भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.40

8.40.1

दुर्योधनस्ततः कर्णमुपेत्य भरतर्षभ ।
अब्रवीन्मद्रराजं च तथैवान्यान्महारथान् ॥

8.40.2

यदृच्छयाऽयमव्यग्रो धर्मः परमकः सखा ।
सुखिनः क्षत्रियाः कर्ण लभन्ते युद्धमीदृशम् ॥

8.40.3

यादृशं क्षत्रियैः शूरैः शूराणां दीव्यतां युधि ।
इष्टं भवति राधेय तदिदं समुपस्थितम् ॥

8.40.4

हत्वा तु पाण्डवान्युद्धे स्थिरामुर्वीं प्रशासथ ।
निहता वा परैर्युद्धे वीरलोकानवाप्स्यथ ॥

8.40.5

दुर्योधनस्य वचनं श्रुत्वा तत्क्षत्रियर्षभाः ।
सिंहनादानुदक्रोशन्वादित्राणि च जघ्निरे ॥

8.40.6

तस्मिन्प्रमुदिते सैन्ये त्वदीये भरतर्षभ ।
हर्षयंस्तावकान्योधान्द्रौणिर्विचनमब्रवीत् ॥

8.40.7

प्रत्यक्षं सर्वसैन्यानां भवतां चापि पश्यताम् ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥

8.40.8

स तेनाहममर्षेण पित्रर्थे चापि भारत ।
धृष्टद्युम्नमहत्वाऽहं न विमोक्ष्यामि दंशनम् ॥

8.40.9

कृत्वाऽनृतां प्रतिज्ञां वो नास्मि प्राप्ता महत्फलम् । अर्जुनं भीमसेनं च यश्च मां प्रतियोत्स्यति ।
सर्वांस्तान्प्रमथिष्यामि इति मे निश्चिता मतिः ॥
सञ्जय उवाच ।

8.40.10

एवमुक्ते ततः सर्वा हर्षिता भारती चमूः ।
अभ्यवर्तत कौन्तेयांस्तथा तां चापि पाण्डवाः ॥

8.40.11

स सन्निपातो रथयूथपानां महाहवे भारत लोभनीये ।
जनक्षयः कालयुगान्तकल्पः प्रावर्तताग्रे कुरुसृञ्जयानाम् ॥

8.40.12

ततः प्रवृत्ते युधि सम्प्रहारे भूतानि सर्वाणि सदैवतानि ।
आसन्समेतानि सहाप्सरोभि-- निरीक्षतीभिर्युधि वीरसङ्घान् ॥

8.40.13

दिव्यैश्च गन्धैः परमैश्च पुष्पै-- रन्यैश्च रत्नैर्विविधैर्नराग्र्याः ।
रणेषु कर्मोद्वहताः प्रहृष्टा- ननन्दयन्नप्सरसः प्रहृष्टाः ॥

8.40.14

समीरणस्तांस्तु निषेव्य गन्धा-- न्निषेवते तानपि योधमुख्यान् ।
निषेव्यमाणास्त्वनिलेन योधाः परस्परं चुक्रुशुराजिमध्ये ॥

8.40.15

तथा तु तस्मिंस्तुमुले प्रवृत्ते दुर्योधनः क्रोधममृष्यमाणः ।
अवेभ्य भीमं बलमध्यसंस्थः समार्पयत्क्षुद्रकाणां शतेन ॥

8.40.16

दुःशासनश्चित्रसेनश्च वीर-- स्तथोलूकः कितवः सौबलश्च ।
गजानीकैः सर्वतो भीमसेनं तथाविषक्तं सहसैवाभ्यगच्छन् ॥

8.40.17

तमापतन्तं सम्प्रेक्ष्य गजानीकं वृकोदरः ।
दुर्योधनं महाबाहुः शरवर्षैरवाकिरत् ॥

8.40.18

दुर्योधनं ततो भीमः सायकैर्वज्रसन्निभैः ।
पाण्डवो विमुखीकृत्य गजानभ्यद्रवद्बली ॥

8.40.19

ततः पावकसङ्काशैर्भीमबाणैरवक्रगैः ।
शलभैरिव नागांस्तानर्दयामास पाण्डवः ॥

8.40.20

ततः कुञ्जरयूथानि भीमसेनो महाबलः ।
व्यधमन्निशितैर्बाणैर्महावातो घनानिव ॥

8.40.21

नित्यमत्ताश्च मातङ्गाः शूरैर्मत्तैरधिष्ठिताः ।
आरोहकैर्महामात्रैस्तोमराङ्कुरापाणिभिः ॥

8.40.22

सुवर्णजालैः प्रच्छन्ना मणिजालैश्च कुञ्जराः ।
रूप्यजाम्बूनदाभासः क्षुरमालाभ्यलङ्कृताः ॥

8.40.23

वध्यमानाः शरै राजन्भीमसेनेन ते गजाः ।
विभिन्नहृदयाः केचित्तत्रैवाभ्यपतन्भुवि ॥

8.40.24

निपतद्भिर्महावेगैर्हेमभाण्डविभूषितैः ।
अशोभत महाराज धातुचित्रैरिवाचलैः ॥

8.40.25

दीप्ताभरणवद्भिश्च गजपृष्ठनिपातितैः ।
सङ्गरः शुशुभे राजन्क्षीणपुण्यैरिवामरैः ॥

8.40.26

महापरिघसङ्काशौ चन्दनागरुरूषितौ ।
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ ॥

8.40.27

तस्य ज्यातलनिर्घोषमस्यतः सव्यदक्षिणम् ।
तं श्रुत्वाऽभ्यद्रवन्नागा भीमसेनभयार्दिताः ॥

8.40.28

तस्य भीमस्य तत्कर्म राजन्नेकस्य धीमतः ।
अपश्याम महाराज तद्भूतमिवाभवत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc