भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.36

9.36.1

किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत ।
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ॥

9.36.2

कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी ।
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥
वैशम्पायन उवाच ।

9.36.3

दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते ।
स सप्तविंशतिं कन्या दक्ष सोमाय वै ददौ ॥

9.36.4

नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन् ।
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः ॥

9.36.5

तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमाऽभवन् ।
अत्यरिच्यत तासां तु रोहिणी रुपसम्पदा ॥

9.36.6

ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः ।
साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा ॥

9.36.7

ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः ।
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः ॥

9.36.8

सोमो वसति नास्मासु रोहिणीं भजते सदा । ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर ।
वत्स्यामो नियताहारास्तपश्चरणतत्पराः ॥

9.36.9

श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् ।
समं वर्तस्व सर्वासु मा त्वाऽधर्मो महान्स्पृशेत् ॥

9.36.10

तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोन्तिकम् ।
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् ॥

9.36.11

विसृष्टास्तास्तथा जग्मुः शीताशोर्भवनं शुभाः । तथाऽपि सोमो भगवान्पुनरेव महीपते ।
रोहिण्या सार्धमवसत्प्रीयमाणो मुहुर्मुहुः ॥

9.36.12

ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् ॥

9.36.13

सोमो वसति नास्मासु नाकरोद्वचनं तव ।
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके ॥

9.36.14

तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् ।
समं वर्तस्व सर्वासु मा त्वां शप्स्ये विरोचन ॥

9.36.15

अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी ।
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः ॥

9.36.16

गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा ।
सोमो वसति नास्मासु तस्मान्नः शरणं भव ॥

9.36.17

रोहिण्यामेव भगवान्सदा वसति चन्द्रमाः ।
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति ॥

9.36.18

तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् ।
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते ॥

9.36.19

ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् ।
स यक्ष्मणाऽभिभूतात्माक्षीयताहरहः शशी ॥

9.36.20

यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः ।
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः ॥

9.36.21

न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति ।
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे ॥

9.36.22

निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः ।
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः ॥

9.36.23

कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे ।
ततो देवाः समागम्य सोममूचुर्महीपते ॥

9.36.24

किमिदं भवतो रूपमीदृशं सम्प्रकाशते ।
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् ॥

9.36.25

श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम् ।
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः ॥

9.36.26

शापस्य कारमं चैव यक्ष्माणं च तथाऽत्मनः ।
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाऽब्रुवन् ॥

9.36.27

प्रसीद भगवन्सोमे शापोऽयं विनिवर्त्यताम् ।
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते ॥

9.36.28

क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम् । वीरुदोषधयश्चैव बीजानि विविधानि च ।
तथा नरा लोकगुरो प्रसादं कर्तुमर्हसि ॥

9.36.29

एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः ।
नैतच्छक्यं मम वचो व्यावर्तयितुमञ्जसा ॥

9.36.30

हेतुना तु महाभागा निवर्तिष्यति केनचित् ।
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः ॥

9.36.31

सरस्वत्या वरे तीर्थे निमज्जञ्शशलक्षणः ।
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम ॥

9.36.32

मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति ।
मासार्धं तु पुनर्वृद्विं सत्यमेतद्वचो मम ॥

9.36.33

समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम् ।
आराधयतु देवेशं ततः कान्तिमवाप्स्यति ॥

9.36.34

सरस्वतीं ततः सोमः स जगामर्षिशासनात् ।
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह ॥

9.36.35

अमावास्यां महातेजास्तत्रामज्जन्महाद्युतिः ।
लोकान्प्रभासयामास शीतांशुत्वमवाप च ॥

9.36.36

देवास्तु सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम् ।
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् ॥

9.36.37

ततः प्रजापतिः सर्वा विससर्जाथ देवताः ।
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत् ॥

9.36.38

मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन ।
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम ॥

9.36.39

स विसृष्टो महाराज जगामाथ स्वमालयम् ।
प्रजाश्च मुदिता भूत्वा ईजिरे च यथा पुरा ॥

9.36.40

एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः ।
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत् ॥

9.36.41

अमावास्यां महाराज नित्यशः शशलक्षणः ।
स्नात्वाह्याप्यायते श्रीमान्प्रभासे तीर्थौत्तमे ॥

9.36.42

अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप ।
प्रभां हि परमां लेभे तस्मिंश्चामज्ज्य चन्द्रमाः ॥

9.36.43

लोकान्प्रभासयामास पुपोष च वपुस्तथा ।
तत्र स्नात्वा हलीरामो दत्वा प्रीतोऽथ दक्षिणाः ॥

9.36.44

ततस्तु चमसोद्भेदमभीतस्त्वगमद्बली ।
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत ॥

9.36.45

तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः ।
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा ॥

9.36.46

उदपानमथागच्छत्त्वरावान्केशवाग्रजः ।
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः ॥

9.36.47

स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय ।
जानन्ति सिद्धा राजेन्द्र निगूढां तां सरस्वतीम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc