भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.58

9.58.1

ततो दुर्योधनो दृष्ट्वा भीमसेनं तथाऽगतम् ।
प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ॥

9.58.2

समापेततुरन्योन्यं शृङ्गिणौ वृषभाविव ।
महानिर्घातघोषश्च प्रहाराणामजायत ॥

9.58.3

अभवच्च तयोर्युद्वं तुमुलं रोमहर्षणम् ।
जिघृक्षतोर्यथाऽन्योन्यमिन्द्रप्रह्लादयोरिव ॥

9.58.4

रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ ।
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥

9.58.5

तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे ।
खद्योतसङ्खैरिव खं दर्शनीयं व्यरोचत ॥

9.58.6

तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम् ।
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ ॥

9.58.7

तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ ।
सम्प्रहारयतां चित्रे सम्प्रगृह्य गदे शुभे ॥

9.58.8

तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ ।
बलिनौ वारणौ यद्वद्वासितार्थे मदोत्कटौ ॥

9.58.9

समानवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ ।
प्रहर्षं परमं जग्मुर्देवगन्धर्वदानवाः ॥

9.58.10

प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ ।
संशयः सर्वभूतानां विजये समपद्यत ॥

9.58.11

समागम्य ततो भूयो भ्रातरौ बलिनां वरौ ।
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ॥

9.58.12

यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् ।
ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ॥

9.58.13

आविद्ध्यतो गतां तस्य भीमसेनस्य संयुगे ।
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ॥

9.58.14

आविद्ध्यन्तमरिं प्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् ।
गदामतुलवेगां तां विस्मितः सम्बभूव ह ॥

9.58.15

चरंश्च विविधान्मार्गान्मण्डलानि च भारत ।
अशोभत तदा वीरो भूय एव वृकोदरः ॥

9.58.16

तौ परस्परमासाद्य यत्तावन्योन्यसूदने ।
मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ॥

9.58.17

अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा ।
मण्डलानि विचित्राणि गतप्रत्यागतानि च ॥

9.58.18

गोमूत्रिकाणि चित्राणि स्थानानि विविधानि च ।
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥

9.58.19

अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् ।
मत्स्योद्वृत्तं सोरुवृत्तमवप्लुतमुपप्लुतम् ॥

9.58.20

उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ ।
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् ॥

9.58.21

वञ्चयानौ पुनश्चैव चेरतुः कुरुसत्तमौ ।
विक्रीडन्तौ सुबलिनौ मण्डलानि विचेरतुः ॥

9.58.22

[तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः ।
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ ॥

9.58.23

परस्परं समासाद्य दंष्ट्राभ्यां द्विरदौ यथा ।
अशोभेतां महाराज शोणितेन परिप्लुतौ ॥

9.58.24

एवं तदभवद्युद्धं घोररूपं परन्तप । परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥ ]

9.58.25

गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली । दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत ।
सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ॥

9.58.26

तथा तु चरतस्तस्य भीमस्य रणमूर्धनि ।
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ॥

9.58.27

आहतस्तु ततो भीमः पुत्रेण तव भारत ।
आविध्यत गदां गुवीं प्रहारं तमचिन्तयन् ॥

9.58.28

इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् ।
ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ॥

9.58.29

आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः ।
समुद्यम्य गदां घोरां प्रत्यविध्यत्परन्तपः ॥

9.58.30

गदामारुतवेगेन तव पुत्रस्य भारत ।
शब्द आसीत्सुतुमुलस्तेजश्च समजायत ॥

9.58.31

स चरन्विविधान्मार्गान्मण्डलानि च भागशः ।
समशोभत तेजस्वी भूयो भीमात्सुयोधनः ॥

9.58.32

आविद्धा सर्ववेगेन भीमेन महती गदा ।
सधूमं सार्चिषं चाग्निं मुमोचोग्रमहास्वना ॥

9.58.33

आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः ।
अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ॥

9.58.34

गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः ।
भयं विवेश पाण्डूंस्तु सर्वानेव ससात्यकीन् ॥

9.58.35

तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः ।
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ ॥

9.58.36

तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा ।
अशोभेतां महाराज शोणितेन परिप्लुतौ ॥

9.58.37

एवं तदभवद्युद्धं घोररूपमसंवृतम् ।
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥

9.58.38

दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः ।
चरंश्चित्रतरान्मा र्गान्कौन्तेयमभिदुद्रुवे ॥

9.58.39

तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् ।
अतिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ॥

9.58.40

सविस्फुलिङ्गो निर्हादस्तयोस्तत्राभिघातजः ।
प्रादुरासीन्महाराज घृष्टयोर्वज्रयोरिव ॥

9.58.41

वेगवत्या तया तत्र भीमसेनप्रमुक्तया ।
निपतन्त्या महाराज पृथिवी समकम्पत ॥

9.58.42

तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे ।
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ॥

9.58.43

स सव्यं मण्डलं राजा उद्धाम्य कृतनिश्चयः ।
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ॥

9.58.44

तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः ।
नाकम्पत महाराज तदद्भुतमिवाभवत् ॥

9.58.45

आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् ।
यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ॥

9.58.46

ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् ।
दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ॥

9.58.47

तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः ।
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ॥

9.58.48

सा तु मोघा गदा राजन्पतन्ती भीमचोदिता ।
चालयामास पृथिवीं महानिर्घातनिःस्वनाः ॥

9.58.49

आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः ।
गदानिपातं प्रज्ञाय भीमसेनं च वञ्चितम् ॥

9.58.50

वञ्चयित्वा तदा भीमं गदया कुरुसत्तमः ।
ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः ॥

9.58.51

गदया निहतो भीमो मुह्यमानो महारणे ।
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ॥

9.58.52

तस्मिंस्तथा वर्तमाने राजन्सोमकपाण़्डवाः ।
भृशोपहतसङ्कल्पा नहृष्टमनसोऽभवन् ॥

9.58.53

स तु तेन प्रहारेण मातङ्ग इव रोषितः ।
हस्तिवद्वस्तिसन्काशमभिदुद्राव ते सुतम् ॥

9.58.54

ततस्तु तरसा भीमो गदया तनयं तव ।
अभिदुद्राव वेगेन सिंहो वनगजं यथा ॥

9.58.55

उपसृत्य तु राजानं गदामोक्षविशारदः ।
आविध्यत गदां राजन्समुद्दिश्य सुतं तव ॥

9.58.56

अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा ।
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ॥

9.58.57

तस्मिन्कुरुकुलश्रेष्ठे जानुभ्यामवनीं गते ।
उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ॥

9.58.58

तेषां तु निनदं श्रुत्वा शृञ्जयानां नरर्षभः ।
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ॥

9.58.59

उत्थाय तु महाबाहुर्महानाग इव श्वसन् ।
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ॥

9.58.60

ततः स भरतश्रेष्ठो गदापाणिरभिद्रवन् ।
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ॥

9.58.61

स महात्मा महात्मानं भीमं भीमपराक्रमः ।
अताडयच्छङ्खदेशे न चचालाचलोपमः ॥

9.58.62

स भूयः शुशुभे पार्थस्ताडितो गदया रणे ।
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्चरः ॥

9.58.63

ततो गदां वीरहणीमयोमयीं प्रगृह्य वज्राशनितुल्यनिःस्वनाम् ।
अताडयच्छत्रुममित्रकर्शनो बलेन विक्रम्य धनञ्जयाग्रजः ॥

9.58.64

स भीमसेनाभिहतस्तवात्मजः पपात सङ्कम्पितदेहबन्धनः ।
सुपुष्पितो मारुतवेगताडितो वने महासाल इवावघूर्णितः ॥

9.58.65

ततः प्रणेदुर्जहृषुश्च पाण्डवाः समीक्ष्य पुत्रं पतितं क्षितौ तव ।
ततः सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो यथा हदात् ॥

9.58.66

स पार्थिवो नित्यममर्षितस्तदा महारथः शिक्षितवत्परिभ्रमन् ।
अताडयत्पाण्डवमग्रतः स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत् ॥

9.58.67

स सिंहनादं विननाद कौरवो निपात्य भूमौ युधि भीममोजसा ।
बिभेद चैवाशनितुल्यमोजसा गदानिपातेन शरीररक्षणम् ॥

9.58.68

ततोऽन्तरिक्षे निनदो महानभू-- द्दिवौकसामप्सरसां च नेदुषाम् ।
पपात चोच्चैरमरप्रवेरितं विचित्रपुष्पोत्करवर्षमुत्तमम् ॥

9.58.69

ततः परानाविशदुत्तमं भयं समीक्ष्य भूमौ पतितं नरोत्तमम् ।
अहीयमानं च बलेन कौरवं निशाम्य भेदं सुदृढस्य वर्मणः ॥

9.58.70

ततो मुहूर्तादुपलभ्य चेतनां प्रमृज्य वक्त्रं रुधिराक्तमात्मनः ।
धृतिं समालम्ब्य विवृत्य लोचने बलेन संस्तभ्य वृकोदरः स्थितः ॥

9.58.71

ततो यमौ यमसदृशौ पराक्रमे सपार्षतः शिनितनयश्च वीर्यवान् ।
समाह्वयन्नहमहमित्यभित्वरं-- स्तवात्मजं समभिययुर्वधैषिणः ॥

9.58.72

निवर्त्य तान्पुनरपि पाण्डवो बली तवात्मजं स्वयमभिगम्य कालवत् ।
चचार चाप्यपगतखेदवेपथुः सुरेश्वरो नमुचिमिवोत्तमं रणे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc