भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.92

7.92.1

सन्निरुद्धस्तु तैः पार्थो महाबलपराक्रमः ।
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ॥

7.92.2

किरन्निषुगणांस्तीक्ष्णान्स रश्मीनिव भास्करः ।
तापयामास तत्सैन्यं देहं व्याधिगणो यथा ॥

7.92.3

अश्वो विद्धो रथश्छिन्नः सारोहः पातितो गजः ।
छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ॥

7.92.4

विद्रुतानि च सैन्यानि शरार्तानि समन्ततः ।
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥

7.92.5

तेषां संयच्छतां सङ्ख्ये परस्परमजिह्मगैः ।
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ॥

7.92.6

सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः ।
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ॥

7.92.7

तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः ।
अन्तेवासिनमाचार्यो महेष्वासं समार्पयत् ॥

7.92.8

तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः ।
अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ॥

7.92.9

तस्याशु क्षिपतो भल्लान्भल्लैः सन्नतपर्वभिः ।
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ॥

7.92.10

तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि ।
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ॥

7.92.11

क्षरन्निव महामेघो वारिधाराः सहस्रशः ।
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ॥

7.92.12

अर्जुनः शरवर्षं तच्छरवर्षेण वीर्यवान् ।
अवारयदसम्भ्रान्तो न त्वाचार्यमपीडयत् ॥

7.92.13

द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् ।
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ॥

7.92.14

पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् ।
विसृजन्तं शितान्बाणानवारयत तं युधि ॥

7.92.15

अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ ।
अवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ॥

7.92.16

वर्जयन्निशितान्बाणान्द्रोणचापविनिः सृतान् ।
किरीटमाली कौन्तेयो भोजानीकमथाविशत् ॥

7.92.17

सोऽन्तरा कृतवर्माणं काम्भोजं च सुदक्षिणम् ।
अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् ॥

7.92.18

ततो भोजो नरव्याघ्रो दुर्धर्षं कुरुसत्तमम् ।
अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ॥

7.92.19

तमर्जुनः शतेनाजौ राजन्विव्याध पत्रिणाम् ।
पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ॥

7.92.20

भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् ।
एकैकं पञ्चविंशत्या सायकानां समार्पयत् ॥

7.92.21

तस्यार्जुनो धनुश्छित्त्वा वियाधैनं त्रिसप्तभिः ।
शरैरग्निशिखाकारैः क्रुद्धाशीविषसन्निभैः ॥

7.92.22

अथान्यद्धनुरादाय कृतवर्मा महारथः ।
पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ॥

7.92.23

पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः ।
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ॥

7.92.24

दृष्ट्वा विषक्तं कौन्तेयं कृतवर्मरथं प्रति ।
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ॥

7.92.25

ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् ।
कुरु सम्बन्धकं हित्वा प्रमथ्यैनं विशातय ॥

7.92.26

ततः स कृतवर्माणं महोयित्वाऽर्जुनः शरैः ।
अभ्यगाज्जवनैरश्वैः काम्भोजानामनीकिनीम् ॥

7.92.27

अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने ।
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ॥

7.92.28

चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ ।
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ॥

7.92.29

तावविध्यत्ततो भोजः कृतवर्मा शितैः शरैः ।
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ॥

7.92.30

तावप्येनं विविधतुर्दशभिर्दशभिः शरैः । त्रिभिरेव युधामन्युरुत्तगौजास्त्रिभिस्तथा ।
सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ॥

7.92.31

अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्च्छितः ।
कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ॥

7.92.32

तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः ।
तेनान्तरेषु बीभत्सुर्विवेशामित्रवाहिनीम् ॥

7.92.33

न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा ।
धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ॥

7.92.34

अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः ।
नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः ॥

7.92.35

तं दृष्ट्वा तु तथाऽयान्तंशूरो राजा श्रुतायुधः ।
अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः ॥

7.92.36

स पार्थं त्रिभिरानर्च्छत्सप्तत्या च जनार्दनम् ।
क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ॥

7.92.37

ततोऽर्जुनो नवत्या तु शराणां नतपर्वणाम् ।
आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम् ॥

7.92.38

स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् ।
अथैनं सप्तसप्तत्या नाराचानां समार्पयत् ॥

7.92.39

तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च ।
आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ॥

7.92.40

अथान्यद्धनुरादाय स राजा क्रोधमूर्च्छितः ।
वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥

7.92.41

ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिन्दमः ।
शरैरनेकसाहस्रैः पीडयामास भारत ॥

7.92.42

अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः ।
विव्याध चैनं सप्तत्या नाराचानां महाबलः ॥

7.92.43

हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः ।
अभ्यद्रुवद्रुणे पार्थं गदामुद्यम्य वीर्यवान् ॥

7.92.44

वरुणस्यत्मजो वीरः स तु राजा श्रुतायुधः ।
पर्णाशाजननी यस्य शीततोया महानदी ॥

7.92.45

तस्य माताऽब्रवीद्राजन्वरुणं पुत्रकारणात् ।
अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ॥

7.92.46

वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् ।
दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति ॥

7.92.47

नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन ।
सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ॥

7.92.48

दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा ।
अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ॥

7.92.49

इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् ।
यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ॥

7.92.50

उवाच चैनं भगवान्पुनरेव जलेश्वरः ।
अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति ॥

7.92.51

हन्यादेषा प्रतीपं हि प्रयोक्तारमपि प्रभो ।
न चाकरोत्स तद्वाक्यं प्राप्ते काले श्रुतायुधः ॥

7.92.52

स तया वीरघातिन्या जनार्दनमताडयत् । प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् ।
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः ॥

7.92.53

ततोऽर्जुनः क्षुरप्राभ्यां भुजौ परिघसन्निभौ ।
चिच्छेद पाण़्डवः शीघ्रं जलेश्वरसुतस्य वै ॥

7.92.54

स ज्वलन्ती महोल्केव समासाद्य जनार्दनम् ।
प्रत्यागता महावेगा कृत्येव दुरधिष्ठिता ॥

7.92.55

जघान चास्थितं वीरं श्रुतायुधममर्षणम् । स पपात हतो भूमौ विशिरा विभुजो बली ।
सम्भग्न इव वातेन बहुशाखो वनस्पतिः ॥

7.92.56

सा विस्फुरन्ती ज्वलिता वज्रवेगसमा गदा ।
हत्वा श्रुतायुधं वीरं धरणीमन्वपद्यत ॥

7.92.57

गदां निवर्तितां दृष्ट्वा निहतं च श्रुतायुधम् । हाहाकारो महांस्तत्र सैन्यानां समजायत ।
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥

7.92.58

अयुध्यमानाय ततः केशवाय नराधिप ।
क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ॥

7.92.59

यथोक्तं वरुणेनाजौ तथा स निधनं गतः ।
व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ॥

7.92.60

पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः ।
सम्भग्न इव वातेन बहुशाखो वनस्पतिः ॥

7.92.61

ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः ।
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥

7.92.62

ततः काम्भोजराजस्य पुत्रः शूरः सुदक्षिणः ।
अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् ॥

7.92.63

तस्य पार्थः शरान्सप्त प्रेषयामास भारत ।
ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ॥

7.92.64

सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे ।
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ॥

7.92.65

वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः ।
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ॥

7.92.66

भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः ।
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ॥

7.92.67

सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः ।
सघण्टां प्राहिणोद्धोरां क्रुद्धो गाण्डीवधन्वने ॥

7.92.68

सा ज्वलन्ती महोल्केव तमासाद्य महारथम् ।
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥

7.92.69

शक्या त्वभिहतो गाढं मूर्च्छयाऽभिपरिप्लुतः ।
समाश्वास्य महातेजाः सृक्विणी परिलेलिहन् ॥

7.92.70

तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः ।
साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः ॥

7.92.71

रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः । सुदक्षिणं तं काम्भोजं मोघसङ्कल्पविक्रमम् ।
बिभेद हृदि बाणेन पृथुधारेण पाण्डवः ॥

7.92.72

स भिन्नवर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः ।
पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ॥

7.92.73

गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः । निर्भग्न इव वातेन कर्णिकारो हिमात्यये ।
विशीर्णः पतितो राजा प्रसार्य विपुलौ भुजौ ॥

7.92.74

शेते स्म निहतो भूमौ काम्भोजास्तरणोचितः ।
महार्हाभरणोपेतः सानुमानिव पर्वतः ॥

7.92.75

सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ।
पुत्रः काम्भोजराजस्य पार्थेन विनिपातितः ॥

7.92.76

धारयन्नग्निसङ्काशां शिरसा काञ्चनीं स्रजम् ।
अशोभत महाबाहुर्व्यसुर्भूमौ निपातितः ॥

7.92.77

ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते ।
हतं श्रुतायुधं दृष्ट्वा काम्भोजं च सुदक्षिणम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc