महापरिनिर्वाणसूत्र · अध्याय 6
अश्रौषीद् वर्षाकारो ब्राह्मणमगधमहामात्रः ॥ भगवान् गौतमो मगधेषु जनपदेषु चर्यां चरन् पाटलिग्रामकम् अनुप्राप्तः पा(ट)लिग्रामके विहरति पाटलके चैत्ये ॥ (पर्यु)पा(सते त)ं पाटलिग्र्(आमीयका ब्राह्मणगृह)पतयः ॥
श्रुत्वा च पुनः पाटलिग्रामकान् निष्क्रम्य येन भगवांस् त्(ए)नोपजगाम ॥ उपेत्य भगवत्(आ) सा(र्)ध्(अं) स्(अं)मुख्(अं सं)म्(ओ)दन्(ईं) संर(ं)ज्(अनीं विविधां कथां व्यतिसार्)यैकान्ते न्यषीदत् ॥
एकान्तनिषण्णं वर्षाकारं ब्राह्मणमगध(म)हामात्रं भगवान् धार्म्या कथया सन्दर्शयति समादापयति समुत्ते(जयति सं)प्रहर्षयति ॥ अनेकपर्यायेण धार्म्या कथया सन्दर्शयित्वा समादाप(यि)त्वा समुत्तेजयित्वा संप्रहर्षयि(त्)वा तूष्णीम् अभूत् ॥
अथ व्(अर्षाका)रो ब्राह्मणमगधमहामात्र उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा ये(न) भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् ॥
अधिवासयतु मे भवाङ् गौतमः श्वो भक्तेन सार्धं भिक्षुसंघेन ॥ अधिवासयति भ(ग)वान् वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य तूष्णींभावेन ॥
अथ वर्षाकारो ब्राह्मणमगधमहामात्रो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा (भगव)तो भाषितम् अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्तः ॥
अथ वर्षाकारो ब्राह्मणमगधमहामात्रस् ताम् एव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञप्योदकमणिं प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति ॥ समयो भो गौतमो सद्यो भक्तं यस्येदानीं भवाङ् गौतमः कालं मन्यते ॥
अथ भगवान् पूर्वाह्णे निवस्य पात्रचीवरम् आदाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतो येन वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य भक्ताभिसारस् तेनोपजगाम ॥ उपेत्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत् ॥
अथ वर्षाकारो ब्राह्मणमगधमहामात्रः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति संप्रवारयति ॥ शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयित्वा संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं सौवर्णं भृङ्गारं गृहीत्वा भगवतः पुरतो ऽस्थात् ॥ आयाचमान एवं चाह ॥
इतो दानाद् यः पुण्याभिष्यन्दः कुशलाभिष्यन्दः स भवतु पाटलिपुत्रवास्तव्यानां देवतानां दीर्घरात्रम् अर्थाय हिताय सुखाय ॥ तेषाञ् च नाम्ना दक्षिणाम् आदिशस्व ॥
अथ भगवान् वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य तद् दानम् अनया(भ्यनु)मोदनयाभ्यनुमोदते ॥
यो देवताः पूजयति
श्राद्धः पुरुषपुद्गलः ॥
शास्तुर् वाक्यकरो भवति
बुद्धैर् एतत् प्रशंसितम् । 1
यस्मिन् प्रदेशे मेधावी
वासं कल्पयति पण्ड्(इ)तः ॥
शीलवन्तं भोजयित्वा
दक्षिणाम् आदिशेत् ततः । 2
ते मानिता मानयन्ति
पूजिताः पूजयन्ति च ॥
अथैनम् अनुकम्पन्ति
माता पुत्रम् इवौरसम् ॥
देवानुकम्पितप्पोषः
सुखी भद्राणि पश्यति । 3
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0