भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.83

8.83.1

हत्वा तु फल्गुनः सेनां कौरवाणां पृथक्पृथक् ।
सूतपुत्रस्य संरम्भं दृष्ट्वा चैव महारणे ॥

8.83.2

शोणितोदां नदीं कृत्वा मांसमज्जास्थिपङ्किलाम् ।
मनुष्यशीर्षपाषाणां हस्त्यश्वकृतरोधसम् ॥

8.83.3

शूरास्थित्तयसङ्कीर्णां काकगृध्रानुनादिताम् ।
छत्रहंसप्लुवोपेतां वीरवृक्षापहारिणीम् ॥

8.83.4

हारपद्माकरवतीमुष्णीषवरफेनिलाम् ।
धनुःशरध्वजोपेतां नरक्षुद्रकपालिनीम् ॥

8.83.5

चर्मवर्मभ्रमोपेतां रथोडुपसमाकुलाम् ।
जयैषिणां च सुतरां भीरूणां च सुदुस्तराम् ॥

8.83.6

नदीं प्रावर्तयित्वा च बीभत्सुः परवीरहा ।
वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभः ॥
अर्जुन उवाच ।

8.83.7

एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते ।
भीमसेनादयश्चैते योधयन्ति महारथम् ॥

8.83.8

एते द्रवन्ति पाञ्चालाः कर्मत्रस्ता जनार्दन ।
एष दुर्योधनो राजा श्वेतच्छत्रेण धार्यते ॥

8.83.9

कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते ।
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥

8.83.10

एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः ।
अवध्यमानास्तेऽस्माभिर्योधयिष्यन्ति सोमकान् ॥

8.83.11

एष शल्यो रथोपस्थे रश्मिसङ्ग्राहकोविदः ।
सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते ॥

8.83.12

तत्र मे बुद्धिरुत्पन्ना वाहयात्र रथं मम ।
नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन ॥

8.83.13

मा स्म कर्णो रणे पार्थान्सृञ्जयांश्च महारथान् ।
निःशेषान्समरे कुर्यात्पश्यतां नो जनार्दन ॥
सञ्जय उवाच ।

8.83.14

ततः प्रायाज्जवेनाशु केशवस्तव वाहिनीम् ।
कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिनः ॥

8.83.15

स प्रयातो रथेनाशु कृष्णो राजन्महाहवे ।
आश्वासयन्रणे चाशु पाण्डुसैन्यानि सर्वशः ॥

8.83.16

रथघोषस्ततस्तस्य पाण्डवस्य बभूव ह ।
वासवास्त्रनिपातेन पर्वतेष्विव मारिष ॥

8.83.17

महता रथघोषेण पाण्डवः सत्यविक्रमः ।
अभ्ययादप्रमेयात्मा निर्जयंस्तव वाहिनीम् ॥

8.83.18

तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् ।
मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ॥

8.83.19

अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः ।
निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ॥

8.83.20

एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः ।
तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति ॥

8.83.21

धनुर्ज्या चन्द्रताराङ्का पताकाकिङ्किणीयुता ।
पश्य कर्णार्जुनस्यैषा सौदामन्यम्बरे यथा ॥

8.83.22

एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः ।
दृश्यते वानरो भीमो वीक्षतां भयवर्धनः ॥

8.83.23

एतच्चक्रं गदा शङ्खः शार्ङ्गं कृष्णस्य च प्रभो ।
दृश्यते पाण्डवरथे वाहयानस्य वाजिनः ॥

8.83.24

एतत्कूजति गाण्डीवं विसृष्टं सव्यसाचिना ।
एते हस्तवता मुक्ता घ्नन्त्यमित्राञ्शिताः शराः ॥

8.83.25

विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः ।
एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम् ॥

8.83.26

एते परिघसङ्काशाः पुण्यगन्धानुलेपनाः ।
उद्धता रणशूराणां पात्यन्ते सायुधा भुजाः ॥

8.83.27

निरस्तजिह्वा नेत्रान्ता वाजिनः सह सादिभिः ।
पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते ॥

8.83.28

एते पर्वतशृङ्गाणां तुल्या हैमवता गजाः ।
सञ्छिन्नकुम्भाः पार्थेन प्रपतन्त्यद्रयो यथा ॥

8.83.29

गन्धर्वनगराकारा रथा हतनरेश्वराः ।
विमानादिव पुण्यान्ते स्वर्गिणो निपतन्त्यमी ॥

8.83.30

व्याकुलीकृतमत्यर्थं पश्य सैन्यं किरीटिना ।
नानामृगसहस्राणां यूथं केसरिणा यथा ॥

8.83.31

त्वामभिप्रेप्सुरायाति कर्ण निघ्नन्वरान्रथान् ।
असज्जमानो राधेय तं याहि प्रति भारत ॥

8.83.32

एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः ।
अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् ॥

8.83.33

वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः ।
त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ॥

8.83.34

न ह्यवस्थास्यते पार्थो युयुत्सुः केनचित्सह ।
त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ॥

8.83.35

विरथं धर्मराजं तु दृष्ट्वा सुदृढविक्षतम् ।
शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ॥

8.83.36

द्रौपदेयान्युधामन्युमुत्तमौजसमेव च ।
नकुलं सहदेवं च वशगांस्ते समीक्ष्य तु ॥

8.83.37

सहसैकरथः पार्थस्त्वामभ्येति परन्तपः ।
क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वपार्थिवान् ॥

8.83.38

त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् ।
त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ॥

8.83.39

न तं पश्यामि लोकेऽस्मिंस्त्वत्तो ह्यन्यं धनुर्धरम् ।
अर्जुनं समरे क्रुद्धं यो वेलामिव वारयेत् ॥

8.83.40

न चास्य रक्षां पश्यामि पार्श्वतो न च पृष्ठतः ।
एक एवाभियाति त्वां पश्य साफल्यमात्मनः ॥

8.83.41

त्वं हि कृष्णौ रणे शक्तो योद्धुमेतौ परन्तपौ ।
तवैव भारो राधेय प्रत्युद्याहि धनञ्जयम् ॥

8.83.42

समानो ह्यसि भीष्मेण द्रोमद्रौणिकृपेण च ।
सव्यसाचिनमायान्तं निवारय महारणे ॥

8.83.43

लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा ।
वनस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम् ॥

8.83.44

एते द्रवन्ति समरान्निरपेक्षा नराधिपाः ।
अर्जुनस्य भयत्रस्ता धार्तराष्ट्रा महाबलाः ॥

8.83.45

द्रवतामथ तेषां तु नान्योऽस्ति युधि मानवः ।
भयहा यो भवेद्वीरस्त्वामृते सूतनन्दन ॥

8.83.46

एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे ।
धिष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ॥

8.83.47

वैदेहाम्बष्ठकाम्भोजास्तथा नग्नजितस्त्वया । गान्धाराश्च यया धृत्या जिताः सङ्ख्ये सुदुर्जयाः ।
तां धृतिं कुरुराधेय ततः प्रत्येहि पाण्डवम् ॥

8.83.48

वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना ।
प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः ॥
कर्ण उवाच ।

8.83.49

प्रकृतिस्थोऽसि मे शल्य इदानीं सम्मतस्तथा ।
प्रतिभासि महाबाहो अभीतश्च धनञ्जयात् ॥

8.83.50

पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे ।
एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ॥

8.83.51

कृष्णौ च पुरुषव्याघ्र ततः सत्यं ब्रवीमि ते ।
नाहत्वा युधि तौ वीरौ व्यपयास्ये कथञ्चन ॥

8.83.52

शिश्ये वा निहतस्ताभ्यामनित्यो हि रणे जयः ।
कृतार्थोऽद्य भविष्यामि हत्वा वाप्यथ वा हतः ॥
शल्य उवाच ।

8.83.53

अजय्यमेनं प्रवदन्ति युद्धे महारथाः कर्ण रथप्रवीरम् ।
एकाकिन किमु कृष्णाभिगुप्तं विजेतुमेनं क इहोत्सहेत ॥
कर्ण उवाच ।

8.83.54

नैतादृशो जातु बभूव लोके रथोत्तमो यावदुपश्रुतं नः ।
तमीदृशं प्रतियोत्स्यामि पार्थं महाहवे पश्य च पौरुषं मे ॥

8.83.55

रणे चरत्येष रथप्रवीरः सितैर्हयैः कौरवराजपुत्रः ।
स वाऽद्य मां नेष्यति कृच्छ्रमेत-- त्कर्णोऽस्यान्तेऽप्यत्र भवेत्समर्थः ॥

8.83.56

अस्वेदिनौ राजपुत्रस्य हस्ता-- ववेपमानौ जातकिणौ बृहन्तौ ।
दृढायुधः कृतिमान्क्षिप्रहस्तो न पाण्डवेयेन समोऽस्ति योधः ॥

8.83.57

गृह्णात्यनेकानपि कङ्कपत्रा-- नेकं यथा तान्प्रतियोज्य चाशु ।
ते क्रोशमात्रे निपतन्त्यमोधाः कस्तेन योधोऽस्ति समः पृथिव्याम् ॥

8.83.58

अतोषयत्स्वाण्डवे यो हुताशं कृष्णद्वितीयोऽतिरथस्तरस्वी ।
लेभे चक्रं यत्र कृष्णो महात्मा धनुर्गाण्डीवं पाण्डवः सव्यसाची ॥

8.83.59

श्वेताश्वयुक्तं च सुघोषमुग्रं रथं महाबाहुरदीनसत्वः ।
महेषुधी चाक्षये दिव्यरूपे शस्त्राणि दिव्यानि च हव्यवाहात् ॥

8.83.60

यस्त्विन्द्रलोके निजघान दैत्या-- नसङ्ख्येयान्कालकेयांश्च सर्वान् ।
लेभे शङ्खं देवदत्तं स्म तत्र को नाम तेनाभ्यधिकः पृथिव्याम् ॥

8.83.61

महादेवं तोषयामास योऽस्त्रैः साक्षात्सुयुद्धेन महानुभावः ।
लेभे ततः पाशुपतं सुघोरं त्रैलोक्यसंहारकरं महास्त्रम् ॥

8.83.62

पृथक्पृथग्लोकपालाः समेता ददुर्महास्त्राण्यप्रमेयाणि सङ्ख्ये ।
यैस्ताञ्जघानाशु रणे नृसिंहः सकालकेयानसुरान्समेतान् ॥

8.83.63

तथा विराटस्य पुरे समेता-- न्सर्वानस्मानेकरथेन जित्वा ।
जहार तद्रोधनमाजिमध्ये वस्त्राणि चादत्त महारथेभ्यः ॥

8.83.64

तमीदृशं वीर्यगुणोपपन्नं कृष्णद्वितीयं परमं नृपाणाम् ।
तमाह्वयन्साहसमुत्तमं वै जाने स्वयं सर्वलोकस्य शल्य ॥

8.83.65

अनन्तवीर्येण च केशवेन नारायणेनाप्रतिमेन गुप्तः ।
वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः ॥

8.83.66

महात्मनः शङ्खचक्रासिपाणे-- र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य ।
भयं न मे जायते साध्वसं च दृष्ट्वा कृष्णावेकरथे समेतौ ॥

8.83.67

अतीवायं धनुषि राजपुत्रे-- ष्वतीवान्यान्केशवश्चक्रयुद्धे ।
एवंविधौ पाण्डववासुदेवौ चलेत्स्वदेशाद्विमवान्न कृष्णौ ॥

8.83.68

उभौ हि शूरौ बलिनौ दृढायुधौ महारथौ संहननोपपन्नौ ।
एतौ वीरौ नरवीरौ समेतौ स्थानाच्च्युतौ देवकुमाररूपौ ॥

8.83.69

अग्र्यादित्याविन्द्रवृहस्पती वा यमान्तकौ वा शत्रिपूषणौ वा ।
भगांशमित्रावरुणावश्विनौ वा मरुद्गणौ वा वसवः समेताः । व्यस्ताः समस्ताश्च युधा न शक्ता जेतुं प्रसह्यार्जुनं चाच्युतं च ॥

8.83.70

एतौ हि तावर्जुनवासुदेवौ कोऽन्यः प्रतीयान्मदृते तु शल्य ॥

8.83.71

सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता ।
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ॥

8.83.72

तावुभौ पुरुषव्याघ्रौ समाने स्यन्दने स्थितौ ।
मामेकमभियोद्धारौ सुजातं बत शल्य मे ॥

8.83.73

नैतच्चिरं क्षिप्रमिमं रथं मे प्रवर्तयैतावभियामि चैवम् ।
अस्मिन्मुहूर्ते निहतौ पश्य कृष्णौ ताभ्यां हतं वा युधि मां रिपुभ्याम् ॥

8.83.74

एवं ब्रुवाणः सहसा महारथ-- स्त्वभ्यद्रवत्पाण्डवं सूतपुत्रः ॥

8.83.75

अभ्येत्य पुत्रेण तवाभिनन्दिताः समेत्य चोक्ताः कुरुवीरसत्तमाः ।
कृपश्च भोजश्च महारथावुभौ तथैव गान्धारपतिः सहानुजः । गुरोः सुतस्तस्य तवात्मजास्तथा पदातिसङ्घा द्विरदास्तथा तदा ॥

8.83.76

निरुध्यताभिद्रवताच्युतार्जुनौ श्रमेण संयोजयताशु सर्वशः ।
यथा भवद्भिर्भृशविक्षतावुभौ सुखेन हन्यान्मम वाहिनीपतिः ॥

8.83.77

तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं जिघांसवो वीरतराः समाययुः ।
शरैश्च जघ्नुर्युधि तं महारथा धनञ्जयं कर्णनिदेशकारिणः । नदीनदं भूरिजलो महार्णवो यथा तथा तान्समरेऽर्जुनोऽग्रसत् ॥

8.83.78

न सन्दधानो न तथा शरोत्तमान् प्रमुञ्चमानो रिपुभिः प्रदृश्यते ।
धनञ्जयास्तैः स्म शरैर्विदारिता हता निपेतुर्नरवाजिकुञ्जराः ॥

8.83.79

शरार्चिषं गाण्डिवचारुमण्डलं युगान्तसूर्यप्रतिमानतेजसम् ।
न कौरवाः शेकुरुदीक्षितुं जयं यथा रविं व्याधितचक्षुषो जनाः ॥

8.83.80

शरोत्तमान्सम्प्रहितान्महारथै श्चिच्छेद पार्थः प्रहसञ्छरौधैः ।
भूयश्च तानहनद्बाणसङ्घान् गाण्डीवधन्वायतपूर्णमण्डलम् ॥

8.83.81

यथोग्ररश्मिः शुचिशुक्रमध्यगः सुखं विवस्वान्हरते जलौघान् ।
तथार्जुनो बाणगणान्निरस्य ददाह सेनां तव पार्थिवेन्द्र ॥

8.83.82

तमभ्यधावद्विसृजन्कृपः शरां-- स्तथैव भोजस्तव चात्मजः स्वयम् ।
महारथो द्रोणसुतश्च सायकै-- रवाकिरंस्तोयधरा यथाऽचलम् ॥

8.83.83

जिघांसुभिस्तान्कुशलैः शरोत्तमान् महात्मभिः सम्प्रहितान्प्रयत्नतः ।
शरैः प्रतिच्छेद स पाण्डवस्त्वरन् परान्विनिर्भिद्य च तांस्त्रिभिस्त्रिभिः ॥

8.83.84

स गाण्डिवव्यायतपूर्णमण्डल-- स्तपन्रिपूनर्जुनभास्करो वभौ ।
शरोग्रश्मिः शुचिशुक्रमध्यगो यथैव सूर्यः परिवेयवांस्तथा ॥

8.83.85

अथाग्र्यबाणैर्दशभिर्धनञ्जयं पराभिनद्दोणसुतोऽच्युतं त्रिभिः ।
चतुर्भिरश्वांश्चतुरः कपिं ततः शरैश्च नाराचवरैरवाकिरत् ॥

8.83.86

तथा ततः प्रस्फुरदस्य कार्मुकं त्रिभिः शरैर्यन्तृशिरश्चकर्त ह ।
हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं धनञ्जयो द्रौणिरथादपातयत् ॥

8.83.87

स रोषपूर्णो ह्मतिवज्रहाटकै--- रलङ्कृतं तक्षकभोगवर्चसम् ।
स तद्वधे कार्मुकमन्यदाददे यथा महाहिप्रवरं तथैव च ॥

8.83.88

स्वमायुधं चापि विकीर्य भूतले धनुश्च कृत्वा सगुणं गुणाधिकः ।
समानयंसल्तावजितौ नरोत्तमौ शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ॥

8.83.89

कृपश्च भोजश्च तवात्मजश्च ते शरैरनेकैर्युधि पाण्डवर्षभम् ।
महारथाः संयुगमूर्धनि स्थिता-- स्तमोनुदं वारिधरा इवापतन् ॥

8.83.90

कृपस्य पार्थः शरं शरासनं हयान्ध्वजान्सारधिमेव पत्रिभिः ।
[समार्पयद्वाहुसहस्रविक्रम-- स्तथा यथा वज्रधरः पुरा बलेः ॥

8.83.91

स पार्थबाणैर्विनिपातितायुधो ध्वजावमर्दे च कृते महाहवे ।
कृतः कृपो बाणसहस्रयनितो यथापगेयः प्रथमं किरीटिना ॥ ]

8.83.92

शरैः प्रचिच्छेद तवात्मजस्य ध्वजं धनुश्च प्रचकर्त नर्दतः ।
जघान चाश्वान्कृतवर्मणः शुभान् ध्वजं च चिच्छेद तवात्मजस्य ह ॥

8.83.93

सवाजिसूतेष्वसनान्सकेतना-- ञ्जयान नागाश्वरथांश्च स त्वरन् ।
ततः प्रकीर्णं सुमहद्वलं तव प्रपीडितं सवितुरिवौजसा भृशम् ॥

8.83.94

ततोऽर्जुनस्वाशु रथेन केशव-- श्चकार शत्रूनपसव्यमातुरान् ।
ततः प्रयातं त्वरितं धनञ्जयं शतक्रतुं वृत्रनिजघ्रुषं यथा । समन्वधावन्पुनरुत्थितैर्ध्वजै रथैः सुयुक्तैरपरे युयुत्सवः ॥

8.83.95

अथाभिसृत्य प्रतिवार्य चाहितान् धनञ्जयस्यानुचरान्महारथाः ।
शिखण्डिशैनेययमाः शितैः शरै--- र्विदारयन्तो व्यनदन्सुभैरवम् ॥

8.83.96

ततोऽभिजघ्नुः कुपिताः परस्परं शरैस्तदाञ्चोगतिभिः सुतेजनैः ।
कुरुप्रवीराः सह पृञ्जयैर्यथा सुरारयो देवपतिं यथा तथा ॥

8.83.97

जयेप्सवः स्वर्गमनाय चोत्सुकाः पतन्ति नागाश्वरथाः परन्तप ।
तथैव सर्वे बहवश्च विव्यधुः शरैः सुमुक्तैरितरेतरं पृथक् ॥

8.83.98

शरान्धकारे तु महात्मभिः कृते महामृधे योधवरैः परस्परम् ।
चतुर्दिशो वै विदिशश्च पार्थिव प्रभा च सूर्यस्य तमोवृताऽभवत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc