भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.59

8.59.1

ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम ।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥

8.59.2

धनूंषि बाणान्परिघानसिपट्टसतोमरान् ।
मुसलानि भुशुण्डीश्च शक्तिरिष्टिपरश्वथान् ॥

8.59.3

गदाः प्रासाञ्शितान्कुन्तान्भिण्डिपालान्महाङ्कुशान् ।
प्रगृह्य क्षिप्रमापेतुः परस्परजिघांसया ॥

8.59.4

बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् ।
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ॥

8.59.5

तेन शब्देन महता संहृष्टाश्चक्रुराहवम् ।
वीरा वीरैर्महाप्तोरकलहान्तं तितीर्षवः ॥

8.59.6

ज्यातलत्रधनुःशब्दाञ्शस्त्राणां च निपात्यताम् ।
ताडितानां च पतता निनादांश्च पदातिनाम् ॥

8.59.7

बाणशब्दांश्च विविधाञ्शूराणां चाभिगर्जताम् ।
श्रुत्वा गजा भृशं त्रेसुः पेतुर्मम्लुश्च सैनिकाः ॥

8.59.8

तेषां निनदतां चैव शस्त्रवर्षं च मुञ्चताम् ।
बहूनाधिरथिर्वीरः प्रममाथेषुभिः परान् ॥

8.59.9

पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च ।
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ॥

8.59.10

योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे ।
शिक्षितास्तमभिद्रुत्य परिवव्रुः समन्ततः ॥

8.59.11

ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् ।
विजगाहाण्डजाकीर्णां पद्मिनीमिव यूथपः ॥

8.59.12

द्विषत्सैन्यमवस्कन्द्य राधेयो धनुरुत्तमम् ।
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ॥

8.59.13

हस्तिनः समहामात्रान्साश्वारोहान्हयानपि ।
रथिनोऽप्येकबाणेन भ्रमतश्चावपातयत् ॥

8.59.14

वर्म वा चर्म वाऽश्रित्य निपातमपि देहिनः ।
विषेहुर्नास्य संस्पर्शं द्वितीयस्य पतत्त्रिणः ॥

8.59.15

वर्मयुक्तेषु देहेषु धनुषोऽस्यञ्शिताञ्शरान् ।
मौर्व्या तलत्रे न्यहनत्कशया वाजिनो यथा ॥

8.59.16

पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमागतान् ।
ममर्द तरसा कर्णः सिंहो मृगगणानिव ॥

8.59.17

ततः पाञ्चालपुत्रश्च द्रौपदेयाश्च मारिष ।
यमौ च युयुधानश्च त्वरिताः कर्णमभ्ययुः ॥

8.59.18

तेषु व्यायच्छमानेषु कुरुपाञ्चालपाण्डुषु ।
प्रियानसून्रणे त्यक्त्वा योधा जघ्नुः परस्परम् ॥

8.59.19

सुसन्नद्धाः कवचिनः सशिरस्त्राणभूषणाः ।
गदाभिर्मुसलैश्चान्ये परिघैश्च महाबालाः ॥

8.59.20

समभ्यधावन्त भृशं कालदण्डैरिवोद्यतैः ।
नर्दन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ॥

8.59.21

ततो निजघ्नुरन्योन्यं पेतुश्चान्योन्यताडिताः ।
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षमायुधाः ॥

8.59.22

दन्तपूर्णैः सरुधिरैर्वक्रैर्दाडिमसन्निभैः ।
जीवन्त इव चाप्येके तस्थुः शस्त्रौघबृंहिताः ॥

8.59.23

परश्वथैश्चाप्यपरे पट्टसैरसिभिस्तथा ।
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ॥

8.59.24

ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा ।
सञ्चकर्तुश्च जघ्नुश्च राजन्योधा महारणे ॥

8.59.25

पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः ।
क्षरन्तः स्वरसं रक्तं प्रकृत्ताश्चन्दना इव ॥

8.59.26

रथै रथा विनिहता हस्तिभिश्चापि हस्तिनः ।
नरैर्नरा हताः पेतुरश्वाश्चाश्वैः सहस्रशः ॥

8.59.27

ध्वजाः शिरांसि च्छिन्नाः पेतुर्महीतले ॥ वध्यतां दारुणाः शब्दाः पततां स्तनतामपि ।

8.59.28

क्षुरैर्भल्लार्धचन्द्रैश्च च्छिन्नाः पेतुर्महीतले ॥
नराश्वेभरथानां हिनराश्वेभरथैस्तथा ॥

8.59.29

नरांश्च नागांश्च रथान्हयान्ममृदुराहवे ॥

8.59.30

अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ।
सपताकाध्वजाः पेतुर्विशीर्णा इव पर्वताः ॥

8.59.31

पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ।
हताश्च हन्यमानाश्च पतिताश्चैव सर्वशः ॥

8.59.32

अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ।
सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते ॥

8.59.33

मृदितानीव पद्मानि प्रम्लाना इव च स्रजः ।
हतानां वदनान्यासन्गात्राणि च महाहवे ॥

8.59.34

रूपाण्यत्यर्थकान्तानि द्विरदाश्वनृणां नृप ।
समुन्नानीव वस्त्राणि ययुर्दुर्दुर्शतां पराम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc