भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.98

7.98.1

बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते ।
तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय ॥

7.98.2

अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः ।
नरव्याघ्रं शिनेः पौत्रं द्रोणः किमकरोद्युधि ॥
सञ्जय उवाच ।

7.98.3

सम्प्रस्रुतक्रोधविषो व्यादितास्यशरासनः ।
तीक्ष्णधारेषुदशनः सितनाराचदंष्ट्रवान् ॥

7.98.4

संरम्भामर्षताम्राक्षो महोरग इव श्वसन् ।
नरवीरः प्रमुदितः शोणैरश्वैर्महाजवैः ॥

7.98.5

उत्पतद्भिरिवाकाशे क्रामद्भिरिव पर्वतम् ।
रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ॥

7.98.6

शरपातमहावर्षं रथघोषबलाहकम् ।
कार्मुकैरावृतं राजन्नाराचबहुविद्युतम् ॥

7.98.7

शक्तिखङ्गाशनिधरं क्रोधवेगसमुत्थितम् ।
द्रोणमेघमनावार्यं हयमारुतचोदितम् ॥

7.98.8

दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः ।
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ॥

7.98.9

एनं वै ब्राह्मणं शूरं स्वकर्मण्यनवस्थितम् ।
आश्रयं धार्तराष्ट्रस्य धर्मराजभयावहम् ॥

7.98.10

शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् ।
आचार्यं राजपुत्राणां सततं शूरमानिनम् ॥
सञ्जय उवाच ।

7.98.11

एवमुक्तस्ततः सूतः सात्यकस्यावहद्रथम् । ततो रजतसङ्काशा माधवस्य हयोत्तमाः ।
द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ॥

7.98.12

ततस्तौ द्रोणशैनेयौ युयुधाते परन्तपौ ।
शरैरनेकसाहस्रैस्ताडयन्तौ परस्परम् ॥

7.98.13

इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ । पूरयामासतुर्वीरावुभौ दश दिशः शरैः ।
मेघाविवातपापाये धाराभिरितरेतरम् ॥

7.98.14

न स्म सूर्यस्तदा भाति न ववौ च समीरणः ।
हषुजालावृतं घोरमन्धकारं समन्ततः ॥

7.98.15

अनाधृष्यमिवान्येषां शूराणामभवत्तदा ।
अन्धकारीकृते लोके द्रोणशैनेययोः शरैः ॥

7.98.16

तयोः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा ।
नान्तरं शरवृष्टीनां ददृशे नरसिंहयोः ॥

7.98.17

इषूणां सन्निपातेन शब्दो धाराभिघातजः ।
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ॥

7.98.18

नाराचैर्व्यतिविद्धानां शराणां रूपमाबभौ ।
आशीविषविदष्टानां सर्पाणामिव भारत ॥

7.98.19

तयोर्ज्यातलनिर्घोषः शुश्रुवे युद्धशौण्डयोः ।
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ॥

7.98.20

उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी ।
रुक्मपुङ्खैः शरैछन्नाश्चित्ररूपा बभुस्तदा ॥

7.98.21

निर्मलानामजिह्मानां नाराचानां विशाम्पते ।
निर्मुक्ताशीविपाभानां सम्पातोऽभूत्सुदारुणः ॥

7.98.22

उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ ।
निकृन्ततोः शरैस्तीक्ष्णैर्द्रोणसात्यकयो रणे ॥

7.98.23

उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ । स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ ।
अन्योन्यमभ्यविध्येतां जीवितान्तकरैः शरैः ॥

7.98.24

गर्जितोत्कृष्टसन्नादाः शङ्खदुन्दुभिनिःस्वनाः ।
उपारमन्महाराज व्याजहार न कश्चन ॥

7.98.25

तुष्णीम्भूतान्यनौकानि योधा युद्धादुपारमन् ।
ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः ॥

7.98.26

रथिनो हस्तियन्तारो हयारोहाः पदातयः ।
अवैक्षन्ताचलैर्नेत्रैः परिवार्य नरर्षभौ ॥

7.98.27

हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् ।
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ॥

7.98.28

मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः ।
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ॥

7.98.29

वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः ।
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ॥

7.98.30

जातरूपमयीभिश्च राजतीभिश्च मूर्धसु ।
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ॥

7.98.31

सबलाकाः सखद्योताः सैरावतशतहदाः ।
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ॥

7.98.32

अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः ।
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ॥

7.98.33

विमानाग्रगता देवा ब्रह्मसोमपुरोगमाः ।
सिद्धचारणसङ्खाश्च विद्याधरमहोरगाः ॥

7.98.34

गन्धर्वा दानवा यक्षा राक्षसाप्सरसः खगाः । गतप्रत्यागताक्षेपैश्चितैरस्त्रविघातिभिः ।
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ॥

7.98.35

हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ ।
अन्योन्यमभिविध्येतां शरैस्तौ द्रोणसात्यकी ॥

7.98.36

ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे ।
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युतेः ॥

7.98.37

निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः ।
सज्यं चकार तदपि चिच्छेदास्य स सात्यकिः ॥

7.98.38

ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत ।
सज्यं सज्यं धनुश्चास्य चिच्छेद निशिथैः शरैः ॥

7.98.39

एवमेकशतं छिन्नं धनुषां दृढधन्विना ।
न चान्तरं तयोर्दृष्टं सन्धाने च्छेदनेऽपि च ॥

7.98.40

ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् ।
युयुधानस्य राजेन्द्र मनसैतदचिन्तयत् ॥

7.98.41

एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये ।
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ॥

7.98.42

तं चास्य मनसा द्रोणः पूजयामास विक्रमम् ।
लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः ॥

7.98.43

तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः ।
न तामालक्षयामासुर्लघुतां शीघ्रचारिणः ॥

7.98.44

देवाश्च युयुधानस्य गन्धर्वाश्च विशाम्पते ।
सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् ॥

7.98.45

ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः ।
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ॥

7.98.46

तस्यास्त्राण्यस्त्रमायाभिः प्रतिहत्य स सात्यकिः ।
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ॥

7.98.47

तस्यातिमानुषं कर्म दृष्ट्वाऽन्यैरसमं रणे ।
युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ॥

7.98.48

यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः ।
तमाचार्योऽथ सम्भ्रान्तोऽयोधयच्छत्रुतापनः ॥

7.98.49

ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः ।
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ॥

7.98.50

तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः ।
दिव्यमस्त्रं महेष्वासो वारुणं समुदैरयत् ॥

7.98.51

हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ ।
न विचेरुस्तदाऽकाशे भूतान्याकाशगान्यपि ॥

7.98.52

अस्त्रे ते वारुणाग्नेये यदा बाणैः समाहिते ।
न यावदभ्यपद्येतां व्यावर्तदथ भास्करः ॥

7.98.53

ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ॥

7.98.54

धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः ।
मत्स्याः साल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ॥

7.98.55

दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः ।
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ॥

7.98.56

रजसा संवृते लोके शरजालसमावृते ॥ सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन ।

7.98.57

सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ॥ तेनान्तरेण पार्थस्तु रणे जित्वा महारिपून् ।

7.98.58

अतिक्रान्तस्तदा युद्धं कृत्वा पर्यवतस्थिवान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc