भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.52

8.52.1

कथं संशप्तकैः सार्धमर्जुनस्याभवद्रणः ।
सूतपुत्रस्य पाञ्चालैः कथं युद्धं प्रवर्तितम् ॥

8.52.2

अश्वत्थाम्नस्तु यद्युद्धमर्जुनस्य च सञ्जय ।
अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे ॥
सञ्जय उवाच ।

8.52.3

शृणु राजन्यथावृत्तं सङ्ग्रामं ब्रुवतो मम ।
वीराणां शत्रुभिः सार्धं देहपाप्मविनाशनम् ॥

8.52.4

पार्थः संशप्तकबलं प्रविश्यार्णवसन्निभम् ।
व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् ॥

8.52.5

पूर्णचन्द्राभवक्राणि स्वक्षिभ्रूदशनानि च । शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः ।
सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव ॥

8.52.6

सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् । सायुधान्सतलत्रांश्च पञ्चास्योरगसन्निभान् ।
बाहून्क्षुरैरमित्राणां चिच्छेद समरेऽर्जुनः ॥

8.52.7

धुर्यान्धुर्योतरान्सूतान्ध्वजांश्चापानि सायकान् ।
पाणीन्नितान्तनिशितैर्भल्लैश्चिच्छेद पाण्डवः ॥

8.52.8

रथान्द्विपान्हयांश्चैव सारोहानर्जुनो युधि ।
शरैरनेकसाहस्रैर्निन्ये राजन्यमक्षयम् ॥

8.52.9

तं प्रवीराः सुसंरब्धा नर्दमाना इवर्षभाः । वासितार्थमिव क्रुद्धमभिद्रुत्य महोत्कटाः ।
निघ्न्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः ॥

8.52.10

तस्य तेषां च तद्युद्वमभवद्रोमहर्षणम् ।
त्रैलोक्यविजये यद्वद्दैत्यानां सह वज्रिणा ॥

8.52.11

अस्त्रैस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः ।
इषुभिर्बहुभिस्तूर्णं विद्व्वा प्राणाञ्जहार सः ॥

8.52.12

छिन्नत्रिवेणुचक्राक्षान्हतयोधान्ससारथीन् ।
विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् ॥

8.52.13

सञ्छिन्नयोक्ररश्मीषान्वित्रिवेणून्विकूबरान् ।
विस्रस्तबन्धुरयुगान्विस्रस्ताक्षप्रमण्डलान् ॥

8.52.14

रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः ॥

8.52.15

विस्मापकं प्रेक्षकाणां द्विषतां भयवर्धनम् ।
महारथसहस्रस्य समं कर्माकरोज्जयः ॥

8.52.16

सिद्धदेवर्षिसङ्घाश्च चारणाश्चापि तुष्टुवुः ॥

8.52.17

देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् ।
केशवार्जुनयोर्मूर्ध्नि प्राह वाक्वाशरीरिणी ॥

8.52.18

चन्द्राग्न्यनिलसूर्याणां कान्तिदीप्तिबलद्युतीः ।
यौ सदा बिभ्रतुर्वीराविमौ तौ केशवार्जुनौ ॥

8.52.19

ब्रह्मेशानाविव पुरा वीरावेकरथे स्थितौ ।
सर्वभूतवरौ वीरौ नरनारायणाविमौ ॥

8.52.20

इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत ।
अश्वत्थामा सुसङ्क्रुद्धः कृष्णावभ्यद्रवद्रणे ॥

8.52.21

अथ पाण्डवमस्यन्तममित्रान्तकराञ्छरान् ।
सेषुणा पाणिनाऽहूय प्रहसन्द्रौणिरब्रवीत् ॥

8.52.22

यदि मां मन्यसे वीर प्राप्तमर्हमिहातिथिम् ।
ततः सर्वात्मना त्वद्य युद्वातिथ्यं प्रयच्छ मे ॥

8.52.23

एवमाचार्यपुत्रेण समाहूतो युयुत्सया ।
बहुमेनेऽर्जुनोऽत्मानमिति चाह जनार्दनम् ॥

8.52.24

संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् ।
यदत्रानन्तरं प्राप्तं शंस मे तद्वि माधव ॥

8.52.25

आतिथ्यकर्माभ्युत्थाय दीयतां यदि मन्यसे ।
एवमुक्तोऽवहत्पार्थं कृष्णोद्रोणात्मजान्तिके ॥

8.52.26

शैक्ष्येण विधिनाऽहूतं वायुरिन्द्रमिवाध्वरे ।
तमामन्त्र्यैकमनसं केशवो द्रौणिमब्रवीत् ॥

8.52.27

अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च ।
निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् ॥

8.52.28

सूक्ष्मो विवादो विप्राणां सूक्ष्मौ क्षास्त्रौ जयाजयौ ॥

8.52.29

नहि सन्क्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् ।
समाप्तिमिच्छन्युध्यस्व स्यिरो भूत्वाऽद्य पाण्डवं ॥

8.52.30

इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः ।
विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ॥

8.52.31

तस्यार्जुनः सुसङ्क्रुद्धस्त्रिभिर्बाणैः शरासनम् ।
चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः ॥

8.52.32

सज्यं कृत्वा निमेषाच्च विव्याधार्जुनकेशवौ ।
त्रिभिः शतैर्वासुदेवं सहस्रेण च पाण्डवम् ॥

8.52.33

ततः शरसहस्राणि प्रयुतान्यर्बुदानि च ।
ससृजे द्रौणिरायस्तः स्तम्भयामास चार्जुनम् ॥

8.52.34

इषुधेर्धनुषो ज्यायास्त्वङ्गुलिभ्यश्च मारिष ।
बाह्वोः कराभ्यामुरसो वदनाद्व्राणनेत्रतः ॥

8.52.35

कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्मभ्य एव च ।
रथध्वजाभ्यां च शरा निष्पेतुर्ब्रह्मवादिनः ॥

8.52.36

शरजालेन महता बद्ध्वा माधवपाण्डवौ ।
ननाद सुदितो द्रौणिर्महामेघौघनिःस्वनम् ॥

8.52.37

तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः ।
सञ्छादितौ रथस्थौ तावुभौ कृष्णधनञ्जयौ ॥

8.52.38

दतः शरxxxxxxक्ष्णैर्भारद्वाजः प्रतापवान् ।
निxxxxxचक्रे रथे माधवपाण्डवौ ॥

8.52.39

xxxxजङ्गमं स्थावरं तथा ।
चराचरसा मोप्तारौ दृष्ट्वा सञ्छादितौ शरैः ॥

8.52.40

सिद्धचारxxxxxश्च सम्पेतुर्शै समन्ततः ।
अपि xxxxxxxx लोकानामिति चाब्रुवन् ॥

8.52.41

न मया xxxxxxxxxx राजन्दृष्टपृर्वः पराकमः ।
xxxxxxxxxxxx कृष्णो छादयतो रणे ॥

8.52.42

xxxxxxxxxxxशब्दं रथानां त्रासनं रणे ।
xxxxxxxxxx राजन्सिंहस्य नदतो यथा ॥

8.52.43

चरतो युद्धे सव्यं दक्षिणमस्यतः ।
विद्युदम्भोधरस्येव भ्राजमाना व्यदृश्यत ॥

8.52.44

स तदा क्षिप्रकारी च दृढहस्तश्च पाण्डवः ।
प्रमोहं परमं गत्वा प्रेक्षन्नास्ते धनञ्जयः ॥

8.52.45

विक्रमं चरतो युद्धे सव्यं दक्षिणमस्यतः ।
विक्रमं च हृतं मेने आत्मनस्तेन संयुगे ॥

8.52.46

अथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ।
द्रौणेस्तत्कुर्वतः कर्म यादृग्रूपं पिनाकिनः ॥

8.52.47

वर्धमाने ततस्तत्र द्रोणपुत्रे विशाम्पते ।
हीयमाने च कौन्तेये कृष्णं रोषः समाविशत् ॥

8.52.48

स रोषान्निश्वसन्राजन्निर्दहन्निव चक्षुषा ।
द्रौणिं ददर्श सङ्ग्रामे फल्गुनं च मुहुर्मुहुः ॥

8.52.49

ततः कृष्णोऽब्रवीत्क्रुद्धः पार्थं सप्रणयं वचः ॥

8.52.50

अत्यद्भुततमिदं पार्थ त्वयि पश्यामि संयुगे ।
यत्त्वां विशेषयत्याजौ द्रोणपुत्रोऽद्य भारत ॥

8.52.51

कच्चित्ते गाण्डिवं हस्ते मुष्टिर्वा न व्यशीर्यत ।
कच्चिद्वीर्यं यथापूर्वं भुजयोर्वा बलं तव ॥

8.52.52

उदीर्यमाणं हि रणे पश्यामि द्रौणिमाहवे । गुरुपुत्र इति ह्येनं मानयन्पाण्डवर्षभ ।
उपेक्षां मा कृथाः पार्थ नायं काल उपेक्षितुम् ॥
अर्जुन उवाच ।

8.52.53

पश्य माधव दौरात्म्यं गुरुपुत्रस्य मां प्रति । वधं प्राप्तौ मन्यते नौ प्रावेश्य शवरेश्मनि ।
एषोस्मि हन्मि सङ्कल्पं शिक्षया च बलेन च ॥

8.52.54

एवमुक्त्वाऽस्य चिच्छेद भल्लैः कर्मारमार्जितैः ।
धनुश्छत्रं पताकां च रथशक्तिं गदां वराम् ॥

8.52.55

अश्वत्थाम्नः शरानस्ताञ्छित्त्वैकैकं त्रिधा त्रिधा ।
व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ॥

8.52.56

ततः संशप्तकान्भूयः साश्वसूतरथद्विपान् ।
ध्वजपत्तिगणानुर्ग्रैर्बाणैर्विव्याध पाण्डवः ॥

8.52.57

ये ये ददृशिरे तत्र यद्यद्रूपास्तदा जनाः ।
ते ते तत्र शरैर्व्याप्तं मेनिरेऽत्मानमात्मना ॥

8.52.58

ते गाण्डीवप्रमुक्तास्तु नानारूपाः पतत्रिणः ।
क्रोशे साग्रे स्थिताञ्जघ्नुर्द्विपांश्च पुरुषान्रणे ॥

8.52.59

भल्लैश्छिन्नाः कराः पेतुः करिणां मदवर्षिणाम् ।
यथा वने परशुभिर्निकृत्ताः शाल्मलिद्रुमाः ॥

8.52.60

पश्चात्तु शैलवत्पतुस्ते गजाः सह सादिभिः ।
वज्रिवज्रावमथिता यथैवाद्रिचयास्तथा ॥

8.52.61

गन्धर्वनगराकारान्रथांश्चैव सुकल्पितान् ।
विनीतैर्जवनैर्युक्तानास्थितान्युद्वदुर्मदैः ॥

8.52.62

शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् ।
स्वलङ्कृतानश्वसादीन्पत्तींश्चाहन्धनञ्जयः ॥

8.52.63

धनञ्जययुगान्तार्कः संशप्तकमहार्णवम् ।
व्यशोषयत दुःशोषं तीक्ष्णैः शरगभस्तिभिः ॥

8.52.64

पुनर्द्रौणिमहाशैलं नाराचैर्वज्रसन्निभैः ।
निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ॥

8.52.65

तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः ।
युयुत्सुरागमद्योद्धुं पार्थस्तानच्छिनच्छरान् ॥

8.52.66

ततः परमसङ्क्रुद्धः काण्डकोशमवासृजत् ।
अश्वत्थामाभिरूपाय गृहानतिथये यथा ॥

8.52.67

अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् ।
अपाङ्क्तेयानिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् ॥

8.52.68

स्थिताः संशप्तका राजन्दृष्ट्वा युद्वं महात्मनोः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc