भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.79

7.79.1

ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः । स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ।
सन्तस्तार शुभां शय्यां दर्भैर्वैदूर्यसन्निभैः ॥

7.79.2

ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः ।
अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः ॥

7.79.3

ततः स्पृष्टोदकं पार्थं विनीतपरिचारकम् ।
नैत्यकं दर्शयाञ्चक्रे नैशं त्रैयम्बकं बलिम् ॥

7.79.4

ततः प्रीतमनाः पार्थो गन्धमाल्यैश्च माधवम् ।
अलङ्कृत्योपहारं तं नैशं तस्मै न्यवेदयत् ॥

7.79.5

साधुसाध्विति गोविन्दः फल्गुनं प्रत्यभाषत ॥

7.79.6

सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् ।
स्थापयित्वा ततो द्वास्थान्गोप्तॄंश्चात्तायुधान्नरान् ॥

7.79.7

दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् ।
शिश्ये च शयने शुभ्रे बहुकृत्य विचिन्तयन् ॥

7.79.8

पार्थाय सर्वं भगवाञ्शोकदुःखापहं विधिम् ।
व्यदधात्पुण्डरीकाक्षस्तेजोद्युतिविवर्धनम् ॥

7.79.9

योगमास्थाय युक्तात्मा सर्वेषामीश्वरेश्वरः ।
श्रेयस्कामः पृथुयशा विष्णुर्जिष्णुप्रियङ्करः ॥

7.79.10

न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् ।
प्रजागरः सर्वजनं ह्याविवेश विशाम्पते ॥

7.79.11

पुत्रशोकाभितप्तेन प्रतिज्ञातो महात्मना ।
श्वः सिन्धुराजस्य वधः कार्यो गाण्डीवधन्वना ॥

7.79.12

तत्कथं नु महाबाहुर्वासविः परवीरहा ।
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥

7.79.13

कष्टं हीदं व्यवसितं पाण्डवेन महात्मना ।
पुत्रशोकाभिभूतेन प्रतिज्ञा महती कृता ॥

7.79.14

भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च ।
धृतराष्ट्रस्य पुत्रेण सर्वतः सन्निवेशिताः ॥

7.79.15

स हत्वा सैन्धवं सङ्ख्ये पुनरेतु जयी सुखी ।
हत्वा रिपुगणं सर्वं पारयित्वा महाव्रतम् ॥

7.79.16

यद्यस्ति सुकृतं किञ्चिदस्माकं हन्तु सैन्धवम् ।
जित्वा सर्वान्रिपून्पार्थस्त्रातु नोऽस्मान्महाभयात् ॥

7.79.17

एवमाशंसमानास्ते केचित्तस्थुरुपश्रुतिम् ।
श्रुत्वा चेष्टं सुमनसो व्यक्तमाशंसिरे जयम् ॥

7.79.18

भविता नु कथं कृत्यमिदमित्यब्रुवञ्जनाः ।
श्वोऽहत्वा सिन्धुराजं वै धूमकेतुं प्रवेक्ष्यति ॥

7.79.19

न शक्यमनृतां कर्तुं प्रतिज्ञां विजयेन हि ।
महद्धि साहसं पार्थः कृतवाच्छोकमोहितः ॥

7.79.20

धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने ।
तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः ॥

7.79.21

यदि नोऽस्ति कृतं किञ्चिद्यदि दत्तं हुतं यदि ।
फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ॥
सञ्जय उवाच ।

7.79.22

एवं कथयतां तेषां जयमाशंसतां प्रभो ।
कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ॥

7.79.23

तस्या रजन्या मध्ये तु प्रतिबुद्धो जनार्दनः ।
स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ॥

7.79.24

अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना ।
जयद्रथं वधिष्यामि श्वोभूत इति दारुक ॥

7.79.25

तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति ।
यथा जयद्रथं पार्थो न हन्यादिति संयुगे ॥

7.79.26

अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् ।
द्रोणश्च सहपुत्रेण सर्वास्त्रविधिपारगः ॥

7.79.27

एको वीरः सहस्राक्षो दैत्यदानवदर्पहा ।
सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ॥

7.79.28

सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः ।
अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ॥

7.79.29

न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः ।
कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ॥

7.79.30

अनर्जुनमिमं लोकं मुहूर्तमपि दारुक ।
उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा ॥

7.79.31

अहं विजित्य तान्सर्वान्सहसा सहयद्विपान् ।
अर्जुनार्थे हनिष्यामि सकर्णान्ससुयोधनान् ॥

7.79.32

श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे ।
धनञ्जयार्थे समरे पराक्रान्तस्य दारुक ॥

7.79.33

श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च ।
साश्वद्विपरथान्याजौ विद्रविष्यामि दारुक ॥

7.79.34

श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् ।
मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् ॥

7.79.35

श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः ।
ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ॥

7.79.36

यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु ।
इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ॥

7.79.37

यथा त्वं मे प्रभातायामस्यां निशि रथोत्तमम् ।
कल्पयित्वा यथाशास्त्रमादाय व्रज संयतः ॥

7.79.38

गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् ।
आरोप्य वै रथे सूत सर्वोपकरणानि च ॥

7.79.39

स्थानं च कल्पयित्वाऽथ रथोपस्थे ध्वजस्य मे ।
वैनतेयस्य वीरस्य समरे रथशोभिनः ॥

7.79.40

छत्रं जाम्बूनदैर्जालैरर्कज्वलनसप्रभैः ॥
विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषय ॥

7.79.41

बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेव च ।
युक्त्वा वाजिवरांस्तत्र कवची तिष्ठ दारुक ॥

7.79.42

पाञ्चजन्यस्य निर्घोषं पर्जन्यनिनदोपमम् ।
श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम् ॥

7.79.43

एकाह्नाऽहममर्षं च सर्वदुःखानि चैव ह ।
भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक ॥

7.79.44

सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे ।
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ॥

7.79.45

यस्ययस्य च बीभत्सुर्वधे यत्नं करिष्यति ।
आशंसेऽहं रणे तन्तं तत्रतत्र हनिष्यति ॥
दारुक उवाच ।

7.79.46

जय एव ध्रुवस्तस्य कुत एव पराजयः ।
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥

7.79.47

एवं चैतत्करिष्यामि यथा मामनुभाषसे ।
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc