भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.51

9.51.1

तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः ।
गार्हिस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा ॥

9.51.2

धर्मनित्यः शुचिर्दान्तो यज्ञशीलो महातपाः ।
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ॥

9.51.3

अक्रोधनो महाराज तुल्यनिन्दात्मसंस्तुतिः ।
प्रियाप्रिये तुल्यवृत्तिर्यमवत्समदर्शनः ॥

9.51.4

काञ्चने लोष्ठके चैव समदर्शी महातपाः । देवानपूजयन्नित्यमतिथींश्च द्विजैः सह ।
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ॥

9.51.5

ततोऽभ्येत्य महाभाग योगमास्थाय भिक्षुकः ।
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ॥

9.51.6

देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः ।
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ॥

9.51.7

तं तत्र वसमानं तु जैगीषव्यं महामुनिम् ।
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ॥

9.51.8

एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् ॥

9.51.9

जैगीषव्यो मुनिस्तं तु ददर्शाथ स केवलम् ।
आहारकाले मतिमान्परिव्राड् जमेजय ॥

9.51.10

उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् ।
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ॥

9.51.11

देवलस्तु यथाशक्ति पूजयामास भारत ।
ऋषिदृष्टेन विधिना समा बहीः समाहितः ॥

9.51.12

कदाचित्तस्य नृयते देवलस्य महात्मनः ।
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ॥

9.51.13

समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम ।
न चायमलसो भिक्षुरभ्यभाषत किञ्चन ॥

9.51.14

एवं विगणयन्नेव स जगाम महोदधिम् ।
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलं ॥

9.51.15

गच्छन्नेव स धर्मात्मा समुद्रं सरितां परिम् ।
जैगीषव्यं ततोऽपश्यद्रतं प्रागेव भारत ॥

9.51.16

ततः सविस्मयश्चिन्तां जगामाथामितप्रभः ।
कथं सिक्षुरचं प्राप्तः समुद्रे स्नात एव च ॥

9.51.17

इत्येवं चिन्तयामास महर्षिरसितस्तदा ।
स्नात्वा सखुद्रे विधिवच्छुचिर्जप्यं जजाप सः ॥

9.51.18

कृतजxxxxx श्रीमानाश्रयं च जगाम ह ।
xxxxxxxxxx गृहीत्वा जनमेजय ॥

9.51.19

ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः ।
xxxxxxxxx तत्र जैगीषव्यमपश्यत ॥

9.51.20

न व्याहरति चैवेनं जैगीषव्यः कथञ्चन ।
xxxxxxxx वसति स्म महातपाः ॥

9.51.21

तं दृष्ट्वा चाप्लुतं तोये सामरे सागरोपमम् ।
प्रविष्टxxxxx चापि पूर्वमेव ददर्श सः ॥

9.51.22

xxxxx देवलो राजंश्चिन्तयामास बुद्धिमान् ।
xxxxxxx तपसो जैगीषव्यास्व योगजम् ॥

9.51.23

चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः ।
मया दृष्टः समुद्रे च आश्रमे च कथन्न्वयम् ॥

9.51.24

एवं विगणयन्नेव स मुनिर्मन्त्रपारगः । उत्पपाताश्रमात्तस्मादन्तरिक्षं विशाम्पते ।
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ॥

9.51.25

सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् ।
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ॥

9.51.26

ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः ।
अपश्यद्वै दिवं यातं जैगीषव्यं स देवलः ॥

9.51.27

तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत ।
पितृलोकाच्च तं यातं याम्यं लोकमपश्यत ॥

9.51.28

तस्मादादित्यलोकं च व्रजन्तं सोऽन्वपश्यत । तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् ।
व्रजन्तमन्वपश्यत्स जैगीषव्यं स देवलः ॥

9.51.29

लोकान्समुत्पतन्तं तु शुभानेकान्तयाजिनाम् ।
ततोऽग्निहोत्रिणां लोकांस्ततश्चाप्युत्पपात ह ॥

9.51.30

दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः । तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् ।
व्रजन्तं लोकममलमपश्यद्देवपूजितम् ॥

9.51.31

चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः ।
तेषां स्थानं ततो यतां तथाऽग्निष्टोमयाजिनाम् ॥

9.51.32

अग्निष्टुतेन च तथा ये यजन्ति तपोधनः ।
तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः ॥

9.51.33

वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् ।
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ॥

9.51.34

यजन्ते राजसूयेन पुण्डरीकेण चैव ये ।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥

9.51.35

अश्वमेधं क्रतुवरं नरमेधं तथैव च ।
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ॥

9.51.36

सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये ।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥

9.51.37

द्वादशाहैश्च सत्रैश्च यजन्ते विविधैर्नृप ।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥

9.51.38

मैत्रावरुणयोर्लोकानादित्यानां तथैव च ।
सलोकतामनुप्राप्तमपश्यत ततोऽसितः ॥

9.51.39

रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः ।
तानिं सर्वाण्यतीतं च समपश्यत्ततोऽसितः ॥

9.51.40

आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् ।
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ॥

9.51.41

त्रील्लोँकान्प्रवरान्विप्रमुत्पतन्तं स्वतेजसा ।
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ॥

9.51.42

ततो मुनिवरं भूयो जैगीषव्यमथासितः ।
नान्वपश्यत लोकस्थमन्तर्हितमरिन्दम ॥

9.51.43

सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः ।
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ॥

9.51.44

असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् ।
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मचारिणः ॥

9.51.45

जैगीषव्यं न पश्यामि तं शंसन्तु तपोधनाः ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥
सिद्धा ऊचुः ।

9.51.46

शृणु देवल भूतार्थं शंसतां नो दृढव्रत ।
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोक्षयम् ॥
वैशम्पायन उवाच ।

9.51.47

स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मचारिणाम् ।
असिता देवलस्तूर्णमुत्पपात पपात च ॥

9.51.48

ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह । न देवलगतिस्तत्र तव गन्तुं तपोधन ।
ब्रह्मणः सदने विप्र जैगीषव्यो यदाप्तवान् ॥
वैशम्पायन उवाच ।

9.51.49

तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः ।
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ॥

9.51.50

स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत् ।
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः ॥

9.51.51

ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया ।
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ॥

9.51.52

ततोऽब्रविन्महात्मानं जैगीषव्यं स देवलः । विनयावनतो राजन्नुपसर्प्य महामुनिम् ।
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् ॥

9.51.53

तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः ।
विधिं योगस्य परमं कार्याकार्यस्य शास्त्रतः ॥

9.51.54

सन्नाये कृतबुद्धिं तं ततो दृष्ट्वा महातपाः ।
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ॥

9.51.55

सन्न्यासे कृतबुद्धिं तं भूतानि पितृभिः सह ।
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ॥

9.51.56

देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा ।
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ॥

9.51.57

ततस्तु फलमूलानि पवित्राणि च भारत ।
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ॥

9.51.58

पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः ।
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ॥

9.51.59

ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः ।
मोक्षे गार्हस्थ्यधर्मे वा किन्नु श्रेयस्करं भवेत् ॥

9.51.60

इति निश्चित्य मनसा देवलो राजसत्तम ।
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ॥

9.51.61

एवमादीनि सञ्चिन्त्य देवलो निश्चयान्वितः ।
प्राप्तवान्परमां सिद्धिं परं योगं च भारत ॥

9.51.62

ततो देवाः समागम्य बृहस्पतिपुरोगमाः ।
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः ॥

9.51.63

अथाब्रवीदृषिवरो देवान्वै नारदस्तथा ।
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ॥

9.51.64

तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः ।
नैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ॥

9.51.65

नातः परतरं किञ्चित्तुल्यमस्ति प्रभावतः ।
तेजसस्तपसश्चास्य योगस्य च महात्मनः ॥

9.51.66

एवं प्रभावो धर्मात्मा जैगीषव्यस्तथाऽसितः ।
तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः ॥

9.51.67

तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद्द्विजेभ्यः ।
अवाप्य धर्मं परमार्थकर्मा जगाम सोमस्य महाxxxxxxर्थम् । ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc