भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.49

8.49.1

कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष ।
उलूकः सौबलश्चैव राजा च सह सोदरैः ॥

8.49.2

सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् ।
समुज्जह्रुः स्म वेगेन भिन्नां नावमिवार्णवे ॥

8.49.3

ततो युद्धमतीवासीन्मुहूर्तमिव भारत ।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥

8.49.4

कृपेण शरवर्षाणि प्रतिमुक्तानि संयुगे ।
सृञ्जयांश्छादयामासुः शलभानां व्रजा इव ॥

8.49.5

शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ ।
ववर्ष शरवर्षाणि समन्ताद्द्विजपुङ्गवम् ॥

8.49.6

कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् ।
शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ॥

8.49.7

ततः शिखण्डी कुपितः शरैः सप्तभिराहवे ।
कृपं विव्याध कुपितं कङ्कपत्रैरजिह्मगैः ॥

8.49.8

ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः । ततः सुनिशितैस्तीक्ष्णैः क्षुरप्रैर्हेमभूषितैः ।
व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः ॥

8.49.9

हताश्वात्तु ततो यानादवप्लुत्य महारथः ।
खङ्गं चर्म तथा गृह्य सत्वरं ब्राह्मणं ययौ ॥

8.49.10

तमापतन्तं सहसा शरैः सन्नतपर्वभिः ।
वारयामास समरे तदद्भुतमिवाभवत् ॥

8.49.11

तत्राद्भुतमपश्याम शिलानां प्लवनं यथा ।
निश्चेष्टो यद्रणे राजञ्छिखण्डी समतिष्ठत ॥

8.49.12

कृपेण वारितं दृष्ट्वा शिखण्डिनमथो नृप ।
प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ॥

8.49.13

धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति ।
प्रतिजग्राह वेगेन कृतवर्मा महारथः ॥

8.49.14

युधिष्ठिरमथायान्तं शारद्वतरथं प्रति ।
सपुत्रं सहसैन्यं च द्रोणपुत्रो न्यवारयत् ॥

8.49.15

नकुलं सहदेवं च त्वरमाणौ महारथौ ।
प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ॥

8.49.16

भीमसेनं करूशांश्च केकयान्सह सृञ्जयैः ।
कर्णो वैकर्तनो युद्धे वारयामास भारत ॥

8.49.17

शिखण्डिने ततो बाणान्कृपः शारद्वतो युधि ।
प्राहिणोत्तवरया युक्तो बीभत्सोरथ सन्निधौ ॥

8.49.18

ताञ्छरान्प्रेषितांस्तेन समन्तात्स्वर्णभूषितान् ।
चिच्छेद खङ्गमाविध्य भ्रामयंश्च पुनः पुनः ॥

8.49.19

शतचन्द्रं च तच्चर्म गौतमस्तस्य भारत ।
व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ॥

8.49.20

स विचर्मा महाराज खङ्गपाणिरुपाद्रवत् ।
कृपस्तं शरसङ्घातैराद्रवन्तमपीडयत् ॥

8.49.21

शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलः ।
चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ॥

8.49.22

विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः ।
अभ्यापतदमेयात्मा गौतमस्य रथं प्रति ॥

8.49.23

दृष्ट्वा विषक्तं तं चैव ब्राह्मणं च निवारितम् ।
अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ॥

8.49.24

सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः ।
विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ॥

8.49.25

अथास्य सशरं चापं पुनश्चिच्छेद मारिष ।
सारथिं च शरेणास्य मृशं मर्मस्वताडयत् ॥

8.49.26

गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् ।
सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ॥

8.49.27

स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे ।
भूमिकम्पे यथा वृक्षश्चचालाकम्पितो भृशम् ॥

8.49.28

चलतस्तस्य कायात्तुं शिरो ज्वलितकुण्डलम् ।
सोष्णीषं सशिरस्त्राणं क्षुरप्रेण त्वपातयत् ॥

8.49.29

तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् ।
ततोऽस्य कायो वसुधां पश्चात्प्रापतदच्युत ॥

8.49.30

तस्मिन्हते महाराज पुत्रास्तस्य पदानुगाः ।
गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥

8.49.31

धृष्टद्युम्नं तु समरे सन्निवार्य महारथः ।
कृतवर्माऽब्रवीद्वृष्टस्तिष्ठतिष्ठेति भारत ॥

8.49.32

तदभूत्तुमुलं युद्वं वृष्णिपार्षतयो रणे ।
आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोर्नृप ॥

8.49.33

धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः ।
आजघानोरसि क्रुद्वः पीडयन्हृदिकात्मजम् ॥

8.49.34

कृतवर्मा तु समरे पार्षतेन दृढाहतः ।
पार्षतं सरथं साश्वं छादयामास सायकैः ॥

8.49.35

सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते ।
मेघैरिव परिच्छन्नो भास्करो जलधारिभिः ॥

8.49.36

विधूय तं बाणगणं शरैः कनकभूषणैः ।
व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ॥

8.49.37

ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् ।
कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ॥

8.49.38

तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम् ।
शरैरनेकसाहस्रैर्हार्दिक्योऽवारयद्युधि ॥

8.49.39

दृष्ट्वा तु वारितां युद्धे शस्त्रवृष्टिं दुरासदाम् ।
कृतवर्माणमासाद्य वारयामास पार्षतः ॥

8.49.40

यथा युग्मरथेनाजौ वाहान्वाहेरमिश्रयत् ।
गृहीत्वा चर्म खङ्गं च रथं तस्यावपुप्लुवे ॥

8.49.41

मिलितेष्वथ वाहेषु प्रत्यासन्ने च पार्षते ।
दृष्ट्वाऽपदानं तस्याशु गदां जग्राह सात्वतः ॥

8.49.42

गदापाणिस्ततो राजन्रथात्तूर्णमवप्लुतः ।
तमदृष्ट्वा रथोपस्थे सारथिं समताडयत् ॥

8.49.43

खङ्गेन शितधारेण स हतः प्रापतद्रथात् ।
कृतवर्मा ततो हृष्टस्तलशब्दं चकार ह ॥

8.49.44

पार्षतं चाब्रवीद्राजन्नेह्येहीति पुनःपुनः ।
स तं न ममृषे युद्वे तलशब्दं समीरितम् ॥

8.49.45

अवप्लुत्य रथात्तस्मात्स्वरथं पुनरास्थितः ।
अभ्ययात्स तु तत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥

8.49.46

ततो राजन्महेष्वासं कृतवर्माणमाशु वै ।
गदां गृह्य पुनर्वेगात्कृतवर्माणमाहनत् ॥

8.49.47

सोऽतिविद्वो बलवता न्यपतन्मूर्च्छया हतः ।
श्रुतर्वा रथमारोप्य अपोवाह रणाजिरात् ॥

8.49.48

धृष्टद्युम्नस्तु समरे दृष्ट्वा शत्रुं महारथः ।
कौरवान्समरे तूर्णं वारयामास सायकैः ॥

8.49.49

ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् ।
सिंहनादरवांश्चक्रुस्ततो युद्धमवर्तत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc