भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.85

7.85.1

श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः ।
अभिमन्यौ हते तत्र कैर्वाऽयुध्यन्त पाण्डवाः ॥

7.85.2

जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः ।
कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥

7.85.3

पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् ।
आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ॥

7.85.4

कपिराजध्वनं सङ्ख्ये विधुन्वानं महद्धनुः ।
दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वत मामकाः ॥

7.85.5

किन्तु सञ्जय सङ्ग्रमे वृत्तं दुर्योधनं प्रति ।
परिदेवो महानद्य श्रूयते हि गृहेगृहे ॥

7.85.6

भूयाञ्शब्दानतीत्यान्याञ्शब्दः सैन्धववेश्मनि ।
पौराणिकानां तूर्याणां शङ्खदुन्दुभिघोषवान् ॥

7.85.7

सूतमागधबन्दीनां नर्तकानां च निःस्वनः ।
सोऽद्य न श्रूयते शब्दः सूत पुत्र यथा पुरा ॥

7.85.8

शब्दो नानाविधोऽभीष्टमभवद्यत्र मे श्रुतः ।
दीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥

7.85.9

निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय ।
आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ॥

7.85.10

तदद्य पुण्यहीनोऽहमार्तस्वरनिनादितम् ।
निवेशनं गतोत्साहं विकृतं तात लक्षये ॥

7.85.11

विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः ।
अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥

7.85.12

ब्राह्मणआः क्षत्रिया वैश्या यं शिष्याः पर्युपासते ।
द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥

7.85.13

वितण्डालापसंलापैर्द्रुतवादित्रवादितैः ।
गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥

7.85.14

उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः ।
श्लक्ष्णस्तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा ॥

7.85.15

द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये ।
अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥

7.85.16

विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः ।
श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ॥

7.85.17

नित्यं प्रमुदितानां च तालगीतस्वनो महान् ।
नृत्यतां श्रूयते तात गणानां सोऽद्य न स्वनः ॥

7.85.18

सप्ततन्तून्वितन्वाना याजका यमुपासते ।
सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ॥

7.85.19

ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः ।
द्रोणस्यासीदविरतो गृहे तं न शृणोम्यहम् ॥

7.85.20

नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः ।
वादित्रनादितानां च सोऽद्य न श्रूयते महान् ॥

7.85.21

यदाप्रभृत्युपप्लुव्याच्छान्तिमिच्छञ्जनार्दनः ।
आगतः सर्वभूतानामनुकम्पार्थमच्युतः ॥

7.85.22

ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा ।
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥

7.85.23

कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः ।
संशाम्य भ्रातृभिस्तैस्तु क्षत्रियानभिपालय ॥

7.85.24

शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ।
हितार्थमभिजल्पन्तं न तवास्ति रणे जयः ॥

7.85.25

प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् ।
अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥

7.85.26

कर्णदुःशासनमतः सौबलस्य च दुर्मतेः ।
प्रत्याख्यातो महाबाहुःकुलान्तकरणेन वै ॥

7.85.27

ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः ।
अन्ववर्तत मां हित्वा कृष्टः कालेन दुर्मतिः ॥

7.85.28

न ह्यहं युद्धमिच्छामि विदुरो द्रोण एव वा ।
बाह्लीकः सोमदत्तो वा भीष्मो द्रौणायनिस्तथा ॥

7.85.29

शलो भूरिश्रवाश्चैव पुरुमित्रो विविंशतिः ।
जयः कृपो वा धर्मात्मा ये चान्ये मम बान्धवाः ॥

7.85.30

एतेषां मतमास्थाय यदि वत्स्यति पुत्रकः ।
एतेभ्यश्च मदूर्ध्वं च अभोक्ष्यद्वसुधामिमाम् ॥

7.85.31

श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः । कुलीनाः सम्मताः प्राज्ञाः सुखं जीवन्ति मानवाः ।

7.85.32

धर्मापेक्षी नरो नित्यं सर्वत्र लभते सुखम् ।
प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥

7.85.33

अर्हास्ते पृथिवीं भोक्तुं समर्थाः साधनेऽपि च ।
तेषामपि समुद्रान्ता पितृपैतामही मही ॥

7.85.34

न च त्वाऽभिभविष्यन्ति हित्वा धर्मं पृथात्मजाः ।
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि ॥

7.85.35

सन्ति मे ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः ।
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः ॥

7.85.36

द्रोणस्याथ विकर्णस्य बाह्लीकस्य कृपस्य च । अन्येषां चैव वृद्धानां भरतानां महात्मनाम् ।
त्वदर्थमब्रवं तात न जहुर्वचनानि ते ॥

7.85.37

कं वा त्वं मन्यसे तेषां यस्त्वां ब्रूयादतोऽन्यथा ।
कृष्णो न धर्मं सञ्जह्यात्सर्वे ते हि तदन्वयाः ॥

7.85.38

मयाऽपि चोक्तास्ते वीरा वचनं धर्मसंहितम् ।
नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥

7.85.39

इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् ।
न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ॥

7.85.40

वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः ।
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥

7.85.41

धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः ।
अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥

7.85.42

चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभूः ।
द्रौपदेया विराटश्च द्रुपदश्च महारथः ॥

7.85.43

यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ।
क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः ॥

7.85.44

दिव्यमस्त्रं विकुर्वाणान्प्रसहेद्वा परान्मम । अन्यो दुर्योधनात्कार्णाच्छकुनेश्चापि सौबलात् ।
दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ॥

7.85.45

येषां वचनकृत्स स्याद्विष्वक्सेनो रथे स्थितः ।
सन्नद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ॥

7.85.46

तथा मम विलापानां नायं दुर्योधनः स्मरेत् ।
हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ वै ॥

7.85.47

तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शनात् ।
दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ॥

7.85.48

सेनां दृष्ट्वाऽभिभूतां मे शैनेयेनार्जुनेन च ।
शून्यान्दृष्ट्वा रथोपस्थान्मन्ये शोचन्ति पुत्रकाः ॥

7.85.49

हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् ।
अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः ॥

7.85.50

आचक्ष्व मम तत्सर्वं कुशलो ह्यसि सञ्जय ।
यदोपयाताः सायाह्ने कृत्वा पार्थस्य किल्बिषं ॥

7.85.51

अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥

7.85.52

न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः ।
अपकृत्य महत्तात सोढुं शक्ष्यन्ति मामकाः ॥

7.85.53

किन्नुः दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् ।
दुःशासनः सौबलश्च तेषामेवं गते सति ॥

7.85.54

सर्वेषां समवेतानां पुत्राणां मम सञ्जय ।
यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम् ॥

7.85.55

लोभानुगस्य दुर्बुद्धेः क्रोधेन विकृतात्मनः । राज्यकामस्य मूढस्य रागोपहतचेतसः ।
दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc