भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.72

8.72.1

युधिष्ठिरेणैxxxxक्तः कौन्तेयः श्वेतवाहनः ।
असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम् ॥

8.72.2

तस्य कोपं समाज्ञाय चित्तज्ञः केशवस्तदा ।
उवाच किमिदं खङ्गं गृह्णास्यर्जुन शम्म मे ॥

8.72.3

नेह पश्यामि योद्धव्यं त्वया किञ्चिद्वनञ्जय ।
नेहागता धार्तराष्ट्राः सर्वे भीमेन वारिताः ॥

8.72.4

उपागतोऽसि कौन्तेय राजा द्रष्टव्य इत्यसौ ।
स राजा भवता दृष्टः कुशली च युधिष्ठिरः ॥

8.72.5

तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् ।
हर्षकाले च सम्प्राप्ते कस्मात्त्वां मन्युराविशत् ॥

8.72.6

न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह ।
प्रहर्तुमिच्छसे कस्मात्किं वा ते चित्तविभ्रमः ॥

8.72.7

कस्माद्भवान्महाखङ्गं परिगृह्णात्यकारणात् ।

8.72.8

तत्त्वां पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् ।
परामृशसि यत्क्रुद्धः खङ्गमद्भुतविक्रम ॥

8.72.9

एवमुक्तः कटाक्षेण प्रेक्षमाणो युधिष्ठिरम् ।
अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ॥

8.72.10

अन्यस्मै देहि गाण्डीवमिति मां यः प्रचोदयेत् । भिन्द्यामहं तस्य शिर इत्युपांशु व्रतं मम ।
युधिष्ठिरेण तेनाहमुक्तश्चास्मि जनार्दन ॥

8.72.11

यदुक्तोऽहमदीनार्थं राज्ञाऽनेन यशस्विना ।
समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ॥

8.72.12

तस्मादेनं विधिष्यामि राजानं धर्मचारिणाम् ।
प्रतिज्ञां पालयिष्यामि हत्वैनं नरसत्तमम् ॥

8.72.13

एतदर्थं मया खह्गो गृहीतो यदुनन्दन । सोऽहं युधिष्ठिरं हत्वा सत्यस्यानृण्यतां गतः ।
विशोको विज्वरश्चापि भविष्यामि जनार्दन ॥

8.72.14

किं वा त्वं मन्यसे प्राप्तमस्मिन्कार्य उपस्थिते ।
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ॥

8.72.15

जातस्त्वत्तो हि धर्मश्चाधर्मश्चेति परा श्रुतिः ।
तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ॥
सञ्जय उवाच ।

8.72.16

धिग्धिगित्येव गोविन्दः पार्थमुक्त्वाब्रवीत्पुनः ॥
कृष्ण उवाच ।

8.72.17

इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया ।
अकाले पुरुषव्याघ्र संरम्भं यद्भवानगात् ॥

8.72.18

न हि धर्मविगज्ञैरेवं कार्यं धनञ्जय ।
यथा त्वं पाण्डवाद्येह धर्मभीरुरण्डितः ॥

8.72.19

योऽकार्याणां क्रियायाश्च संयोगं नावबुध्यते ।
कार्याणामक्रियायाश्च स पार्थ पुरुषाधमः ॥

8.72.20

अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः ।
समासविस्तरविदां न तेषां वेत्सि निश्चयम् ॥

8.72.21

अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये ।
एवं स मुह्यत्यवशो यथा त्वं पार्थ मुह्यसि ॥

8.72.22

न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन ।
श्रुतेन ज्ञायते सर्वं तच्च त्वं नावहुध्यसे ॥

8.72.23

अविज्ञानादिह भवान्सत्यं रक्षति धर्मवित् ।
प्राणिनां त्वं वधं पार्थ धार्मिको नावबुध्यसे ॥

8.72.24

प्राणिनां हि वधात्तात वृथा धर्मो मतो मम ।
अनृतं तु भवेद्वाच्यं न तु हिंसा कदाचन ॥

8.72.25

स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् ।
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ॥

8.72.26

अयुध्यमानस्य गुरोस्तथाऽशत्रोश्च मानद ।
पराङ्मुखस्य द्रवतः शरणं चापि गच्छतः ॥

8.72.27

कृताञ्जलेः प्रपन्नस्य प्रमत्तस्य तथैव च ।
न वधः पूज्यते सद्भिस्तच्च सर्वं गुरौ तव ॥

8.72.28

त्वया चैतद्व्रतं पार्थ बालेनेव कृतं पुरा ।
तस्मादधर्मसंयुक्तं मौर्ख्यादेव व्यवस्यसि ॥

8.72.29

स्वगुरुं पार्थ कस्मात्त्वं हन्तुकामोऽभिधावसि ।
असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरत्ययाम् ॥

8.72.30

इदं धर्मरहस्यं च तव वक्ष्यामि पाण्डव ।
यद्ब्रूयात्तव भीष्मो वा राजा वापि युधिष्ठिरः ॥

8.72.31

विदुरो वा पुनः क्षत्ता गान्धारी वा यशस्विनी । कुन्ती वा भरतश्रेष्ठ द्रौपदी वा यशस्विनी ।
तत्ते वक्ष्यामि तत्त्वेन निबोधैतद्धनञ्जय ॥

8.72.32

सत्यस्यं वचनं साधु न सत्याद्विद्यते परम् ।
सुदुर्विदं हि तत्त्वेन तत्सत्यमिति मे सतिः ॥

8.72.33

भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् ।
यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥

8.72.34

विवाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वत्रनापहारे ।
विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि ॥

8.72.35

सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ॥
तत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥

8.72.36

तादृशो हन्यते बालो यस्य सत्यमनिश्चितम् ।
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥

8.72.37

किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः ।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥

8.72.38

किमाश्चर्यं पुनर्मूढो धर्मकामो ह्यपण्डितः ।
सुमहत्प्राप्नुयात्पापमापगास्विव कौशिकः ॥
अर्जुन उवाच ।

8.72.39

आचक्ष्व भगवन्नेतद्यथा विन्दाम्यहं तथा ।
वलाकस्यानुसम्बद्धं नदीनां कौशिकस्य च ॥
वासुदेव उवाच ।

8.72.40

मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत ।
यात्रार्थं पुत्रदाराणां मृगान्हन्ति न कामतः ॥

8.72.41

वृद्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् ।
स्वधर्मनिरतो नित्यं संविभज्यानसूयकः ॥

8.72.42

स कदाचिन्मृगप्रेप्सुर्नान्वविन्दन्मृगं क्वचित् ।
अथापश्यत्स पीवानं श्वापदं घ्राणचक्षुषम् ॥

8.72.43

अदृष्टपूर्वमपि तत्सत्वं तेन हतं तदा ।
अन्धे हते ततो व्योम्नः पुष्पवर्षं पपात च ॥

8.72.44

अप्सरोगीतवादित्रैर्नादितं च मनोरमम् ।
विमानमगमत्स्वर्गान्मृगव्याधनिनीषया ॥

8.72.45

तद्भूतं सर्वभूतानामभावाय किलार्जुन ।
तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयम्भुवा ॥

8.72.46

तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् ।
बलाकोऽगात्स्वर्गलोकमेवं धर्मः सुदुर्विदः ॥

8.72.47

कौशिकोऽप्यभवद्विप्रस्तपस्वीनो बहुश्रुतः ।
नदीनां सङ्गमे ग्रामाददूरे स किलावसत् ॥

8.72.48

सत्यं मया सदा वाच्यमिति तस्याभवद्द्वतम् ।
सत्यवादीति विख्यातः स तदासीद्धनञ्जय ॥

8.72.49

अथ दस्युभयात्केचित्तदा तद्वनमाविशन् ।
तत्रापि दस्यवः क्रुद्धास्तानमार्गन्त यत्नतः ॥

8.72.50

अथ कौशिकमभ्येत्य प्रोचुस्ते सत्यवादिनम् । कतरेण पथा याता भगवन्निति वै जनाः ।
सत्येन पृष्टः प्रब्रूहि यदि तद्वेत्थ शंस नः ॥
श्रीकृष्ण उवाच ।

8.72.51

सत्यस्य त्वविभागज्ञः सत्यं तेभ्यः शशंस ह । बहुवृक्षलतागुल्ममेतद्गहनमाश्रिताः ।
इति तान्ख्यापयामास तेभ्यस्तत्त्वं स कौशिकः ॥

8.72.52

ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ।
ततोऽधर्मेण महता वाग्दुरुक्तेन कौशिकः ॥

8.72.53

गतः सुकष्टं निरयं धर्मसूक्ष्मेष्वतत्त्ववित् ।
दृष्टपूर्वश्रुतो मूढो धर्माणामविशारदः ॥

8.72.54

वृद्धानपृच्छन्सन्देहानन्धः श्वभ्रमिवर्च्छति ॥

8.72.55

तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति ।
दुष्करं प्रतिसंख्यानं कार्त्स्न्येनात्र व्यवस्थितिः ॥

8.72.56

सत्यं धर्म इति ह्येके वदन्ति बहवो जनाः ।
न च पार्थाभ्यसूयामि नैतत्सर्वत्र शिष्यते ॥

8.72.57

श्रुतिस्तु धार्या इत्येके वदन्ति बहवो जनाः ।
न त्वेतत्प्रत्यसूयामि तत्र सर्वं विधीयते ॥

8.72.58

यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः । अहिंसार्थाय हिंस्राणां धर्मप्रवचनं कृतम् ।
धारणाद्धर्ममित्याहुर्धर्मो धारयते प्रजाः ॥

8.72.59

प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ।
यस्मात्प्रभवसंयुक्तः स धर्म इति निश्चयः ॥

8.72.60

येऽन्यायेन जिगीषन्तो धर्मं पृच्छन्ति मानवाः ।
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन ॥

8.72.61

अवश्यं कूजितव्ये ह शङ्केरन्वाप्यकूजनात् । येऽन्यायेन जिहीर्षन्तो धर्मं पृच्छन्ति कस्यचित् ।
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विनिश्चित्म् ॥

8.72.62

प्राणात्यये विवाहे वा सर्वजात्या महाभये ।
सर्वस्वस्य च लोपे वा वक्तव्यमनृतं भवेत् ॥

8.72.63

अधर्मं हि न पश्यन्ति मृषोद्यं तत्र पण्डिताः ।
सर्वथाऽभिवदेत्तत्तु नानृतं स्याद्विचक्षणः ॥

8.72.64

यः स्तेनैः सह सम्बन्धो मुच्यते शपथादपि ।
भवेत्तत्रानृतं श्रेयः सत्यादिति विचारितम् ॥

8.72.65

न च तेभ्यो धनं देयं सत्यादिति कथञ्चन । पापेभ्योऽपि धनं दत्तं दातारमपि पीडयेत् ।
तस्माद्धर्मार्थमनृतमुक्त््वा नानृतवाग्भवेत् ॥

8.72.66

एष ते लक्षणोद्देशो मयोद्दिष्टो यथाविधि ।
एतज्ज्ञात्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः ॥
अर्जुन उवाच ।

8.72.67

यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महायशाः ॥

8.72.68

सुहृद्ब्रूयाद्यथाऽस्माकं तथोक्तं वचनं त्वया । भवान्मातृसमोऽस्माकं भवान्पितृसमोऽपि च ।
गतिश्च परमा कृष्ण त्वमेव च परायणम् ॥

8.72.69

न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् ।
तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ॥

8.72.70

अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् ।
अधर्मयुक्ते संयोगे ब्रूहि किञ्चिदनुग्रहम् ॥

8.72.71

इदं चापरमत्रैव ब्रूहि तत्त्वं विवक्षितम् ॥

8.72.72

जानासि दाशार्ह मम व्रतं तु यो मां ब्रूयात्कश्चन मानुषेषु ।
अन्यस्मै त्वं गाण्डिवं देहि पार्थ यो मत्तोऽस्त्रे वीर्यतो वा विशिष्टः ॥

8.72.73

हन्यामहं केशव तं प्रसह्य भीमो हन्यात्तूवरकेति चोक्तः ।
वन्मां राजा ह्युक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिवीरे ॥

8.72.74

तं हन्यां चेत्केशव जीवलोके स्थाता नाहं कालमप्यल्पमात्रम् ।
ध्यात्वा नूनं ह्येनसा चापि मुक्तो वधं राज्ञो भ्रष्टवीर्यो विचेताः ॥

8.72.75

यथा प्रतिज्ञा मम लोकबुद्धौ भवेत्सत्या धर्मभृतां वरिष्ठ ।
यथा जीवत्पाण्डवोऽहं च कृष्ण तथा बुद्धिं दातुमप्यर्हसि त्वम् ॥
वासुदेव उवाच ।

8.72.76

राजा श्रान्तो विक्षतो दुःखितश्च कर्णेन सह्ख्ये निशितैर्बाणसङ्घैः ।
यश्चानिशं सूतपुत्रेण वीर शरैर्भृशं ताडितो युध्यमानः ॥

8.72.77

अतस्त्वमेतेन सरोषमुक्तो दुःखान्वितेनेदमयुक्तरूपम् ।
अकोपितो ह्येष यदि स्म सङ्ख्ये कर्णं न हन्यादिति चाब्रवीत्सः ॥

8.72.78

जानाति तं पाण्डव एष चापि पापं लोके कर्णमसह्यमन्यैः ।
ततस्त्वमुक्तो भृशरोषितेन राज्ञा समक्षं परुषाणि पार्थ ॥

8.72.79

नित्योद्युक्ते सततं चाप्रसह्ये कर्णे द्यूतं ह्यद्य रणे निबद्धम् ।
तस्मिन्हते कुरवो निर्जिताः स्यु-- रेवं बुद्धिः पार्थिवे धर्मपुत्रे ॥

8.72.80

ततो बधं नार्हति धर्मपुत्र-- स्त्वया प्रतिज्ञाऽर्जुन पालनीया ।
जीवन्नयं येन मृतो भवेद्धि तन्मे निबोधेह तवानुरूपम् ॥

8.72.81

यदा मानं लभते माननार्ह-- स्तदा स वै जीवति जीवलोके ।
यदाऽवमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः ॥

8.72.82

सम्मानितः पार्थिवोऽयं सदैव त्वया च भीमेन तथा यमाभ्याम् ।
वृद्धैश्च लोके पुरुषैश्च शूरै-- स्तस्यापमानं कलया प्रयुङ्क्ष्व ॥

8.72.83

त्वमित्यत्रभवन्तं हि ब्रूहि पार्थ युधिष्ठिरम् ।
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ॥

8.72.84

एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे ।
अधर्मयुक्तं संयोगं कुरुष्वैनं कुरूद्वह ॥

8.72.85

अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः ।
अविचार्यैव कार्यैषा श्रेयस्कामैर्नरैः सदा ॥

8.72.86

अवधेन वधः प्रोक्तो यद्गुरुस्त्वमिति प्रभुः ।
तद्ब्रूहि त्वं यन्मयोक्तं धर्मराजस्य धर्मवित् ॥

8.72.87

यदा ह्यं पाण्डव धर्मराज-- सत्वत्तोऽयुक्तं लप्स्यते चैव साधु ।
ततोऽस्य पादावभिवाद्य पश्चा-- च्छ्रेयो ब्रूयात्सान्त्वयुक्तं हितं च ॥

8.72.88

भ्राता प्राज्ञस्तव कोपं न जातु कुर्याद्राजा धर्ममार्गानुसारी ।
मुक्तोऽनृताद्वातृवधाच्च पापा-- द्धृष्टः कर्णं त्वं जहि पार्थ पश्चात् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc