भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.95

7.95.1

प्रविष्टयोर्महाराज पार्थवार्ष्णेययो रणे ।
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ॥

7.95.2

जवेनाभ्यद्रवन्द्रोणं महता निःस्वनेन च ।
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ॥

7.95.3

तद्युद्धमभवत्तीव्रं तुमुलं रोमहर्षणम् ।
कुरूणां पाण्डवानां च व्यूहस्य पुरतोऽद्भुतम् ॥

7.95.4

राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्क च श्रुतम् ।
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशाम्पते ॥

7.95.5

धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः ।
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ॥

7.95.6

वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् ।
पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः ॥

7.95.7

महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये ।
सेनाग्रे प्रचकाशेते रुचिरे रथभूषिते ॥

7.95.8

समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् ।
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ॥

7.95.9

नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः ।
गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ॥

7.95.10

भारद्वाजानिलोद्भूतः शरधारासहस्रवान् ।
अभ्यवर्षन्महारौद्रं पाण्डुसेनाग्निमुद्धतम् ॥

7.95.11

समुद्रमिव घर्मान्ते विशन्घोरो महानिलः ।
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ॥

7.95.12

तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् ।
बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ॥

7.95.13

वारयामास तान्द्रोणो जलौघमचलो यथा ।
पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् ॥

7.95.14

अथापरे च राजानः परिवृत्य समन्ततः ।
महाबला रणे शूराः पाञ्चालानन्ववारयन् ॥

7.95.15

ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह ।
सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ॥

7.95.16

यथैव शरवर्षाणि द्रोणो वर्षति पार्षते ।
तथैव शरवर्षाणि धृष्टद्युम्नोऽप्यवर्षत ॥

7.95.17

सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः ।
ज्याविद्युच्चापसंहादो धृष्टद्युम्नबलाहकः ॥

7.95.18

शरधाराश्मवर्षाणि व्यसृजत्सर्वतो दिशम् ।
निघ्नन्रथवराश्वौघान्प्लावयामास वाहिनीम् ॥

7.95.19

यंयमार्च्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् ।
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ॥

7.95.20

तथा तु यतमानस्य द्रोणस्य युधि भारत ।
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ॥

7.95.21

भोजमेकेऽभ्यवर्तन्त जलसन्धं तथाऽपरे ।
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरे ययुः ॥

7.95.22

सङ्घट्टयति सैन्यानि द्रोणस्तु रथिनां वरः ।
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ॥

7.95.23

धार्तराष्ट्रास्तथा भूता वध्यन्ते पाण्डुसृञ्जयैः ।
अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ॥

7.95.24

कालः स्म ग्रसते योधान्धृष्टद्युम्नेन मोहितान् ।
सङ्ग्रामे तुमुले तस्मिन्निति सम्मेनिरे जनाः ॥

7.95.25

कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः ।
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ॥

7.95.26

अर्करश्मिविमिश्रेषु शस्त्रेषु कवचेषु च ।
चक्षूंषि प्रत्यहन्यन्त सैन्येन रजसा तथा ॥

7.95.27

त्रिधा भूतेषु सैन्येषु वध्यमानेषु पाण्डवैः ।
अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ॥

7.95.28

मृद्गतस्तान्यनीकानि निघ्नतश्चापि सायकैः ।
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ॥

7.95.29

रथं नागं हयं चापि पत्तिनश्च विशाम्पते ।
एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः ॥

7.95.30

पाण़्डवानां तु सैन्येषु नास्ति कश्चित्स भारत ।
दधार यो रणे बाणान्द्रोणचापच्युतान्प्रभो ॥

7.95.31

तत्पच्यमानमर्केण द्रोणसायकतापितम् ।
बभ्राम पार्षतं सैन्यं तत्रतत्रैव भारत ॥

7.95.32

हन्यमानं तु तत्सैन्यं भारद्वाजेन सर्वतः ।
शरैरग्निशिखाकारैर्दह्यते भरतर्षभ ॥

7.95.33

तथैव पार्षतेनापि काल्यमानं बलं तव ।
अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ॥

7.95.34

बाध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः ।
त्यक्त्वा प्राणान्परं शक्त्या युध्यन्ते स्वर्गलिप्सवः ॥

7.95.35

तावकानां परेषां च युध्यतां भरतर्षभ ।
नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् ॥

7.95.36

भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् ।
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ॥

7.95.37

विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् ।
त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ॥

7.95.38

बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः ।
सहसेनः सहामात्यो द्रौपदेयानवारयत् ॥

7.95.39

शैब्यो गोवासनो राजा योधैर्दशशतावरैः ।
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ॥

7.95.40

अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् । मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ।

7.95.41

दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः ।
सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ॥

7.95.42

स्वकेनाहमनीकेन सन्नद्धः कवचावृतः ।
चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ॥

7.95.43

शकुनिस्तु सहानीको माद्रीपुत्राववारयत् ।
गान्धारकैः सप्तशतैश्चापशक्त्यसिपाणिभिः ॥

7.95.44

विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् ।
प्राणांस्तक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतायुधौ ॥

7.95.45

शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् ।
बाह्लीकः प्रतिसंयत्तः पराक्रान्तमवारयत् ॥

7.95.46

धृष्टद्युम्नं तु पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः ।
आवन्त्यः सहसौवीरैः क्रुद्धरूपमवारयत् ॥

7.95.47

घटोत्कचं तथा शूरं राक्षसं क्रूरकर्मिणम् ।
अलामुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ॥

7.95.48

अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः ।
सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ॥

7.95.49

सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत ।
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ॥

7.95.50

तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ ।
द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ॥

7.95.51

पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः ।
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ॥

7.95.52

नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ।
सैन्धवस्य विधायैवं रक्षां युयुधिरे ततः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc