भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.16

8.16.1

युयुत्सं तव पुत्रस्य द्रावयन्तं बलं महत् ।
उलूको न्यपतत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥

8.16.2

युयुत्सुश्च ततो राजञ्शितधारेण पत्रिणा ।
उलूकं ताडयामास वज्रेणेव महाबलम् ॥

8.16.3

उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे ।
क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥

8.16.4

तदपास्य धनुश्छिन्नं युयुत्सर्वेगवत्तरम् ।
अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥

8.16.5

शाकुनिं तु ततः षष्ट्या विव्याध भरतर्षभ ।
सारथिं त्रिभिरानर्च्छत्तं च भूयो व्यविध्यत ॥

8.16.6

उलूकस्तं तु विंशत्या विद्व्वा स्वर्णविभूषितैः ।
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥

8.16.7

स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः ।
पपात प्रमुखे राजन्युयुत्सोः काञ्चनध्वजः ॥

8.16.8

ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्च्छितः ।
उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ॥

8.16.9

उलूकस्तस्य समरे तैलधौतेन मारिष ।
शिरश्चिच्छेद भल्लेन यन्तुर्भरतसत्तम ॥

8.16.10

तच्छिन्नमपतद्भूमौ युयुत्सोः सारथेस्तदा ।
तारारूपं यथा चित्रं निपपात महीतले ॥

8.16.11

जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः ।
सोऽतिविद्वो बलवता प्रत्यपायाद्रथान्तरम् ॥

8.16.12

तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ ।
पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥

8.16.13

शतानीकं महाराज श्रुतकर्मा सुतस्तव ।
व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमः ॥

8.16.14

हताश्वे तु रथे तिष्ठञ्शतानीको महारथः ।
गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष ॥

8.16.15

सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् ।
पपात धरणीं तूर्णं दारयन्तीव भारत ॥

8.16.16

तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ ।
व्यपाक्रमेतां युद्वात्तु प्रेक्षमाणौ परस्परम् ॥

8.16.17

पुत्रस्तु तव सम्भ्रान्तो विविंशो रथमारुहत् ।
शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥

8.16.18

सुतमोमं तु शकुनिर्विद्व्वा तु निशितैः शरैः ।
नाकम्पयत सङ्क्रुद्वो वार्योघ इव पर्वतम् ॥

8.16.19

सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् ।
शरैरनेकसाहस्रैश्छादयामास भारत ॥

8.16.20

ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः ।
लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ॥

8.16.21

निवार्य समरे चापि शरांस्तान्निशितैः शरैः ।
आजघान सुसङ्क्रुद्धः सुतसोमं त्रिभिः शरैः ॥

8.16.22

नाकम्पयत सङ्क्रुद्धो वार्योघ इव पर्वतम् । तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः ।
श्यालस्तव महाराज तत उच्चुक्रुशुर्जनाः ॥

8.16.23

हताश्वो विरथश्चैव छिन्नकेतुश्च मारिष ।
धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ॥

8.16.24

व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् । छादयामासुरथ ते तव श्यालस्य तं रथम् ।
शळभानामिव व्राताः शरव्राता महारथम् ॥

8.16.25

सञ्छाद्यमानोऽपि दृढं विव्यथे नैव सौबलः ।
प्रममाथ शरांस्तस्य शरव्रातैर्महायशाः ॥

8.16.26

तत्रातुष्यन्त योधाश्च सिद्वाश्चापि दिवि स्थिताः । सुतसोमस्य तत्कर्म दृष्ट्वाऽश्रद्वेयमद्भुतम् ।
रथस्थं शकुनिं यत्तु पदातिः समयोधयत् ॥

8.16.27

तस्य तीक्ष्णैर्महावेगैर्भल्लैः सन्नतपर्वभिः ।
व्यहनत्कारामुकं राजंस्तूणीरांश्चैव सर्वशः ॥

8.16.28

स च्छिन्नधन्वा विरथः खङ्गमुद्यम्य चानदत् ।
वैदूर्योत्पलवर्णाभं दन्तिदन्तमयत्सरुम् ॥

8.16.29

भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम् ।
कालदण्डोपमं मेने सुतसोमस्य धीमतः ॥

8.16.30

सोऽचरत्सहसा खङ्गी मण्डलानि सहस्रशः ।
चतुर्दश महाराज शिक्षाबलसमन्वितः ॥

8.16.31

भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम् ।
सम्पातसमुदीर्णे च दर्शयामास संयुगे ॥

8.16.32

सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् ।
तानापतत एवाशु चिच्छेद परमासिना ॥

8.16.33

ततः क्रुद्धो महाराज सौबलः परवीरहा ।
प्राहिणोत्सुतसोमाय शरानाशीविषोपमान् ॥

8.16.34

चिच्छेद तांस्तु खङ्गेन शिक्षया च बलेन च ।
दर्शयँल्लाघवं युद्धे तार्क्ष्यतुल्यपराक्रमः ॥

8.16.35

तस्य सञ्चरतो राजन्मण्डलावर्तने तदा ।
क्षुरप्रेण सुतीक्ष्णेन खङ्गं चिच्छेद सुप्रभम् ॥

8.16.36

स च्छिन्नः सहसा भूमौ निपपात महानसिः ।
अधर्मस्य स्थितं हस्ते सुत्सरोस्तत्र भारत ॥

8.16.37

छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।
प्राविध्यत ततः शेषं सुतसोमो महारथः ॥

8.16.38

तच्छित्त्वा सगुणं चापं रणे तस्य महात्मनः ।
पपात धरणीं तूर्णं स्वर्णवज्रविभूषितम् ॥

8.16.39

सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ।
सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुर्जयम् ॥

8.16.40

अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ।
तत्र नादो महानासीत्पाण्डवानां विशाम्पते ॥

8.16.41

सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् । तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च ।
द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ॥

8.16.42

यथा दैत्यचमूं राजन्देवराजो ममर्द ह ।
तथैव पाण़्वीं सेनां सौबलेयो व्यनाशयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc