महाभारत · अध्याय 8.99
कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् ।
यदृच्छया सूर्यमिवावनिं गतं दिदृक्षवः सम्परिवार्य तस्थुः ॥
प्रहृष्टवित्रस्तविषण्णविस्मिता-- स्तथाऽपरे शोकसमन्विताऽभवन् ।
परे त्वदीयाश्च रणे विशाम्पते यथायथेष्टं पृतना तथा गता ॥
प्रविद्धवर्माभरणायुधाम्बरं धनञ्जयेन प्रहतं महारथम् ।
निशाम्य कर्णं कुरवः प्रदुद्रुवु-- र्हतर्षभं केसरिणेव गोकुलम् ॥
कृत्वा दिमर्दं भृशमर्जुनेन कर्णं हतं केसरिणेव नागम् ।
दृष्ट्वा शयानं युधि मद्रराज-- श्छिन्नध्वजेनापययौ रथेन ॥
कर्णे हते पार्थभयात्प्रदुद्रुवु-- र्वैकर्तने धार्तराष्ट्राः सशल्याः ।
अवेक्षमाणा मुहुरर्जुनस्य केतुं महान्तं यशसा ज्वलन्तम् ॥
शल्यस्तु कर्णार्जुनयोर्विमर्दे बलानि दृष्ट्वा मृदितध्वजानि ।
ययौ स तेनैव रथेन तूर्णं हेलीकृतः सृञ्जयसोमकैश्च ॥
निपातितस्यन्दनवाजिनागं बलं च दृष्ट्वा हतसूतपुत्रम् ।
भीमस्तु भीमेन तदा स्वरेण समुन्नदद्रोदसी कम्पयंश्च ।
आस्फोटयन्नृत्यति वल्गते च हते कर्णे त्रासयन्धार्तराष्ट्रान् ।
तदा राजन्सृञ्जयाः सोमकाश्च शङ्खान्दध्मुः सस्वजुश्चापि सर्वे ॥
परस्परं क्षत्रिया हृष्टरूपाः सूतात्मजे वै निहते तदानीम् ।
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो दीनो मुहुर्निश्वसन्नार्तरूपः ॥
मद्राधिपश्चापि विमूढचेता-- स्तूर्णं ध्वजेनापहृतेन तेन ।
रथेन दुर्योधनमेत्य तूर्णं पश्यन्सुदुःखात्तमुवाच राजन् ॥
विशीर्णनागाश्वरथप्रवीरं बलं त्वदीयं यमराष्ट्रकल्पम् ।
अन्योन्यमासाद्य हतैः शयानै-- र्नराश्वनागैर्गिरिकूटकल्पैः ॥
नैतादृशं भारत युद्धमासी-- द्यथा हि कर्णार्जुनयोर्बभूव ।
ग्रस्तौ हि कर्णेन समेत्य कृष्णा-- वन्ये हि सर्वे तव शात्रवेयाः ॥
दैवं तु यत्तत्स्ववशे प्रवृत्तं तत्पाण्डवान्पाति निहन्ति चास्मान् ।
तवार्थसिद्ध्यर्थकरा हि सर्वे प्रसह्य वीरा निहता द्विषद्भिः ॥
कुबेरवैवस्वतवासवानां तुल्यप्रभावा वरुणस्य चापि ।
वीर्येण शौर्येण पराक्रमेण तैश्चापि युक्ता विमलैर्गुणौघैः ॥
अवध्यकल्पा निहता नरेन्द्रा-- स्तवार्थकामा युधि पाण्डवेयैः ।
तन्मा शुचो भारत दिष्टमेत-- त्पर्यायसिद्धिर्न तु नित्यसिद्धिः ॥
एतद्वचो मद्रपतेर्निशम्य स्वं चाविनीतं मनसा विचिन्त्य ।
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो मुहुर्मुहुर्निश्वसन्नार्तरूपः ॥
*तद्व्यानमूकं कृपणं भृशार्त-- मार्तायनिर्दीनमुवाच राजन् ।
पश्येदमुग्रैर्नरवाजिनागै-- रायोधनं वीर हतैः सुपूर्णम् ॥
महीधराभैः पतितैश्च नागैः सकृत्प्रयत्नैः शरभिन्नगात्रैः ।
प्रविह्वलद्भिश्च गतासुभिश्च प्रध्वस्तवर्मायुधसर्वयोधैः ॥
वज्रापविद्वैरिव चाचलौघै-- र्विभिन्नपाषाणमृगद्रुमौघैः ।
प्रविद्धघण्टाङ्कुशतोमरध्वजैः सहेमजालै रुधिरौघसम्प्लवैः ॥
शरावनुन्नैः पतितैस्तुरङ्गै-- स्तनद्भिरार्तैः क्षतजं वमद्भिः ।
दीनैस्त्रसद्भिः परिवृत्तनेत्रै-- र्मही पतद्भिः कृपणा वभूव ॥
तथाऽपविद्वैर्गजवाजियूथै-- र्मन्दासुभिश्चापि गतासुभिश्च ।
रथैश्च नागैस्तुरगैश्च नुन्नै-- र्मही महावैतरणीव भाति ॥
गजैर्निकृत्तापरहस्तगात्रै-- रुद्वेपमानैः पतितैः पृथिव्याम् ।
रथर्षभैर्नागवराश्वयोधैः पदातिभिश्चाभिमुखैः परैर्हतैः ॥
विशीर्णवर्माभरणाम्बरायुधै-- र्युता प्रशान्तैरिव पावकैर्मही ।
शरप्रहाराभिहतैर्महाबलै-- रवेक्षमाणैः पतितैः समन्ततः ॥
प्रनष्टसञ्ज्ञैः पुनराश्वसद्भि-- र्मही बभौ कुम्भगतैरिवाग्निभिः ।
रत्नैश्च्युतैर्भूरतिदीप्तिमद्भि-- र्नक्तं ग्रहैर्द्यौर्विमलैर्विभाति ॥
शरास्तु कर्णार्जुनबाहुमुक्ता विदार्य नागांश्च मनुष्यदेहान् ।
प्राणान्निरस्याशु महीं प्रतीयु-- र्महोरगा वासमिवाभिनम्राः ॥
हतैर्मनुष्यैश्च गजैश्च सङ्ख्ये शरावभिन्नै रुधिरप्रदिग्धैः ।
धṉअञ्जयस्याधिरथेश्च मार्गे हतैरगम्या वसुधाऽतिदुर्गा ॥
रथैर्महेषून्मथितैः सुकल्पितैः सनागयोधाश्ववरायुधध्वजैः
विशीर्णयोक्त्रैर्विनिकीर्णबन्धनै-- र्निकृत्तचक्राक्षयुगत्रिवेणुभिः ॥
विमुक्तयोक्त्रैश्च रथैरुपस्करैः कृताभिषङ्गैर्विनिबद्वकूबरैः ।
प्रभग्ननीडैर्मणिहेमभूषितै-- र्वृता मही द्यौरिव शारदैर्घनैः ॥
निकृष्यमाणा जवनैस्तुरङ्गमै-- र्हतेश्वरा राजरथाः सुकल्पिताः ।
मनुष्यमातङ्करथाश्वसादिषु द्रुतं व्रजन्तो बहुधा विघूर्णिताः ॥
सहेमपृष्ठाः सपरश्वथायुधाः शिताश्च शूला मुसलाः समुद्गराः ।
चित्राश्च खङ्गा विमलाश्च कोशा गजाश्च जाम्बूनदपट्टनद्धाः ॥
चापानि जाम्बूनदभूषितानि शराश्च कार्तस्वरचित्रपुङ्खाः ।
ऋष्ट्यश्च पीता विमलाश्च कोशाः प्रासाश्च दण्डाः कनकप्रभासाः ॥
शुभ्राणि वालव्यजनानि शङ्खा-- श्छिन्नावरुद्धा विरुचः स्रजश्च ।
कुथाः पताकाम्बरवेष्टनानि किरीटमाला मकुटाश्च शुभ्राः ॥
प्रकीर्णका विप्रतिकीर्णकाश्च प्रधानमुख्यास्तरलाश्च हाराः ।
आपीडकेयूरवराङ्गदानि ग्रैवेयनिष्काः ससुवर्णसूत्राः ॥
मण्युत्तमा वज्रसुवर्णयुक्ता रत्नानि चोच्चावचमङ्गलानि ।
गात्राणि चाभान्ति सुखोचितानि शिरांसि चेन्दुप्रतिमाननानि ॥
देहांश्च भोगांश्च परिच्छदांश्च त्यक्त्वा मनोज्ञा निहताः सुखानि ।
स्वधर्मनिष्ठां महतीमवाप्य प्राप्ताश्च लोकान्यशसा गतास्ते ॥
निवर्त दुर्योधन यान्तु सैनिका व्रजस्व राजञ्शिबिराणि मानद ।
दिवाकरोऽप्येष विलम्बते प्रभो पुनस्त्वमेवात्र नरेन्द्र कारणम् ॥
सञ्जय उवाच ।
एतावदुक्त्वा विरराम शल्यो दुर्योधनं चैव निवर्तयित्वा ।
युद्धाय राजन्विनिविष्टबुद्धि-- र्हा कर्ण हा कर्ण इति ब्रुवाणम् ॥
तं द्रोणपुत्रप्रमुखा नरेन्द्राः सर्वे समाश्वास्य ततः प्रजग्मुः ।
निरीक्षमाणा ध्वजमर्जुनस्य रथं च दिव्यं यशसा ज्वलन्तम् ॥
नराश्वमातङ्गशरीरजेन रक्तेन सिक्तां रुधिरेण भूमिम् ।
रक्ताम्बरस्रक्तपनीययोगा-- न्नारीं प्रकाशामिव सर्वरम्याम् ॥
प्रच्छन्नरूपां रुधिरेण राज न्रौद्रे मुहूर्तेऽतिविराजमाने ।
नैवावतस्थुः कुरवः समीक्ष्य प्रव्राजिता नरदेवा यथाऽक्षैः ॥
वधेन कर्णस्य सुदुःखितास्ते हा कर्ण हा कर्ण इति ब्रुवाणाः ।
द्रुतं प्रजग्मुः शिबिराणि राज--
न्दिवाकरं रक्तमवेक्षमाणाः ॥
गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः शिलाशितैः शोणितदिग्धवाजैः ।
शरैश्चिताङ्गोऽपि रराज कर्णो हतोऽपि दीप्तांशुरिवांशुजालैः ॥
कर्णस्य देहं रुधिराम्बुसिक्तं पुत्रानकुम्पी भगवान्विवस्वान् ।
स्पृष्ट्वा कराग्रैः क्षतजानुरूपैः स्नातुं तदाऽगादपरं समुद्रम् ॥
इतीव सञ्चिन्त्य सुरर्षभाश्च सम्प्रस्थितास्ते तु यथानिकेतम् ।
सञ्चिन्त्य सर्वा जनता विसस्रु-- र्यथासुखं खे च महीतले च ॥
तदद्भुतं प्राणभृतां भयङ्करं निशाम्य युद्धं कुरुवीरमुख्ययोः ।
समाचितौ कर्णशरैऋ परन्तपौ तथैव संरेजतुरच्युतार्जुनौ ॥
तमो निहत्याभ्युदितौ यथाऽमलौ शशाङ्कसूर्याविव रश्मिमालिनौ ।
विहाय तान्बाणगणान्महाबलौ सुहृद्वृतावप्रतिमानविक्रमौ ॥
सुखप्रविष्टौ सुखदौ विरेजतुः सदस्यचिन्त्याविव विष्णुवासवौ ।
सदेवगन्धर्वमनुष्यचारणै-- र्महर्षिभिर्यक्षमहोरगैरपि । जयाभिवृद्ध्या परयाऽभिपूजितौ निहत्य कर्णं परमाहवे तदा ॥
यथानुरूपं प्रतिपूज्य तानथ प्रशस्यमानावतुलैश्च कर्मभिः ।
ननन्दतुश्चैव सुहृद्भिरावृतौ बलं निहत्येव सुरेशकेशवौ ॥
तस्मिंस्तु कर्णार्जुनयोर्विमर्दे दग्धस्य रौद्रेऽहनि विद्रुतस्य ।
बभूव कुरुसृञ्जयानां बलस्य बाणोन्मथितस्य कीदृक् ॥
सञ्जय उवाच ।
शृणु राजन्नवहितो यथा वृत्तो महाक्षयः ।
घोरो मनुष्यदेहानामाजौ च गजवाजिनाम् ॥
यत्र कर्णे हते पार्थः सिंहनादमथाकरोत् ।
तदा तव सुतान्राजन्नाविवेश महद्भयम् ॥
न सन्धातुमनीकानि न चैवाशु पराक्रमे ।
आसीद्वुद्विर्हते कर्णे तव योधस्य कर्हिचित् ॥
वणिजो नावि भिन्नायामगाधे विप्लुवे यथा ।
अपारे पारमिच्छन्तो हते द्वीपे किरीटिना ॥
सूतपुत्रे हते राजन्वित्रस्ताः शस्त्रविक्षताः ।
अनाथा नाथमिच्छन्तो मृगाः सिंहैरिवार्दिताः ॥
भग्नशृङ्गा वृषा यद्वद्भग्नदंष्ट्रा इवोरगाः ।
प्रत्यपायाम सायाह्ने निर्जिताः सव्यसाचिना ॥
हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः ।
सूतपुत्रे हते राजन्पुत्रास्ते दुद्रुवुर्भयात् ॥
विस्रस्तयन्त्रकवचाः कान्दिग्भूता विचेतसः ।
अन्योन्यमवमृद्गन्तो वीक्षमाणा भयार्दिताः ॥
मामेव नूनं बीभत्सुर्मामेव च वृकोदरः ।
अभियातीति मन्वानाः पेतुर्मम्लुश्च सम्भ्रमात् ॥
हयानन्ये गजानन्ये रथानन्ये महारथाः ।
आरुह्य जवसम्पन्नाः पदातीन्प्रजहुर्भयात् ॥
कुञ्जरैः स्यन्दनाः क्षुण्णाः सादिनश्च महारथैः ।
पदातिसङ्घाश्चाश्वौधैः पलायद्भिर्भयार्दितैः ॥
व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने ।
सूतपुत्रे हते राजंस्तव योधास्तथाऽभवन् ॥
हतारोहा यथा नागाश्छिन्नहस्ता यथा नराः ।
सर्वे पार्थमयं लोकं सम्पश्यन्तो भयार्दिताः ॥
सम्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् ।
दुर्योधनोऽथ स्वं सूतं हाहाकृत्वेदमब्रवीत् ॥
नातिक्रमेच्च मां पार्थो धनुष्पाणिमवस्थितम् ।
जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय ॥
युध्यमानं हि कौन्तेयं हनिष्यामि न संशयः ।
नोत्सहेन्मामतिक्रान्तुं वेलामिव महोदधिः ॥
अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम् ।
अन्याञ्शिष्टांस्तथा शत्रून्कर्णस्यानृण्यमाप्नुयाम् ॥
तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः ।
सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत् ॥
रथाश्वनागहीनास्तु पादातास्तव मारिष ।
पञ्चविंशतिसाहस्रा युद्वायैव व्यवस्थिताः ॥
तान्भीमसेनः सङ्क्रुद्धो धृष्ट्यद्युम्नश्च पार्षतः ।
बलेन चतुरङ्गेण संवृत्याजघ्नतुः शरैः ॥
प्रत्ययुध्यन्त समरे भीमसेनं सपार्षतम् ।
पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी ॥
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः ।
सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत ॥
न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः ।
योधयामास कौन्तेयो भुजवीर्यव्यपाश्रयः ॥
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् ।
अवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः ॥
पदातिनोऽपि सन्त्यक्त्वा प्रियं जीवितमात्मनः ।
भीममभ्यद्रवन्सङ्ख्ये पतङ्गा ज्वलनं यथा ॥
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः ।
विनेशुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् ॥
श्येनवद्विचरन्भीमो गदाहस्तो महाबलः ।
पञ्चविंशतिसाहस्रांस्तावकानवपोथयत् ॥
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः ।
धृष्टद्युम्नं पुरस्कृत्य तस्थौ तत्र महाबलः ॥
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् । माद्रीपुत्रौ तु शकुनिं सात्यकिश्च महारथः ।
जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम् ॥
तस्याश्वसादीन्सुबहूंस्ते निहत्य शितैः शरैः ।
समभ्यधावंस्त्वरितास्तत्र युद्धमभून्महत् ॥
धनञ्जयोऽपि चाभ्येत्य रथानीकं तव प्रभो ।
विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः ॥
कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम् ।
अर्जुनं चापि योद्वारं त्वदीयाः प्राद्रवन्भयात् ॥
विप्रहीणरथाश्चैव शरैश्च परिकर्शिताः ।
पञ्चविंशतिसाहस्राः कालमार्छन्पदातयः ॥
हत्वा तान्पुरुषव्याघ्रः पाञ्चालानां महारथः ।
पुत्राः पाञ्चालराजस्य धृष्टद्युम्नो महामनाः ॥
भीमसेनं पुरस्कृत्य नचिरात्प्रत्यदृश्यत ।
महाधनुर्धरः श्रीमानमित्रगणतापनः ॥
पारावतसवर्णाश्वं कोविदारमयध्वजम् ।
धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात् ॥
गान्धारराजं शीघ्रास्त्रमनुसृत्य यशस्विनौ ।
नचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी ॥
वेकितानः शिखण्डी च द्रौपदेयाश्च मारिष ।
हत्वा त्वदीयं सुमहत्सैन्यं शङ्खांस्तथाऽधमन् ॥
ते सर्वे तावकान्प्रेक्ष्य द्रवतोऽपि पराङ्मुखान् ।
अभ्यवर्तन्त संरब्धान्वृषाञ्जित्वा यथा वृषाः ॥
सेनावशेषं तं दृष्ट्वा तव सैन्यस्य पाण्डवः ।
व्यवस्थितः सव्यसाची चुक्रोध बलवान्नृप ॥
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् ।
विश्रुतं त्रिषु लोकेषु व्याक्षिपद्गाण्डिवं धनुः ॥
तत एनाञ्शरव्रातैः सहसा समवाकिरत् ।
तमसा संवृतेनाथ न स्म किञ्चिद्वदृश्यत ॥
अन्धकारीकृते लोके रजोभूते महीतले ।
योधाः सर्वे महाराज तावकाः प्राद्रावन्भयात् ॥
सम्भज्यमाने सैन्ये तु कुरुराजो विशाम्पते ।
परानभिमुखांश्चैव सुतस्ते समुपाद्रवत् ॥
ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान् ।
युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः ॥
त एनमभिगर्जन्तः सहिताः समुपाद्रवन् ।
नानाशस्त्रभृतः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः ॥
दुर्योधनोऽप्यसम्भ्रान्तस्तान्रणे निशितैः शरैः ।
तत्रावधीत्ततः क्रुद्वः शतशोऽथ सहस्रशः ॥
तत्सैन्यं पाण्डवेयानां योधयामास सर्वतः ॥
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् । यदेकः सहितान्सर्वान्रणेऽयुध्यत पाण्डवान् ।
ततोऽपश्यन्महात्मा स स्वसैन्यं भृशदुःखितम् ॥
ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः ।
हर्षयन्निव तान्योधानिदं वचनमब्रवीत् ॥
न तं देशं प्रपश्यामि यत्र याता भयार्दिताः ।
गतानां यत्र वै मोक्षः पाण्डवात्किं गतेन वः ॥
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ ।
अद्य सर्वान्हनिष्यामिध्रुवो हि विजयो भवेत् ॥
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्विषान् ।
अनुसृत्य वधिष्यन्ति श्रेयान्नः समरे वधः ॥
सुखं साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् ।
मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते ॥
शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः ।
यदा शूरं च भीरुं च मारयत्यन्तको मयः ॥
को न मूढो न युध्येत मादृशः क्षत्रियव्रतः ।
द्विषतो भीमसेनस्य क्रद्धस्य वशमेष्यथा ॥
पितामहैराचरितं न धर्मं हातुमर्हथ ।
न ह्यधर्मोऽस्ति पापीयान्क्षत्रियस्य पलायनात् ॥
न युद्धधर्माच्छ्रेयो हि पन्थाः स्वर्गस्य कौरवाः ।
अचिरेण हता लोकान्सद्यो योधाः समश्नुत ॥
सञ्जय उवाच ।
एवं ब्रुवति पुत्रे ते सैनिका भृशविक्षताः ।
अनवेक्ष्यैव तद्वाक्यं प्राद्रवन्सर्वतो दिशः ॥
सञ्जय उवाच ।
दृष्ट्वा तु सैन्यं परिवृत्यमानं पुत्रेण ते मद्रपतिस्तदानीम् ।
सन्त्रस्तरूपः परिमूढचेता दुर्योधनं वाक्यमिदं बभाषे] ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0