भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.9

7.9.1

किं कुर्वाणं रणे द्रोणं जघ्रुः पाण्डवसृञ्जयाः ।
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ॥

7.9.2

रथः पर्यपतद्वाऽस्य धनुर्वाऽशीर्यतास्यतः ।
प्रमत्तो वाऽभवद्दोणो यथा मृत्युमुपेयिवान् ॥

7.9.3

कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् ।
किरन्तमिषुसङ्घातान्रुक्मपुङ्खाननेकशः ॥

7.9.4

क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् ।
दूरेषुपातिनं दान्तमस्त्रयुद्धेषु पारगम् ॥

7.9.5

पाञ्चालपुत्रो न्यवधीद्दिव्यास्त्रधरमच्युतम् ।
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ॥

7.9.6

व्यक्तं हि दैवं बलवत्पौरुषादिति मे मतिः ।
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ॥

7.9.7

अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् ।
तमिष्वस्त्रधराचार्यं द्रोणं शंससि मे हतम् ॥

7.9.8

श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् ।
जातरूपपरिष्कारं नाद्य शोकमपानुदे ॥

7.9.9

न नूनं परदुःखेन म्रियते कोऽपि सञ्जय । यत्र द्रोणमहं श्रुत्वा हतं जीवामि मन्दधीः ।
दैवमेव परं मन्ये नन्वनर्थं हि पौरुषम् ॥

7.9.10

अश्मसारमयं नूर्न हृदयं सुदृढं मम ।
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ॥

7.9.11

ब्राह्मे दैवे तथेष्वस्त्रे यमुपासन्गुणार्थिनः ।
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हृतः ॥

7.9.12

शोषणं सागरस्येव मेरोरिव विसर्पणम् ।
पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥

7.9.13

दुष्टानां प्रतिषेद्धासीद्धार्मिकाणां च रक्षिता ।
योऽहासीत्कृपणस्यार्थे प्राणानपि परन्तपः ॥

7.9.14

मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे ।
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ॥

7.9.15

गुणानां सर्वयोधानां स्थितिरासीन्महाद्युतिः ।
यं मृत्युर्वशगस्तिष्ठेत्स कथं मृत्युना हतः ॥

7.9.16

ते च शोणा बृहन्तोऽश्वाश्छन्ना जालैर्हिरण्मयैः ।
रथे वातजवा युक्ताः सर्वशस्त्रातिगा रणे ॥

7.9.17

बलिनो हेषिणो दान्ताः सैन्धवाः साधुवाहिनः ।
दृढाः सङ्ग्राममध्येषु कच्चिदासन्न विह्वलाः ॥

7.9.18

करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिःस्वनैः ।
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ॥

7.9.19

आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः ।
हयाः पराजिताः शीघ्रा भारद्वाजरथोद्वहाः ॥

7.9.20

ते स्म रुक्मरथे युक्ता नरवीरसमास्थिताः ।
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ॥

7.9.21

जातरूपपरिष्करामास्थाय रथमुत्तमम् ।
भारद्वाजः किमकरोद्युधि सत्यपराक्रमः ॥

7.9.22

विद्यां यस्योपजीवन्ति सर्वलोकधनुर्धराः ।
स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि ॥

7.9.23

दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् ।
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ॥

7.9.24

ननु रुक्मरथं दृष्ट्वा प्राद्रवन्ति स्म पाण्डवाः ।
दिव्यमस्त्रं विकुर्वाणं रणे तस्मिन्महाबलम् ॥

7.9.25

उताहो सर्वसैन्येन धर्मराजः सहानुजः ।
पाञ्चालप्रग्रहो द्रोणं सर्वतः समवारयत् ॥

7.9.26

नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः ।
ततो द्रोणं समहरत्पार्षतः पापकर्मकृत् ॥

7.9.27

नह्यहं परिपश्यामि वधे कञ्चन शुष्मिणः ।
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ॥

7.9.28

उताहो सर्वसैन्येन धर्मराजः सहानुजः ।
उत्सृज्य सर्वसैन्यानि द्रोणं तमभिदुद्रुवे ॥

7.9.29

तैर्वृतः सर्वतः क्षुद्रैः पाञ्चालापशदैस्ततः ।
केकयैश्चेदिकारूशैर्मत्स्यैरन्यैश्च भूमिपैः ॥

7.9.30

व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा ।
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ॥

7.9.31

योऽधीत्य चतुरो वेदान्साङ्गानाख्यानपञ्चमान् ।
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ॥

7.9.32

क्षत्रं च ब्रह्म चैवेह योऽभ्यतिष्ठत्परन्तपः ।
दृप्तानां प्रतिषेद्धा च चक्षुरासीदचक्षुषाम् ॥

7.9.33

अमर्षी चावलिप्तेषु धार्मिकेषु च धार्मिकः ।
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ॥

7.9.34

अमर्षिणा मर्षितवान्क्लिश्यमानान्सदा मया ।
अनर्हमाणान्कौन्तेयान्कर्मणस्तस्य तत्फलम् ॥

7.9.35

यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः ।
स सत्यसन्धः सुकृती श्रीकामैर्निहतः कथम् ॥

7.9.36

दिवि शक्र इव श्रेष्ठो महासत्वो महाबलः ।
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ॥

7.9.37

क्षिप्रहस्तश्च बलवान्दृढघन्वारिमर्दनः ।
न यस्य विजयाकाङ्क्षी विषयं प्राप्य जीवति ॥

7.9.38

यं द्वौ न जहतः शब्दौ जीवमानं कदाचन ।
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुष्मताम् ॥

7.9.39

अदीनं पुरुषव्याघ्रं हीमन्तमपराजितम् ।
तमिष्वासवराचार्ये द्रोणं जघ्नुः कथं रथाः ॥

7.9.40

नाहं मन्ये हतं द्रोणं स हि लोकमयोत्स्यत ।
को हि शक्तो रणे जेतुमनाधृष्ययशोबलम् ॥

7.9.41

ब्रह्मकल्पो भवेद्ब्राह्मे क्षात्रे नारायणोपमः ।
ब्रह्मक्षत्रे च यस्यास्तां वशे स्थाणोरिवाखिले ॥

7.9.42

सर्वान्हि मामकान्वीरान्सहाश्वरथकुञ्जरान् ।
युधिष्ठिरस्य तपसा हतान्मन्यामहे कुरून् ॥

7.9.43

कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम् ।
पश्यतां पुरुषेन्द्राणां समरे पार्षतोऽवधीत् ॥

7.9.44

के पुरस्तादयुध्यन्त रक्षन्तो द्रोणमन्तिकात् ।
के नु पश्चादवर्तन्त गच्छतो दुर्गमां गतिम् ॥

7.9.45

केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः ।
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ॥

7.9.46

के च तस्मिंस्तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ॥

7.9.47

कच्चिन्नैनं भयान्मन्दाः क्षत्रिया व्यजहन्रणे ।
रक्षितारस्ततः शून्ये कच्चित्तैर्न हतः परैः ॥

7.9.48

न स पृष्ठमरेस्त्रासाद्रणे शौर्यात्प्रदर्शयेत् ।
परामप्यापदं प्राप्य स कथं निहतः परैः ॥

7.9.49

एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय । पराक्रमेद्यथा शक्त्या तच्च तस्मिन्प्रतिष्ठितम् ।
यो यथाशक्ति युद्ध्येत द्विषद्भिःस्वांश्च पालयन् ॥

7.9.50

कच्चिन्नैनं भयात्क्षुद्राः पार्थेभ्यः प्रददू रणे ।
गोप्तृभिस्तैः समुत्सृष्टः कच्चिन्नैष परैर्हतः ॥

7.9.51

धृष्टद्युम्नं प्रपश्यामि निघ्नन्तमिव ब्राह्मणम् ।
वार्यमाणं रणे तात द्रौणिनाऽमिततेजसा ॥

7.9.52

मुह्यते मे मनस्तात कथा तावन्निवार्यताम् ।
भूयस्तु लब्धसञ्ज्ञस्त्वां परिपृच्छामि सञ्जय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc