भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 7

7.1

अथ भगवान् वर्षाकारं ब्राह्मणमगधमहामात्रं धार्म्या कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वोत्थायासनात् प्रक्रान्तः ॥

7.2

अथ वर्षाकारो ब्राह्मणमगधमहामात्रो यत् तत्रोत्सीदनधर्मं तत् सर्वं विसर्जनधर्मम् इति कृत्वा भगवन्तं पृष्ठतः पृष्ठतः समनुबद्धः ॥

7.3

अथ वर्षाकारस्य ब्राह्मणमगधमहामात्रस्यैतद् अभवत् ॥
येन द्वारेण श्रमणो गौतमः प्रथमतो निष्क्रमिष्यति तम् अहं गौतमद्वारं मापयिष्यामि येन (त्)ईर्थेन श्रमणो गौतमः प्रथमतो नदीं गङ्गाम् उत्तरिष्यति तम् अहं गौतम(ती)र्थं मापयिष्यामि ॥

7.4

अथ भगवान् वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य चेतसा चित्तम् आज्ञाय पश्चिमेन द्वारेण निष्क्रम्योत्तरेणान्वावृत्तो येन नदी गङ्गा ॥

7.5

तेन खलु समयेन मागधका मनुष्या नदीं गङ्गाम् उत्तरन्त्य् अपि प्रत्युत्तरन्त्य् अप्य् एकत्याः शल्मलिफलेष्व् एकत्या अलाबुनिःश्रयणिकाभिर् एकत्यास् त्ःलबिम्बोपनैर् एकत्याश् छागलकैर् दृतिभिः ॥

7.6

अथ भगवत एतद् अभवत् ॥ किं नु नदीं गङ्गाम् असज्यमानः स्रोतसो गच्छाम्य् आहो स्विद् अपारिमे तीरे ऽन्तर्हितः पारिमे तीरे प्रतितिष्ठ्(आमि ॥ अथ्)अ भगवांस् तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते ऽपारिमे तीरे ऽन्तर्हितः पारिमे तीरे प्रत्यस्थात् ॥

7.7

अथ वर्षाकारो ब्राह्मणम(ग)धमहामात्रो येन द्वार्(एण भगव्)आ(न्) निष्क्रा(न्)तस् तद् गौतमद्वारं मापयति येन तीर्थेन भगवान् नदीं गङ्गाम् उत्तीर्णस् तद् गौतमतीर्थं मापयति ॥

7.8

अथान्यतरो भिक्षुस् तस्यां वेलायां गाथां बभ्(आषे) ।

7.9

ये तरन्ति ह्(य्) आ(र्णवं स)रः
सेतुं कृत्वा विसृज्य पल्वलानि ॥
कोलं हि ज(ना)ः प्रबध्नते
तीर्णा मेधाविनो जन्(आः । 1)

7.10

(उ)त्तीर्णो भगवान् बुद्धो
ब्राह्मणस् तिष्ठति स्थले ॥
भिक्षवः परिस्नाय्(अन्)ति
कोलं ब(ध्नन्ति श्राव)काः । 2

7.11

किं कुर्याद् उदपानेन
आपश् चेत् सर्वतो यदि ॥
छ्(इ)त्त्वेह मूलं तृष्णा(या)ः
कस्य (पर्येष)णां चरेत् । 3

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc