भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.24

8.24.1

भूय एव तु मद्रेश यत्त्वा वक्ष्यामि तच्छृणु ।
यथा पुरावृत्तमिदं युद्धे देवासुरे प्रभो ॥

8.24.2

यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महातपाः । ब्रुवतस्तदशेषेण मम राजर्षिसत्तम ।
निबोध मनसा चात्र न ते कार्या विचारणा ॥

8.24.3

समुत्पन्नो हि राजानः प्रमोह इति निश्चयम् ।
कृत्वा चैव व्यवस्यन्ति सर्वे धर्मार्थनिश्चयान् ॥

8.24.4

देवानामसुराणां च महानासीत्समुच्छ्रयः । सैंहिकेयास्तदोद्वृत्ता विबुधानवसूदयन् ।
ते निरस्तः कृता देवैर्दानवा बलगर्विताः ॥

8.24.5

तत्रासीत्प्रथमो राजन्सङ्ग्रामस्तारकामयः ।
निर्जिताश्च ततो दैत्या दैवतैरिति नः श्रुतिः ॥

8.24.6

भग्नदर्पा निरुत्साहाः पातालं विविशुस्तदा ॥

8.24.7

निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः ।
ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ॥

8.24.8

तप उग्रं समास्थाय नियमे परमे स्थिताः ।
तपसा कर्णयामासुर्देहांस्ताञ्शत्रुकर्शनाः ॥

8.24.9

दमेन तपसा चैव नियमेन समाधिना ।
तेषां पितामहः प्रीतो वरदः प्रददौ वरम् ॥

8.24.10

अवध्यत्वं च ते सर्वे सर्वभूतेषु सर्वदा ।
सहिता वरयामासः सर्वलोकपितामहम् ॥

8.24.11

तानब्रवीत्तदा देवः सर्वलोकगुरुः प्रभुः । नास्ति सर्वामरत्वं वै निवर्तध्वमितोऽसुराः ।
अन्यं वरं वृणीध्वं वै रोचते यादृशो हि वः ॥

8.24.12

ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहुः ।
सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाऽब्रुवन् ॥

8.24.13

वस्तुमिच्छाम नगरं कर्तुं कामगमं शुभम् ।
सर्वकामसमृद्वार्थमवध्यं देवदानवैः ॥

8.24.14

यक्षरक्षोरगगणैर्नानाजातिभिरेव च । न कृत्याभिर्न शस्त्रैश्च न शापैर्ब्रह्मवादिनाम् ।
वध्येत त्रिपुरं देव प्रयच्छेः प्रपितामह ॥

8.24.15

वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ।
विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ॥

8.24.16

ततो वर्षसहस्रेषु समेष्यामः परस्परम् ।
एकीभावं गभिष्यन्ति पुराण्येतानि चानघ ॥

8.24.17

समागतानि चैतानि यो हन्याद्भगवांस्तदा ।
एकेषुणा देववरः स नो मृत्युर्भविष्यति ॥
दुर्योधन उवाच ।

8.24.18

तेषां तद्वचनं श्रुत्वा दानवानां पितामहः ।
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ॥

8.24.19

ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम् । पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महारथाः ।
विश्वकार्माणमजरं दैत्यदानवपूजितम् ॥

8.24.20

ततो मयः स्वतपसा चक्रे धीमान्पुराणि च ।
त्रीणि काञ्चनमेकं वै रौप्यं कार्ष्णायसं तथा ॥

8.24.21

काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् ।
आयसं चाभवद्भौमं तदा तेषां परन्तप ॥

8.24.22

एकैकं योजनशतं विस्तृतं तावदायतम् ।
दृढं चाट्टालकयुतं बृहत्प्राकारतोरणम् ॥

8.24.23

गृहप्रवरसम्बाधमसम्बाधमहापथम् ।
प्रासादैर्विविधैश्चापि द्वारैश्चैवोपशोभितम् ॥

8.24.24

त्रिपुरं तेषु चाप्यासन्राजानो वै पृथक्पृथक् ।
दिव्यमाल्याम्बरधरा दैतेया राजसत्तम ॥

8.24.25

काञ्चनं तारकाक्षस्य दिव्यमासीन्महात्मनः ।
राजतं कमलाक्षस्य विद्युन्मालिन आयसम् ॥

8.24.26

त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा ।
आक्रम्य तस्थुरूचुश्च कश्च नाम प्रजापतिः ॥

8.24.27

तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च ।
कोट्याश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः ॥

8.24.28

मांसाशिनः सुदृप्ताश्च सुरैर्विनिकृताः पुरा ।
महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ॥

8.24.29

सर्वेषां च पुनश्चैषां सर्वयोगवहो मयः ।
तमाश्रित्य हि ते सर्वेऽवर्तयन्नकुतोभयाः ॥

8.24.30

यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः ।
तस्मै तस्मै मयस्तं तं विदधे मायया तदा ॥

8.24.31

तारकाक्षसुतश्चासीद्वरिर्नाम महाबलः ।
तपस्तेपे परमकं येनातुष्यत्पितामहः ॥

8.24.32

सन्तुष्टमवृणोद्देवं वापी भवतुः नः पुरे ।
शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ॥

8.24.33

स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः ।
ससृजे तत्र वापीं तां मृतसञ्जीविनीं प्रभो ॥

8.24.34

येन रूपेण यो दैत्यो येन वेषेण चाप्यथ । क्षिप्यते निहतो वाप्यां तादृशेनैव जायते ।
सम्पूर्णबलवीर्यस्तु राजञ्छौर्यसमन्वितः ॥

8.24.35

एवं वीर्येण संयुक्तां कृतां तेन महात्मना ।
तां प्राप्य त्रैपुरा वापीं लोकान्सर्वान्बबाधिरे ॥

8.24.36

महता तपसा सिद्धाः सुराणां भयवर्धनाः । एकस्मिन्निहते दैत्ये सृजन्ति स्म दशासुरान् ।
न तेषां विद्यते युद्वे क्षयो राजन्कथञ्चन ॥

8.24.37

ततस्ते लोभमोहाभ्यामभिभूता विचेतसः ।
निर्भीकाः सहिताः सर्वे स्थापिताः समलोलुपाः ॥

8.24.38

विद्राव्य सगणान्देवांस्तत्रतत्र तदातदा ।
विचेरुः स्वेन कामेन वरदानेन दर्पिताः ॥

8.24.39

देवोद्यानानि सर्वाणि स्थानानि च दिवौकसाम् । ऋषीणामाश्रमान्पुण्यान्रम्याञ्चनपदांस्तथा ।
उत्सादयन्त मर्यादां दानवा दुष्टचारिणः ॥

8.24.40

निःस्थानाश्च कृता देवा ऋषयः पितृभिः सह ।
दैत्यैस्त्रिभिस्त्रयो लोका ह्याक्रान्तास्तैः सुरेतरैः ॥

8.24.41

पीड्यमानेषु लोकेषु ततः शक्रो मरुद्वृतः ।
पुराण्यायोधयाञ्चक्रे वज्रहस्तः समन्ततः ॥

8.24.42

नाशकत्तान्यभेद्यानि यदा भेत्तुं पुरन्दरः ।
पुराणि वरदत्तानि धात्रा तेन नराधिप ॥

8.24.43

तदा भीतः सुरपतिर्मुक्त्वा तानि पुराण्यथ । तैरेव विबुधैः सार्धं पितामहमरिन्दम ।
जगामाथ तदाख्यातुं विप्रकारं सुरेतरैः ॥

8.24.44

ते तत्त्वं सर्वमाख्याय शिरोभिः सम्प्रणम्य च ।
तद्वधोपायमाचक्ष्व भगवन्निति चाब्रुवन् ॥

8.24.45

श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह ।
श्रूयतां त्रिदशाः सर्वे यथेदं वाक्यगौरवम् ॥

8.24.46

दुरात्मानोऽसुरा नित्यं ते चापि विबुधा मम ।
न शक्नुवन्ति ते सर्वे युष्मान्वै पीडयन्ति ते ॥

8.24.47

अहं समस्तु सर्वेषां भूतानां नात्र संशयः ।
अविनीता निहन्तव्या इत्येवं प्रब्रवीमि वः ॥

8.24.48

एकेषुणा विभेद्यानि तानि दुर्गाणि नान्यथा ।
शक्तस्तु तानि बाणेन भेत्तुं कामं त्रिलोचनः ॥

8.24.49

ते यूयं स्थाणुमीशानं जिष्मुमक्लिष्टकारिणम् ।
योद्वारं वृणुत क्षिप्रं स तान्हन्ता सुरेतरान् ॥

8.24.50

ते देवास्तेन वाक्येन चोदिताः प्रणताः स्थिताः । दिव्यं वर्षसहस्रं वै तपस्तप्त्वा सुरर्षभाः ।
शुभात्मानो महात्मानो जग्मुर्वै वृषभध्वजम् ॥

8.24.51

ब्रह्माणमग्रतः कृत्वा शरण्यं शरणागताः ।
तपः परममाजग्मुर्गृणन्तो ब्रह्म शाश्वतम् ॥

8.24.52

अनङ्गमथनं सर्वे भवं सर्वात्मना गताः ।
देवदेवं परं स्थाणुं वरदं त्र्यम्बकं शिवम् ॥

8.24.53

शर्वमीड्यमजं रुद्रं शशाङ्काङ्कितमूर्धजम् । तुष्टुवुर्वाग्भिरुग्राभिर्भयेष्वभयमच्युतम् ।
सर्वात्मानं महात्मानं येनाप्तं विश्वमात्मना ॥

8.24.54

तपोविशेषैर्विविधैर्योगं यो वेद चात्मनः ।
यः साङ्ख्यमात्मना वेत्ति यस्य चात्मा वेशे सदा ॥

8.24.55

तं ते ददृशुरीशानं तेजोराशिमुमापतिम् । परेण यत्नेन भवं त्रिदशाः शर्वमीश्वरम् ।
अनन्यसदृशं लोके प्रतपन्तमकल्मषम् ॥

8.24.56

एकश्च भगवांस्तत्र नानारूपमकल्पयत् । आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि ।
परस्परस्य चापश्यन्सर्वे परमविस्मिताः ॥

8.24.57

सर्वभूतमयं दृष्ट्वा तमजं जगतः परिम् ।
देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ॥

8.24.58

तान्स्वस्तिवाच्य चाभ्यर्च्य समुत्थाप्य च शङ्करः ।
ब्रूतब्रूतेति भगवान्स्मयमानोऽभ्यभाषत ॥

8.24.59

त्र्यम्बकेणाभ्यनुज्ञातास्ततस्ते स्वस्थचेतसः ।
नमो नमो नमस्तेऽस्तु प्रभो इत्यब्रुवन्भवम् ॥

8.24.60

नमो देवाधिदेवाय प्रियाधाघ्नेऽतिमन्यवे ।
प्रजापतिमखघ्नाय प्रजापतिभिरीड्यते ॥

8.24.61

नमः स्तुताय स्तुत्याय स्तूयमानाय शम्भवे ।
विलोहिताय रुद्राय नीलग्रीवाय शूलिने ॥

8.24.62

अमोघाय मृगाक्षाय प्रवरायुधयोधिने ।
अर्हाय चैव शुद्वाय क्षयाय क्रथनाय च ॥

8.24.63

दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे ।
ईशानायाप्रमेयाय निहन्त्रे चर्मवाससे ॥

8.24.64

तपोरताय पिङ्गाय व्रतिने कृत्तिवाससे ।
कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे ॥

8.24.65

प्रपन्नार्तिविनाशाय ब्रह्मद्विट््सङ्घघातिने ।
वनस्पतीनां पतये वनानां पतये नमः ॥

8.24.66

गवां च पतये नित्यं यज्ञानां पतये नमः । नमोस्तु ते ससैन्याय त्र्यम्बकायामितौजसे ।
मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः ॥

8.24.67

ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य च ।
प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ॥

8.24.68

देवाः शर्वस्य वचनं श्रुत्वा हर्षमुपागताः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc