भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.48

9.48.1

अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः ।
अभिषेकं कुमारस्य विस्तरेण यथाविधि ॥

9.48.2

यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन ।
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ॥

9.48.3

अभिषेकं कुमारस्य दैत्यानां च वधं तथा ।
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ॥

9.48.4

अपाम्पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः ।
तन्मे ब्रूहि महाप्रज्ञ कुशलो ह्यसि सत्तम ॥
वैशम्पायन उवाच ।

9.48.5

शृणु राजन्निदं चित्रं पूर्वकाले यथाऽभवत् ॥

9.48.6

आदौ कृतयुगे राजन्वर्तमाने यथाविधि ।
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ॥

9.48.7

यथाऽस्मान्सुरराट् शक्रो भयेभ्यः पाति सर्वदा ।
तथा त्वमपि सर्वासां सरितां वै पतिर्भव ॥

9.48.8

वासश्च ते सदा देव सागरे मकरालये ।
समुद्रोऽयं तव वशे भविष्यति नदीपतिः ॥

9.48.9

सोमेन सार्धं च तव हानिवृद्वी भविष्यतः ।
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् ॥

9.48.10

समागम्य ततः सर्वे वरुणं सागरालयम् ।
अपाम्पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा ॥

9.48.11

अभिषिच्य ततो देवा वरुणं यादसाम्पतिम् ।
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् ॥

9.48.12

अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः । सरितः सागरांश्चैव नदांश्चापि सरांसि च ।
पालयामास विधिना यथा देवाञ्शतक्रतुः ॥

9.48.13

ततस्त्रत्राप्युपस्पृश्य दत्त्वा च विविधं वसु । अग्नितीर्थं महाप्राज्ञो जगामाथ प्रलम्बहा ।
नष्टो न दृश्यते यत्र शमीगर्भे दुताशनः ॥

9.48.14

लोकालोकविनाशे च प्रादुर्भूते तदाऽनघ ।
उपतस्थुः सुरा यत्र सर्वलोकपितामहम् ॥

9.48.15

अग्निः प्रनष्टो भगवान्कारणं च न विद्महे ।
सर्वभूतक्षयो राजन्सम्पादय विभोऽनलम् ॥
जनमेजय उवाच ।

9.48.16

किमर्थं भगवानग्निः प्रनष्टो लोकभावनाः ।
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ॥
वैशम्पायन उवाच ।

9.48.17

भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् ।
शमीगर्भमथासाद्य ननाश भगवांस्ततः ॥

9.48.18

प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः ।
अन्वैषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ॥

9.48.19

ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि ।
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ॥

9.48.20

देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः ।
ज्वलनं तं समासाद्य प्रीताऽभूवन्सवासवाः ॥

9.48.21

पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् ।
भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना ॥

9.48.22

तत्राप्याप्लुत्य मतिमान्ब्रह्मशापान्मुमोच ह ॥

9.48.23

तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा ।
ससर्ज चान्नानि तथा देवतानां यथाविधि ॥

9.48.24

तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च ।
कौबेरं प्रययौ तीर्थं यत्र तप्त्वा महत्तपः ॥

9.48.25

धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः ॥

9.48.26

तत्रस्थमेव तं राजन्धनानि निधयस्तथा ।
उपतद्धतुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली बलः ॥

9.48.27

गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ ।
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे ॥

9.48.28

पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना ।
यक्षराज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः ॥

9.48.29

धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा ।
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् ॥

9.48.30

यत्र लेभे महाबाहो धनाधिपतिरञ्जसा ।
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः ॥

9.48.31

वाहनं चास्य तद्दत्तं हंसयुक्तं मनोजवम् ।
विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च ॥

9.48.32

तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् ।
जगाम त्वरितो रामस्तीर्थं स्वेतानुलेपनः ॥

9.48.33

निषेवितं सर्वसत्वैर्नाम्ना बदरपाचनम् ।
नानर्तुकवनोपेतं सदा पुष्पफलं शुभम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc