भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.87

8.87.1

सर राजपुत्रेण समार्च्छदुग्र-- दुःशासनेन निकृतो निकृत्या ॥

8.87.2

तत्राकरोद्दुष्करं राजपुत्रो दुःशासनः कुरुवीरो महात्मा ।
यद्भीमसेनं प्रतियोधयद्रणे जम्भो यथा शक्रमुदारवीर्यम् ॥

8.87.3

धनुच्छित्त्वा भीमसेनस्य सङ्ख्ये षड्भिः शरैः सारथिमभ्यविध्यत् ।
ततोऽविध्यत्त्रिंशता भीमसेनं वरेषुभिर्वन्यमिव द्विपेन्द्रम् ॥

8.87.4

स कार्मुकं गृह्य तु भारसाधनं भीमस्तदा राजपुत्रं ह्यविध्यत् ।
पञ्चाशतैर्बाणगणैः स्तनानन्तरे तोत्रैर्यथा तीव्रवेगं द्विपेन्द्रम् ॥

8.87.5

ततस्तु राजन्विरथं महात्मा दुःशासनो भीमसेनं चकार ।
निहत्य सङ्ख्ये चतुरोऽस्य बाहा-- ञ्छित्त्वा रथेषां पुनरेव चाक्षिपत् ॥

8.87.6

ततः क्षितिस्वो ह्यबरुह्य याना-- द्वृकोदरो मदया तस्य वाहान् ।
यमक्षयं प्रेषयित्वा महात्मा रथं समाकर्पत राजसूनोः ॥

8.87.7

तस्मादवप्लुत्य रथात्ससर्ज दुःशासनस्तोमरमुग्रवेगम् ।
स तेन विद्धो ह्युरसि ह्यप्रमेयो गदां तस्मै विससर्जाप्रमेयाम् ॥

8.87.8

ततः क्रोधाद्भीमसेनः कृतानि सर्वाणि दुःखान्यनुसंस्मरन्वै ।
संस्मृत्य संस्मृत्य तथा प्रतिज्ञा-- मुग्रामसौ राजपुत्रौ व्यषीदत् ॥

8.87.9

सञ्चिन्तितं रोषमतीव वेगा- त्त्रयोदशाब्दं पुरुषप्रवीरः ।
प्रगृह्य वज्राशनितुल्यवेगां गदां करेणाथ वृकोदरो रुषा ॥

8.87.10

निपातयित्वा पृथिवीतले भृशं स ताजयामा वृकोदरो बली ।
अतीव सन्ताडितभिन्नगात्रो दुःशासनो वै निपपात भूमौ ॥

8.87.11

आक्रम्य कण्ठे युधि राजपुत्रं संरक्तनेत्रो ह्यब्रवीद्धार्तराष्ट्रम् ।
तद्ब्रूहि किं त्वं परिमार्गमाणो ह्यस्मान्पराभूय इहागतः पुनः ॥

8.87.12

दिदीपयंस्तद्भृशदीपितं मे चिरार्जितं रोषमतिप्रदीप्तम् ।
मधु प्रपास्ये तव कोष्टभाजना-- दित्यब्रवीद्भीमसेनस्तरस्वी ॥

8.87.13

दुःशासनं कण्ठदेशे प्रमृद्रं-- स्ततः क्रूरं भीमसेनश्चकार ।
कतं व्यंसयित्वा सहसा ससार बलादसौ धार्तराष्ट्रस्तरस्वी ॥

8.87.14

भीमोऽभिदुद्राव सुतं त्वदीयं सपत्रतां दर्शयन्धार्तराष्ट्रे ।
मृगं मुहुः सिंहशिशुर्यथा वने तथाश्वभिद्रुत्य महाबलं बली ॥

8.87.15

निगृह्य चैनं परमेण कर्मणा उत्क्षिप्य चोत्क्षिप्य च तूर्णमेनम् ।
भूमौ तदा निष्पिपेषाथ वीर असिं विकोशं विमलं चकार ॥

8.87.16

तं पातयित्वा तु वृकोदरोऽथ जगर्ज हर्षेण विनादयन्दिशः ।
नादेन तेनाखिलपार्श्ववर्तिनो मूर्च्छाकुलाः पतितास्त्वाजमीढ ॥

8.87.17

दुःशासनं तत्र समीक्ष्य राज-- न्भीमो महाबाहुरचिन्त्यकर्मा ।
स्मृत्वा च केशग्रहणं च देव्या वस्त्रापहारं च रजस्वलायाः ॥

8.87.18

अनागसो भर्तृपराङ्मुखाया दुःखानि दत्तान्यपि विप्रचिन्त्या ।
जज्वाल कोपादथ भीमसेन आज्यप्रसिक्तो हि यथा हुताशः ॥

8.87.19

तत्राह कर्णं च सुयोधनं च कृपं द्रौणिं कृतवर्माणमेव ।
निहन्मि दुःशासनमद्य पापं संरक्ष्यतामद्य समस्तयोधाः ॥

8.87.20

इत्येवमुक्त्वा सहसाभ्यधाव-- न्निहन्तुकामोऽतिबलस्तरस्वी ।
तथा तु विक्रम्य रमे वृकोदरो महागजं केसरिको यथैव । निगृह्य दुःशासनमेकवीरः सुयोधनस्याधिरथेः समक्षम् ॥

8.87.21

असिं समुद्यम्य सितं सुधारं कण्ठे पदाक्रम्य च वेपमानम् ।
उवाच तद्गौरिति यद्ब्रुवाणो हृष्टोऽवदः कर्णसुयोधनाभ्याम् ॥

8.87.22

ये राजसूयावभृथे पवित्रा जाताः कछा याज्ञसेन्या दुरात्मन् ।
ते पाणिना कतरेणावकृष्टा-- स्तद्ब्रूहि त्वां पृच्छति भीमसेनः ॥

8.87.23

श्रुत्वा तु तद्भीमवचः सुघोरं दुःशासनो भीमसेनं निरीक्ष्य ।
जज्वाल बीमं स तदा स्मयेन संशृण्वतां कौरवसोमकानाम् । उक्तस्तदाजौ स तथा सरोषं जगाद भीमं परिवृत्तनेत्रः ॥

8.87.24

अयं करिकराकारः पीनस्तनविमर्दनः । गोसहस्रप्रदाता च क्षत्रियान्तकरः करः ॥

8.87.25

अनेन याज्ञसेन्या मे भीम केशा विकर्षिताः ।
पश्यतां कुरुमुख्यानां युष्माकं च सभासदाम् ॥

8.87.26

एवं त्वसौ राजसुतं निशम्य ब्रुवन्तमाजौ विनिपीड्य वक्षः ।
भीमो बलात्तं प्रतिगृह्य दोर्भ्या-- मुच्चैर्ननादाथ समस्तयोधान् ॥

8.87.27

उवाच यस्यास्ति बलं स रक्ष-- त्वसौ भवेदद्य निरस्तबाहुः ।
दुःशानं जीवितं प्रोत्सृजन्त-- माक्षिप्य योधांस्तरसा महाबलः ॥

8.87.28

एवं क्रुद्धो भीमसेनः करेण उत्पाटयामास भुजं महात्मा ।
दुःशासनं तेन स वीरमध्ये जघान वज्राशनिसन्निभेन ॥

8.87.29

कण्ठे समाक्रम्य च वेपमानं कृत्वाऽनु रूपं परमं सुघोरम् ।
कालान्तकाभ्यां सदृशं तदानीं विदार्य वक्षश्च महारथस्य ॥

8.87.30

दुःशासनस्य निपुशासनस्य उद्धृत्य वक्षः पतितस्य भूमौ ।
ततोऽपिबच्छोणितमस्य कोष्ण-- मास्वाद्य चास्वाद्य च वीक्षमाणः ॥

8.87.31

क्रुद्धः प्रहृष्टो निजगाद वाक्यं स्तन्यस्य मातुः पयसोऽमृतस्य ।
माध्वीकजस्येव रसस्य तस्य मधोश्च पानाद्यवकस्य पानात् ॥

8.87.32

पयोदधिभ्यां मथिताच्च मुख्या-- त्तथेक्षुसारस्य मनोहरस्य ।
सर्वेभ्य एवाभ्यधिको रसोऽस्य मतो ममाद्याहितलोहितस्य ॥

8.87.33

एवं ब्रुवाणं पुनरुत्थितं त-- मास्फोट्य वल्गन्तमतिप्रहृष्टम् ।
ये भीमसेनं ददृशुस्तदानीं प्रायेण तेऽपि व्यथिता निपेतुः ॥

8.87.34

ये चापि नासन्पतिता मनुष्या-- स्तेषां करेभ्यः पतितं तु शस्त्रम् ।
भयाच्च सञ्चुक्रुशुरस्वरैस्तदा निमीलिताक्षा मुमुहुश्च तत्र ॥

8.87.35

ये तत्र भीमं रुधिरं पिबन्तं दुःशासनस्य ददृशुः प्रपन्नाः ।
नायं मनुष्यस्त्विति भाषमाणाः सर्वेऽपलायन्त भयाभिपन्नाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc