भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.79

8.79.1

समागमे पाण्डवसृञ्जयानां महाभये मामकानामगाधे ।
धनञ्जये तात रणाय याते कर्णेन तद्युद्वमथोऽत्र कीदृक् ॥ ]
सञ्जय उवाच ।

8.79.2

तेषामनीकानि महाध्वजानि रणे समृद्धानि सुसङ्गतानि ।
भेरीनिरादोन्मुखराण्यन्गर्ज-- न्मेघा इव प्रावृषि मारुतास्ताः ॥

8.79.3

महागजाभ्राकुलमस्त्रतोयं वादित्रनेमीतलशब्दवच्च ।
हिरण्यचित्रायुधविद्युतं च शरासिनाराचमहास्त्रधारम् ॥

8.79.4

तद्भीमवेगं रुधिरौघवाहि खङ्गाकुलं क्षत्रियजीवघाति ।
अनार्तवं क्रूरमनिष्टवर्षं बभूव संरम्भकरं प्रजानाम् ॥

8.79.5

एकं रथं सम्परिवार्य मृत्युं नयन्त्यनेके च रथाः समेताः ।
एकस्तथैकं रथिनं रथाग्र्यां-- स्तथा रथश्चापि रथाननेकान् ॥

8.79.6

रथं ससूतं सहयं च कञ्चि-- त्कश्चिद्रती मृत्युवशं निनाय ।
निनाय चाप्येकगजेन कश्चि-- द्रथान्बहून्मृत्युवशे तथाश्वान् ॥

8.79.7

रथान्ससूतान्सहयान्गजांश्च सर्वानरीन्मृत्युवशं शरौघैः ।
निन्ये हयांश्चैव तथा ससादी-- न्पदातिसङ्घांश्च तथैव पार्थः ॥

8.79.8

कृपः शिखण्डी च रणे समेतौ दुर्योधनं सात्यकिरध्यगच्छत् ।
श्रुतश्रवा द्रोणपुत्रेण सार्धं युधामन्युश्चित्रसेनेन सार्धम् ॥

8.79.9

कर्णस्य पुत्रं तु रथी सुषेणं समागतं सृञ्जयश्चोत्तमौजाः ।
गान्धारराजं सहदेवोऽक्षधूर्तं महर्षभं सिंह इवाभ्यधावत् ॥

8.79.10

शतानीको नाकुलिः कर्णपुत्रं युवा युवानं वृषसेनं शरौघैः ।
समार्पयत्कर्णपुत्रश्च शूरः पाञ्चालेयं शरवर्षैरनेकैः ॥

8.79.11

रथर्षभः कृतवर्माणभार्च्छ-- न्माद्रीपुत्रो नकुलश्चित्रयोधी ।
पाञ्चालानामधिपो याज्ञसेनिः सेनापतिः कर्णमार्च्छत्ससैन्यम् ॥

8.79.12

दुःशासनो भारत भारतं तु व्यात्ताननं क्रूरमिवान्तकाभम् ।
भीमं रणे शस्त्रभृतां वरिष्ठं भीमं समार्च्छत्तमसह्यवेगम् ॥

8.79.13

कर्णात्मजं तत्र जघान वीर-- स्तथाच्छिनच्चोत्तमौजाः प्रसह्य ।
तस्योत्तमाङ्गं निपपात भूमौ निनादयद्गां निनदेन खं च ॥

8.79.14

सुषेणशीर्षं पतितं पृथिव्यां विलोक्य कर्णोऽथ तदार्तरूपः ।
क्रोधाद्धयांस्तस्य रथं ध्वजं च बाणैः सुधारैर्निशितैरकृन्तत् ॥

8.79.15

स तूत्तमौजा निशितैः पृषत्कै-- र्विव्याध खङ्गेन च भास्वरेण ।
पार्ष्णिग्रहांश्चैव कृपस्य हत्वा शिखण्डिवाहं स ततोऽध्यरोहत् ॥

8.79.16

कृपं तु दृष्ट्वा विरथं रथस्थो नैच्छच्छरैस्ताडयितुं शिखण्डी ।
तं द्रौणिरावार्य रथं कृपस्य समुज्जहे पङ्कगतां यथा गाम् ॥

8.79.17

हिरण्यवर्मा निशितैः पृषत्कै-- स्तवात्मजानामनिलात्मजो वै ।
अतापयत्सैन्यमतीव भीमः काले शुचौ मध्यगतो यथाऽर्कः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc