भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.11

9.11.1

पतितं प्रेक्ष्य यन्तारं शल्यः शैक्यायसीं गदाम् ।
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः ॥

9.11.2

तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् ।
सशृङ्गमिव कैलासं सवज्रमिव वासवम् ॥

9.11.3

सशूलमिव हर्यक्षं सचक्रमिव चक्रिणम् । सशक्तिमिव सेनान्यं वने मत्तमिव द्विपम् ।
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥

9.11.4

ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः ।
सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः ॥

9.11.5

प्रैक्षन्त सर्वतस्तौ हि योधा मत्ताविव द्विपौ ।
तावकाश्चापरे चैव साधुसाध्वित्यपूजयन् ॥

9.11.6

न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् ।
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ॥

9.11.7

तथा मद्राधिपस्यापि गदावेगं महात्मनः ।
सोढुमुत्सहते नान्यः पुमान्युधि वृकोदरात् ॥

9.11.8

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः ।
आवर्तितौ गदाहस्तौ मद्रराजवृकोदरौ ॥

9.11.9

मण्डलावर्तमार्गेषु गदाविहरणेषु च ।
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ॥

9.11.10

तप्तहेममयैः शुभ्रैर्बभूव भयवर्धिनी ।
अग्निज्वालैरिवाबद्धा पट्टैः शल्यस्य सा गदा ॥

9.11.11

तथैव चरतो मार्गान्मण्डलेषु महात्मनः ।
विद्युदभ्रग्रतीकाशा भीमस्य शुशुभे गदा ॥

9.11.12

ताडिता मद्रराजेन भीमस्य गदया गदा ।
दह्यमानेव खे राजन्साऽसृजत्पावकार्चिषः ॥

9.11.13

तथा भीमेन शल्यस्य ताडिता गदया गदा ।
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् ॥

9.11.14

दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ ।
तौ विरेजतुरन्योन्यं गदाग्राभ्यां परिक्षतौ ॥

9.11.15

तौ गदाभिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ ।
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ ॥

9.11.16

गदया मद्रराजस्य सव्यदक्षिणमाहतः ।
भीमसेनो महाबाहुर्न चचालाचलो यथा ॥

9.11.17

तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः ।
शल्यो न विव्यथे राजन्दन्तिनेव महागिरिः ॥

9.11.18

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः ।
गदानिपातसंहादो वज्रयोरिव निःस्वनः ॥

9.11.19

निवृत्य तु महावीर्यौ समुच्छ्रितमहागदौ ।
पुनरन्तरमार्गस्थौ पण्डलानि विचेरतुः ॥

9.11.20

अथाभ्येत्य पदान्यष्टौ सन्निपातोऽभवत्तयोः ।
उद्यम्य लोहदण़्डाभ्यामतिमानुषकर्मणोः ॥

9.11.21

पोथयन्तौ तदाऽन्योन्यं मण्डलानि विचेरतुः ।
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा ॥

9.11.22

अभ्युद्यतगदौ वीरौ सशृङ्गाविव पर्वतौ ।
तावाजघ्नतुरन्योन्यं मण्डलानि विचेरतुः ॥

9.11.23

क्रियाविशेषकृतिनौ रणभूमितलेऽचलौ ।
तौ परस्परसंरम्भाद्गदाभ्यां सुभृशाहतौ ॥

9.11.24

युगपत्पेततुर्वीरावुभाविन्द्रबली इव ।
उभयः सेनयोर्योधास्तदा हाहाकृताभवन् ॥

9.11.25

भृशं मर्मस्वभिहतावुभावास्तां सुविह्वलौ ॥

9.11.26

ततः स्वरथमारोप्य मद्राणामृषभं रणे ।
अपोवाह कृपः शल्यं तूर्णमायोधनादथ ॥

9.11.27

क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः ।
भीमसेनो गदापाणिः समाह्वयत मद्रपम् ॥

9.11.28

ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः ।
नानावादित्रशब्देन पाण्डुसेनामयोधयन् ॥

9.11.29

भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः ।
अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः ॥

9.11.30

तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः ।
प्रययुः सिंहनादेन दुर्योधनवधेप्सया ॥

9.11.31

तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ ।
प्राप्तेन चेकितानं वै विव्याध हृदये भृशम् ॥

9.11.32

पपात रथोपस्थे तव पुत्रेण पातितः ।
रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः ॥

9.11.33

चेकितानं हतं दृष्ट्वा पाण्डवेया महारथाः ।
असक्तमभ्यवर्षन्त शरवर्षाणि भागशः ॥

9.11.34

तावकानामनीकेषु पाण्डवा जितकाशिनः ।
व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः ॥

9.11.35

कृपश्च कृतवर्मा च सौबलश्च महारथः ।
अयोधयन्धर्मराजं मद्रराजपुरस्कृताः ॥

9.11.36

भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् ।
दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् ॥

9.11.37

त्रिसाहस्रास्तथा राजंस्तव पुत्रेण चोदिताः ।
अयोधयन्त विजयं जैगर्तानां महारथाः ॥

9.11.38

विजये धृतसङ्कल्पाः समरे त्यक्तजीविताः ।
प्राविशंस्तावका राजन्हंसा इव महत्सरः ॥

9.11.39

ततो युद्धमभूद्धोरं परस्परवधैषिणाम् ।
अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् ॥

9.11.40

तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये ।
अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः ॥

9.11.41

श्रवणान्नामधेयानां पार्थिवानां च कीर्तनात् ।
परस्परं विजानीमस्तदायुध्यन्नभीतवत् ॥

9.11.42

तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् ।
दिशश्च विमला जातास्तस्मिन्रजसि नाशिते ॥

9.11.43

तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके ।
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥

9.11.44

ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि ।
सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः ॥

9.11.45

भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः ।
स्वर्गसंसक्तमनसो योधा युयुधिरे तदा ॥

9.11.46

नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ।
अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् ॥

9.11.47

हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत ।
इति स्म वाचः श्रूयन्ते तवतेषां च वै बले ॥

9.11.48

ततः शल्यो महाराज धर्मपुत्रं युधिष्ठिरम् ।
विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् ॥

9.11.49

तस्य पार्थो महाराज नाराचान्वै चतुर्दश ।
मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव ॥

9.11.50

आवार्य पाण्डवं बाणैर्हन्तुकामो महाबलः ।
विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः ॥

9.11.51

अथ मद्रो महाराज शरेणानतपर्वणा ।
युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः ॥

9.11.52

धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महाबलः ।
विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः ॥

9.11.53

चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः ।
द्रुमसेनं चतुःषष्ट्या निजघान महारथः ॥

9.11.54

चक्ररक्षे हते शल्यः पाण्डवेन महात्मना ।
निजघान ततो राजंश्चेदीन्वै प़ञ्चविंशतिम् ॥

9.11.55

सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः ।
माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ॥

9.11.56

एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम ।
सम्प्रैषयच्छितान्पार्थः शरानाशीविषोपमान् ॥

9.11.57

ध्वजाघ्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः ।
प्रमुखे वर्तमानस्य भल्लेनापाहरद्रथात् ॥

9.11.58

पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना ।
निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् ॥

9.11.59

ध्वजं निपतितं दृष्ट्वा पाण़्डवं च व्यवस्थितम् ।
सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह ॥

9.11.60

शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् ।
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥

9.11.61

सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ ।
एकैकं प़ञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥

9.11.62

ततो बाणमयं जालं विततं पाण्डवोरसि ।
अपश्याम महाराज मेघजालमिवोद्गतम् ॥

9.11.63

तस्य शल्यो रणे क्रुद्धः शरैः सन्नतपर्वभिः ।
दिशः सञ्छादयामास प्रदिशश्च महारथः ॥

9.11.64

ततो युधिष्ठिरो राजा बाणजालेन पीडितः ।
बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc