भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.18

9.18.1

पातिते युधि दुर्धर्षे मद्रराजे महारथे ।
तावकास्तव पुत्राश्च प्रायशो विमुखाऽभवन् ॥

9.18.2

वणिजो नावि भिन्नायां यथागाधे महार्णवे ।
अपारे पारमिच्छन्तो हते शूरे महात्मनि ॥

9.18.3

मद्रराजे महाराज वित्रस्ताः शरविक्षताः ।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥

9.18.4

वृषा यथा भग्नशृङ्गाः शीर्णदन्ता यथा गजाः ।
मध्याह्ने प्रत्यपायाम निर्जिताऽजातशत्रुणा ॥

9.18.5

न संस्थातुमनीकानि न च राजन्पराक्रमे ।
आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ॥

9.18.6

भीष्मे द्रोणे च निहते सूतपुत्रे च पातिते ।
यद्दुःखं तव योधानां भयं चासीद्विशाम्पते ॥

9.18.7

तद्भयं स च नः शोको भूय एवाभ्यवर्तत ।
निराशाश्च जये राजन्हते शल्ये महारथे ॥

9.18.8

हतप्रवीरा विध्वस्ता निकृत्ताश्च शितैः शरैः ।
मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥

9.18.9

अश्वानन्ये गजानन्ये रथानन्ये महारथाः ।
आरुह्य जवसम्पन्ना पादाताः प्राद्रवंस्तथा ॥

9.18.10

द्विसाहस्राश्च महातङ्गा गिरिरूपाः प्रहारिणः ।
xxप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठनोदिताः ॥

9.18.11

ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः ।
धावतश्चाप्यपश्याम श्वसमानाञ्शराहतान् ॥

9.18.12

तान्प्रभग्नान्हतान्दृष्ट्वा हतोत्साहान्पराजितान् ।
अभ्यवर्तन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥

9.18.13

बाणशब्दरवाश्चापि सिंहनादाश्च पुष्कलाः ।
शङ्खशब्दश्च शूराणां दारुणः समपद्यत ॥

9.18.14

दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् ।
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ॥

9.18.15

अद्य राजा सत्यधृतिर्हतामित्रो युधिष्ठिरः ।
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ॥

9.18.16

अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः ।
निःसञ्ज्ञः पतितो भूमौ किल्बिषं प्रतिपत्स्यते ॥

9.18.17

अद्य जानाति बीभत्सुं समर्थं स्वधन्विनाम् ।
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ॥

9.18.18

अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् । अद्यप्रभृति पार्थं च प्रेष्यभूत इवाचरन् ।
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ॥

9.18.19

अद्य कृष्णस्य माहात्म्यं विजानातु महीपतिः ।
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ॥

9.18.20

अत्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे ।
पुत्राणां च वधं घोरं भीमेन श्रोष्यते नृपः ॥

9.18.21

अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः ।
हते दुर्योधने युद्धे शक्रेणेव तु शम्बरे ॥

9.18.22

यत्कृतं भीमसेनेन दुःशासनवधे तदा । कोऽन्यः कर्ताऽस्ति तल्लोके ऋते भीमान्महाबलात् ।

9.18.23

अद्य ज्येष्ठस्य जानीतां पाण्डवस्य पराक्रमम् ।
मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ॥

9.18.24

अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ सुदुःसहौ ।
निहते सौबले वीरे गान्धारेषु च सर्वशः ॥

9.18.25

xxxx न तेषां स्याद्येषां योद्धा धनञ्जयः ।
xxxxx धृष्टद्युम्नश्च पार्षतः ॥

9.18.26

xxxx पञ्च माद्रीपुत्रौ च पाण्डवौ ।
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ॥

9.18.27

येषां च जगतो नाथो नाथः कृष्णो जनार्दनः ।
कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ॥

9.18.28

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषां नाथो हृषीकेशः सर्वलोकविभुर्हरिः ॥

9.18.29

भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च ।
तथाऽन्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ॥

9.18.30

कोऽन्यः शक्तो रणे जेतुमृते पार्थाद्युधिष्ठिरात् ।
यस्य नाथो हृषीकेशः सदा सत्ययशोनिधिः ॥

9.18.31

इत्येवं वदमानास्ते हर्षेण महता युताः ।
प्रभग्नांस्तावकान्योधान्संहृष्टाः पृष्ठतोऽन्वयुः ॥

9.18.32

धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् ।
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ॥

9.18.33

तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् ।
दुर्योधनस्तदा सूतमब्रवीद्विस्मयन्निव ॥

9.18.34

मामतिक्रमते पार्थो धनुष्पाणिमवस्थितम् ।
जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय ॥

9.18.35

जघने युध्यमानं हि कौन्तेयो मां न संशयः ।
नोत्सहेदभ्यतिक्रान्तुं वेलामिव महोदधिः ॥

9.18.36

पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् ।
सैन्यरेणुं समुद्भूतं पश्य चैनं समन्ततः ॥

9.18.37

सिंहनादांश्च समुद्भूतं पश्य चैनं समन्ततः ॥
तस्माद्याहि शनैः सूत जघनं परिपालय ॥

9.18.38

मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु ।
पुनरावर्तते तूर्णं मामकं बलमोजसा ॥

9.18.39

तच्छ्रुत्वा तव पुत्रस्य शूरस्य सदृशं वचः ।
सारथिर्हेमसञ्छन्नाञ्शरैरश्वानचोदयत् ॥

9.18.40

गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः ।
एकविंशतिसाहस्राः संयुगायावतस्थिरे ॥

9.18.41

नानादेशसमुद्भूता नानारञ्जितवाससः ।
अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ॥

9.18.42

तेषामापततां तत्र संहृष्टानां परस्परम् ।
सम्मर्दः सुमहाञ्चज्ञे घोररूपो भयानकः ॥

9.18.43

भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् ।
बलेन चतुरङ्गेण नानादेश्यानवारयत् ॥

9.18.44

भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः ।
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ॥

9.18.45

आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः । धार्तराष्ट्रा विनेदुर्हि नान्यामकथनयन्कथाम् ।
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ॥

9.18.46

स वध्यमानः समरे पदातिगणसंवृतः ।
न चचाल ततः स्थानान्मैनाक इव पर्वतः ॥

9.18.47

ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् ।
निग्रहीतुं प्रवृत्ता हि योधांश्चान्यानवारयन् ॥

9.18.48

अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः ।
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ॥

9.18.49

जातरूपप्रतिच्छन्नां प्रगृह्य महतीं गदाम् ।
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥

9.18.50

रथाश्वविप्रहीणांस्तु तान्भीमो गदया बली ।
एकविंशतिसाहस्रान्पदातीन्समपोथयत् ॥

9.18.51

हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः ।
धृष्टद्युम्नं पुरस्कृत्य न चिरात्प्रत्यदृश्यत ॥

9.18.52

पादाता निहता भूमौ शिश्यिरे रुधिरोक्षितः ।
सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥

9.18.53

नानाशस्त्रसमायुक्ता नानाकुण्डलधारिणः ।
नानाजात्या हतास्तत्र नादेशसमागताः ॥

9.18.54

पताकाध्वजसञ्छन्नं पदातीनां महद्बलम् ।
निकृत्तं विबभौ रौद्रं घोररूपं भयावहम् ॥

9.18.55

युधिष्ठिरपुरोगाश्च सहसैन्या महारथाः ।
अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ॥

9.18.56

ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् ।
नाभ्यवर्तन्त ते पुत्रं वेलामिव महोर्मयः ॥

9.18.57

तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।
यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् ॥

9.18.58

नातिदूरापयातं तु कृतबुद्वि पलायने ।
दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् ॥

9.18.59

न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च ।
यत्र यातान्न वा हन्युः पाण्डवाः किं सृतेन वः ॥

9.18.60

अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ ।
यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत् ॥

9.18.61

विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतविप्रियाः ।
अनुयाय हनिष्यन्ति श्रेयान्नः समरे वधः ॥

9.18.62

शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः ।
यदा शूरं च भीरुं च मारयत्यन्तकः सदा ॥

9.18.63

को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम् ।
श्रेयान्नो भीमसेनस्य क्रुद्धस्याभिमुखे स्थितः ॥

9.18.64

सुखः साङ्ग्रामिको मृत्युर्दुःखो व्याधिजरादिभिः ।
मर्त्येनावश्यमर्तव्यं गृहेष्वपि कदाचन ॥

9.18.65

युध्यतः क्षत्रधर्मेण मृत्युरेष सनातनः ।
हत्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ॥

9.18.66

न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः ।
अचिरेणैव ताँल्लोकान्हतो युद्धे समश्नुते ॥

9.18.67

श्रुत्वा तद्वचनं तस्य पूजयित्वा च पार्थिवाः ।
पुनरेवाभ्यवर्तन्त पाण्डवानाततायिनः ॥

9.18.68

तानापतत एवाशु व्यूढानीकाः प्रहारिणः ।
प्रत्युद्ययुस्तदा पार्था जयगृद्धाः प्रमन्यवः ॥

9.18.69

धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान् ।
विश्रुतं त्रिषु लोकेषु व्याक्षिपन्गाण्डिवं धनुः ॥

9.18.70

माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः ।
जवेनाभ्यपतन्हृष्टा यत्ता वै तावकं बलम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc