भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.42

9.42.1

ब्रह्मयोनिभिराकीर्णं जगाम यद्वुनन्दनः । यत्र दाल्भ्यो बको राजन्पश्वर्थ सुमहातपाः ।
जुहाव धृतराष्ट्रस्य राष्ट्रं कोपसमन्वितः ॥

9.42.2

तपसा घोररूपेण कर्शयन्देहमात्मनः ।
क्रोधेन महताऽविष्टो धर्मात्मा वै प्रतापवान् ॥

9.42.3

पुरा हि नैमिशीयानां सत्रे द्वादशवार्षिके ।
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ॥

9.42.4

तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्विनः । तत्र ते लेभिरे राजन्पाञ्चालेभ्यो महर्षयः ।
बलान्वितान्वत्सतरान्निर्व्याधीन्सप्तविंशतिम् ॥

9.42.5

तानब्रवीद्बलो दाल्भ्यो विभजध्वं पशूनिति ।
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ॥

9.42.6

एवमुक्त्वा वको राजन्नृषीन्सर्वान्न्प्रतापवान् ।
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ॥

9.42.7

स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् ।
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ॥

9.42.8

यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः ।
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ॥

9.42.9

ऋषिस्त्वथ बकः क्रुद्धश्चिन्तयामास धर्मवित् ।
अहो वत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ॥

9.42.10

चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः ।
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ॥

9.42.11

स तूत्कृत्य मृतानां वै मांसानि मुनिसत्तमः ।
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ॥

9.42.12

अवाकर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् ।
xxxx दाल्भ्यो महाराज नियमं परमं स्थितः ॥

9.42.13

स तैरेव जुहावाग्नौ राष्ट्रं मांसैर्महातपः ॥

9.42.14

तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे ।
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ॥

9.42.15

छिxxxमानं xxxxxx परशुना विभो xxxxxxxxxxxx व्यवकीर्थमचेतनम् ॥

9.42.16

दृष्ट्वा तथाऽवकीर्णं तु राष्ट्रं च मनुजाधिपः ।
बभूव दुर्मना राजा चिन्तयामास च प्रभुः ॥

9.42.17

xxxxxxxxxरद्यत्रं ब्राह्मणैः सहितः पुरा ।
xxxxxगच्छत्तु क्षीयते राष्ट्रमेव च ॥

9.42.18

यदा स पार्थिवः खिन्नस्ते च विप्रास्तदाऽनघ ॥

9.42.19

यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृपः ।
अथ विप्रादिकांस्तत्र पप्रच्छ जनमेजय ॥

9.42.20

ततो विप्रादिकाः प्राहुः पशुविप्रकृतस्त्वया ।
मांसैरभिजुहोतीदं तव राष्ट्रं मुनिर्बकः ॥

9.42.21

तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् ।
तस्यैतत्तपसः कर्म येन तेऽद्य लयो महान् ॥

9.42.22

यदीच्छसि महाबाहो शान्तिं राष्ट्रस्य भूमिप । अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ॥
वैशम्पायन उवाच ।

9.42.23

सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् ।
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ॥

9.42.24

प्रसादये त्वां भगवन्नपराधं क्षमस्व मे । मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः ।
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ॥

9.42.25

तं तथा विलपन्तं तु शोकोपहतचेतसम् ।
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत् ॥

9.42.26

ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः ।
मोक्षार्थं तस्य राज्यस्य जुहाव पुनराहुतिम् ॥

9.42.27

मोक्षयित्वा ततो र्ष्ट्रं प्रतिगृह्य पशून्बहून् ।
हृष्टात्मा नैमिशारण्यं जगाम पुनरेव सः ॥

9.42.28

धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः ।
स्वमेव नगरं राजन्प्रतिपेदे महर्द्धिमत् ॥

9.42.29

तत्र तीर्थे महाराज बृहस्पतिरुदारधीः ।
असुराणामभावाय भवाय च दिवौकसाम् ॥

9.42.30

मांसैरभिजुहावेष्टिमक्षीयन्त ततोऽसुराः ।
दैवतैरपि सम्भग्ना जितकाशिभिराहवे ॥

9.42.31

तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः ।
वाजिनः कुञ्जरांश्चैव रथांश्चश्वतरीयुतान् ॥

9.42.32

रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् ।
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ॥

9.42.33

तत्र यज्ञे ययातेश्च महाराज सरस्वती ।
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ॥

9.42.34

तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः ।
आक्रामदूर्ध्वं पुदितो लेभे लोकांश्च पुष्कलान् ॥

9.42.35

पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः । औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम् ।
ददौ कामान्ब्राह्मणेभ्यो वान्यान्यो मनसेच्छति ॥

9.42.36

यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे । तस्यतस्य सरिच्छ्रेष्ठा गृहादि शयनादिकम् ।
षड्रसं भोजनं चैव दानं नानाविधं तथा ॥

9.42.37

ते मन्यमाना राज्ञस्तु सम्प्रदानमनुत्तमम् ।
राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः ॥

9.42.38

तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा ।
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम् ॥

9.42.39

ततस्तालकेतुर्महाधर्मकेतु-- र्महात्मा कृतात्मा महादाननित्यः ।
वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc