भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.31

9.31.1

ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः ।
तं हदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् ॥

9.31.2

आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं हदम् ।
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् ॥

9.31.3

वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः ।
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् ॥

9.31.4

विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् ।
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् ॥

9.31.5

निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते । यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् ।
तथाप्येनं हतं युद्धे लोका द्रक्ष्यन्ति माधव ॥
वासुदेव उवाच ।

9.31.6

मायाविन इमां मायां मायया जहि भारत ।
मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर ॥

9.31.7

क्रियाभ्युपायैर्बहुभिर्भायामप्सु प्रयोज्य च ।
जहि त्वं भरतश्रेष्ठ मायात्मानं सुयोधनम् ॥

9.31.8

क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः ।
क्रियाभ्युपायैर्बलिभिर्बलिर्बद्धो महात्मना ॥

9.31.9

क्रियाभ्युपायपूर्वं वै हिरण्याक्षो महासुरः ।
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ ॥

9.31.10

वृत्रश्च निहतो राजन्क्रिययैव महाबलः । तथा पौलस्त्यतनयो रावणो नाम राक्षसः ।
रामेण निहतो राजन्सानुबन्धः सहानुगः ॥

9.31.11

क्रियया योगमास्थाय तथा त्वमपि विक्रम ॥

9.31.12

क्रियाभ्युपायैर्निहतौ मया राजन्पुरातनौ ।
तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् ॥

9.31.13

वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो ।
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ ॥

9.31.14

क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो ।
क्रिया बलवती राजन्नान्यत्किञ्चिद्युधिष्ठिर ॥

9.31.15

दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा ।
क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर ॥
सञ्जय उवाच ।

9.31.16

इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः । जलस्थं तं महाराज तव पुत्रं महाबलम् ।
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत ॥

9.31.17

सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया ।
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशाम्पते ॥

9.31.18

जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः ।
उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन ॥

9.31.19

स ते दर्पो नरश्रेष्ठ स च मानः क्व ते गतः ।
यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः ॥

9.31.20

सर्वे त्वां शूर इत्येवं जना जल्पन्ति संसदि ।
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः ॥

9.31.21

उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः ।
कौरवेयो विशेषेण कुलं जन्म च संस्मर ॥

9.31.22

स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः ।
युद्वात्त्रस्ततरस्तोयं प्रविश्य प्रतितिष्ठसि ॥

9.31.23

अयुद्धेन व्यवस्थानं नैष धर्मः सनातनः ॥

9.31.24

अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् ।
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः ॥

9.31.25

इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा । सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा ।
घातयित्वा कथं तात हदे तिष्ठति साम्प्रतम् ॥

9.31.26

शूरमानी न शूरस्त्वं मृषा वदसि भारत ।
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः ॥

9.31.27

न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन ।
ब्रूहि वा त्वं यया वृत्त्या शूर त्यजसि सङ्गरम् ॥

9.31.28

स त्वमुत्तिष्ठ युध्यस्व विहाय भयमात्मनः ।
घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन ॥

9.31.29

नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया ।
क्षत्रधर्ममुपाश्रित्य त्वद्विधेन सुयोधन ॥

9.31.30

यत्तु कर्णमुपाश्रित्य शकुनिं चापि सौबलम् ।
दुःशासनं च मोहात्त्वमात्मानं नावबुद्धवान् ॥

9.31.31

तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत ।
कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् ॥

9.31.32

क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन ।
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् ॥

9.31.33

क्व ते कृतास्त्रता याता किं नु शेषे जलाशये ।
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत ॥

9.31.34

अस्मांस्तु वा पराजित्य प्रशाधि पृथिवीमिमाम् ।
अथवा निहतोस्माभिर्भूमौ स्वप्स्यसि भारत ॥

9.31.35

एष ते परमो धर्मः सृष्टो धात्रा महात्मना ।
तं कुरुष्व यथातथ्यं पौरुषे स्व व्यवस्थितः ॥
सञ्जय उवाच ।

9.31.36

एवमुक्तो महाराज धर्मपुत्रेण धीमता ।
सलिलस्थस्तव सुत इदं वचनमब्रवीत् ॥

9.31.37

नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् ।
न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत ॥

9.31.38

अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः ।
एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम् ॥

9.31.39

न प्राणहेतोर्न भयाश्च विषादाद्विशाम्पते ।
इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् ॥

9.31.40

त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव ।
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ॥
युधिष्ठिर उवाच ।

9.31.41

आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे ।
तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन ॥

9.31.42

हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि ।
निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि ॥
दुर्योधन उवाच ।

9.31.43

यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन ।
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर ॥

9.31.44

क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम् ।
न ह्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् ॥

9.31.45

अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर ।
भङ््क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ ॥

9.31.46

न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् ।
द्रोणे कर्णे च संशान्ते निहते च पितामहे ॥

9.31.47

अस्त्विदानीमियं राजन्केवला पृथिवी तव ।
असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् ॥

9.31.48

सुहृदस्तादृशान्हत्वा पुत्रान्भ्रातॄन्पितॄनपि ।
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः ॥

9.31.49

अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः ।
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत ॥

9.31.50

हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा ।
एषा ते पृथिवी राजन्भुङ्क्षैनां विगतज्वरः ॥

9.31.51

वनमेव गमिष्यामि वसानो मृगचर्मणी ।
न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो ॥

9.31.52

गच्छ त्वं भुङ्क्ष राजेन्द्र पृथिवीं निहतेश्वराम् ।
हतयोधां नष्टरत्नां शीर्णक्षत्रां यथासुखम् ॥
[सञ्जय उवाच ।

9.31.53

दुर्योधनं तव सुतं सलिलस्थं महायशाः । श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः ॥ ]
युधिष्ठिर उवाच ।

9.31.54

आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः ।
नैतन्मनसि मे राजन्वाशितं शकुनेरिव ॥

9.31.55

यदि वापि समर्थः स्यास्त्वं दानाय सुयोधन ।
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् ॥

9.31.56

अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् ।
न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः ॥

9.31.57

त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् ।
त्वां तु युद्धे विनिर्जित्य भोक्ताऽस्मि वसुधामिमाम् ॥

9.31.58

अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि ।
त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि ॥

9.31.59

धर्मतो याचमानानां प्रशमार्थं कुलस्य नः ।
वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबालम् ॥

9.31.60

किमिदानीं ददासि त्वं को हि ते जित्तविभ्रमः ।
अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीं ॥

9.31.61

न त्वमद्य महीं दातुमीशः कौरवनन्दन ।
आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि ॥

9.31.62

मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम् ।
सूच्यग्रेणापि यद्भूमेरपि भिद्येत भारत ॥

9.31.63

तन्मात्रमपि तन्मह्यं न ददाति पुरा भवान् ।
स कथं पृथिवीमेतां प्रददासि विशाम्पते ॥

9.31.64

सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् ॥

9.31.65

एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् ।
को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम् ॥

9.31.66

त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे ।
पृथिवीं दातुकामोऽपि जीवंस्त्वं नैव मोक्ष्यसे ॥

9.31.67

अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् ।
अथवा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् ॥

9.31.68

आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् ।
संशयः सर्वभूतानां विजये नौ भविष्यति ॥

9.31.69

जीवितं त्वयि दुष्प्रापं मयि यत्परिवर्तते ।
जीवयेयमहं कामं न तु त्वं जीवितुं क्षमः ॥

9.31.70

दहने हि कृतो यत्नस्त्वयाऽस्मासु विशेषतः । आशीविषैर्विषैश्चापि जले जापि प्रवेशनैः ।
त्वया विनिकृता राजन्राज्यस्य हरणेन च ॥

9.31.71

अप्रियाणां च वचनैर्द्रौपद्याः कर्षणेन च ।
एतस्मात्कारणात्पाप जीवितं न विद्यते ॥

9.31.72

उत्तिष्ठोत्तिष्ठ युध्यस्व युद्धे श्रेयो भविष्यति ॥

9.31.73

एवं तु विविधा वाचो जययुक्ताः पुनःपुनः ।
कीर्तयन्ति स्म ते वीरास्तत्रतत्र जनाधिप ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc