङ्ग पुनर् इतरे यक्षराक्षसाः । तत् कस्य हेतोर् ये केचिल् लोके विद्या ( म्स्प् 39 ) संविधास्यन्ति । सत्वानां हिताय । इमानि मन्त्रपदानि तेभ्यो वरप्रवरश्रेष्ठविशिष्टोत्तमानि । गंभीरविपुलो प्रमाणानि दूरावतरणा असाधारणा इयं धर्ममुद्रा ॥
अथेन्द्रश् च सहस्राक्षो देवराज शचीपतिः ।
प्राञ्जलिस्थो नमस्कृत्वा लोकनाथं समब्रवीत् ॥
सुभाषिता इयं विद्या सर्वलोकहितंकरी ।
विद्याम् अहम् प्रवक्षामि मन्त्रौषधिसमायुतम् ॥
शिरीषपुष्पम् अपामार्गम् अगरुः कटकाफलं ।
शैलेयम् एडमञ्जिष्ठा सूकरी मर्कटी जया ॥
परिपेलवं रसं वीरा सामकं तगरं बुसा ।
चन्दनावर्तनं कुष्ठं नखं पत्रकतं वरा ॥
प्रियंगु रोचना स्पृक्का सर्षपाश् च मनःशिलाः ।
त्वचं च कुङ्कुमं हिङ्गुपत्रसंयुक्तवर्णकम् ॥
एषां च संयुतावर्तिः सर्वग्रहप्रमोचनी ।
सर्वभूतविकारेषु एषा नेत्राञ्जनी स्मृताः ॥
गृहीता येन मुच्यन्ति भूतवज्रशनीशरैः ।

महावृक्षेषु लेप्तव्यं महाचैत्ये तथैव च ॥
यो हि पश्यति तत् स्थानं भूतेभ्यो न भयं ततः ।
स्थानं न तत्र भूतानां नान्येषाम् अहितैषिणाम् ॥
भेरीशङ्खमृदङ्गानि पणवांश् चापि लेपयेत् ।
यावच् छ्रूयति शब्दो ऽद्य त्रसन्ते भूतमण्डलाः ॥
यक्षाणि लेपयेद् वापि पक्षिणां ग्रामचारिणाम् ।
यत्रासौ व्रजते पक्षी दिशं चापि दिगन्तरम् ॥
स्थानं न तत्र भूतानां नान्येषाम् अहितैषिणाम् ।
सरित्स्रोतस्तडागेषु प्रक्षिपेद् यत्र तत्र वा ॥
समन्ताद् योजनं तत्र स्वस्ति शान्तिर् भविष्यति ।
अपि शस्त्रनिपातेषु परचक्रसमागमे ॥
सर्वमर्मेषु लेप्तव्यं स्वस्तिना उत्तरिष्यति ।
गलगण्डेषु चार्शेषु वैसर्पपिटकेषु च ॥
विषदष्टे विषपीते पीत्वा क्षिप्रं प्रमुच्यते ।
एतेन लेपयेद् गात्रं सर्वकाखोर्दच्छेदनम् ॥
विवादोत्तारणं सिद्धं राजद्वारपरिमोचनम् ।
असिद्धः सिद्धम् आप्नोति ईश्वरत्वम् अनीश्वरम् ॥
अपुत्रो लभते पुत्रम् अधनो लभते धनम् ।
यावद् विद्याधरस्थानां मन्त्राणि तानि साधयेत् ॥
तिर्यग्योनिगते चैव तत् स्याद् वृक्षफलेषु च ।
विद्याधरस्य प्रज्ञो ऽस्य शन्तिकरं शुभंकरम् ॥
तत्र मन्त्रपदान्य् अस्ति इन्द्रस्य वचनं यथा ।
स्याद् यथेदम् ।
अक्रमे । विक्रमे । भूतघोषे । भूतंगमे । दहनि । धधरे । धरधरे । दधिनि । निखुमे । खुखुमे । खख खख । सारंगमे । चन्द्रे । चपले । हलिमे । हले हरिणि स्वाहा ॥
स्वस्त्य् अस्तु मम सर्वसत्वानां च सर्वदिग्विदिग्भ्यः स्वाहा ॥
निहताः सर्वपापानि स्वाहा ॥
ततो ब्रह्मा च शक्रश् च लोकपाला महेश्वरः ।
यक्षसेनापतयः सर्वे हारीती च सपुत्रिका ॥
एकवागेकस्वरा अवोचत् प्राञ्जलीकृताः ।
सहस्रसूर्यप्रद्योतः पूर्णचन्द्रप्रभास्वरः ॥
सदेवमानुषे लोके सदृशस् ते न विद्यते ।
अचिन्त्या सुप्रयुक्ता च यक्षराक्षसमर्दनी ॥
राजप्रमोचनी नाम विद्या वैराग्यपालनी ।
साहस्रप्रमर्दनी नाम महाराजा शुभोदया ॥
युद्धसंग्रामविजया सर्वशत्रुप्रमर्दनी ।
महासाहस्रके लोके रक्षार्थं सूत्रम् उत्तमम् ॥
नमस् ते पुरुषवीर नमस् ते पुरुषोत्तम ।
अञ्जलिस्था नमस्कृत्वा तत्रैवान्तरधायिषु ॥
अथ भगवान् सायाह्नकालसमये प्रतिसंलयनाद् उत्थाय भिक्षून् आमन्त्रयामास ।
उद्गृह्णध्वं भिक्षवो महासाहस्रप्रमर्दनीशूत्रं धारयत वाचयत पर्यवाप्नुयात् । तद् भविष्यति । सदेवकस्य लोकस्य ( म्स्प् 41 ) दीर्घरात्रम् अर्थाय हिताय सुखाय स्पर्शविहारतायै । यः कश्चिद् भिक्षवो मम श्रवक एतेन महासाहस्रप्रमर्दनीसूत्रेण शुष्कवृक्षस्यापि परित्राणं बध्नीयात् परिग्रहं तस्य पत्रपुष्पफलानि जयेरन् । किमङ्ग पुनः सविज्ञानस्य कायस्यान्यत्र पूर्वकर्मविपाकेन ॥

मूल पाठ: Mahāsāhasrapramardanī · Edition: Yutaka Iwamoto: Mahāsāhasrapramardanī, Pañcarakṣā I, Kyoto 1937 (Beiträge zur Indologie, 1). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc