भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.20

9.20.1

तस्मिंस्तु निहते शूरे साल्वे समितिशोभने ।
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ॥

9.20.2

तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः ।
दधार समरे शूरः शत्रुसैन्यं महाबलः ॥

9.20.3

सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे ।
शैलोपमं स्थिरं राजन्कीर्यमाणं शरैर्युधि ॥

9.20.4

ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ॥

9.20.5

तत्राश्चर्यमभूद्युद्वं सात्वतस्य परैः सह ।
यदेको वारयामास पाण्डुसेनां दुरासदाम् ॥

9.20.6

तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे ।
सिंहनादः प्रहृष्टानां दिविस्पृक्सुमहानभूत् ॥

9.20.7

तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ ।
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ॥

9.20.8

स समासाद्य राजानं क्षेमधूर्तिं महाबलम् ।
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ॥

9.20.9

तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् ।
जवेनाभ्यपतद्वीमान्हार्दिक्यः शिनिपुङ्गवम् ॥

9.20.10

तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ ।
अन्योन्यमभिधावन्तौ शस्त्रप्रवरधारिणौ ॥

9.20.11

पाण्डवाः सहपाञ्चाला योधाश्चान्ये नृपोत्तमाः ।
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ॥

9.20.12

नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ ।
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्चरौ ॥

9.20.13

चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ ।
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ॥

9.20.14

चापवेगबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः ।
आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ॥

9.20.15

तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः ।
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ॥

9.20.16

स दीर्घबाहुः सङ्क्रुद्धस्तोत्रार्दित इव द्विपः ।
अष्टभिः कृतवर्माणमविध्यत्परमेषुभिः ॥

9.20.17

ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः ।
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ॥

9.20.18

निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः ।
अन्यदादत्त वेगेन शैनेयः सशरं धनुः ॥

9.20.19

तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् ।
आरोप्य च धनुः शीघ्रं महावीर्यो महाबलः ॥

9.20.20

अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा ।
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ॥

9.20.21

ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः ।
जघान सूतं चाश्वांश्च ध्वजं च कृतवर्मणः ॥

9.20.22

ततो राजन्महेष्वासः कृतवर्मा महारथः ।
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम् ॥

9.20.23

रोषेण महताऽविष्टः शूलमुद्यम्य मारिष ।
चिक्षेप भुजवेगेन जिघांसुः शिनि पुङ्गवम् ॥

9.20.24

तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः । चूर्णितं पातयामास मोहयन्निव माधवम् ।
ततोऽपरेण भल्लेन हृद्येनं समताडयत् ॥

9.20.25

सुयुद्वे युयुधानेन हताश्वो हतसारथिः ।
कृतवर्मा कृतास्त्रेण धरमीमन्वपद्यत ॥

9.20.26

तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते ।
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ॥

9.20.27

पुत्राणां तव चात्यर्थं विषादः समजायत ।
हतसूते हताश्वे तु विरथे कृतवर्मणि ॥

9.20.28

हताश्वं च समालक्ष्य हतसूतमरिन्दम ।
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् ॥

9.20.29

तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् ।
अपोवाह महाबाहुं तूर्णमायोधनादपि ॥

9.20.30

शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥

9.20.31

तत्परे नान्वबुध्यन्त सैन्येन रजसा वृताः ।
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ॥

9.20.32

दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात् ।
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ॥

9.20.33

पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम् ।
शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ॥

9.20.34

केकयान्सोमकांश्चैव सृञ्जयांश्चैव मारिष ।
असम्भ्रमं दुराधर्षः शितैर्बाणैरवाकिरत् ॥

9.20.35

अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः । यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशते ।
तथा दुर्योधनो राजा सङ्ग्रामे सर्वतोऽभवत् ॥

9.20.36

तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे ।
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc