भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.38

8.38.1

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
उन्यमानं मया सम्यक्त्वमेकाग्रमनाः शृणु ॥

8.38.2

ब्राह्मणः किल नो गेहमध्यगच्छत्पुराऽतिथिः ।
आचारं तत्र सम्प्रेक्ष्य प्रीतो वचनमब्रवीत् ॥

8.38.3

मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् ।
दृष्टाश्च बहवो देशा नानाधर्मसमावृताः ॥

8.38.4

न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः ।
सर्वाश्चाप्याचरन्धर्मं यदुक्तं वेदपारगैः ॥

8.38.5

अटता तु मया देशान्नानाधर्मसमाकुलान् ।
आगच्छता महाराज बाह्लीकेषु निशामितम् ॥

8.38.6

तत्र वै ब्राह्मणो भूत्वा पुनर्भवति क्षत्रियः ।
वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः ॥

8.38.7

नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः ।
द्विजो भूत्वा च तत्रैव पुनर्दासोऽभिजायते ॥

8.38.8

भवन्त्येककुले विप्राः शिष्टा ये कामचारिणः ।
गान्धारा मद्रकाश्चैव बाह्लीकाश्चाप्यतेजसः ॥

8.38.9

एतन्मया श्रुतं तत्र धर्मसङ्करकारकम् ।
कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ॥

8.38.10

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितं ॥

8.38.11

आनीयेहाक्षता काचिदारट्टात्किल दस्युभिः ।
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः ॥

8.38.12

बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ ।
तस्मात्कुमार्यः स्वैरिण्यो भविष्यन्ति कुलेषु वः ॥

8.38.13

न चैवास्मात्प्रमोक्षध्वं घोराच्छापान्नराधमाः ।
तस्मात्तेषां भागहरः कथं धर्मान्वदिष्यसि ॥

8.38.14

कुरवः सहपाञ्चालाः साल्वा मात्स्याः सनैमिशाः ।
कोसलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा ॥

8.38.15

चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् ।
नानादेशेष्वसन्तश्च प्रायो बाह्यालयानृते ॥

8.38.16

आमत्स्येभ्यः कुरुपाञ्चालसाल्वा आनैमिशाच्चेदयो ये विशिष्टाः ।
धर्मं पुराणमुपजीवन्ति सन्तो मद्रानृते पाञ्चनदांश्च जिह्मान् ॥

8.38.17

एवं विद्वान्धर्मकथासु राजं-- स्तूष्णीम्भूतः शल्य भवेः सदा त्वम् ।
त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदुष्कृतस्य ॥

8.38.18

अथवा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता ।
रक्षिता पुण्यभाग्राजा प्रजानां त्वं ह्यपुण्यभाक् ॥

8.38.19

पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते ।
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ॥

8.38.20

व्रात्यानां दाशकीयानां कृतेऽप्यशुभकर्मणाम् ।
ब्रह्मणा निन्दितान्धर्मान्कश्चित्सिद्धात्मकोऽब्रवीत् ॥

8.38.21

इति पाञ्चनदं धर्मवमेने पितामहः ।
स्वधर्मस्थेषु वर्णेषु सोऽप्येतान्नाभ्यपूजयत् ॥

8.38.22

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
कल्माषपादः सरसि निम़ज्जन्राक्षसोऽब्रवीत् ॥

8.38.23

क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याश्रुतं मलम् ।
मलं पृथिव्या बाह्लीकाः स्त्रीणां कौतूहलं मलम् ॥

8.38.24

निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् ।
अपृच्छत्तेन चाख्यातं तच्छृणुष्व नराधिप ॥

8.38.25

मानुषाणां मलं म्लेच्छा म्लेच्छानां मुष्टिका मलम् ।
मुष्टिकानां मलं षण्ढाः षण्ढानां राजयाजकाः ॥

8.38.26

राजयाजकयाज्यानां मद्रकाणां च यन्मलम् ।
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ॥

8.38.27

इति रक्षोपसृष्टेषु विषवीर्यहतेषु च ।
विद्वद्भिर्भेषजं दृष्टं संसिद्धवचनोत्तरम् ॥

8.38.28

ब्राहयाः पञ्चालाः कौरवेयास्तु धर्म्याः सत्या मत्स्याः शूरसेनाश्च याज्याः ।
प्राच्या दासा वृषला दाक्षिणात्याः स्तेना बाह्लीकाः सङ्कार वै सुराष्ट्राः ॥

8.38.29

कृतघ्नता परवित्तापहारो मद्यपानं गुरुदारावमर्दः ।
वाक्पारुष्यं गोवधो रात्रिचर्या बहिर्गेहं परवस्त्रोपभोगः ॥

8.38.30

येषां धर्मस्तान्प्रति नास्त्यधर्मो ह्यारट्टजान्पाञ्चनदान्धिगस्तु ।
आपाञ्चालाः कुरवो नैमिशाश्च मत्स्याश्चैवाप्यनुजानन्ति धर्मम् । अथोदीच्याश्चोदयो भागधाश्च शिष्टान्धर्मानुपजीवन्ति वृद्धाः ॥

8.38.31

प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः ।
दक्षिणा पितृभिर्गुप्ता यमेन शुभकर्मणा ॥

8.38.32

प्रतीचीं वरुणः पाति पालयन्नसुरान्बहून् ।
उदीचीं भगवान्सोम ब्रह्मा च ब्राह्मणैः सह ॥

8.38.33

रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः ।
ध्रुवं सर्वाणि भूतानि विष्णुः पाति सुरोत्तमः ॥

8.38.34

इङ्गित5आश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः ।
अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दाक्षिणापथाः ॥

8.38.35

पार्वतीयाश्च विषया यथैव गिरयस्तथा । सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः ।
म्लेच्छाः स्वसञ्ज्ञानियता नानुक्तमितरे जनाः ॥

8.38.36

प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः ।
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ॥

8.38.37

एवं ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म क्रुद्धः पापभृतां वरिष्ठ ।
पूर्वं हत्वा त्वां सपुत्रं बलैश्च पश्चाद्धंस्ये वासुदेवार्जुनौ च ॥
शल्य उवाच ।

8.38.38

आतुराणां परित्यागः स्वदारसुतविक्रयः ।
अङ्गे प्रवर्तते कर्ण येषामधिपतिर्भवान् ॥

8.38.39

रथातिरथसङ्ख्यायां यत्त्वां भीष्मस्तदाब्रवीत् ।
तान्विदित्वाऽत्मनो दोषान्निर्मन्युर्भव मा क्रुधः ॥

8.38.40

सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः ।
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ॥

8.38.41

रमन्ते चोपहासेन पुरुषाः पुरुषैः सह ।
अन्योन्येन रताः क्षीबा देशेदेशे च मैथुनम् ॥

8.38.42

परवाच्येषु निपुणः सर्वो भवति सर्वदा ।
आत्मवाच्यं न जानीते जानन्नपि च मुह्यति ॥

8.38.43

सर्वत्र सन्ति राजनः स्वंस्वं धर्ममनुव्रताः ।
दुर्मनुष्यान्निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः ॥

8.38.44

न कर्ण देशसामान्यात्सर्वः पापं निषेवते ।
यादृशाः स्वस्वभावेन देशांस्तांस्तादृशान्विदुः ॥
सञ्जय उवाच ।

8.38.45

तततो दुर्योधनो राजा कर्णशल्याववारयत् ।
सखिभावेन राधेयं शल्यं सौजन्यकेन च ॥

8.38.46

ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष ।
फहस्य तत्र राजेन्द्रं यादि शल्येत्यचोदयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc