भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.77

7.77.1

तां निशां दुःखशोकार्तौ निःश्वसन्ताविवोरगौ ।
निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ ॥

7.77.2

नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः ।
व्यथिताश्चिन्तयामासुः किंस्विदेतद्भविष्यति ॥

7.77.3

ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः ।
सकबन्धस्तथाऽदित्ये परिघः समदृश्यत ॥

7.77.4

शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः ।
चचाल चापि पृथिवी सशैलवनकानना ॥

7.77.5

चुक्षुभुश्च महाराज सागारा मकरालयाः ।
प्रतिस्रोतःप्रवृत्ताश्च तथा गन्तुं समुद्रगाः ॥

7.77.6

रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् ।
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ॥

7.77.7

वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह ।
तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् ॥

7.77.8

सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभा ।
श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ॥

7.77.9

अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः ।
आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह ॥

7.77.10

स्नुषां चास्या वयस्याश्च विशोकाः कुरु माधव ।
साम्ना सत्येन युक्तेन वचसाऽश्वासय प्रभो ॥

7.77.11

ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः ।
भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ॥
वासुदेव उवाच ।

7.77.12

मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा ।
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ॥

7.77.13

कुले जातस्य वीरस्य क्षत्रियस्य विशेषतः ।
सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः ॥

7.77.14

दिष्ट्या महारथो धीरः पितुस्तुल्यपराक्रमः ।
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ॥

7.77.15

जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे ।
गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् ॥

7.77.16

तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च ।
सन्तो यां गतिमिच्छन्ति तां प्राप्तस्तव पुत्रकः ॥

7.77.17

वीरसूर्वीरपत्नी त्वं वीरजा वीरबान्धवा ।
मा शुचस्तनयं भद्रे गतःस परमां गतिम् ॥

7.77.18

स्वाध्याययुक्तं ब्राह्ममी याचितारं स्वाध्याययुक्तं ब्राह्मणी याचितारं
गौर्बोढारं क्षिप्रगन्तारमश्वा । दासं शूद्रा कर्मकारं तु वैश्या शूरं सूते त्वद्विधा राजपुत्री ॥

7.77.19

प्राप्स्यते चाप्यसौ पापः सैन्धवो बालघातकः ।
अधर्मस्यास्य तु फलं ससुहृद्गणबान्धवः ॥

7.77.20

व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् ।
न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् ॥

7.77.21

श्वः शिरः पादमूलं ते सैन्धवस्याहृतं ध्रुवम् ।
पद्ध्यां प्रमथितासि त्वं विशोका भव मा रुदः ॥

7.77.22

क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् ।
वयं च प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ॥

7.77.23

व्यूढोरस्को महाबाहुरनिवर्ती रिपुव्रजात् ।
गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ॥

7.77.24

अनुयातश्च पितरं मातृपक्षं च वीर्यवान् ।
सहस्रशो रिपून्हत्वा हतः शूरो महारथः ॥

7.77.25

आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम् ।
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ॥

7.77.26

यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा ।
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ॥

7.77.27

यदि च मनुजपन्नगाः पिशाचा रजनिचचाराः पतगाः सुरासुराश्च ।
रणगतमभियान्ति सिन्धुराजं न स भविता सह तैरपि प्रभाते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc