भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.75

8.75.1

इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् ।
बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ॥

8.75.2

ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् ।
कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ॥

8.75.3

असिना तीक्ष्णधारणे हन्या धर्मे व्यस्थितम् ।
त्वमित्युक्त्वाथ राजानमेवं कश्मलमाविशः ॥

8.75.4

हत्वा तु नृपतिं पार्थ करिष्यसि किमुत्तरम् ।
एवं हि दुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ॥

8.75.5

स भवान्धर्मभीरुत्वाद्धवं यायान्महत्तमः ।
नरकं घोररूपं च भ्रातुर्ज्येतुस्य वै वथात् ॥

8.75.6

स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् ।
प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम ॥

8.75.7

प्रसाद्य भक्त्या राजानं प्रीते चैव युधिष्ठिरे ।
प्रयावस्त्वरितौ योद्धुं सूतपुत्ररथं प्रति ॥

8.75.8

हत्वा तु समरे कर्णं त्वमद्य निशितैः शरैः ।
विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ॥

8.75.9

एतदत्र महाबाहो प्राप्तकालं मतं मम ।
एवं कृते कृतं चैव तव कार्यं भविष्यति ॥
सञ्जय उवाच ।

8.75.10

ततोऽर्जुनो महाराज लज्जपा वै समन्वितः ।
धर्तराजस्य चरणौ प्रपद्य शिरसा नतः ॥

8.75.11

उवाच भरतश्रेष्ठं प्रसीदेति पुनः पुनः ।
क्षमस्व राजन्यत्प्रोक्तस्त्वं मया धर्मभीरुणा ॥

8.75.12

पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः ।
धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभम् ॥

8.75.13

उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम् ।
समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ॥

8.75.14

रुदित्वा सुचिरं कालं भ्रातरौ सुमहाद्युती ।
कृतशौचौ महाराज प्रीतिमन्तौ बभूवतुः ॥

8.75.15

तत आश्लिष्य तं प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवः । प्रीत्या परमया युक्तो विस्मयंश्च पुनःपुनः ।
अब्रवीत्तं महेष्वासं धर्मराजो धनञ्जयम् ॥

8.75.16

कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः । कवचं च ध्वजं चैव धनुः शक्तिर्हयाः शराः ।
शरैः कृत्ता महेष्वास यतमानस्य संयुगे ॥

8.75.17

सोऽहं दृष्ट्वा रणे तस्य कर्ण कर्णस्य फल्गुन ।
व्यवसीदामि दुःखेन न तु मे जीवितं प्रियम् ॥

8.75.18

न चेदद्य हि तं वीरं निहनिष्यसि संयुगे ।
प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ॥

8.75.19

एवमुक्तः प्रत्युवाच विजयो भरतर्षभ ॥

8.75.20

सत्येन ते शपे राजंस्त्वत्पादेन तथैव च ।
भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ॥

8.75.21

अहमेनं नरश्रेष्ठ सामात्यं च महीपते । यथाद्य समरे कर्णं हनिष्यामि हतोपि वा ।
महीतले पतिष्यामि सत्येनायुधमालभे ॥

8.75.22

एवमाभाष्य राजानमब्रवीन्माधवं वचः । अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः ।
त्वमनुध्याहि भद्रं ते वधं तस्य दुरात्मनः ॥

8.75.23

एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम ।
शक्तोऽसि भरतश्रेष्ठ यत्नं कर्तुं यदात्थ माम् ॥

8.75.24

एष चापि हि मे कामो नित्यमेव महारथ ।
कथं भवान्रणे कर्णं निहन्यादिति सत्तम ॥

8.75.25

एवमुक्तस्ततो राजन्पार्थो वचनमब्रवीत् ।
हन्यते द्वैरथे भूयो युज्यन्तां वै रथोत्तमे ॥

8.75.26

उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिभिः ।
रथोपकरणैः सर्वैः सत्वरं यातु मे रथः ॥

8.75.27

एवमुक्तो महाराज फल्गुनेन महात्मना । उवाच दारुकं कृष्णः कुरु सर्वं यदब्रवीत् ।
अर्जुनो भारतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥

8.75.28

आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम । योजयामास च रथं वैयाघ्नं शत्रुतापनम् ।
सज्जं निवेदयामास पाण्डवस्य महात्मनः ॥

8.75.29

युक्तं तु रथमास्थाय दारुकेण महात्मना । उपस्थितं रथं दृष्ट्वा पद्मनाभो रणान्तकृत् ।
भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् ॥

8.75.30

युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि ।
अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः ॥

8.75.31

श्रुत्वा ह्यावां महासंख्ये त्वां कर्णशरपीडितम् ।
प्रवृत्तिं ज्ञातुमायाताविहावां पाण्डुनन्दन ॥

8.75.32

दिष्ट्यासि राजन्विरुजो दिष्ट्या न ग्रहणं गतः ।
परिसान्त्वय बीभत्सुं जयमाशाधि चानघ ॥
युधिष्ठिर उवाच ।

8.75.33

एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव ।
वक्तव्यमुक्तोस्म्यहितं त्वया क्षान्तं च तन्मया ॥

8.75.34

अहं त्वामनुजानामि जहि कर्णं धनञ्जय ।
मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणं ॥
सञ्जय उवाच ।

8.75.35

ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा ।
पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ॥

8.75.36

तमुत्थाप्य ततो राजा परिष्वज्य च पीडितम् ।
मूर्ध्नुपाघ्राय चैवैनमिदं पुनरुवाच ह ॥

8.75.37

धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया ।
माहात्म्यं विजयं चैवं भूयः प्राप्नुहि शाश्वतम् ॥
अर्जुन उवाच ।

8.75.38

अद्य तं पापकर्माणं सानुबन्धं रणे शरैः ।
नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् ॥

8.75.39

येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् ।
तस्याद्य कर्मणः कर्णः फलमाप्स्यति दारुणम् ॥

8.75.40

अद्य त्वामुपयास्यामि कर्णं हत्वा महीपते ।
सभाजये त्वामाक्रन्दादिति सत्यं ब्रवीमि ते ॥

8.75.41

नाहत्वा विनिषर्तिष्ये कर्णमद्य रणाजिरात् ।
इति सत्येन ते पादौ स्पृशामि जगतीपते ॥
सञ्जय उवाच ।

8.75.42

इति ब्रुवाणं सुमनाः किरीटिनं युधिष्ठिरः प्राह वचो बृहत्तरम् ।
यशोऽक्षयं जीवितमीप्सितं ते जयं सदा वीर्यमरिक्षयं तदा ॥

8.75.43

प्रयाहि वृद्धिं च दिशन्तु देवता यथाहमिच्छामि तवास्तु तत्तथा ।
प्रयाहि शीघ्रं जहि कर्णमाहवे पुरन्दरो वृत्रमिवात्मवृद्वये ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc