भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.42

8.42.1

तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय ।
संशप्तकाः कथं पार्थं कथं कर्णं च पाण्डवाः ॥

8.42.2

एतद्विस्तरशो युद्धं प्रब्रूहि कुशलो ह्यसि ।
न हि तृप्यामि वीराणां शृण्वानो युधि विक्रमम् ॥
सञ्जय उवाच ।

8.42.3

तत्संस्थिमथो दृष्ट्वा प्रत्यमित्रं महद्बलम् ।
प्रत्यव्यूहत्ततः कर्णो हितार्थं तनयस्य ते ॥

8.42.4

तत्सादिनागकलिलं पदातिरथसङ्कुलम् ।
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम् ॥

8.42.5

पारावतसवर्णाश्वश्चन्द्रसूर्यसमद्युतिः ।
स पार्षतो बभौ धन्वी कालो विग्रहवानिव ॥

8.42.6

पार्षतं त्वभितस्तस्थुर्द्रौपदेया युयुत्सवः ।
सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव ॥

8.42.7

अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे ।
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः ॥

8.42.8

अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः ।
विजये धृतसङ्कल्पा मृत्युं कृत्वानिवर्तनम् ॥

8.42.9

तदश्वसङ्घबहुलं पत्तिनागरथाकुलम् ।
उदीर्यमाणं संरब्धं धनञ्जयमभिद्रवत् ॥

8.42.10

तदुद्यतं महत्सैन्यं सागरौघसमं जवे ।
पार्थवेलां समासाद्य विष्ठितं समदृश्यत ॥

8.42.11

मृद्गन्तं शवर्षौघैर्द्रुतमर्जुनमार्दयत् ॥

8.42.12

स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना ।
तस्यैव तु यथा राजन्निवातकवचैः सह ॥

8.42.13

रथानश्वान्ध्वजान्नागान्पत्तीन्गजगतानपि ।
इषून्धनूंषि खङ्गांश्च चक्राणि च परश्वथान् ॥

8.42.14

सायुधानुद्यतान्बाहून्विविधान्यायुधानि च ।
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः ॥

8.42.15

तस्मिन्सैन्यमहावर्ते पातालतलसन्निभे ।
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ॥

8.42.16

स पुरस्तादरीन्हत्वा पुनरुत्तरतोऽवधीत् ।
दक्षिणेन च पश्चाच्च क्रुद्धो रुद्रः पशूनिव ॥

8.42.17

अथ पाञ्चालचेदीनां सृढ्जयानां च मारिष ।
त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः ॥

8.42.18

कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः ।
हृष्टसेनाः सुसंरब्धा रथानीकप्रहारिणः ॥

8.42.19

कोसलैः काश्यमत्स्यैश्च कारूशैः केकयैरपि ।
शूरसेनैः शूरवरैर्युयुधुर्युद्धदुर्मदाः ॥

8.42.20

तेषामन्तकरं युद्धं देहपाप्मविनाशनम् ।
क्षत्रविट््शूद्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ॥

8.42.21

दुर्योधनोऽथ सहितो भ्रातृभिर्भरतर्षभ ।
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ॥

8.42.22

पाण्डवैः सह पाञ्चालैश्चेदिभिः सात्यकेन च ।
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् ॥

8.42.23

कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् ।
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् ॥

8.42.24

विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः ।
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् ॥

8.42.25

तद्विगाह्य महानीकं सूतपुत्रो महारथः ।
नदीं प्रवर्तयामास शोणितौघतरङ्गिणीम् ॥

8.42.26

शोणितोदां क्षुण्णमत्स्थां नागनक्रदुरत्ययाम् ।
मांलमज्जाकर्दमिनीं चक्रकूर्ममहोडुपाम् ॥

8.42.27

पातितैर्मेघसङ्काशैस्तत्रतत्र महाद्विपैः ।
अशनीभिरिव ध्वस्ता नदी राजन्विराजते ॥

8.42.28

तां शरोर्मिमहावर्तां छत्रहंससमाकुलाम् ।
तनुत्रोष्णीषसङ्घाटामस्थिपाषाणसङ्कुलाम् ॥

8.42.29

अपारामनपारां च शङ्खदुन्दुभिघोषिणीम् ।
रौद्रां नदीं महाराज रजसा सर्वतोवृताम् ॥

8.42.30

अतितीक्ष्णां नराकीर्णां नदीमन्तकगामिनीम् ।
समं च विषमं चैव समायान्तीं महाभयाम् ॥

8.42.31

आकुलाश्चात्र सीदन्ति नराः शोणितकर्दमे ।
नरैरभिपरिक्षिप्ता यथा राजन्महाद्रुमाः ॥

8.42.32

ततस्ते तत्रतत्रैव प्रचरन्तो महानदीम् ।
विचेरुः सर्वतो योधा नौवारणमहारथैः ॥

8.42.33

शोणितेन समं राजन्कृतमासीत्समन्ततः ।
नदीवेगैर्यथा भूमिस्तद्वदासीद्विशापते ॥

8.42.34

एवं भारत सङ्ग्रामो नरवाजिगजक्षयः ।
कुरूणां सृञ्जयानां च देवासुरसमोऽभवत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc