भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.26

8.26.1

तेजसोऽर्धं सुरा दत्त्वा शङ्कराय महात्मने ।
पशुत्वमपि चोपेत्य विश्वकर्माणमव्ययम् ॥

8.26.2

ऊचुः सर्वे समाभाष्य रथः सङ्कल्प्यतामिति ।
विश्वकर्माऽपि सञ्चिन्त्य रथं दिव्यमकल्पयत् ॥

8.26.3

समेतां पृथिवीं देवी विशालां पुरमालिनीम् ।
सपर्वतवनद्वीपां चक्रे भूतधरां रथम् ॥

8.26.4

ईषां नक्षत्रवंशं च छत्रं मेरुमहागिरिम् ।
अनेकद्रुसञ्छन्नं रत्नाकरमनुत्तमम् ॥

8.26.5

हिमवन्तं च विन्ध्यं च नानाद्रुमलताकुलम् ।
अवस्करं प्रतिष्ठानं कल्पयामास वै तदा ॥

8.26.6

अस्तन्गिरिमधिष्ठानं नानाद्विजगणायुतम् ।
चकार भगवांस्त्वष्टा उदयं रथकूबरम् ॥

8.26.7

मीननक्रझषावासं दानवालयमुत्तमम् ।
समुद्रमक्षं विदधे पत्तनाकरशोभितम् ॥

8.26.8

चक्रं चक्रे चन्द्रमसं तारकागणमण्डितम् ।
दिवाकरं चाप्यपरं चक्रं चक्रेंऽशुमालिनम् ॥

8.26.9

गङ्गां सरस्वतीं तूणीं चक्रे विश्वकृदव्ययः ।
अलङ्कारा रथस्यासन्नापगाः सरितस्तथा ॥

8.26.10

त्रीनग्नीन्मन्त्रवच्चक्रे रथस्याथ त्रिवेणुकम् ।
अनुकर्षान्रथे दीप्तान्वरूथांश्चापि तारकाः ॥

8.26.11

ओषधीर्वीरुधश्चैव घण्टाजालं च भानुमत् ।
अलञ्चकार च रथं मासपक्षर्तुभिर्विभुः ॥

8.26.12

अहोरात्रैः कलाभिश्च काष्ठाभिरयनैस्तथा ।
द्यां युगं युगपर्वाणि संवर्तकबलाहरकान् ॥

8.26.13

शम्यां धृतिं च मेधां च स्थितिं सन्नतिमेव च ।
ऋघ्वेदं सामवेदं च धुर्यावश्वावकल्पयत् ॥

8.26.14

पृष्ठाश्वौ तु यजुर्वेदः कल्पितोऽथर्वणस्तथा ।
अश्वानां चाप्यलङ्कारं विदधे पदसञ्चयम् ॥

8.26.15

सिनीवालीमनुमतिं कुहूं राकां च सुप्रभाम् । योक्ताणि चक्रे चाश्वानां कूश्माण्डांश्चापि पन्नगान् ।

8.26.16

तालपृष्ठोऽथ नहुषः कार्कोटकधनञ्जयौ ।
इतरे चाभवन्नागा हयानां वाहबन्धनम् ॥

8.26.17

अभीशवः षडङ्गानि कल्पितानि महीपते ।
ओङ्कारः कल्पितस्तस्य प्रतोदो विश्वकर्मणा ॥

8.26.18

यज्ञाः सर्वे पृथक्लृप्ता रथाङ्गानि च भागशः ।
अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती ॥

8.26.19

नानावर्णानि शस्त्राणि पताकाः पवनेरिताः ।
विद्युदिन्द्रधनुर्युक्तं रथं दीप्त्या व्यदीपयत् ॥

8.26.20

वर्म योद्धुं च विहितं नमो ग्रहगणाकुलम् ।
अभेद्यं भानुमच्चित्रं कालचक्रपरिक्षतम् ॥

8.26.21

एवमस्मिन्महाराज कल्पिते रथसत्तमे ।
त्वष्ट्रा मनुजशार्दूल द्विषतां भयवर्धने ॥

8.26.22

स्वान्यायुधानि दिव्यानि न्यदधाच्छङ्करो रथे ।
ध्वजयष्टिं वियत्कृत्वा स्थापयामास गोवृषम् ॥

8.26.23

ब्रह्मदण़्डः कालदम्डो रुद्रदण्डश्च ते ज्वराः ।
परिष्कारा र्थस्यासन्समन्ताद्दिशमुद्धताः ॥

8.26.24

विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः ।
छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां ध्रुवाम् ॥

8.26.25

कालो हि भगवान्रुद्रस्तच्च संवत्सरं धनुः ।
तस्माद्रौद्री कालरात्री ज्या कृता धनुषो जरा ॥

8.26.26

ततो रथे रथाश्वांस्तानृषयः समयोजयन् ।
एकैकशः सुसंहृष्टानादाय सुधृतव्रताः ॥

8.26.27

दक्षिणस्यां धुरि कृत ऋग्वेदो मन्त्रपारगैः ।
सव्यतः सामवेदश्च युक्तो राजन्महर्षिभिः ॥

8.26.28

पार्ष्ठिदक्षिणतो युक्तो यजुर्वेदः सुरद्विजैः ।
इतरस्यां तथा पार्ष्ठ्यां युक्तो राजन्नथर्वणः ॥

8.26.29

एवं ते वाजिनो युक्ता यज्ञविद्भिस्तथा रथे ।
अशोभन्त तथा युक्ता यथैवाध्वरमध्यगाः ॥

8.26.30

कल्पयित्वा रथं दिव्यं ततो बाणमकल्पयत् ।
चिन्तयित्वा हरिं विष्णुमव्ययं यज्ञवाहनम् ॥

8.26.31

शरं सङ्कल्पयाञ्चक्रे विश्वकर्मा महामनाः ।
तस्य वाजांश्च पुङ्खं च कल्पयामास वै तदा ॥

8.26.32

पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम ।
अग्नीषोमौ शरमुखे कल्पयामास वै तदा ॥

8.26.33

अग्नीषोमात्मकं कृत्स्नमुच्यते वैष्णवं जगत् ।
विष्णुरात्मा भगवतो भवस्यामिततेजसः ॥

8.26.34

तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे शरस्य वै ।
तस्मिञ्शरे तीक्ष्णमन्युममुञ्चद्दुःसहं प्रभुः ॥

8.26.35

भृग्वङ्गिरोमन्युभवः क्रोधाग्निरतिदुःसहः ।
स नीललोहितो धूम्रः कृत्तिवासा भयानकः ॥

8.26.36

आदित्यायुतसङ्काशस्तेजोज्वालावृतो भवः ।
दुश्चर्यच्यावको जेता हन्ता ब्रह्मद्विषां वरः ॥

8.26.37

तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् ।
जङ्गमाजङ्गमं राजञ्छुशुभेऽद्भुतदर्शनम् ॥

8.26.38

दृष्टा तु तं रथं दिव्यं कवची स शरासनी ।
आददे स शरं दिव्यं सोमविष्ण्वग्निवायुजम् ॥

8.26.39

तमादाय महादेवस्त्रासयन्दैत्यदानवान् ।
आरुरोह तदा यत्तः कम्पयन्निव रोदसी ॥

8.26.40

महर्षिभिः स्तूयमानो वन्द्यमानश्च वन्दिभिः ।
उपनृत्तश्चाप्सरसां गणैर्नृत्तविशारदैः ॥

8.26.41

स शोभमानो वरदः खङ्गी बाणी शरासनी ।
हसन्निवाब्रवीद्देवः सारथिः को भवेदिति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc