भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.83

7.83.1

सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन ।
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥
सञ्जाय उवाच ।

7.83.2

वासुदेवोऽपि तद्युक्तं प्रत्युवाच युधिष्ठिरम् ।
दर्शनादेव ते सौम्य न किञ्चिदशुभं मम ॥
सञ्जय उवाच ।

7.83.3

ततश्च प्रकृतीः क्षत्ता न्यवेदयदुपस्थिताः ।
अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् ॥

7.83.4

विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् ।
चेदिपं धृष्टकेतुं च द्रुपदं च महारथम् ॥

7.83.5

शिखण़्डिनं यमौ चैव चेकितानं सकेकयम् ।
युयुप्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् ॥

7.83.6

युधामन्यु सुबाहुं च द्रौपदेयांश्च सर्वशः ।
एतांश्च सुहृदश्चान्यान्दर्शयामास पाण्डवम् ॥

7.83.7

अनुज्ञाताश्च पार्थेन स्वासीना आसनेषु ते ।
सर्वेष्वथ परार्ध्येषु यथार्हं वन्द्य पाण्डवम् ॥

7.83.8

एकस्मिन्नासने वीरावुपविष्टौ महाबलौ ।
कृष्णश्च युयुधानश्च वेद्यामिव हुताशनौ ॥

7.83.9

ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् ।
अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः ॥

7.83.10

एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः ।
प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च ॥

7.83.11

त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् ।
क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः ॥

7.83.12

त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल ।
सुखमायत्तमत्यर्थं यात्रा च मधुसूदन ॥

7.83.13

स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम ।
अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ॥

7.83.14

स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् ।
परां तितीर्षतामद्य प्लुवो नो भव माधव ॥

7.83.15

नहि तत्कुरुते योधः कार्तवीर्यसमोऽपि यः ।
युधि यत्कुरुषे कृष्ण सारथ्यं त्वं समास्थितः ॥

7.83.16

यथैव सर्वास्वापत्सु पासि वृष्णीञ्जनार्दन ।
तथैवास्मान्महाबाहो वृजिनात्त्रातुमर्हसि ॥

7.83.17

त्वमगाधेऽप्लवे मग्नान्पाण्डवान्कुरुसागरे ।
समुद्धर प्लुवो भूत्वा शङ्खचक्रगदाधर ॥

7.83.18

नमस्ते देवदेवेश सनातन विशातन ।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥

7.83.19

नारदस्त्वां समाचख्यौ पुराणमृषिसत्तमम् ।
वरदं शार्ङ्गिणं श्रेष्ठं तत्सत्यं कुरु माधव ॥

7.83.20

इत्युक्तः पुण्डरीकाक्षो धर्मराजेन संसदि ।
तोयमेघस्वनो वाग्मी प्रत्युवाच युधिष्ठिरम् ॥
वासुदेव उवाच ।

7.83.21

सामरेष्वपि लोकेषु सर्वेषु न तथाविधः ।
शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः ॥

7.83.22

वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः ।
युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ॥

7.83.23

स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः ।
सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति ॥

7.83.24

अहं च तत्करिष्यामि तथा कुन्तीसुतोऽर्जुनः ।
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवेन्धनम् ॥

7.83.25

अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् ।
अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः ॥

7.83.26

तस्याद्य गृध्राः श्येनाश्च चण्डगोमायवस्तथा ।
भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः ॥

7.83.27

यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाऽप्यसौ ।
राजधानीं यमस्याद्य हतः प्राप्स्यति दुर्मतिः ॥

7.83.28

निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति ।
विशोको विज्वरो राजन्भव शान्ति पुरस्कृतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc